भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 1.3

1.3.1

देव.असुरा.वा.एषु.लोकेषु.सम्यत्ता.आसुः ।

1.3.2

तेभ्यो.अग्निर्.अपाक्रामत् ।

1.3.3

स.ऋतून्.प्राविशत् ।

1.3.4

ते.देवा.हत्वा.असुरान्.विजित्य.अग्निम्.अन्वैच्छन् । (अग्न्याधान)

1.3.5

तम्.यमश्.च.वरुणश्.च.अन्वपश्यताम् ।

1.3.6

तम्.उपामन्त्रयन्त ।

1.3.7

तम्.अज्ञपयन् ।

1.3.8

तस्मै.वरम्.अददुः । (अग्न्याधान)

1.3.9

स.ह.एतम्.वरम्.वव्रे ।

1.3.10

प्रयाजान्.मे.अनुयाजांश्.च.केवलान्.घृतम्.च.अपाम्.पुरुषम्.च.ओषधीनाम्.इति । (अग्न्याधान)

1.3.11

तस्माद्.आहुर्.आग्नेयाः.प्रयाज.अनुयाजा.आग्नेयम्.आज्यम्.इति ।

1.3.12

ततो.वै.देवा.अभवन् । (अग्न्याधान)

1.3.13

परा.असुराः ।

1.3.14

भवत्य्.आत्मना ।

1.3.15

परा.अस्य.द्वेष्यो.य.एवम्.वेद ।

1.3.16

तद्.आहुः.कस्मिन्न्.ऋतौ.पुनर्.आदधीत.इति । (अग्न्याधान)

1.3.17

वर्षास्व्.इति.ह.एक.आहुः ।

1.3.18

वर्षासु.वै.सर्वे.कामाः ।

1.3.19

सर्वेषाम्.एव.कामानाम्.आप्त्यै । (अग्न्याधान)

1.3.20

मध्या.वर्षे.पुनर्.वसू.नक्षत्रम्.उदीक्ष्य.पुनर्.आदधीत ।

1.3.21

पुनर्.मा.वसु.वित्तम्.उपनमत्व्.इति । (अग्न्याधान)

1.3.22

अथो.पुनः.कामस्य.उपाप्त्यै ।

1.3.23

तद्.वै.न.तस्मिन्.काले.पूर्व.पक्षे.पुनर्.वसुभ्याम्.सम्पद्यते । (अग्न्याधान)

1.3.24

या.एव.एषा.आषाढ्या.उपरिष्टाद्.अमावास्या.भवति ।

1.3.25

तस्याम्.पुनर्.आदधीत ।

1.3.26

सा.पुनर्.वसुभ्याम्.सम्पद्यते । (अग्न्याधान)

1.3.27

उपाप्तो.अमावास्यायाम्.कामो.भवति ।

1.3.28

उपाप्तो.वर्षासु ।

1.3.29

उपाप्तः.पुनर्.वस्वोः । (अग्न्याधान)

1.3.30

तस्मात्.तस्याम्.पुनर्.आदधीत ।

1.3.31

पञ्च.कपालः.पुरोडाशो.भवति ।

1.3.32

पञ्च.पदा.पङ्क्तिः ।

1.3.33

पाङ्क्तो.वै.यज्ञो.यज्ञस्य.एव.आप्त्यै । (अग्न्याधान)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc