भाषा

ENहिગુ
ग्रंथ पाठ

कठिनवस्तु · अध्याय 1

1.10

उद्दानम्* ॥
साकेतेन हि कस्यचिद् वितरितं मर्दितं ( 276र्1 = ग्ब्म् 6.864 ) च कालेन पुद्गलो मातृकापदान्य् अकृतेन विंशतिः करणीयेन द्वादशिका
साकेतेन वर्षोपगता शास्तुर् दर्शनकाम्यया
कर्दमे उष्णेन क्लान्तानां चीवरं तत्र सम्मतम्* ॥ ॥
कठिन-व् 1. बुद्धो भगवां श्रावस्त्यां वर्षा उपगतो जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन संबहुला भिक्षवः साकेते वर्षोपगतास् त्रयाणां वार्षिकाणां मासानाम् अत्ययात् कृतचीवरा निष्ठितचीवराः समादाय पात्रचीवरं बहुतृणे बहुकर्दमे उष्णेन क्लाम्यन्तः स्वेदपर्याकुलीकृतशरीरा येन श्रावस्तीं तेन चारिकां चरन्त ः श्रावस्तीम् अनुप्राप्ताः अथ संबहुला भिक्षवः पात्रचीवरं प्रतिशमय्य पादौ प्रक्षाल्य येन भगवांस् तेनोपसंक्रान्ता उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः
कठिन-व् 2. धर्मता खलु बुद्धा भगवन्त आगन्तुकान् भिक्षून् अनया प्रतिसंमोदनया प्रतिसंमोद न् ते । कुतो यूयं भिक्षव एतर्ह्य् आगच्छत : कुत्र वा स्थ वर्षा उषिता इति प्रतिसंमोदते भगवान् आगन्तुकान् भिक्षून् अनया प्रतिसंमोदनया सुखं स्पर्शं वर्षा नया कुतो यूयं भिक्षव एतर्ह्य् आगच्छथ कुत्र वा स्थ वर्षा उषिताः ते कथयंति साकेताद् वयं भदन्त्ऽ; एतर्ह्य् आगच्छाम साकेते वा स्म वर्षा उषिताः कच्चिद् यूयं भिक्षवः साकेते सुखं स्पर्शं वर्षा उषिता न वा स्थ क्लान्ताः पिण्डकेन तथ्यं वयं भदन्त ( मत्सुमुर 189 ) साकेत सुखं स्पर्शं वर्षा उषिता न वा स्म ः क्लान्ता ः पिण्डकेनापि तु वयं समादाय पात्रचीवरं बहुतृणे बहुकर्दमे उष्णेन क्लाम्यन्त ः स्वेदपर्याकुलीकृतशरीरा जनपदचारिकां चरन्तः कृच्छ्रेणेहानुप्राप्ताः
कठिन-व् 3. भगवान् संलक्षयति । क्लाम्यन्ति बत मे श्रावकाः समादाय पात्रचीवरं बहुतृणे बहुकर्दमे उष्णेन क्लाम्यन्ति स्वेदपर्याकुलीकृतशरीरा जनपदचारिकां चरन्तो यन्व् अहं भिक्षूणां स्पर्शविहारार्थं दात्रीणां च देयधर्मपरिभोगार्थं भिक्षूणां कठिनम् अनुजानीयं । यस्मात् पंचानुशंसा ः कठिनास्तरे न दशाहपरमं न मासपरमं न रात्रि वि प्रवासाः सान्तरोत्तरेण चीवरेण जनपदचारिकां ( मत्सुमुर 190 ) प्रक्रमणं यावदप् त् अ ं विकल्पि त चीवरधारणम् इति । अपरे ऽपि पंचानुशंसा ः । न गणभोजनं न ( मत्सुमुर 191 ) परंपरभोजनं न कुलेष्व् आनिमन्त्रितचारिका यावदाप्तं चीवरपर्येषणं ( मत्सुमुर 192 ) कार्तिकान् मासाद् यावत् फाल्गुनो मासो अत्रान्तरात् सास्तृतकठि ना नां लाभ इति विदित्वा भिक्षून् आमन्त्रयते स्म । तस्मात् तर्हि भिक्षवो ऽनुजानामि भिक्षूणां स्पर्शविहारार्थं दात्रीणां च देयधर्मपरिभोगार्थं वर्षोषितैर् भिक्षुभिः कठिनम् आस्तर्तव्यं यस्मात् पंचानुशंसा ः कठिने न दशाहपरमं पूर्ववद् यावद् आस्तृतकठिनानां लाभ इति
कठिन-व् 4. उक्तं भगवता कठिनम् आस्तर्तव्यम् इति भिक्षवो न जानते कथम् ( मत्सुमुर 193 ) आस्तर्तव्यम् इति । भगवान् आह । यद् वर्षोषितस्य संघस्य चीवरलाभः संपद्यते तस्माद् आस्तर्तव्यं एवं च पुनर् आस्तर्तव्यं पूर्ववत्* सामग्र्यम् आरोचयितव्यं इदं चीवरं वर्षोषितस्य संघस्य चीवरलाभः संपन्नः यदि संघस्याभिरुचितम् अनेन चीवरेण संघस्य कठिनम् ( 276व्1 = ग्ब्म् 6.865 ) आस्तरिष्यति । ततः पश्चाद् अपरस्मिन् दिवसे शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्तवाचिकया भिक्षूं ( मत्सुमुर 194 ) समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्य म्
कठिन-व् 5. शृणोतु भदन्ताः संघ इदं चीवरं वर्षोषितस्य संघस्य चीवरलाभः संपन्नः संघस्य कठिनम् अभिरुचितं अनेन चीवरेण कठिनम् आस्तरितुं । येनास्तीर्णकठिनाद् आवासात् प्रक्रामन्तः ( मत्सुमुर 195 ) पुराणचीवराणां अप्य् अविप्रवासो भविष्यति प्राग् एव नवकानां सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघः इदं चीवरं कठिनार्थं संमन्येतानेन चीवरेण संघस्य कठिनम् आस्तरिष्यति येनास्तीर्णकठिनाद् आवासात्* प्रक्रामन्तः पुराणचीवराणाम् अप्य् अविप्रवासो भविष्यति प्राग् एव नवकानाम् इत्य् एषा ज्ञप्तिः ॥ एवं च कर्म कर्तव्यं
कठिन-व् 6. शृणोतु भदन्ताः संघ इदं चीवरं वर्षोषितस्य संघस्य चीवरलाभः संपन्नः संघस्य चाभिरुचितं कठिनं कर्तुं तत् संघ इदं चीवरं कठिनार्थं संमन्यते अनेन चीवरेण संघस्य कठिनम् आस्तरिष्यति येनास्तीर्णकठिनाद् आवासात् प्रक्रामतः पुराणचीवरकाणाम् अप्य् अविप्रवासो भविष्यति प्राग् एव नवकानां ( मत्सुमुर 196 ) येषाम् आयुष्मतां क्षमते इदं चीवरं कठिनार्थं संमन्तुम् अनेन चीवरेण संघस्य कठिनम् आस्तरिष्यति येनास्तीर्णकठिनाद् आवासात् प्रक्रमत ः पुराणचीवरकाणाम् अप्य् अविप्रवासो भविष्यति प्राग् एव नवकानां स तूष्णीं न क्षमते भाषन्तां संमतः संघेन इदं चीवरं कठिनार्थम् अनेन चीवरेण संघस्य कठिनम् आस्तरिष्यति येनास्तीर्णकठिनाद् आवासात्* प्रक्रामतः पुराणचीवरकाणाम् अप्य् अविप्रवासो भविष्यति प्राग् एव नवकानां क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीं एवम् एतद् धारयामि
कठिन-व् 7. ततः पश्चात् कठिनास्तारको भिक्षुः संमन्तव्यः पंचभिर् धर्मैः समन्वागतः कठिनास्तारको भिक्षुर् असंमतो न संमन्तव्यः संमतश् चावकाशयितव्यः कतमैः पंचभिः अवर्षिको वर्षछिन्नकः ( मत्सुमुर 197 ) पश्चिमकां वर्षाम् उपगतो अन्यत्र वर्षोषितः शिक्षादत्तकः अपरे अपि पंच न संमन्तव्याः पारिवासिक मूलपारिवासिक मानाप्य मूलमानाप्यचार उत्क्षिप्तकः अपरे पंच न संमन्तव्या च्छन्दाद् गच्छति द्वेषां मोहाद् भयाद् गच्छति आस्तृतं चानास्तृतं कठिनं न जानाति : पंचभिस् तु धर्मैः समन्वागतः कठिनास्तारको भिक्षुर् असंमतश् च संमन्तव्य ः संमतश् च् अ न् आवकाशयितव्यः कतमैः पंचभिः न च्छन्दाद् गच्छति न द्वेषान् न मोहान् न भयाद् गच्छति आस्तृतानास्तृतं च कठिनं जानाति
कठिन-व् 8. एवं च पुनः संमन्तव्यः शयनासनप्रज्ञप्तिं कृत्वा पूर्ववद् ( मत्सुमुर 198 ) यावद् उत्साहयितव्यः उत्सहसे त्वम् एवंनामा संघस्य कठिन् अम् आस्तर्तुम् इति सचेद् उत्सहते ते न वक्तव्यं उत्सहेद् इति । ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्*
कठिन-व् 9अ. शृणोतु भदन्ताः संघ अयम् एवंनामा कठिनास्तारको भिक्षुर् उत्सहते संघस्य कठिनम् आस्तर्तुं सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो ( 277र्1 = ग्ब्म् 6.866 ) यत् संघः एवंनामानं कठिनास्तारकं संमन्येत एवंनामा कठिनास्तरकः संघस्य कठिनम् आस्तरिष्यत् ईति एषा ज्ञप्तिः एवं च कर्म कर्तव्यं

कठिन-व् 9ब्. शृणोतु भदन्ताः संघः अयम् एवंनामा कठिनास्तारक उत्सहे संघस्य कठिनम् आस्तर्तुं तत् संघ एवंनामानं कठिनास्तारकं संमन्येत अयम् एवंनामा कठिनास्तरकः संघस्य कठिनम् आस्तरिष्यत् इ येषाम् आयुष्मतां क्षमते एवंनामानं कठिनास्तारकं संमन्तुं एवंनामा कठिनास्तारकः संघस्य कठिनम् आस्तरिष्यति ते तूष्णी ं न क्षमते भाषन्तां संमतः संघेन एवंनामा कठिनास्तारकः संघस्य कठिनम् आस्तरिष्यति क्षान्तम् अनुज्ञातं संघेन यस्मात् तुष्णीम् एवम् एतद् धारयामि
कठिन-व् 10. ततः कठिनास्तारकस्य भिक्षो र् ज्ञप्त्या कठिनं आस्तरितव्यं ( मत्सुमुर 200 ) शृणोतु भदन्ताः संघ इदं चीवरं संघेन कठिनार्थं संमतम् अयं चैवंनामा कठिनास्तारको भिक्षुः संमतः सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघः इदं चीवरं कठिनार्थम् एवंनाम्नो भिक्षोर् अनुप्रदद्याद् इत्य् एषा ज्ञप्तिः
कठिन-व् 11. कठिनास्तारकस्याहं भिक्षोर् आसमुदाचारिकां धर्मां प्रज्ञपयिष्यामि कठिनास्तारकेन भिक्षुणा कठिनेन सर्वत्र पूर्वंगमेन भवितव्यम्* धावता वितरता च्छिन्दता सीवता रंजयता अन्ततो द्वौ त्रयो वा सूचीपदका दातव्या द्वौ त्रयो वा चित्तोत्पादा उत्पादयितव्य ः
कठिन-व् 12. ततः पश्चाद् आश्वयुजमासे शुक्लपक्षपंचदश्यां आरोचयितव्यम्* : ( मत्सुमुर 201 ) श्वो ऽहम् आयुष्मन्त ः कठिनम् आस्तरिष्यामि । युष्माभि ः स्वकस्वकानि चीवराणि प्रत्युद्धर्तव्यानि इति ततः कठिनास्तारकेण ( मत्सुमुर 202 ) भिक्षुणा कठिन ं गन्धपुष्पान्वितं सुरभिधूपधूपितं कृत्वा शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्तवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते वृद्धान्ते स्थापयितव्यं ततो वृद्धान्ते स्थिवा कठिनं गृहीत्वा वक्तव्यं
कठिन-व् 13. शृणोतु भदन्ताः संघ इदं चीवरं संघेन कठिनं संमतम् अहं चैवंनामा भिक्षुः कठिनास्तारकः सो ऽहम् एवंनामा कठिनास्तारकस् तेन चीवरेण संघस्य कठिनम् आस्तरिष्यामीति । एवं द्विर् अपि तृर् अपि तत आस्तीर्य संघस्थविरस्य पुरस्तात् स्थित्वा एवं वक्तव्यं समन्वाहर स्थविर इदं चीवरं संघेन कठिनं ( मत्सुमुर 203 ) संमतम् अहं चैवंनामा कठिनास्तारकस् तन् मया अनेन चीवरेण संघस्य कठिनम् आस्तृतम् इति
कठिन-व् 14. तेन वक्तव्यं साध्व् आस्तृतं सुष्ठ्व् आस्तृतं यो ऽत्र लाभस् चानुशंसश् च सो ऽस्माकम् इति एवं द्विर् अपि तृर् अपि यावत् संघनवकस्य सर्वैर् वक्तव्यं साध्व् आस्तृतं सुष्ठ्व् आस्तृतं यो ऽत्र लाभश् चानुशंसश् च सो ऽस्माकम् इति
कठिन-व् 15. कठिनास्तारकेण भिक्षुणा कठिनं गृहीत्वा न प्रस्रावकुटिं न वर्चस्कुटिं न धूमागारं प्रवेष्टव्यं नाभ्यवकाशे स्थातव्यं न बहिःसीमां गन्तव्यं सचेद् गच्छति न तस्यां वस्तव्यं ( मत्सुमुर 204 ) कठिनास्तारको भिक्षुर् यथाप्रज्ञप्तान् आसमुदाचारिकां धर्मान् न समादाय वर्तते सातिसारो भवति
कठिन-व् 16. ततः कठिनास्तारकेन भिक्षुणा फाल्गुनमासे शुक्लपक्ष पंचदश्यां पुनर् आरोचयितव्यं श्वा आयुष्मन्त ः कठिनम् उद्धरिष्यामि यूयं स्वकस्वकानि चीवराण्य् अधितिष्ठतेति । यश् च तत्र लाभः संपन्नः स संघेन भाजयितव्य ः ॥
कठिन-व् 17. आयुश्मान् उपाली बुद्धं भगवन्तं पृच्छति । कतीनां भदन्त कठिनम् अन् आस्तृतं पञ्चानाम् उपालिं अवर्षिकस्य वर्षाच्छिन्नकस्य पश्चिमका ं ( 277व्1 = ग्ब्म् 6.867 ) वर्षा ं उपगतस्य अन्यत्र वर्षोपगतस्य तस्मिं कठिन आस्तीर्यमाणे असंमुखीभूतस्य । अपरेषाम् अपि पंचानाम् अनास्तृतं पारिवासिकस्य पर्युषितपरिवासस्य मानाप्यचारिकस्य चरितमानाप्यस्य शिक्षादत्तकस्य च
कठिन-व् 18. कतीनां भदन्तैव लाभो नानुशंसा । पञ्चानाम् उपालिन् अवर्षिकस्य वर्षाच्छिन्नकस्य पश्चिमकां वर्षाम् उपगतस्यान्यत्र वर्षोपगतस्य तस्मिं कठिन अस्तीर्यमाण संमुखीभूतस्य । अपरेषाम् अपि पञ्चानां पारिवासिकस्य पर्युषितपरिवासस्य मानाप्यचारिकस्य चरितमानाप्यस्य शिक्षादत्तकस्य च
कठिन-व् 19. कातीनां भदन्त नैव लाभो नानुशंसः पंचानाम् उपालिं अदर्शनायोत्क्षिप्तकस्य अप्रतिकर्मणायोत्क्षिप्तकस्य अप्रतिनिसृष्टे । पापके दृष्टिगते उत्क्षिप्तकस्य अन्यत्र वर्षोषितस्य भिन्ने च संघे अधर्मे पाक्षिकस्य
कठिन-व् 20. संबहुला भिक्षवो जनपदचारिकां चरन्तः चोरैर् मुषितास् ते ऽनुपूर्वेण श्रावस्तीम् अनुप्राप्ता भिक्षुभिर् दृष्टा ः स्वागतं स्वागतं आयुष्मन्तः कच्चित् सुखचर्या । कीदृशी आयुष्मन्तः सुखचर्या चोरैर् मुषिता ः स्म ः । अस्माकम् आयुष्मन्तः प्रभूतो लाभः संपन्नः यदि कठिनम् उद्ध्रियते चीवरैर् युष्माकं संविभागं कुर्म इति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति भगवान् आह । तस्माद् अनुजानामि चोरैर् मुषितकानां भिक्षूणाम् अर्थाय कठिनम् उद्धर्तव्यं एवं च पुनर् उद्धर्तव्यं शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्तवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्*
कठिन-व् 21. शृणोतु भदन्ताः संघ यावद् एवास्मिन्न् आवासे समग्रेण संघेन कठिनम् आस्तृतं संबहुलाश् च भिक्षवः चोरैर् मुषिता आगताः सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघश् चोरैर् मुषितकानां भिक्षूणाम् अर्थाय कठिनम् उद्धरेद् इत्य् एषा ज्ञप्तिः एवं च कर्म कर्तव्यम्*
कठिन-व् 22अ. शृणोतु भदन्ताः संघ यावद् एवास्मिन्न् आवासे समग्रेण संघेन कठिनम् आस्तृतं संबहुलाश् च भिक्षवश् चोरैर् मुषितका आगता स् तत् संघश् चोरैर् मुषितकानां भिक्षूणाम् अर्थाय कठिनम् उद्धरति येषाम् आयुष्मतां क्षमते चोरमुषितकानां भिक्षूणाम् अर्थाय कठिनम् उद्धरितुं ते तूष्णीं न क्षमते भाषन्तां उद्धृतं संघेन चोरमुषितकानां भिक्षूणाम् अर्थाय कठिनं क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवम् एतद् धारयामि ।
कठिन-व् 22ब्. तस्माद् यो लाभः संपन्नः स भाजयितव्यः भाजिते यस्याभिप्रेतन् तेन स्वकात् प्रत्यंशाच् चौरमुषितकानां भिक्षूणां संविभागः कर्तव्यः ॥ ॥
उद्दानम्* ॥
वितरितं विलिखितं च धुटी गण्डूषपट्टिका
उपधिपरिषण्डो च पुराणसन्निहितफुप्फुसम्* ॥ ॥
कठिन-व् 23. आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति । लभ्यं भदन्त वितरितेन चीवरकेण कठिनम् आस्तर्तुम्* न लभ्यम् उपालिन्* लभ्यं ( मत्सुमुर 208 ) भदन्त विलिखितेन दकशाटिकाचीवरेण गण्डूषचीवरेण पट्टिकाचीवरेण प्लोतिकाचीवरेण परिषण्डाचीवरेण पुराणचीवरेण ( मत्सुमुर 209 ) सन्निहितचीवरेण फुप्फुसचीवरेण कठिनम् आस्तर्तुं न लभ्यम् उपालिन्* ॥ ॥
उद्दानम्* ॥ ॥
मर्दितं चाप्य् अकालेन पुद्गलस्य तृचीवरम्*
अकल्पिकम् असंच्छनं न कुर्याद् ऊनपंचकम्*
असंमतम् अनास्तृतं बहिःसीमे न रोहति ॥ ॥

कठिन-व् 24. आयुष्मान् ( 278र्1 = ग्ब्म् 6.868 ) उपाली बुद्धं भगवन्तं पृच्छति लभ्यं भदन्त मर्दितेन चीवरेण कठिनम् आस्तर्तुं न लभ्यम् उपालिन्* लभ्यं भदन्त अकालचीवरेण पौद्गलिकया संघाट्या ( मत्सुमुर 211 ) उत्तरासंगेन अन्तर्वासेन अकल्पिकेन चीवरेण अच्छिनकेन ऊनपंचकेन असम्मतेन चीवरेण असम्मतेन ( मत्सुमुर 212 ) कठिनास्तारकेन बहिःसीमासम्मतेन कठिनचीवरेण बहिःसीमासंमतेन कठिनास्तारकेन कठिनम् आस्तर्तुं न लभ्यम् उपालिन्* ॥ ॥
उद्दानम्* ॥ ॥
कालिकं चापि त्रैमास्यम् अहन्तं चैव कल्पिकम्*
आत्ययिकं पैलोतिकं पुद्गलस्य तृचीवरम्* ॥ ॥
कठिन-व् 25. लभ्यं भदन्त कालिकेन चीवरेण संघस्य कठिनम् आस्तर्तुं लभ्यं उपालिन्* यो भदन्त त्रैमास्यात्ययात् संघस्य चीवरलाभः संपद्यते तेन लभ्यं कठिनम् आस्तर्तुं लभ्यम् उपालिं अहतचीवरेण लभ्यं अहतकल्पितेन लभ्यं आत्ययिकचीवरेण लभ्यं पौलोतिकचीवरेण लभ्यं पौलोतिकया ( मत्सुमुर 214 ) संघाट्या न लभ्यं लभ्यं भदन्त पौद्गलिकया संघाट्या कठिनम् आस्तर्तुं लभ्यम् उपालिन् सचेत् संघे निसृष्टा भवति एवम् उत्तरासंगेनान्तर्वासेन ॥ ॥
उद्दानम्* ॥ ॥
पौद्गलिकं गार्हापतकं पंचकं साधिकपंचिकं
संमतम् आस्तृतं चैव अन्तःसीमे च रोहौ ॥ ॥
कठिन-व् 26. लभ्यं भदन्त पौद्गलिकेन चीवरेण कठिनम् आस्तर्तुं न लभ्यम् उपालिं लभ्यं सचेत् संघे निसृष्टं भवति गृहपतिचीवरेण न लभ्यं लभ्यं सचेत् संघे निसृष्टं ( मत्सुमुर 216 ) भवति पंचकेन लभ्यं साधिकेन पंचकेन लभ्यं सम्मतेन कठिनचीवरे ण कठिनास्तारकेन लभ्यं अन्तःसीमासम्मतेन कठिनचीवरेण लभ्यं अन्तःसीमासम्मतेन कठिनास्तारकेन लभ्यं
कठिन-व् 27. अष्टौ मातृकापदानि कठिनोद्धाराय संवर्तन्ते कतमे ऽष्टौ प्रक्रमणं निष्ठापनं सन्निष्ठापनं नाशनं श्रवणं सीमातिक्रान्तं ( मत्सुमुर 217 ) आशाच्छेदकं कठिनोद्धारम् एवाष्टमम्* प्रक्रमणान्तिकः कठिनोद्धारा निष्ठापनान्तिकः सन्निष्ठापनान्तिकः नाशनान्तिकः श्रवणान्तिकः सीमातिक्रान्तिकः आशाच्छेदकः कठिनोद्धारम् एवाष्टमम्*
कठिन-व् 28. प्रक्रमणान्तिकः कठिनोद्धारः कतमः यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासात्* अकृतचीवरो ऽनिष्ठितचीवरः समादाय पात्रचीवरं बहिःसीमां प्रक्रमत्य् अपुनरागमनाय तस्य प्रक्रमणान्तिकः कठिनोद्धारः
कठिन-व् 29. निष्ठापन् आन्तिक् अः कठिनोद्धारः कतमः यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरः बहिःसीमां प्रक्रामति प्रत्येष् य् आमि चीवरं करिष्यामीति तस्यैवं भवति न हैव प्रत्येष् य् आम्य् अपि तु चीवरं करिष्यामीति तस्य निष्ठापनान्तिकः कठिनोद्धारः
कठिन-व् 30. सन्निष्ठापनान्तिकः कठिनोद्धारः कतमः यथापि तद् भिक्षुर् ( मत्सुमुर 219 ) आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरः बहिःसीमां प्रक्रामति प्रत्येष्यामि चीवरं करिष्यामीति । तस्यैवं भवति न हैव प्रत्येष्यामि नापि चीवरं करिष्यामीति तस्य सन्निष्ठापनान्तिकः कठिनोद्धारः ॥
कठिन-व् 31. नाशनान्तिकः कठिनोद्धारः कतमः यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् ( मत्सुमुर 220 ) आवासाद् अकृत च् ई वरो ऽन् इ ष्ठितचीवरः बहिःसीमां प्रक्रामति प्रत्येष्यामि ( 278व्1 = ग्ब्म् 6.869 ) चीवरं करिष्यामि । तस्यैवं भवति न हैव प्रत्येष्यामि अपि तु चीवरं करिष्यामीति स तद् आरभते आरब्धं तु नश्यति तस्य नाशनान्तिकः कठिनोद्धारः
कठिन-व् 32. श्रवणान्तिकः कठिनोद्धारः कतमः यथापि तद् भिक्षुः आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरः बहिःसीमां प्रक्रामति प्रत्येष्यामि चीवरं करिष्यामि समग्रेण च संघेन कठिनम् उद्धृतं स शृणोति समग्रेण संघेन कठिनम् उद्धृतम् इति श्रुत्वा चाभ्यनुमोदते साधूद्धृतं सुष्ठूद्धृतम् इति । तस्य श्रवणान्तिकः कठिनोद्धारः
कठिन-व् 33. सीमातिक्रान्तिकः कठिनोद्धारः कतमः यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरो बहिःसीमां प्रक्रामति प्रत्येष्यामि न प्रत्येष्यामीति सीमां चातिक्रामति तस्य सीमातिक्रान्तिकः कठिनोद्धारः
कठिन-व् 34. आशाच्छेदकः कठिनोद्धारः कतमः यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरो बहिःसीमां प्रक्रामति प्रत्येष्यामि चीवरं करिष्यामीति तस्य या सा चीवरप्रत्याशा सा सर्वेण सर्वं समुच्छिद्यते तस्याशाच्छेदकः कठिनोद्धारः
कठिन-व् 35. कठिनोद्धार एवाष्टमः कतमः यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् ( मत्सुमुर 222 ) आवासाद् अकृतचीवरो ऽनिष्ठितचीवरो बहिःसीमां प्रक्रामति चागत्य कठिनोद्धारः प्रत्यनुभवति तस्य कठिनोधार एवाष्टमः ॥ ॥
उद्दानम्* ॥
अकृतेन हि विंशति विकृतेन हि विंशति
आशया विंशतिं कुर्याद् अनासया चैव विंशिकाम्* ॥ ॥
कठिन-व् 36. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवर ः बहिःसीमां प्रक्रामति प्रत्येष्यामि चीवरं करिष्यामीति । तस्यैवं भवति न हैव प्रत्येष्यामि अपि तु चीवरं करिष्यामीति तस्य निष्ठापनान्तिकः कठिनोद्धारः
कठिन-व् 37. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरो बहिःसीमां प्रक्रामति प्रत्येष्यामि चीवरं करिष्यामि । तस्यैवं भवति न हैव प्रत्येष्यामि नापि चीवरं करिष्यामीति तस्य स न् निष्ठापनान्तिकः कठिनोद्धारः
कठिन-व् 38. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरः बहिःसीमां प्रक्रामति प्रत्येष्यामि चीवरं करिष्यामीति । स तद् आरभते आरब्धं चास्य नश्यति तस्य नाशनान्तिकः कठिनोद्धारः ।
कठिन-व् 39. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरो बहिःसीमां प्रक्रामति प्रत्येष्यामि चीवरकं करिष्यामीति । समग्रेण च संघेन कठिनम् उद्धृतं स शृणोति समग्रेण संघेन कठिनम् उद्धृतम् इति श्रुत्वा चाभ्यनुमोदते साधूद्धृतं सुष्ठूद्धृतम् इति । तस्य श्रवणान्तिकः कठिनोद्धार-म्-इति ॥
कठिन-व् 40. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरो बहिःसीमां प्रक्रामति । प्रत्येष्यामि चीवरं करिष्यामि तस्य तत्र गतस्यैवं भवति न हैव प्रत्येष्याम्य् अपि तु चीवरं करिष्यामीति तस्य निष्ठापनान्तिकः कठिनोद्धारः ॥
कठिन-व् 41. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरो बहिःसीमां प्रक्रामति प्रत्येष्यामि चीवरं करिष्यामि । तस्य तत्र गतस्यैवं भवति ( 279र्1 = ग्ब्म् 6.870 ) न हैव प्रत्येष्यामि नापि चीवरं करिष्यामीति तस्य स न् निष्ठापनान्तिकः कठिनोद्धारः

कठिन-व् 42. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरो बहिःसीमां प्रक्रामति प्रत्येष्यामि चीवरं करिष्यामीति स तत्र गत आरभते आरब्धं चास्य नश्यति तस्य नाशनान्ति कः कठिनोद्धारः
कठिन-व् 43. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितची व रः बहिःसीमां प्रक्रामति प्रत्येष्यामि चीवरं करिष्यामीति समग्रेण च संघेन कठिनम् उद्धृतं स शृणोति समग्रेण संघेन कठिनम् उद्धृतम् इति । स श्रुत्वा चा भ्य नुमोदते साधूद्धृतं सुष्ठूद्धृतम् इति तस्य श्रावणान्तिकः कठिनोद्धारः ॥
कठिन-व् 44. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरः पलिगोधसन्तति बहिःसीमां प्रक्रामति प्रत्येष्यामि चीवरं करिष्यामीति तस्यैवं भवति न हैव प्रत्येष्याम्य् अपि तु चीवरं करिष्यामीति । तस्य निष्ठापनान्तिकः कठिनोद्धारः ॥
कठिन-व् 45. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरः पलिगोधसन्ततिः बहिःसीमां प्रक्रामति प्रत्येष्यामि चीवरं करिष्यामीति । तस्यैवं भवति न हैव प्रत्येष्यामि नापि चीवरं करिष्यामीति तस्य सन् निष्ठापनान्तिकः कठिनोद्धारः

1.6

कठिन-व् 46. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरः पलिगोधसन्तति बहिःसीमां प्रक्रामति प्रत्येष्यामि चीवरं करिष्यामीति । स तद् आरभते आरब्धं चास्य नश्यति तस्य नाशनान्तिकः कठिनोद्धारः ॥
कठिन-व् 47. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरः ( मत्सुमुर 225 ) पलिगोधसन्ततिर् बहिःसीमां प्रक्रामति प्रत्येष्यामि चीवरं करिष्यामीति । समग्रेण च संघेन कठिनम् उद्धृतम्* स शृणोति समग्रेण संघेन कठिनम् उद्धृतम् इति श्रुत्वा चाभ्यनुमोदते । साधूद्धृतं सुष्ठूद्धृतम् इति ॥ तस्य श्रावणान्तिकः कठिनोद्धारः ॥
कठिन-व् 48. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरः पलिगोधसंतति बहिःसीमां प्रक्रामति प्रत्येष्यामि चीवरं करिष्यामीति । तस्य तत्र गतस्यैवं भवति न हैव प्रत्येष्यामि अपि तु चीवरकं करिष्यामीति तस्य निष्ठापनान्तिकः कठिनोद्धारः ॥
कठिन-व् 49. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरः पलिगोधसन्ततिर् बहिःसीमां प्रक्रामति प्रत्येष्यामि चीवरं करिष्यामीति । तस्य गतस्यैवं भवति न हैव प्रत्येष्यामि नापि चीवरं करिष्यामीति । तस्य सन् निष्ठापनान्तिकः कठिनोद्धारः ॥
कठिन-व् 50. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरः पलिगोधसंततिः बहिःसीमां प्रक्रामति प्रत्येष्यामि चीवरं करिष्यामीति । स तत्र गता आरभते आरब्धं चास्य नश्यति । तस्य नाशनान्तिकः कठिनोद्धारः ॥
कठिन-व् 51. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरः पलिगोधसन्ततिर् बहिःसीमां प्रक्रामति ( 279व्1 = ग्ब्म् 6.871 ) प्रत्येष्यामि चीवरं करिष्यामीति । समग्रेण संघेन कठिनम् उद्धृतम्* स शृणोति समग्रेण संघेन कठिनम् उद्धृतम् इति श्रुत्वा चाभ्यनुमोदते । साधूद्धृतं सुष्ठूद्धृतम् इति ॥ तस्य श्रावणान्तिकः कठिनोद्धारः ॥
कठिन-व् 52. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ( मत्सुमुर 226 ) ऽनिष्ठितचीवरः विचिकित्सासन्ततिर् बहिःसीमां प्रक्रामति किन् नु प्रत्येष्यामि आहोस्वि न् न प्रत्येष्यामीति तस्यैवं भवति न हैव प्रत्येष्याम्य् अपि तु चीवरं करिष्यामीति तस्य निष्ठापनान्तिकः कठिनोद्धारः ॥
कठिन-व् 53. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरः विचिकित्सासन्ततिर् बहिःसीमां प्रक्रामति किन् नु प्रत्येष्यामि आहोस्विन् न प्रत्येष्यामीति तस्यैवं भवति न हैव प्रत्येष्याम्य् नापि चीवरं करिष्यामीति तस्य सन् निष्ठापनान्तिकः कठिनोद्धारः ॥
कठिन-व् 54. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरः विचिकित्सासन्ततिर् बहिःसीमां प्रक्रामति । किन् नु प्रत्येष्याम्य् आ हो स्विन् न प्रत्येष्यामीति स तद् आरभते आरब्धं चास्य नश्यति तस्य नाशनान्तिकः कठिनोद्धारः ॥
कठिन-व् 55. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरः विचिकित्सासन्ततिर् बहिःसीमां प्रक्रामति । किन् नु ( मत्सुमुर 227 ) प्रत्येष्यामि आहोस्विन् न प्रत्येष्यामीति समग्रेण संघेन कठिनम् उद्धृतम्* स शृणोति समग्रेण संघेन कठिनम् उद्धृतम् इति श्रुत्वा चाभ्यनुमोदते साधूद्धृतं सुष्ठूद्धृतम् इति तस्य श्रावणान्तिकः कठिनोद्धारः ॥
कठिन-व् 56. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरः बहिःसीमां प्रक्रामति । प्रत्येष्यामि चीवरं करिष्यामीति तस्यैवं भवति न हैव प्रत्येष्याम्य् अपि तु चीवरं करिष्यामीति तस्य निष्ठापनान्तिकः कठिनोद्धारः
पूर्वस्यां वि ं शिकायां अकृतचीवरो ऽनिष्ठितचीवर इत्य् अत्रानिष्ठितचीवर इत्य् अपनीय विप्रकृतचीवर इति दत्वा नानाकारेणापरा विंशति कर्या । ॥ ॥
कठिन-व् 57. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरो बहिःसीमां प्रक्रामत्य् आशया प्रत्येष्याम् इ चीवरं करिष्याम् ईति तस्यैवं भवति । न हैव प्रत्येष्याम्य् अपि तु चीवरं करिष्यामीति तस्य निष्ठापनान्तिकः कठिनोद्धारः
आशयेत्य् अनेन विशेषेण पूर्ववद् अपरा विंशिका कार्या ॥
कठिन-व् 58. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरः बहिःसीमां प्रक्रामत्य् अनाशया प्रत्येष्यामि चीवरं करिष्यामीति । तस्यैवं भवति न हैव प्रत्येष्याम्य् अपि तु चीवरं करिष्यामीति । तस्य निष्ठापनान्तिकः कठिनोद्धारः
अनाशयेत्य् अनेन विशेषेणापरा विंशिका कार्या ॥ ॥
उद्दानम्* ॥
करणीयेन द्वादशिका पर्येषणतया तथा
देशेन पंचिकां कृत्वा आवासेन च पंचिका ॥ ॥
कठिन-व् 59. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरो बहिःसीमां प्रक्रामति करणीयेन प्रत्येष्यामि चीवरं करिष्यामीति । तस्यैवं भवति न हैव प्रत्येष्याम्य् अपि तु चीवरं ( 280र्1 = ग्ब्म् 6.872 ) करिष्यामीति तस्य निष्ठापनान्तिकः कठिनोद्धारः
कठिन-व् 60. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरः बहिःसीमां प्रक्रामति करणीयेन प्रत्येष्यामि चीवरं करिष्यामीति तस्यैवं भवति न हैव प्रत्येष्याम्य् नापि चीवरकं करिष्यामीति । तस्य सन्निष्ठापनान्तिकः कठिनोद्धारः ॥
कठिन-व् 61. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवर ः बहिःसीमां प्रक्रा मति करणीयेन प्रत्येष्यामि चीवरं करिष्यामीति ( मत्सुमुर 229 ) स तद् आरभते आरब्धं चास्य नश्यति तस्य नाशनान्तिकः कठिनोद्धारः ॥
कठिन-व् 62. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरः बहिःसीमां प्रक्रामति करणीयेन प्रत्येष्यामि चीवरं करिष्यामीति । समग्रेण च संघेन कठिनम् उद्धृतं स शृणोति समग्रेण संघेन कठिनम् उद्धृतम् इति श्रुत्वा चाभ्यनुमोदते साधूद्धृतं सुष्ठूद्धृतम् इति । तस्य श्रावणान्तिकः कठिनोद्धारः ॥
कठिन-व् 63. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरः बहिःसीमां प्रक्रामति करणीयेन प्रत्येष्यामि चीवरं करिष्यामीति । तस्य तत्र गतस्यैवं भवति न हैव प्रत्येष्याम्य् अपि तु चीवरं करिष्यामीति तस्य निष्ठापनान्तिकः कठिनोद्धारः ॥
यथापि तत्र गतस्येत्य् अनेन विशेषेण निष्ठापनान्तिक उक्तः एवं सन् निष्ठापनान्तिकः

1.7

नाशनान्तिकः

1.8

श्रावणान्तिक ः

1.9

कठिन-व् 64. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरः विचिकित्सासंततिर् बहिःसीमां प्रक्रामति करणीयेन किं नु प्रत्येष्यामि आहोस्विन् न प्रत्येष्यामीति तस्यैवं भवति न हैव प्रत्येष्याम्य् अपि तु चीवरं करिष्यामीति तस्य निष्ठापनान्तिकः कठिनोद्धारः

1.10

यथा विचिकित्सासन् ततिर् इत्य् अनेन विशेषेण निष्ठापनान्तिक उक्तः ॥ एवं सन्निष्ठापनान्तिकः

1.11

नाशनान्तिकः

1.12

श्रवणान्तिकः

मूल पाठ: Kaṭhinavastu · Edition: H. Matsumura: The Kaṭhinavastu from the Vinayavastu of the Mūlasarvāstivādins, Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen III, Göttingen 1996 (Sanskrit-Wörterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 6), pp. 145-239. = Kaṭhina-v · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc