कौषीतकिब्राह्मण · अध्याय 1.1
अस्मिन्.वै.लोक.उभये.देव.मनुष्या.आसुः ।
ते.देवाः.स्वर्गंल्.लोकम्.यन्तो.अग्निम्.अचुः ।
त्वम्.नो.अस्य.लोकस्य.अध्यक्ष.एधि.इति । (अग्न्याधान)
तान्.अगिर्.उवाच ।
अथ.यद्.वो.अहम्.घोर.संस्पर्शतमो.अस्मि ।
अनपचायितारो.मनुष्याः । (अग्न्याधान)
कथम्.वस्.तद्.भविष्यति.यन्.मनुष्येष्व्.इति ।
ते.देवा.ऊचुः ।
तस्य.वै.ते.वयम्.घोरास्.तनूर्.विनिधास्यामः । (अग्न्याधान)
अथ.या.एव.ते.शिवा.शग्मा.यज्ञिया.तनूः ।
तया.इह.मनुष्येभ्यो.भविष्यसि.इति । (अग्न्याधान)
तस्य.अप्सु.पवमानाम्.अदधुः ।
वायौ.पावकाम् ।
आदित्ये.शुचिम् । (अग्न्याधान)
अथ.या.एव.अस्य.शिवा.शग्मा.यज्ञिया.तनूर्.आसीत् ।
तया.इह.मनुष्येभ्यो.अतपत् । (अग्न्याधान)
एता.वा.अग्नेस्.तन्वः ।
तद्.यद्.एता.देवता.यजति ।
अत्र.अग्निः.साङ्गः.सतनूः.प्रीतो.भवति । (अग्न्याधान)
ता.वै.तिस्रो.भवन्ति ।
त्रयो.वा.इमे.लोकाः ।
इमान्.एव.तल्.लोकान्.आप्नोति । (अग्न्याधान)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0