कौषीतकिब्राह्मण · अध्याय 10.2
एता.मात्राः.सम्पदो.यूपस्य ।
तासाम्.एकाम्.सम्पदम्.अभिसम्पाद्य.यूपम्.कुर्वीत । (पशु: यूप.मीमांसा)
तद्.उ.वा.आहुर्.न.मिनेद्.यूपम् ।
अपरिमित.एव.स्यात् ।
मितम्.ह.वै.मितेन.जयति । (पशु: यूप.मीमांसा)
अमितम्.अमितेन ।
अपरिमितस्य.अवरुद्ध्यै ।
यत्र.एव.मनसा.वेलाम्.मन्यते.तत्.कुर्वीत । (पशु: यूप.मीमांसा)
तद्.यूपस्य.च.वेदेश्.च.इति.ह.स्म.आह ।
प्रजापतिर्.वै.मनः ।
यज्ञ.उ.वै.प्रजापतिः । (पशु: यूप.मीमांसा)
स्वयम्.वै.तद्.यज्ञो.यज्ञस्य.जुषते ।
यन्.मनो.मनसः ।
वाजपेय.यूप.एव.अवधृतः.सप्तदश.अरत्निः ।
सो.अष्ट.अश्रिर्.निष्ठितो.भवति ।
सर्वेषाम्.एव.कामानाम्.अष्ट्यै ।
अथ.एनम्.प्रणेनिजति । (पशु: यूप.संस्कार)
तद्.यद्.एव.इदम्.परशुना.क्रूरी.कृत.इव.तष्ट.इव.भवति ।
तद्.एव.अस्य.एतद्.आप्याययति.तद्.भिषज्यति ।
अथ.एनम्.अभ्यञ्जति । (पशु: यूप.संस्कार)
तद्.या.एव.इमाः.पुरुषः.आपः ।
ता.एव.अस्मिंस्.तद्.दधाति ।
स्वभ्यक्तम्.स्वयम्.एव.यजमानः.कुर्वीत ।
तथा.ह.यजमानो.अरूक्ष.इव.भवति । (पशु: यूप.संस्कार)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0