भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 10.3

10.3.1

अञ्जन्ति.त्वाम्.अध्वरे.देवयन्त.इत्य्.अक्तवतीम्.अभिरूपाम्.अज्यमानाय.अन्वाह ।

10.3.2

उच्छ्रयस्व.वनस्पते.समिद्धस्य.श्रयमाणः.पुरस्ताज्.जातो.जायते.सुदिनत्वे.अह्नाम्.ऊर्ध्व.ऊ.षु.ण.ऊतय.ऊर्ध्वो.नः.पाह्य्.अंहसो.केतुना.इत्य्.उच्छ्रितवतीश्.च.उद्वतीश्.च.उच्छ्रीयमाणाय.अन्वाह । (पशु: यूप.संस्कार)

10.3.3

युवा.सुवासाः.परिवीत.आगाद्.इति.परिवीतवत्या.परिदधाति ।

10.3.4

अभिरूपा.अन्वाअह । (पशु: यूप.संस्कार)

10.3.5

यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै ।

10.3.6

ता.वै.सप्त.अन्वाह । (पशु: यूप.संस्कार)

10.3.7

सप्त.वै.छन्दांसि ।

10.3.8

सर्वेषाम्.एव.छन्दसाम्.आप्त्यै ।

10.3.9

त्रिः.प्रथमया.त्रिर्.उत्तमया.एकादश.सम्पद्यन्ते । (पशु: यूप.संस्कार)

10.3.10

एकादश.अक्षरा.त्रिष्टुप् ।

10.3.11

त्रैष्टुभाः.पशवः.पशूनाम्.एव.आप्त्यै ।

10.3.12

इति.न्व्.एक.यूप.एक.पशौ.च । (पशु: यूप.संस्कार)

10.3.13

अथ.यद्य्.एक.यूप.एकादशिनीम्.आलभेरन् ।

10.3.14

पशौ.पशाव्.एव.अध्वर्युः.सम्प्रेष्यति । (पशु: यूप.संस्कार)

10.3.15

पशौ.पशाव्.एव.युवा.सुवासाः.परिवीत.आगाद्.इति.सा.एव.परिधानीया.सा.परिवीयमाणाय । (पशु: यूप.संस्कार)

10.3.16

इति.न्व्.एक.यूपे ।

10.3.17

अथ.कथम्.यूप.एकादशिन्याम्.इति ।

10.3.18

एता.एव.सप्त.सप्तादशभ्यो.अनुब्रूयात् । (पशु: यूप.संस्कार)

10.3.19

अथ.यम्.उत्तमम्.सम्मिन्वन्ति ।

10.3.20

तस्मिन्.यत्.सूक्तस्य.परिशिष्येत.तद्.अनुवर्तयेत् । (पशु: यूप.संस्कार)

10.3.21

प्रगातह्स्य.उपरिष्टात्.तत् ।

10.3.22

शृङ्गाणि.इव.इत्.शृङ्गिणाम्.सम्.ददृश्र.इति.सर्वान्.एव.अभिवदति । (पशु: यूप.संस्कार)

10.3.23

युवा.सुवासाः.परिवीत.आगाद्.इति.सा.एव.परिधानीया.सा.परिवीयमाणाय । (पशु: यूप.संस्कार)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc