भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 10.7

10.7.1

पर्यग्निम्.पशुम्.करोति.रक्षसाम्.अपहत्यै ।

10.7.2

अग्निर्.वै.रक्षसाम्.अपहन्ता । (पशु: पर्यग्नि.करण)

10.7.3

त्रिः.प्रसवि.पर्यग्नि.करोति ।

10.7.4

तद्.यथा.तिस्रो.अग्नि.पुरः.कुर्याद्.एवम्.तत् । (पशु: पर्यग्नि.करण)

10.7.5

तस्मात्.पुनः.परीहि.इत्य्.अग्निधम्.ब्रूयात् ।

10.7.6

यम्.इच्छेन्.न.प्रच्यवेत.इति । (पशु: पर्यग्नि.करण)

10.7.7

दैव्याः.शमितार.उत.च.मनुष्या.आरभध्वम्.उपनयत.मेध्या.दुर.आशासाना.मेधपतिभ्याम्.मेधम्.इति । (पशु: अध्रिगु.प्रैष)

10.7.8

तद्द्.ह.एक.आहुः ।

10.7.9

यजमानो.वै.मेध.पतिर्.इति ।

10.7.10

को.मनुष्य.इति.ब्रूयात् । (पशु: अध्रिगु.प्रैष)

10.7.11

देवता.एव.मेध.पतिर्.इति ।

10.7.12

षड्विंशतिर्.अस्य.वङ्क्रय.इति ।

10.7.13

पर्शव.उ.ह.वै.वङ्क्रयः ।

10.7.14

उभयतो.असृक्.पर्यवान्.इति । (पशु: अध्रिगु.प्रैष)

10.7.15

असृग्.भाजनानि.ह.वै.रक्षांसि.भवन्ति ।

10.7.16

न.इद्.रक्षसाम्.भागेन.दैवम्.भागम्.प्रसजानि.इति । (पशु: अध्रिगु.प्रैष)

10.7.17

स.एषो.अध्रिगुः.संशासनम्.एव ।

10.7.18

अङ्गानि.मा.परिकर्तोर्.इति ।

10.7.19

यद्द्.ह.वा.अदुष्टम्.तद्.देवानाम्.हविः । (पशु: अध्रिगु.प्रैष)

10.7.20

न.वै.ते.दुष्टम्.हविर्.अदन्ति ।

10.7.21

नवकृत्वो.अध्रिगाव्.अवान्.इति ।

10.7.22

नव.इमे.प्राणाः । (पशु: अध्रिगु.प्रैष)

10.7.23

प्राणान्.एव.तद्.यजमाने.दधाति ।

10.7.24

सर्वायुत्वाय.अस्मिंल्.लोके । (पशु: अध्रिगु.प्रैष)

10.7.25

अमृतत्वाय.अमुष्मिन् ।

10.7.26

त्रिः.परिदधात्य्.अपर.अक्त्वाय ।

10.7.27

सकृत्.पुरस्ताद्.आह । (पशु: अध्रिगु.प्रैष)

10.7.28

सकृद्.इव.वै.पितरः ।

10.7.29

पितृ.देवत्य.इव.वै.पशुर्.आलभ्यमानो.भवति । (पशु: अध्रिगु.प्रैष)

10.7.30

अथ.यत्.त्रिर्.उपरिष्टाद्.आह ।

10.7.31

त्रिर्.वै.देवत्याः ।

10.7.32

देव.देवत्यम्.एव.एनम्.तद्.अयात.यामानम्.करोति । (पशु: अध्रिगु.प्रैष)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc