भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 10.5

10.5.1

अग्नीषोमयोर्.वा.एष.आस्यम्.आपद्यते.यो.दीक्षते ।

10.5.2

तद्.यद्.उपवसथे.अग्नीषोमीयम्.पशुम्.आलभते । (पशु: zएष.भक्ष.विचार)

10.5.3

आत्म.निष्क्रियणो.ह.एव.अस्य.एष.तेन.आत्मानम्.निष्क्रीणीय.अनृणो.भूत्वा.अथ.यजते । (पशु: zएष.भक्ष.विचार)

10.5.4

तस्माद्.उ.तस्य.न.अश्नीयात् ।

10.5.5

पुरुषो.हि.स.प्रतिमया । (पशु: zएष.भक्ष.विचार)

10.5.6

तद्.उ.वा.आहुर्.हविर्.हविर्.वा.आत्म.निष्क्रयणम् ।

10.5.7

हविषो.हविषि.एव.स.तर्हि.न.अश्नीयात् । (पशु: zएष.भक्ष.विचार)

10.5.8

य.आत्म.निष्क्रयणम्.इति.न.अश्नीयात् ।

10.5.9

तस्माद्.उ.काम.एव.अशितव्यम् । (पशु: zएष.भक्ष.विचार)

10.5.10

अहोरात्रे.वा.अग्नीषोमौ ।

10.5.11

तद्.यद्.दिवा.वपया.चरन्ति ।

10.5.12

तेन.अहः.प्रीतम्.आग्नेयम् । (पशु: zएष.भक्ष.विचार)

10.5.13

रात्रिम्.अनु.संतिष्ठते ।

10.5.14

तेन.रात्रिः.सौमी.प्रीता ।

10.5.15

सा.एषा.अहो.रात्रयोर्.अतिमुक्तिः ।

10.5.16

अत्यहोरात्रे.यज्ञेन.मुच्यते। (पशु: zएष.भक्ष.विचार)

10.5.17

न.एनम्.ते.आप्नुतः ।

10.5.18

य.एवम्.विद्वान्.एतम्.पशुम्.आल्भते । (पशु: zएष.भक्ष.विचार)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc