कौषीतकिब्राह्मण · अध्याय 10.8
परिधाय.उपांशु.जपत्य्.उभाव्.अपापश्.च.इति ।
अपापो.ह.वै.देवानाम्.शमिता । (पशु: अध्रिगु.प्रैष)
तस्मा.एव.एनम्.तत्.सम्प्रयच्छति ।
स.हि.देवान्.अनुवेद । (पशु: अध्रिगु.प्रैष)
अथ.स्तोकीया.अन्वाह ।
स्तोकान्.एव.एताभिर्.अग्नये.स्वदयति ।
एता.ह.वा.उ.तेषाम्.पुरोनुवाक्या.एता.याज्याः । (पशु: स्तोक.अनुवचन)
तस्माद्.अभिरूपा.भवन्ति । (पशु: स्तोक.अनुवचन)
स्वाहा.कृतिभिर्श्.चरित्वा.वपया.चरन्ति ।
प्रयाजान्.एव.तत्.पशु.भाजः.कुर्वन्ति ।
न.स्वाहा.कृतीश्.च.वपाम्.च.अन्तरेण.वाचम्.विसृजेत । (पशु: वपा.याग)
प्राणा.वै.स्वाहा.कृतयः ।
आत्मा.वपा ।
न.इत्.प्राणांश्.च.आत्मानम्.च.अन्येन.अन्तर्.दधाति.इति । (पशु: वपा.याग)
अथ.यद्.अनुष्टुभो.अग्नीषोमीयस्य.पशोः.पुरोनुवाक्या.भवन्ति ।
गायत्री.वै.सा.या.अनुष्टुप् । (पशु: वपा.याग)
गायत्रम्.अग्नेश्.छन्दः ।
अथ.यत्.त्रिष्टुभो.याज्याः ।
क्षत्रस्य.एतच्.छन्दो.यत्.त्रिष्टुप् ।
क्षत्रम्.सोमः ।
तद्.यथा.छन्दसम्.देवते.प्रीणाति । (पशु: वपा.याग)
अथ.वै.पशुम्.आलभ्यमानम्.पुरोडाशो.अनुनिरुप्यते ।
अथ.यत्र.पुरोडाशो.निरुप्यते । (पशु: पशु.पुरोडाश)
तत्.पुरोडाश.स्विष्टकृद्.अच्युतः ।
अग्निर्.वै.स्विष्टकृत् ।
तस्माद्.अच्युतो.भवति । (पशु: पशु.पुरोडाश)
वैश्वामित्रीम्.पुरोडाश.स्विष्टकृद्.अच्युतः ।
पुरोनुवाक्याम्.अनूच्य.वैश्वामित्र्या.यजति ।
ततिर्.वै.यज्ञस्य.पुरोडाशः । (पशु: पशु.पुरोडाश)
वाग्.वै.विश्वामित्रः ।
वाचा.यज्ञस्.तायते । (पशु: पशु.पुरोडाश)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0