भाषा

ENहिગુ
ग्रंथ पाठ

कठिनावदान · अध्याय 30.11

30.11.1

ग्रीवाशिरश्चरणबाहुसमाश्रितस्य
वैडूर्यहाटकमयस्य समौक्तिकस्य ।
गात्रस्य भूषणविधेर् दिवि वा क्षितौ वा
श्रेष्ठं विभूषणम् अतः प्रवदन्ति वस्त्रम् ॥ 1
रूपान्वितो ऽपि कुलजो ऽपि विचक्षणो ऽपि
नैकेषु शास्त्रसमयेषु कृतश्रमो ऽपि ।
शीलादिभिर् गुणगणैः समालंकृतो ऽपि
न भ्राजते हि भुवि वस्त्रम् ऋते मनुष्यः ॥ 2
तस्माद् विभूषणम् अतुल्यम् अवेक्ष्यवस्त्रं शीतोष्णदंशमशकप्रतिवारणं च ।
ह्रीवस्त्रम् अप्रतिसमं समवाप्तकामैर्
वस्त्रप्रदानम् असकृन् मनुजैः प्रदेयम् ॥ 3
चन्द्रांशुवत्स्फुरितचामरहेमदण्डैः
सिंहासनोपरि निषद्य सितातपत्रैः ।
सौवर्णरत्नमुकुटैह् शिरभूषितो ऽपि
श्रीचक्रवर्तिर् अपि वस्त्रम् ऋते न भाति ॥ 4
श्रीमद्धनेन्द्रनिवसत्य् अलकापुरेषु जिह्वासहस्रमणिभूषितभोगवत्याम् ।
कैलासमेरुशिखरे सुरसंघमध्ये
ब्रह्मेन्द्ररुद्र अपि वस्त्रविना न भाति ॥ 5

30.11.2

दत्त्वा सत्पिङ्गचित्रां स्तबकविरचितां नीलपीतावदातै
रक्तैश् चान्यैश् च रम्यैः सुरुचिरवसनैश् चीवरैश् चारुमालाम् ।
दिव्यं वामुक्तवस्त्रं सुगतसुतगणायाभिरूपो मनोज्ञो
ह्रीवस्त्रालङ्कृतात्मा भवति पटुमतिः सर्वधर्मेश्वरः सः ॥ वस्त्र

मूल पाठ: Kaṭhināvadāna · Edition: Almuth Degener. Das Kaṭhināvadāna. Bonn 1990 (Indica et Tibetica, 16). · Data entry Lennart Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc