कौषीतकिब्राह्मण · अध्याय 1.2
पौर्णमासम्.प्रथमायै.तन्त्रम्.भवति ।
आमावास्यम्.द्वितीयायै ।
तेन.ह.अस्य.दर्श.पूर्ण.मासाव्.अन्वारब्धौ.भवतः । (अग्न्याधान)
ईडितवत्यौ.हव्यवाड्वत्यौ.प्रथमायै.सम्याज्ये ।
तत्.सम्याज्या.रूपम् ।
द्व्य्.अग्नी.द्वितीयायै । (अग्न्याधान)
द्वौ.हि.अग्नी.यजति ।
सप्तसस.सामिधेनीका.तृतीया ।
सप्तदश.सामिधेनीका.वा.इष्टि.पशु.बन्धाः । (अग्न्याधान)
तद्.इष्टि.पौश्.बन्धान्.आप्नोति ।
सद्वन्ताव्.आज्य.भागौ.भवतः ।
असानि.इति.वा.अग्नीन्.आधत्ते । (अग्न्याधान)
स्याम्.इति.कामयते ।
स.यदि.ह.वा.अपि.स्वैषावीर.इव.सन्न्.अग्नीन्.आधत्ते ।
क्षिप्र.एव.सम्भवति । (अग्न्याधान)
क्षिप्रे.भोग्यताम्.अश्नुते ।
यः.सद्वन्तौ.कुरुते ।
विराजौ.सम्याज्ये ।
श्रीर्.विराड्.अन्न.अद्यम् । (अग्न्याधान)
श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै ।
ता.वै.गायत्र्यो.भवन्ति ।
गायत्रो.वा.अग्निर्.गायत्रच्.छन्दाः । (अग्न्याधान)
स्वेन.एव.तच्.छन्दसा.अग्नीन्.आधत्ते ।
ता.वा.उपांशु.भवन्ति ।
रेतः.सिक्तिर्.वा.अग्न्य्.आध्येयम् । (अग्न्याधान)
उपांशु.वै.रेतः.सिच्यते ।
अभिरूपा.भवन्ति ।
यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै । (अग्न्याधान)
द्वादश.दद्यात् ।
द्वादश.वै.मासाः.संवत्सरः ।
संवत्सरस्य.एव.आप्त्यै । (अग्न्याधान)
अश्वम्.त्रयोदशम्.ददाति ।
यस्.त्रयोदशो.मासस्.तस्य.आप्यै । (अग्न्याधान)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0