कठिनावदान · अध्याय 30.24
यः संघे प्रददाति भैषजविधींस् तांस् तान् प्रसन्नाशयः
स व्याध्यन्तरकल्पसंभवकृतैर् दुःखैर् न संस्पृशयते ।
मुक्तो व्याधिजरादिभिश् च सुखितो जीवत्य् अभिन्नाशयः
क्लेशव्याधिविवर्जितो हि लभते चारोग्यम् आत्यन्तिकम् ॥
भैषज्येन गतः पूर्वे वल्कलेन प्रवारितः ।
तत्र संघे निराबाधे च भैषज्यम् अयाचत ॥
एकेन वीतरागेण तस्यानुग्रहकम्पया ।
एकां हरीतकीं भुक्त्वा तत् कर्म समुदागमत् ॥ 2
पञ्च जन्मशतान्य् अस्य न रोगः स्वल्पको ऽप्य् अभूत् ।
क्लेशव्याधिं विवर्जित्य निर्वृत्तिश् चरमे भवे ॥ 3 ॥ भैषज्य
मूल पाठ: Kaṭhināvadāna · Edition: Almuth Degener. Das Kaṭhināvadāna. Bonn 1990 (Indica et Tibetica, 16). · Data entry Lennart Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0