भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 1.4

1.4.1

विभक्तिभिः.प्रयाज.अनुयाजान्.यजति ।

1.4.2

ऋतवो.वै.प्रयाज.अनुयाजाः ।

1.4.3

ऋतुभ्य.एनम्.तत्.समाहरन्ति । (अग्न्याधान)

1.4.4

अग्र.आयाहि.वीतये.अग्निम्.दूतम्.वृणीमहे.अग्निना.अग्निः.समिध्यते.अग्निर्.वृत्राणि.जङ्घनद्.अग्नेः.स्तोमम्.मनामहे.अग्ना.यो.मर्त्यो.दुव.इत्य्.एताम्.ऋचाम्.प्रतीकानि.विभक्तयः । (अग्न्याधान)

1.4.5

ता.वै.षड्.भवन्ति ।

1.4.6

षड्.वा.ऋतवः ।

1.4.7

ऋतुभ्य.एव.एनम्.तत्.पुनर्.समाहरति । (अग्न्याधान)

1.4.8

यथा.यथम्.उत्तमौ.प्रयाज.अनुयाजौ.यजति ।

1.4.9

तथा.ह.अस्य.प्रयाज.अनुयाजेभ्यो.अनितम्.(?).भवति ।

1.4.10

वार्त्रघ्नः.पूर्व.आज्य.भागः.पाप्मन.एव.वधाय । (अग्न्याधान)

1.4.11

अथो.ह.अस्य.पौर्णमासात्.तन्त्राद्.अनितम्.भवति ।

1.4.12

अग्निम्.स्तोमेन.बोधय.इत्य्.अग्नये.बुद्धिमते.पूर्वम्.कुर्याद्.इति.ह.एक.आहुः । (अग्न्याधान)

1.4.13

स्वपिति.इव.वा.एतस्य.अग्निर्.यो.अग्मिम्.उद्वासयते ।

1.4.14

तद्.एव.एनम्.तत्.पुनः.प्रबोधयति.इति । (अग्न्याधान)

1.4.15

वार्त्रघ्नस्.त्व्.एव.स्थितः ।

1.4.16

अग्न.आयूंषि.पवस.इत्य्.उत्तरस्य.पुरोनुवाक्या । (अग्न्याधान)

1.4.17

पवस.इत्.तत्.सौम्यम्.रूपम् ।

1.4.18

केवल.आग्नेयो.हि.यज्ञ.क्रतुः ।

1.4.19

तद्.यत्.पवमानस्य.कीर्तयति ।

1.4.20

तथा.ह.अस्य.सौम्याद्.आज्य.भागाद्.अनितम्.भवति । (अग्न्याधान)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc