भाषा

ENहिગુ
ग्रंथ पाठ

कठोपनिषद्भाष्य · अध्याय 5

5.1

2,1.15 ॥
इति कठवल्ल्यां चतुर्थवल्ली भाष्यम् ॥ 4 ॥
अथ पञ्चमी वल्ली ।
पुनर् अपि प्रकारान्तरेण ब्रह्मतत्त्वनिर्धारणार्थो ऽयम् आरम्भो दुर्विज्ञेयत्वाद् ब्रह्मणः --
पुरम् एकादशद्वारम् अजस्यावक्रचेतसः ।
अनुष्ठाय न शोचति विमुक्तश् च विमुच्यते ॥ एतद् वै तत्

5.1

2,2.1 ॥
पुरं पुरम् इव पुरम् । द्वारपालाधिष्ठात्राद्यनेकपुरोपकरणसम्पत्तिदर्शनाच्छरीरं पुरम् । पुरश् च सोपकरणं स्वात्मनासंहतस्वतन्त्रस्वाम्यर्थं दृष्टम् । तथेदं पुरसामान्याद् अनेकोपकरणसंहतं शरीरं स्वात्मनासंहतराजस्थानीयस्वाम्यर्थं भवितुम् अर्हति । तच् चेदं शरीराख्यं पुरम् एकादशद्वारम् एकादश द्वाराण्य् अस्य सप्त शीर्षण्यानि, नाभ्या सहार्वाञ्चि त्रीणि, शिरस्य् एकम्, तैर् एकादशद्वारं पुरम् । कस्य? अजस्य जन्मादिविक्रियारहितस्यात्मनो राजस्थानीयस्य पुरधर्मविलक्षणस्य । अवक्रचेतसो ऽवक्रम् अकुटिलम् आदित्यप्रकाशवन् नित्यम् एवावस्थितम् एकरूपं चेतो विज्ञानम् अस्येत्य् अवक्रचेतास् तस्यावक्रचेतसो राजस्थानीयस्य ब्रह्मणः । यस्येदं पुरं तं परमेश्वरं पुरस्वामिनम् अनुष्ठाय ध्यात्वा । ध्यानं हि तस्यानुष्ठानं सम्यग् विज्ञानपूर्वकम् । तं सर्वैषणाविनिर्मुक्तः सन् समं सर्वभूतस्थं ध्यात्वा न शोचति । तद्विज्ञानाद् अभयप्राप्तेः शोकावसराभावात् कुतो भयेक्षा । इहैवाविद्याकृतकामकर्मबन्धनैर् विमुक्तो भवति । विमुक्तश् च सन् विमुच्यते पुनः शरीरं न गृह्णातीत्य् अर्थः

5.2

2,2,1 ॥
हंसः शुचिषद् वसुर् अन्तरिक्षसद् धोता वेदिषद् अतिथिर् दुरोणसत् ।
नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत्

5.2

2,2.2 ॥
स तु नैकशरीरपुरवर्त्त्येवात्मा किं तार्हि सर्वपूरवर्ती । कथम् -- हंसो हन्ति गच्छतीति । शुचिषच्छुचौ दिव्यादित्यात्मना सीदतीति । वसुर् वासयति सर्वानिति । वाय्वात्मनान्तरिक्षे सीदतीत्य् अन्तरिक्षसत् । होताग्निः, "अग्निर् वै होता" इति श्रुतेः । वेद्यां पृथिव्यां सीदतीति वेदिषद् "इयं वेदिः परो ऽन्तः पृथिव्याः" (र्स् 2,3.20) इत्य् आदिमन्त्रवर्णात् । अतिथिः सोमः सन् दुरोणे कलशे सीदतीति दुरोणसत् । ब्राह्मणो ऽतिथिरूपेण वा दुरोणेषु गृहेषु सीदतीति । नृषनृषु मनुष्येषु सीदतीति । वरसद् वरेषु देवेषु सीदतीति । ऋतसद् ऋतं सत्यं यज्ञो वा तस्मिन् सीदतीति । व्योमसद् व्योम्न्याकाशे सीदतीति । अब्जा अप्सु शङ्खखशुक्तिमकरादिरूपेण जायत इति । गोजा गवि पृथिव्यां व्रीहियवादिरूपेण जायत इति । ऋतजा यज्ञाङ्गरूपेण जायत इति । अद्रिजाः पर्वतेभ्यो नद्यादिरूपेण जायत इति । सर्वात्मापि सन्न् ऋतम् अवितथस्वभाव एव । बृहन् महान् सर्वकारणत्वात् । यदाप्य् आदित्य एव मन्त्रेणोच्यते तद् अप्य् आत्मस्वरूपत्वम् आदित्यस्याङ्गीकृतत्वाद् ब्राह्मणो व्याख्याने ऽप्य् अविरोधः । सर्वव्याप्य् एक एवात्मा जगतो नात्मभेद इति मन्त्रार्थः

5.3

2,2.2 ॥
ऊर्ध्वं प्राणम् उन्नयति अपानं प्रत्यग् अस्यति ।
मध्ये वामनम् आसीनं विश्वे देवा उपासते

5.3

2,2.3 ॥
आत्मनः स्वरूपाधिगमे लिङ्गम् उच्यते -- ऊर्ध्वं हृदयात् प्राणं प्राणवृत्तिं वायुम् उन्नयत्य् ऊर्ध्वं गमयति । तथापानं प्रत्यगधो ऽस्यति क्षिपति य इति वाक्यशेषः । तं मध्ये हृदयपुण्डरीकाकाश आसीनं बुद्धाव् अभिव्यक्तविज्ञानप्रकाशनं वामनं वननीयं सम्भजनीयं विश्वे सर्वे देवाश् चक्षुरादयः प्राणा रूपादिविज्ञानं बलिम् उपाहरन्तो विश्व इव राजानम् उपासते तादर्थ्येनानुपरतव्यापारा भवन्तीत्य् अर्थः । यद् अर्था यत् प्रयुक्ताश् च सर्वे वायुकरणव्यापाराः, सो ऽन्यः सिद्ध इति वाक्यार्थः

5.4

2,2.3 ॥
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।
देहाद् विमुच्यमानस्य किम् अत्र परिशिष्यते ॥ एतद् वै तत्

5.4

2,2.4 ॥
किञ् चास्य शरीरस्थस्यात्मनो विस्रंसमानस्य भ्रंशमानस्य देहिनो देहवतः । विस्रंसनशब्दार्थम् आह -- देहाद् विमुच्यमानस्येति । किम् अत्र परिशिष्यते प्राणादिकलापे न किञ्चन परिशिष्यते ऽत्र देहे पुरस्वामिविद्रवण इव परवासिनां यस्यात्मनोपगमे क्षणमात्रात् कार्यकरणकलापरूपं सर्वम् इदं हतबलं विध्वस्तं भवति विनष्टं भवति सो ऽन्यः सिद्ध आत्मा

5.5

2,2.4 ॥
न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
इतरेण तु जीवन्ति यस्मिन्न् एताव् उपाश्रितौ

5.5

2,2.5 ॥
स्यान् मतं प्राणापानाद्यपगमाद् एवेदं विध्वस्तं भवति न तु तद्व्यतिरिक्तात्मापगमात् प्राणादिभिर् एवेह मर्त्यो जीवतीति । नैतद् अस्ति । न प्राणेन नापानेन चक्षुरादिना वा मर्त्यो मनुष्यो देहवान् कश्चन जीवति न को ऽपि जीवति । न ह्य् एषां परार्थानां संहत्यकारित्वाज् जीवनहेतुत्वम् उपपद्यते । स्वार्थनासंहतेन परेण केनचिद् अप्रयुक्तं संहतानाम् अवस्थानं न दृष्टं यथा गृहादीनां लोके, तथा प्राणादीनाम् अपि संहतत्वाद् भवितुम् अर्हति । अत इतरेण इतरेणैव संहतप्राणादिविलक्षणेन तु सर्वे संहताः सन्तो जीवन्ति प्राणान् धारयन्ति । यस्मिन् संहतविलक्षण आत्मनि सति परस्मिन्न् एतौ प्राणापानौ चक्षुरादिभिः संहताव् उपाश्रितौ, यस्यासंहतस्यार्थे प्राणापानादिः सर्वं व्यापारं कुर्वन् वर्तते संहतः सन् स ततो ऽन्यः सिद्ध इत्य् अभिप्रायः

5.6

2,2.5 ॥
हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।
यथा च मरणं प्राप्य आत्मा भवति गौतम

5.6

2,2.6 ॥
हन्तेदानीं पुनर् अपि ते तुभ्यम् इदं गुह्यं गोप्यं ब्रह्म सनातनं चिरन्तनं प्रवक्ष्यामि । यद् विज्ञानात् सर्वसंसारोपरमो भवति, अविज्ञानाच् च यस्य मरणं प्राप्य यथा चात्मा भवति यथात्मा संसरति तथा शृणु हे गौतम

5.7

2,2.6 ॥
योनिम् अन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणुम् अन्ये ऽनुसंयन्ति यथाकर्म यथाश्रुतम्

5.7

2,2.7 ॥
योनिं योनिद्वारं शुक्रबीजसमन्विताः सन्तो ऽन्ये केचिद् अविद्यावन्तो मूढाः प्रपद्यन्ते शरीरत्वाय शरीरग्रहणार्थं देहिनो देहवन्तः, योनिं प्रविशन्तीत्य् अर्थः । स्थाणुं वृक्षादिस्थावरभावम् अन्ये ऽत्यन्ताधमा मरणं प्राप्यानुसंयन्त्य् अनुगच्छन्ति । यथाकर्म यद्य् अस्य कर्म तद्यथाकर्म यैर् यादृशं कर्मेह जन्मनि कृतं तद्वशेनेत्य् एतत् । तथा च यथाश्रुतं यादृशं च विज्ञानम् उपार्जितं तदनुरूपम् एव शरीरं प्रतिपद्यन्त इत्य् अर्थः । "यथाप्रज्ञं हि संभवाः" इति श्रुत्यन्तरात्

5.8

2,2.7 ॥
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ।
तद् एव शुक्रं तद् ब्रह्म तद् एवामृतम् उच्यते ।
तस्मिंल् लोकाः श्रिताः सर्वे तद् उ नात्येति कश्चन ॥ एतद् वै तत्

5.8

2,2.8 ॥
यत्प्रतिज्ञातं गुह्यं ब्रह्म प्रवक्ष्यामीति तदाह -- य एष सुप्तेषु प्राणादिषु जागर्तिं न स्वपिति । कथम् । कामं कामं तं तम् अभिप्रेतं स्त्र्याद्यर्थम् अविद्यया निर्मिमाणो
निष्पादयञ्जागर्तिं पुरुषो यः, तद् एव शुक्रं शुभ्रं शुद्धं तद् ब्रह्म नान्यद् गुह्यं ब्रह्मास्ति । तद् एवामृतम् अविनाश्य् उच्यते सर्वशास्त्रेषु । किञ् च पृथिव्यादयो लोकास् तस्मिन्न् एव सर्वे ब्रह्मणि श्रिता आश्रिताः सर्वलोककारणत्वात् तस्य । तद् उ नात्येति कश्चनेत्य् आदि पूर्ववद् एव

5.9

2,2.8 ॥
अग्निर् यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।
एकस् तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश् च

5.9

2,2.9 ॥
अनेकतार्किककुबुद्धिविचालितान्तःकरणानां प्रमाणोपपन्नम् अप्य् आत्मैकत्वविज्ञानम् असकृद् उच्यमानम् अप्य् अनृजुबुद्धीनां ब्राह्मणानां चेतसि नाधीयत इति तत्प्रतिपादन आदरवती पुनः पुनर् आह श्रुतिः -- अग्निर् यथैक एव प्रकाशात्मा सन् भुवनं भवन्त्य् अस्मिन् भूतानीति भुवनम् अयं लोकस् तम् इमं प्रविष्टो ऽनुप्रविष्टः, रूपं रूपं प्रति दार्वादिदाह्यभेदं प्रतीत्य् अर्थः, प्रतिरूपस् तत्र तत्र प्रतिरूपवान् दाह्यभेदेन बहुविधो बभूव । एक एव तथा सर्वभूतान्तरात्मा रूपं रूपं सर्वेषां भूतानाम् अभ्यन्तर आत्मातिसूक्ष्मत्वाद् दार्वादिष्व् इव सर्वदेहं प्रति प्रविष्टत्वात् प्रतिरूपो बभूव बहिश् च स्वेनाविकृतेन स्वरूपेणाकाशवत्

5.10

2,2.9 ॥
वायुर् यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।
एकस् तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश् च

5.10

2,2.10 ॥
तथान्यो दृष्टान्तः -- वायुर् यथैक इत्य् आदि । प्राणात्मना देहेष्व् अनुप्रविष्टो, रूपं रूपं प्रतिरूपो बभूवेत्य् आदि समानम्

5.11

2,2.10 ॥
सूर्यो यथा सर्वलोकस्य चक्षुर् न लिप्यते चाक्षुषैर् बाह्यदोषैः ।
एकस् तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः

5.11

2,2.11 ॥
एकस्य सर्वात्मत्वे संसारदुःखित्वं परस्यैव स्याद् इति प्राप्त इदम् उच्यते -- सूर्यो यथा चक्षुष आलोकेनोपकारं कुर्वन् मूत्रपुरीषाद्यशुचिप्रकाशनेन तद्दर्शिनः सर्वलोकस्य चक्षुर् अपि सन् न लिप्यते चाक्षुषैर् अशुच्यादिदर्शननिमित्तैर् आध्यात्मिकैः पापदोषैर् बाह्यैश् चाशुच्यादिसंसङ्गदोषैर् एकः संस् तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः । लोको ह्य् अविद्यया स्वात्मन्य् अध्यस्तया कामकर्मोद्भवं दुःखम् अनुभवति । न तु सा परमार्थतः स्वात्मनि । यथा रज्जुशुक्तिकोषरगगनेषु सर्परजतोदकमलानि न रज्ज्वादीनां स्वतो दोषरूपाणि सन्ति, संसर्गिणि विपरीतबुद्ध्यध्यासनिमित्तात् तद् दोषवद्विभाव्यन्ते । न तद्दोषैस् तेषां लेपो विपरीतबुद्ध्यध्यासबाह्या हि ते । तथात्मनि सर्वो लोकः क्रियाकारकफलात्मकं विज्ञानं सर्पादिस्थानीयं विपरीतमध्यस्य तन्निमित्तं जन्ममरणादिदुःखम् अनुभवति, न त्व् आत्मा सर्वलोकात्मापि सन् विपरीताध्यारोपनिमित्तेन लिप्यते लोकदुःखेन । कुतो बाह्यो रज्ज्वादिवद् एव विपरीतबुद्ध्यध्यासबाह्यो हि स इति

5.12

2,2.11 ॥
एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति ।
तम् आत्मस्थं ये ऽनुपश्यन्ति धीरास् तेषां सुखं शाश्वतं नेतरेषाम्

5.12

2,2.12 ॥
किञ् च स हि परमेश्वरः सर्वगतः स्वतन्त्र एको न तत्समो ऽभ्यधिको वान्यो ऽस्ति । वशी सर्वं ह्य् अस्य जगद्वशे वर्तते । कुतः? सर्वभूतान्तरात्मा । यत एकम् एव सदेकरसम् आत्मानं विशुद्धविज्ञानरूपं नामरूपाद्यशुद्धोपाधिभेदवशेन बहुधानेकप्रकारं यः करोति स्वात्मसत्तामात्रेणाचिन्त्यशक्तित्वात् तम् आत्मस्थं स्वशरीरहृदयाकाशे बुद्धौ चैतन्याकारेणाभिव्यक्तम् इत्य् एतत् । न हि शरीरस्याधारत्वम् आत्मनः । आकाशवद् अमूर्तत्वात् । आदर्शस्थं मुखम् इति यद्वत् । तम् एतम् ईश्वरम् आत्मानं ये निवृत्तबाह्यवृत्तयो ऽनुपश्यन्त्य् आचार्यागमोपदेशम् अनु साक्षाद् अनुभवन्ति धीरा विवेकिनस् तेषां परमेश्वरभूतानां शाश्वतं नित्यं सुखम् आत्मानन्दलक्षणं भवति, नेतरेषां बाह्यासक्तबुद्धीनाम् अविवेकिनां स्वात्मभूतम् अप्य् अविद्याव्यवधानात्

5.13

2,2.12 ॥
नित्यो ऽनित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् ।
तम् आत्मस्थं ये ऽनुपश्यन्ति धीरास् तेषं शान्तिः शाश्वती नेतरेषाम्

5.13

2,2.13 ॥
किञ् च नित्यो ऽविनाश्यनित्यानां विनाशिनाम् । चेतनश् चेतनानां चेतयितॄणां ब्रह्मादीनां प्राणिनाम् अग्निनिमित्तम् इव दाहकत्वम् अनग्नीनाम् उदकादीनाम् आत्मचैतन्यनिमित्तम् एव चेतयितृत्वम् अन्येषाम् । किञ् च स सर्वज्ञः सर्वेश्वरः कामिनां संसारिणां कर्मानुरूपं कामान् कर्मफलानि स्वानुग्रहनिमित्ताश् च कामान्य् एको बहूनाम् अनेकेषामनायासेन विदधाति प्रयच्छतीत्य् एतत् । ताम् आत्मस्थं ये ऽनुपश्यन्ति धीरास् तेषां शान्तिर् उपरतिः शाश्वती नित्या स्वात्मभूतैव स्यान् नेतरेषाम् अनेवं विधानाम्

5.14

2,1.13 ॥
तद् एतद् इति मन्यन्ते ऽनिर्देश्यं परमं सुखम् ।
कथं नु तद् विजानीयां किम् उ भाति विभाति वा

5.14

2,2.14 ॥
यत् तद् आत्मविज्ञानसुखम् अनिर्देश्यं निर्देष्टुम् अशक्यं परमं प्रकृष्टं प्राकृतपुरुषवाङ्मनसयोर् अगोचरम् अपि सन् निवृत्तैषणा ये ब्राह्मणास् त एतत् प्रत्यक्षम् एवेति मन्यन्ते, कथं नु केन प्रकारेण तत् सुखम् अहं विजानीयाम् । इदम् इत्य् आत्मबुद्धिविषयम् आपादयेयं यथा निवृत्तैषणा यतयः । किम् उ तद् भाति दीप्यते प्रकाशात्मकं तद् यतो ऽस्मद्बुद्धिगोचरत्वेन विभाति विस्पष्टं दृश्यते किं वा नेति

5.15

2,1.14 ॥
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः ।
तम् एव भान्तम् अनु भाति सर्वं तस्य भासा सर्वम् इदं विभाति

5.15

2,2.15 ॥
अत्रोत्तरम् इदं भाति च विभाति चेति । कथम्? न तत्र तस्मिन् स्वात्मभूते ब्रह्मणि सर्वावभासको ऽपि सूर्यो भाति तद् ब्रह्म न प्रकाशयतीत्य् अर्थः । तथा न चन्द्रतारकम्, नेमा विद्युतो भान्ति, कुतो ऽयम् अस्मद्दृष्टिगोचरो ऽग्निः । किं बहुना, यद् इदम् आदिकं सर्वं भाति तत् तम् एव परमेश्वरं भान्तं दीप्यमानम् अनुभात्य् अनुदीप्यते । तथा जलोल्मुकाद्य् अग्निसंयोगाद् अग्निं दहन्तम् अनुदहति न स्वतस् तद्वत् । तस्यैव भासा दीप्त्या सर्वम् इदं सूर्यादि विभति । यत एवं तद् एव ब्रह्म भाति च विभाति च । कार्यगतेन विविधेन भासा तस्य ब्रह्मणो भारूपत्वं स्वतो ऽवगम्यते । न हि स्वतो ऽविद्यमानं भासनम् अन्यस्य कर्तुं शक्तम् । घटादीनाम् अन्यावभासकत्वादर्शनाद् भारूपाणां चादित्यादीनां तद्दर्शनात्

मूल पाठ: Kaṭhopaniṣadbhāṣya · Edition: Ten Principal Upaniṣads with Śaṅkarabhāṣya (Works of Śaṅkarācārya in original Sanskrit 1). Delhi : Motilal Banarsidass 1964 (reprint 2007) · Data entry Ivan Andrijanić · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc