भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 10.4

10.4.1

तम्.आहुर्.अनुप्रहरेत् ।

10.4.2

यजमानो.वा.एष.यद्.यूपः ।

10.4.3

स्वर्लो.लोक.आहवनीयः । (पशु: यूप.संस्कार)

10.4.4

तद्.एव.एनम्.स्वर्गंल्.लोकम्.गमयति ।

10.4.5

तत्.स्वर्ग्यम्.इति ।

10.4.6

तद्.उ.वा.आहुस्.तिष्ठेद्.एव । (पशु: यूप.संस्कार)

10.4.7

यद्.इदम्.आस्थानम्.स्वरोस्तत.ईश्वरा.यदि.न.असुर.रक्षसान्य्.अन्ववपातोः । (पशु: यूप.संस्कार)

10.4.8

तस्माद्.एष.वज्र.उद्यतो.यज्ञ.वास्तौ.तिष्ठेद्.एव.असुर.रक्षसान्य्.अपघ्नन्न्.अपबाधमानो.यज्ञम्.चैव.यजमानम्.च.अभिगोपायन्न्.इति । (पशु: यूप.संस्कार)

10.4.9

अथ.यूप्य.केओ.द्रव्य.एको.गत्य.एकः ।

10.4.10

यो.अवाचीन.वकलः.स.गर्त्यः । (पशु: यूप.संस्कार)

10.4.11

तस्य.आशाम्.न.इयात् ।

10.4.12

अथ.य.ऊर्ध्व.वकलो.द्रव्यः.स.मानुषः । (पशु: यूप.संस्कार)

10.4.13

कामम्.तस्य.अपि.कुर्वीत ।

10.4.14

अथ.यस्य.प्रसव्य्.आदित्यस्य.आवृतम्.अन्वावृत्ता.वकलाः । (पशु: यूप.संस्कार)

10.4.15

स.यूप्यः.स.स्वर्ग्यम्.एकस्थो.भ्रातृव्यः ।

10.4.16

यो.वा.अनुवृतः.पलाशैर्.आमूलात्.स्यात् ।

10.4.17

सो.अनग्नः.स.पशव्यः ।

10.4.18

तम्.पशु.कामः.कुर्वीत । (पशु: यूप.संस्कार)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc