कठिनवस्तु · अध्याय 2
कठिन-व् 65. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृत चीवरो ऽनिष्ठित चीवरः बहिःसीमां प्रक्रामति पर्येषणाय प्रत्येष्यामि चीवरं करिष्यामीति । तस्यैवं भवति न हैव प्रत्येष्याम्य् अपि तु चीवरं करिष्यामीति तस्य निष्ठा पना न्तिकः कठिनोद्धारः
पर्येषन् आय् एत्य् अनेन विशेषेण पूर्ववद् अपरा द्वादशिका : ॥ ॥
कठिन-व् 66. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरः बहिःसीमां प्रक्रामति देशानुप्रेक्षी अपुनरागमनाय तस्य प्रक्रमणान्तिकः कठिनोद्धारः ॥
कठिन-व् 67.इ. यथापि तद् भिक्षुर् आस्तीर्णकठिनाद् आवासाद् अकृतचीवरो ऽनिष्ठितचीवरः विचिकित्सासन्तति देशानुप्रेक्षी बहिःसीमां प्रक्रामति किन् नु प्र् अत्य् एष्यामि आहोस्वि न् न प्र् अत्य् एष्यामीति तस्यैवं भवति न हैव प्रत्येष्याम्य् अपि तु चीवरं करिष्यामीति तस्यैव निष्ठापनान्तिकः कठिनोद्धारः
एवं सन्निष्ठापनान्तिकः
नाशनान्तिकः
श्रावणान्तिकः
मूल पाठ: Kaṭhinavastu · Edition: H. Matsumura: The Kaṭhinavastu from the Vinayavastu of the Mūlasarvāstivādins, Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen III, Göttingen 1996 (Sanskrit-Wörterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 6), pp. 145-239. = Kaṭhina-v · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0