कौषीतकिब्राह्मण · अध्याय 10.6
तम्.आहुर्.द्विरूपः.स्यात्.शुक्लम्.च.कृष्णम्.च.अहो.रात्रयो.रूपेण.इति ।
शुक्लम्.वा.च.लोहितम्.च्.अग्नीषोमयो.रूपेण.इति । (पशु: पशौ.प्रयाज.अनुयाजाह्)
तस्य.एकादश.प्रयाजा.एकादश.अनुयाजा.एकादश.उपयजः.(उपयाजह्?) । (पशु: पशौ.प्रयाज.अनुयाजाह्)
तानि.त्रयस्.त्रिंशत् ।
त्रयस्.त्रिंशद्.वै.सर्वे.देवाः ।
सर्वेषाम्.एव.देवानाम्.प्रीत्यै । (पशु: पशौ.प्रयाज.अनुयाजाह्)
प्राणा.वै.प्रयाजा.अपाना.अनुयाजाः ।
तस्मात्.समा.भवन्ति ।
समाना.हि.इमे.प्राण.अपानाः । (पशु: पशौ.प्रयाज.अनुयाजाह्)
तद्.आहुः.कस्माद्.ऋचा.प्रयाजेषु.यजति.प्रतीकैर्.अनुयाजेष्व्.इति ।
रेतः.सिक्तिर्.वै.प्रयाजाः । (पशु: पशौ.प्रयाज.अनुयाजाह्)
रेतोधेयम्.अनुयाजाः ।
तस्माद्.ऋचा.प्रयाजेषु.यजति.प्रतीकैर्.अनुयाजेष्व्.इति । (पशु: पशौ.प्रयाज.अनुयाजाह्)
अथ.यत्.सर्वम्.उत्तमम्.आह ।
स्वर्ग.एव.तल्.लोके.यजमानम्.दधाति । (पशु: पशौ.प्रयाज.अनुयाजाह्)
आप्रीभिर्.आप्रीणाति ।
सर्वेण.ह.वा.एष.आत्मना.सर्वेण.मनसा.यज्ञम्.सम्भरते.यो.यजते । (पशु: पशौ.प्रयाज.अनुयाजाह्)
तस्य.रिरिचान.इव.आत्मा.भवति ।
तम्.अस्य.एताभिर्.आप्रीभिर्.आप्रीणाति । (पशु: पशौ.प्रयाज.अनुयाजाह्)
तद्.यद्.आप्रीणाति ।
तस्माद्.आप्र्यो.नाम । (पशु: पशौ.प्रयाज.अनुयाजाह्)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0