कथासरित्सागर · अध्याय 1.5
% व् व्। - व्। व् -। व् -। व् - - %
% व् व् -। - व् व् - व् -। व् - - % अर्धसम: मालभारिणी (11, 12)
% व् व् -। व्। व् - व् -। व्। - - %
% व् व्। - - व्। व् - व् -। व् - - % अर्धसम: मालभारिणी (11, 12)
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके चतुर्थस् तरङ्गः ।
पञ्चमस् तरङ्गः ।
एवमुक्त्वा वररुचिः पुनरेतदवर्णयत् ।
कालेन योगनन्दो ऽथ कामादिवशमाययौ
% - व् - -। व् व् व् -। % अ न-विपुला
% व् व् - व् व् - व् - % ब् चोर्रेच्त्
% - - व्। - व् - -। व्। % च् पथ्या
% - - व् व् व् - व् - % द् चोर्रेच्त्
गजेन्द्र इव मत्तश्च नापैक्षत स किंचन ।
अकाण्डपातोपनता कं न लक्ष्मीर् विमोहयेत्
% व् - व्। व् व्। - - व्। % अ पथ्या
% - - व् व्। व्। - व् - % ब् चोर्रेच्त्
% व् - व् - - व् व् -। % च् भ-विपुला
% -। व्। - -। व् - व् - % द् चोर्रेच्त्
अचिन्तयं ततश्चाहं राजा तावद्विशृङ्खलः ।
तत्कार्यचिन्तयाक्रान्तः स्वधर्मो मे ऽवसीदति
% व् - व् -। व् - - -। % अ पथ्या
% - -। - - व् - व् - % ब् चोर्रेच्त्
% - - व् - व् - - -। % च् पथ्या
% व् - -। -। व् - व् - % द् चोर्रेच्त्
तस्माद्वरं सहायं तं शकटालं समुद्धरे ।
क्रियेता चेद्विरुद्धं च किं द कुर्यान्मयि स्थिते
% - - व् -। व् - -। -। % अ पथ्या
% व् व् - -। व् - व् - % ब् चोर्रेच्त्
% व् - -। - व् - -। व्। % च् पथ्या
% -। व्। - - व् -। व् - % द् चोर्रेच्त्
निश्चित्यैतन्मयाभ्यर्थ्य राजानं सो ऽन्धकूपतः ।
उद्धृतः शकटालो ऽथ मृदवो हि द्विजातयः
% - - - - व् - - व्। % अ पथ्या
% - - -। -। व् - व् - % ब् चोर्रेच्त्
% - व् -। व् व् - -। व्। % च् पथ्या
% व् व् -। -। व् - व् - % द् चोर्रेच्त्
दुर्जयो योगनन्दो ऽयं स्थिते वररुचावतः ।
आश्रये वैतसीं वृत्तिं कालं तावत्प्रतीक्षितुम्
% - व् -। - व् - -। -। % अ पथ्या
% व् -। व् व् व् - व् - % ब् चोर्रेच्त्
% - व् -। - व् -। - -। % च् पथ्या
% - -। - - व् - व् - % द् चोर्रेच्त्
इति संचिन्त्य स प्राज्ञः शकटालो मदिच्छया ।
अकरोद्राजकार्याणि पुनः संप्राप्य मन्त्रिताम्
% व् व्। - - व्। -। - -। % अ पथ्या
% व् व् - -। व् - व् - % ब् चोर्रेच्त्
% व् व् - - व् - - व्। % च् पथ्या
% व् -। - - व्। - व् - % द् चोर्रेच्त्
कदाचिद्योगनन्दो ऽथ निर्गतो नगराद्वहिः ।
श्लिष्यत्पञ्चाङ्गुलिं हस्तं गङ्गामध्ये व्यलोकयत्
% व् - - - व् - -। व्। % अ पथ्या
% - व् -। व् व् - व् - % ब् चोर्रेच्त्
% - - - - व् -। - -। % च् पथ्या
% - - - -। व् - व् - % द् चोर्रेच्त्
किमेतदिति पप्रच्छ मामाहूय स तत्क्षणम् ।
अहं च द्वे निजाङ्गुल्यौ दिशि तस्यामदर्शयम्
% व् - व् व् व्। - - व्। % अ पथ्या
% - - - व्। व्। - व् - % ब् चोर्रेच्त्
% व् -। -। -। व् - - -। % च् पथ्या
% व् व्। - - व् - व् - % द् चोर्रेच्त्
तेन तस्मिंस्तिरोभूते हस्ते राजातिविस्मयात् ।
भूयो ऽपि तदपृच्छन्मां ततश्चाहं तमब्रवम्
% - व्। - - व् - - -। % अ पथ्या
% - -। - - व् - व् - % ब् चोर्रेच्त्
% - -। व्। व् व् - - -। % च् पथ्या
% व् - - -। व् - व् - % द् चोर्रेच्त्
पञ्चभिर्मिलितैः किं यज्जगतीह न साध्यते ।
इत्युक्तवानसौ हस्तः श्वाङ्गुलीः पञ्च दर्शयन्
% - व् - व् व् -। -। - % अ पथ्या, पादस् चोम्पोउन्देद्?
% व् व् - व्। व्। - व् - % ब् चोर्रेच्त्
% - - व् - व् -। - -। % च् पथ्या
% - व् -। - व्। - व् - % द् चोर्रेच्त्
ततो ऽस्य राजन् नङ्गुल्याव् एते द्वे दर्शिते मया ।
ऐकचित्ये द्वयोरेव किमसाध्यं भवेदिति
% व् -। व्। - -। - - -। % अ म-विपुला
% - -। -। - व् -। व् - % ब् चोर्रेच्त्
% - व् - -। व् - - व्। % च् पथ्या
% व् व् - -। व् - व् - % द् चोर्रेच्त्
इत्युक्ते गूढविज्ञाने समतुष्यत्ततो नृपः ।
शकटालो व्यषीदच्च मद्बुद्धिं वीक्ष्य दुर्जयाम्
% - - -। - व् - - -। % अ पथ्या
% व् व् - - व् -। व् - % ब् चोर्रेच्त्
% व् व् - -। व् - - व्। % च् पथ्या
% - - -। - व्। - व् - % द् चोर्रेच्त्
एकदा योगनन्दश्च दृष्टवान्महिषीं निजाम् ।
वातायनाग्रात् पश्यन्तीं ब्राह्मणातिथिमुन्मुखम्
% - व् -। - व् - - व्। % अ पथ्या
% - व् - व् व् -। व् - % ब् चोर्रेच्त्
% - - व् - -। - - -। % च् म-विपुला
% - व् - व् व् - व् - % द् चोर्रेच्त्
तन्मात्रादेव कुपितो राजा विप्रस तस्य सः ।
आदिशद्बधमीर्ष्या हि विवेकपरिपन्थिनी
% - - - - व्। व् व् -। % अ न-विपुला
% - -। - व् व्। - व्। - % ब् चोर्रेच्त्
% - व् - व् व् - -। व्। % च् पथ्या
% व् - व् व् व् - व् - % द् चोर्रेच्त्
हन्तुं वध्यभुवं तस्मिन् नीयमाने द्विजे तदा ।
अहसद्गतजीवो ऽपि मत्स्यो विपणिमध्यगः
% - -। - व् व् -। - -। % अ पथ्या
% - व् - -। व् -। व् - % ब् चोर्रेच्त्
% व् व् - व् व् - -। व्। % च् पथ्या
% - -। व् व् व् - व् - % द् चोर्रेच्त्
तदैव राजा तद्बुद्ध्वा वधं तस्य न्यवारयत् ।
विप्रस्य मामपृच्छच्च मत्स्यहासस्य कारणम्
% व् - व्। - -। - - -। % अ म-विपुला
% व् -। - -। व् - व् - % ब् चोर्रेच्त्
% - - व्। - व् - - व्। % च् पथ्या
% - व् - - व्। - व् - % द् चोर्रेच्त्
निरूप्य कथयाम्येतदित्युक्त्वा निर्गतं च माम् ।
चिन्तितोपस्थितैकान्ते सरस्वत्येवमब्रवीत्
% व् - व्। व् व् - - व् % अ पथ्या, पादस् चोम्पोउन्देद्?
% - - -। - व् -। व्। - % ब् चोर्रेच्त्
% - व् - - व् - - -। % च् पथ्या
% व् - - - व् - व् - % द् चोर्रेच्त्
अस्य तालतरोः पृष्ठे तिष्ठ रात्राबलक्षितः ।
अत्र श्रोष्यसि मत्स्यस्य हासहेतुम् असंशयम्
% - व्। - व् व् -। - -। % अ पथ्या
% - व्। - - व् - व् - % ब् चोर्रेच्त्
% - -। - व् व्। - - व्। % च् पथ्या
% - व् - व्। व् - व् - % द् चोर्रेच्त्
तच्छ्रुत्वा निशि तत्राहं गत्वा तालोपरि स्थितः ।
अपश्यं राक्षसीं घोरां बालैः पुत्रैः सहागतम्
% - - -। व् व्। - - -। % अ पथ्या
% - -। - - व् -। व् - % ब् चोर्रेच्त्
% व् - -। - व् -। - -। % च् पथ्या
% - -। - -। व् - व् - % द् चोर्रेच्त्
सा भक्ष्यं याचमानांस्तानवादीत्प्रतिपाल्यताम् ।
प्रातर्वो विप्रमांसानि दास्याम्यद्य हतो न सः
% -। - -। - व् - - - % अ पथ्या, पादस् चोम्पोउन्देद्?
% व् - - व् व् - व् - % ब् चोर्रेच्त्
% - - -। - व् - - व्। % च् पथ्या
% - - - व्। व् -। व्। - % द् चोर्रेच्त्
कस्मात्स न हतो ऽद्येति पृष्टा तैरब्रवीत्पुनः ।
तं हि दृष्ट्व मृतो ऽपीह मत्स्यो हसितवानिति
% - - व्। व्। व् -। - व्। % अ पथ्या
% - -। - - व् - व् - % ब् चोर्रेच्त्
% -। व्। - व्। व् -। - व्। % च् पथ्या
% - -। व् व् व् - व् - % द् चोर्रेच्त्
हसितं किमु तेनेति पृष्टा भूयः सुतैश्च सा ।
अवोचद्राक्षसी राज्ञः सर्वा राज्ञो ऽपि विप्लुताः
% व् व् -। व् व्। - - व्। % अ पथ्या
% - -। - -। व् - व्। - % ब् चोर्रेच्त्
% व् - - - व् -। - -। % च् पथ्या
% - -। - -। व्। - व् - % द् चोर्रेच्त्
सर्वत्रान्तःपुरे ह्यत्र स्त्रीरूपाः पुरुषाः स्थिताः ।
हन्यते ऽनपराधस् तु विप्र इत्य् अहसत् तिमिः
% - - - - व् -। - -। % अ पथ्या
% - - -। व् व् -। व् - % ब् चोर्रेच्त्
% - व् -। व् व् - -। व्। % च् पथ्या
% - व्। -। व् व् -। व् - % द् चोर्रेच्त्
भूतानां पार्थिवात्यर्थनिर्विवेकत्वहासिनाम् ।
सर्वान्तश्चारिणां ह्येता भवन्त्येव च विक्रियाः
% - - -। - व् - - व् % अ पथ्या, पादस् चोम्पोउन्देद्?
% - व् - - व् - व् - % ब् चोर्रेच्त्
% - - - - व् -। - -। % च् पथ्या
% व् - - व्। व्। - व् - % द् चोर्रेच्त्
एतत्तस्या वचः श्रुत्वा ततो ऽपक्रान्तवाहनम् ।
प्राप्तश्च मत्स्यहासस्य हेतुं राज्ञे न्यवेदयम्
% - - - -। व् -। - -। % अ पथ्या
% व् -। - - व् - व् - % ब् चोर्रेच्त्
% - - व्। - व् - - व्। % च् पथ्या
% - -। - -। व् - व् - % द् चोर्रेच्त्
प्राप्य चान्तःपुरेभ्यस् तान् स्त्रीरूपान् पुरुषांस् ततः ।
बह्व् अमन्यत मां राजा वधाद्विप्रं च मुक्तवान्
% - व्। - - व् - -। -। % अ पथ्या
% - - -। व् व् -। व् - % ब् चोर्रेच्त्
% -। व् - व् व्। -। - -। % च् पथ्या
% व् - - -। व्। - व् - % द् चोर्रेच्त्
इत्यादि चेष्टितं दृष्ट्वा तस्य राज्ञो विशृङ्खलम् ।
खिन्ने मयि कदाचिच्च तत्रागाच्चित्रकृन्नवः
% - - व्। - व् -। - -। % अ पथ्या
% - व्। - -। व् - व् - % ब् चोर्रेच्त्
% - -। व् व्। व् - - व्। % च् पथ्या
% - - - - व् - व् - % द् चोर्रेच्त्
अलिखत् स महादेवीं योगनन्दं च तं पटे ।
सजीवम् इव तच्चित्रं वाक्चेष्टारहितं त्व् अभूत्
% व् व् -। व्। व् - - -। % अ पथ्या
% - व् - -। व्। -। व् - % ब् चोर्रेच्त्
% व् - व्। व् व्। - - -। % च् पथ्या
% - - - व् व् -॥व् - % द् चोर्रेच्त्
तं च चित्रकरं राजा तुष्टो वित्तैरपूरयत् ।
तं च वासगृहे चित्रपटं भित्तावकारयत्
% -। व्। - व् व् -। - -। % अ पथ्या
% - -। - - व् - व् - % ब् चोर्रेच्त्
% -। व्। - व् व् -। - व् % च् पथ्या, पादस् चोम्पोउन्देद्?
% व् -। - - व् - व् - % द् चोर्रेच्त्
एकदा च प्रविष्टस्य वासके तत्र सा मम ।
संपूर्णलक्षणा देवी प्रतिभाति स्म चित्रगा
% - व् -। -। व् - - व्। % अ पथ्या
% - व् -। - व्। -। व् - % ब् चोर्रेच्त्
% - - व् - व् -। - -। % च् पथ्या
% व् व् - -। व्। - व् - % द् चोर्रेच्त्
लक्षणान्तरसंबन्धादभ्यूह्य प्रतिभावशात् ।
अथाकार्षमहं तस्यास्तिलकं मेखलापदे
% - व् - व् व् - - - % अ पथ्या, पादस् चोम्पोउन्देद्?
% - - -। व् व् - व् - % ब् चोर्रेच्त्
% व् - - व् व् -। - - % च् पथ्या, पादस् चोम्पोउन्देद्?
% व् व् -। - व् - व् - % द् चोर्रेच्त्
संपूर्णलक्षणां तेन कृत्वैनां गतवानहम् ।
प्रविष्टो योगनन्दो ऽथ तिलकं तं व्यलोकयत्
% - - व् - व् -। - व्। % अ पथ्या
% - - -। व् व् - व् - % ब् चोर्रेच्त्
% व् - -। - व् - -। व्। % च् पथ्या
% व् व् -। -। व् - व् - % द् चोर्रेच्त्
केनायं रचितो ऽत्रेति सो ऽपृच्छच्च महत्तरान् ।
ते च न्यवेदयंस्तस्मै कर्तारं तिलकस्य माम्
% - - -। व् व् -। - व्। % अ पथ्या
% -। - - व्। व् - व् - % ब् चोर्रेच्त्
% -। -। व् - व् - - -। % च् पथ्या
% - - -। व् व् - व्। - % द् चोर्रेच्त्
देव्या गुप्तप्रदेशस्थमिमं नान्यो मया विना ।
वेत्ति तज्ज्ञातवानेवमसौ वररुचिः कथम्
% - -। - - व् - - व् % अ पथ्या, पादस् चोम्पोउन्देद्?
% व् -। - -। व् -। व् - % ब् चोर्रेच्त्
% - व्। - - व् - - व् % च् पथ्या, पादस् चोम्पोउन्देद्?
% व् -। व् व् व् -। व् - % द् चोर्रेच्त्
छन्नः कृतो ऽमुना नूनं ममान्तःपुरविप्लवः ।
दृष्टवानत एवायं स्त्रीरूपांस्तत्र तान्नरान्
% - -। व् -। व् -। - -। % अ पथ्या
% व् - - व् व् - व् - % ब् चोर्रेच्त्
% - व् - व् व्। - - -। % च् पथ्या
% - - - - व्। - व् - % द् चोर्रेच्त्
इति संचिन्तयामास योगनन्दः क्रुधा ज्वलन् ।
जायन्ते बत मूढानां संवाद अपि तादृशाः
% व् व्। - - व् - - व्। % अ पथ्या
% - व् - -। व् -। व् - % ब् चोर्रेच्त्
% - - -। व् व्। - - -। % च् पथ्या
% - - व्। व् व्। - व् - % द् चोर्रेच्त्
ततः स्वैरं समाहूय शकटालं समादिशत् ।
त्वया वररुचिर्वध्यो देवीविध्वंसनादिति
% व् -। - -। व् - - व्। % अ पथ्या
% व् व् - -। व् - व् - % ब् चोर्रेच्त्
% व् -। व् व् व् - - -। % च् पथ्या
% - - - - व् - व् - % द् चोर्रेच्त्
यथा ज्ञापयसीत्युक्त्वा शकटालो ऽगमद्बहिः ।
अचिन्तयच्च शक्तिः स्याद्धन्तुं वररुचिं न मे
% व् -। - व् व् - - -। % अ पथ्या
% व् व् - -। व् - व् - % ब् चोर्रेच्त्
% व् - व् - व्। - -। - % च् पथ्या, पादस् चोम्पोउन्देद्?
% - -। व् व् व् -। व्। - % द् चोर्रेच्त्
दिव्यबुद्धिप्रभावो ऽसाबुद्धर्ता च ममापदः ।
विप्रस्य तद्वरं गुप्तं संप्रति स्वीकरोमि तम्
% - व् - - व् - -। - % अ पथ्या, पादस् चोम्पोउन्देद्?
% - - -। व्। व् - व् - % ब् चोर्रेच्त्
% - - व्। - व् -। - -। % च् पथ्या
% - व् -। - व् - व्। - % द् चोर्रेच्त्
इति निश्चित्य सो ऽभ्येत्य राज्ञः कोपमकारणम् ।
वधान्तं कथयित्वा मे शकटालो ऽब्रवीत्ततः
% व् व्। - - व्। -। - व्। % अ पथ्या
% - -। - व् व् - व् - % ब् चोर्रेच्त्
% व् - -। व् व् - -। -। % च् पथ्या
% व् व् - -। व् - व् - % द् चोर्रेच्त्
अन्यं कंचित्प्रवादाय हन्म्यहं त्वं च मद्गृहे ।
प्रच्छन्नस् तिष्ठ माम् अस्माद् रक्षितुं कोपनान् नृपात्
% - -। - - व् - - व्। % अ पथ्या
% - व् -। -। व्। - व् - % ब् चोर्रेच्त्
% - - -। - व्। -। - -। % च् पथ्या
% - व् -। - व् -। व् - % द् चोर्रेच्त्
इति तद्वचनाच् छन्नस् तद्गृहे ऽवस्थितो ऽभवम् ।
स चान्यं हतवान् कंचिन् मद्वधाख्यातये निशि
% व् व्। - व् व् -। - -। % अ पथ्या
% - व् -। - व् -। व् - % ब् चोर्रेच्त्
% व्। - -। व् व् -। - -। % च् पथ्या
% - व् - - व् -। व् - % द् चोर्रेच्त्
एवं प्रयुक्तनीतिं तं प्रीत्यावोचमहं तदा ।
एको मन्त्री भवान्येन हन्तुं मां न कृता मतिः
% - -। व् - व् - -। -। % अ पथ्या
% - - - व् व् -। व् - % ब् चोर्रेच्त्
% - -। - -। व् - - व्। % च् पथ्या
% - -। -। व्। व् -। व् - % द् चोर्रेच्त्
नहि हन्तुमहं शक्यो राक्षसो मित्त्रमस्ति मे ।
ध्यातमात्रागतो विश्वं ग्रसते स मदिच्छया
% व् व्। - व् व् -। - -। % अ पथ्या
% - व् -। - व् - व्। - % ब् चोर्रेच्त्
% - व् - - व् -। - -। % च् पथ्या
% व् व् -। व्। व् - व् - % द् चोर्रेच्त्
राजा त्विहेन्द्रदत्ताख्यः सखा वध्यो न मे द्विजः ।
तच्छ्रुत्वा सो ऽब्रवीन्मन्त्री रक्षो मे दर्श्यतामिति
% - -। व् - व् - - -। % अ पथ्या
% व् -। - -। व्। -। व् - % ब् चोर्रेच्त्
% - - -। -। व् - - -। % च् पथ्या
% - -। -। - व् - व् - % द् चोर्रेच्त्
ततो ध्यातागतं तस्मि तद्रक्षो ऽहमदर्शयम् ।
तद्दर्शनाच्च वित्रस्तो विस्मितश्च वभूव सः
% व् -। - - व् -। - व्। % अ पथ्या
% - - -। व् व् - व् - % ब् चोर्रेच्त्
% - - व् - व्। - - -। % च् पथ्या
% - व् - व्। व् - व्। - % द् चोर्रेच्त्
रक्षस्यन्तर्हिते तस्मिञ् शकटालः स मां पुनः ।
कथं ते राक्षसो मित्त्रं संजात इति पृष्टवान्
% - - - - व् -। - -। % अ पथ्या
% व् व् - -। व्। -। व् - % ब् चोर्रेच्त्
% व् -। -। - व् -। - -। % च् पथ्या
% - - व्। व् व्। - व् - % द् चोर्रेच्त्
ततो ऽहमवदं पूर्वं रक्षार्थं नगरे भ्रमन् ।
रात्रौ रात्रौ क्षयं प्रापदेकैको नगराधिपः
% व् -। व् व् व् -। - -। % अ पथ्या
% - - -। व् व् -। व् - % ब् चोर्रेच्त्
% - -। - -। व् -। - व् % च् पथ्या, पादस् चोम्पोउन्देद्?
% - - -। व् व् - व् - % द् चोर्रेच्त्
तच्छ्रुत्वा योगनन्दो मामकरोन्नगराधिपम् ।
भ्रमंश्चापश्यमत्राहं भ्रमन्तं राक्षसं निशि
% - - -। - व् - -। - % अ पथ्या, पादस् चोम्पोउन्देद्?
% व् व् - व् व् - व् - % ब् चोर्रेच्त्
% व् - - - व् - - -। % च् पथ्या
% व् - -। - व् -। व् - % द् चोर्रेच्त्
स च मामवदद्ब्रूहि विद्यते नगरे ऽत्र का ।
सुरूपा स्त्रीति तच्छ्रुत्वा विहस्याहं तमब्रवम्
% व्। व्। - व् व् - - व्। % अ पथ्या
% - व् -। व् व् -। व्। - % ब् चोर्रेच्त्
% व् - -। - व्। - - -। % च् पथ्या
% व् - - -। व् - व् - % द् चोर्रेच्त्
या यस्याभिमता मूर्ख सुरूपा तस्य सा भवेत् ।
तच्छ्रुत्वैव त्वयैकेन जितो ऽस्मीत्यवदत्स माम्
% -। - - व् व् -। - व्। % अ पथ्या
% व् - -। - व्। -। व् - % ब् चोर्रेच्त्
% - - - -। व् - - व्। % च् पथ्या
% व् -। - व् व् - व्। - % द् चोर्रेच्त्
प्रश्नमोक्षाद्वधोत्तिर्णं मां पुनश्चाब्रवीदसौ ।
तुष्टो ऽस्मीति सुहृन्मे त्वं संनिधास्ये च ते स्मृतः
% - व् - - व् - - -। % अ पथ्या
% -। व् - - व् - व् - % ब् चोर्रेच्त्
% - -। - व्। व् - -। -। % च् पथ्या
% - व् - -। व्। -। व् - % द् चोर्रेच्त्
इत्युक्त्वान्तर्हिते तस्मिन्यथागतमगामहम् ।
एवम् आपत्सहायो मे राक्षसो मित्त्रतां गतः
% - - - - व् -। - - % अ पथ्या, पादस् चोम्पोउन्देद्?
% व् - व् व् व् - व् - % ब् चोर्रेच्त्
% - व्। - - व् - -। -। % च् पथ्या
% - व् -। - व् -। व् - % द् चोर्रेच्त्
इत्युक्तवानहं भूयः शकटालेन चार्थितः ।
गङ्गामदर्शयं तस्मै मूर्तां ध्यानादुपस्थिताम्
% - - व् - व् -। - -। % अ पथ्या
% व् व् - - व्। - व् - % ब् चोर्रेच्त्
% - - व् - व् -। - -। % च् पथ्या
% - -। - - व् - व् - % द् चोर्रेच्त्
स्तुतिभिस्तोषिता सा च मया देवी तिरोदधे ।
बभूव शकटालश्च सहायः प्रणतो मयि
% व् व् - - व् -। -। व्। % अ पथ्या
% व् -। - -। व् - व् - % ब् चोर्रेच्त्
% व् - व्। व् व् - - व्। % च् पथ्या
% व् - -। व् व् -। व् - % द् चोर्रेच्त्
एकदा च स मन्त्री मां गुप्तस्थं खिन्नमब्रवीत् ।
सर्वज्ञेनापि खेदाय किमात्मा दीयते त्वया
% - व् -। व्। व्। - -। -। % अ पथ्या
% - - -। - व् - व् - % ब् चोर्रेच्त्
% - - - - व्। - - व्। % च् पथ्या
% व् - -। - व् -। व् - % द् चोर्रेच्त्
किं न जानासि यद्राज्ञामविचाररता धियः ।
अचिराच्च भवेच्छुद्धिस्तथा चात्र कथं शृणु
% -। व्। - - व्। - - - % अ पथ्या, पादस् चोम्पोउन्देद्?
% व् व् - व् व् -। व् - % ब् चोर्रेच्त्
% व् व् - व्। व् - - - % च् पथ्या, पादस् चोम्पोउन्देद्?
% व् -। - व्। व् -। व् - % द् चोर्रेच्त्
आदित्यवर्मनामात्र बभूव नृपतिः पुरा ।
शिववर्माभिधानो ऽस्य मन्त्री चाभून्महामतिः
% - - व् - व् - - व्। % अ पथ्या
% व् - व्। व् व् -। व् - % ब् चोर्रेच्त्
% व् व् - - व् - -। व्। % च् पथ्या
% - -। - - व् - व् - % द् चोर्रेच्त्
राज्ञस्तस्यैकदा चैका राज्ञी गर्भमधारयत् ।
तद्बुद्ध्वा स नृपो ऽपृच्छदित्यन्तः पुररक्षिणः
% - - - - व् -। - -। % अ पथ्या
% - -। - व् व् - व् - % ब् चोर्रेच्त्
% - - -। व्। व् -। - व् % च् पथ्या, पादस् चोम्पोउन्देद्?
% - - -। व् व् - व् - % द् चोर्रेच्त्
वर्षद्वयं प्रविष्टस्य वर्तते ऽन्तःपुरे ऽत्र मे ।
तदेषा गर्भसंभूतिः कुतः संप्रति कथ्यताम्
% - - व् -। व् - - व्। % अ पथ्या
% - व् -। - व् -। व्। - % ब् चोर्रेच्त्
% व् - -। - व् - - -। % च् पथ्या
% व् -। - व् व्। - व् - % द् चोर्रेच्त्
अथोचुस्ते प्रवेशो ऽत्र पुंसो ऽन्यस्यास्ति न प्रभो ।
शिववर्मा तु ते मन्त्री प्रविशत्यनिवारितः
% व् - - -। व् - -। व्। % अ पथ्या
% - -। - - व्। -। व् - % ब् चोर्रेच्त्
% व् व् - -। व्। -। - -। % च् पथ्या
% व् व् - व् व् - व् - % द् चोर्रेच्त्
तच्छ्रुत्वाचिन्तयद्राजा नूनं द्रोही स एव मे ।
प्रकाशं च हते तस्मिन्नपवादो भवेन्मम
% - - - - व् - - -। % अ पथ्या
% - -। - -। व्। - व्। - % ब् चोर्रेच्त्
% व् - -। व्। व् -। - - % च् पथ्या, पादस् चोम्पोउन्देद्?
% व् व् - -। व् - व् - % द् चोर्रेच्त्
इत्यालोच्य स तं युक्त्या शिववर्माणमीश्वरः ।
सामन्तस्यान्तिकं सख्युः प्राहिणोद्भोगवर्मणः
% - - - व्। व्। -। - -। % अ पथ्या
% व् व् - - व् - व् - % ब् चोर्रेच्त्
% - - - - व् -। - -। % च् पथ्या
% - व् - - व् - व् - % द् चोर्रेच्त्
तद्वधं तस्य लेखेन संदिश्य तदनन्तरम् ।
निगूढं स नृपस्तत्र लेखहारं व्यसर्जयत्
% - व् -। - व्। - - व्। % अ पथ्या
% - - व्। व् व् - व् - % ब् चोर्रेच्त्
% व् - -। व्। व् - - व्। % च् पथ्या
% - व् - -। व् - व् - % द् चोर्रेच्त्
याते मन्त्रिणि सप्ताहे गते भीत्या पलायिता ।
सा राज्ञी रक्षिभिर्लब्धा पुंसा स्त्रीरुपिणा सह
% - -। - व् व्। - - -। % अ पथ्या
% व् -। - -। व् - व् - % ब् चोर्रेच्त्
% -। - -। - व् - - -। % च् पथ्या
% - -। - व् व् -। व् - % द् चोर्रेच्त्
आदित्यवर्मा तद्बुद्ध्वा सानुतापो ऽभवत्तदा ।
किं मया तादृशो मन्त्री घातितो ऽकारणादिति
% - - व् - -। - - -। % अ म-विपुला
% - व् - -। व् - व् - % ब् चोर्रेच्त्
% -। व् -। - व् -। - -। % च् पथ्या
% - व् -। - व् - व् - % द् चोर्रेच्त्
अत्रान्तरे स च प्राप निकटं भोगवर्मणः ।
शिववर्मा स चोपागाल्लेखमादाय पूरुषः
% - - व् -। व्। -। - व्। % अ पथ्या
% व् व् -। - व् - व् - % ब् चोर्रेच्त्
% व् व् - -। व्। - - - % च् पथ्या, पादस् चोम्पोउन्देद्?
% - व् - - व्। - व् - % द् चोर्रेच्त्
वाचयित्वा च तं लेखमेकान्ते शिववर्मणे ।
शशंस वधनिर्देशं भोगवर्मा विधेर्वशात्
% - व् - -। व्। -। - व् % अ पथ्या, पादस् चोम्पोउन्देद्?
% - - -। व् व् - व् - % ब् चोर्रेच्त्
% व् - व्। व् व् - - -। % च् पथ्या
% - व् - -। व् - व् - % द् चोर्रेच्त्
शिववर्माप्य् अवोचत् तं सामन्तं मन्त्रिसत्तमः ।
त्वं व्यापादय मां नो चेन् निहन्म्यात्मानम् आत्मना
% व् व् - -। व् - -। -। % अ पथ्या
% - - -। - व् - व् - % ब् चोर्रेच्त्
% -। - - व् व्। -। -। -। % च् पथ्या
% व् - - - व्। - व् - % द् चोर्रेच्त्
तच्छ्रुत्वा विस्मयाविष्टो भोगवर्मा जगाद तम् ।
किमेतद्ब्रूहि मे विप्र शापितो ऽसि न वक्षि चेत्
% - - -। - व् - - -। % अ पथ्या
% - व् - -। व् - व्। - % ब् चोर्रेच्त्
% व् - - - व्। -। - व्। % च् पथ्या
% - व् -। व्। व्। - व्। - % द् चोर्रेच्त्
अथ वक्ति स्म तं मन्त्री हन्येयं यत्र भूपते ।
तत्र द्वादश वर्षाणि देशे देवो न वर्षति
% व् व्। - -। व्। -। - -। % अ पथ्या
% - - -। - व्। - व् - % ब् चोर्रेच्त्
% - -। - व् व्। - - व्। % च् पथ्या
% - -। - -। व्। - व् - % द् चोर्रेच्त्
तच्छ्रुत्वा मन्त्रिभिः सार्धं भोगवर्मा व्यचिन्तयत् ।
दुष्टः स राजा देशस्य नाशमस्माकमिच्छति
% - - -। - व् -। - -। % अ पथ्या
% - व् - -। व् - व् - % ब् चोर्रेच्त्
% - -। व्। - -। - - व्। % च् म-विपुला
% - व् - - व् - व् - % द् चोर्रेच्त्
किं हि तत्र न सन्त्येव वधका गुप्तगामिनः ।
तस्मान्मन्त्री न वध्यो ऽसौ रक्ष्यः स्वात्मवधादपि
% -। व्। - व्। व्। - - व्। % अ पथ्या
% व् व् -। - व् - व् - % ब् चोर्रेच्त्
% - - - -। व्। - -। -। % च् पथ्या
% - -। - व् व् - व् - % द् चोर्रेच्त्
इति संमन्त्र्य दत्त्वा च रक्षकान् भोगवर्मणा ।
शिववर्मा ततो देशात् प्रेषितो ऽभूत् ततः क्षणात्
% व् व्। - - व्। - -। व्। % अ पथ्या
% - व् -। - व् - व् - % ब् चोर्रेच्त्
% व् व् - -। व् -। - -। % च् पथ्या
% - व् -। -। व् -। व् - % द् चोर्रेच्त्
एवं प्रत्याययौ जीवन्स मन्त्री प्रज्ञया स्वया ।
शुद्धिश्चास्यान्यतो जाता नहि धर्मो ऽन्यथा भवेत्
% - -। - - व् -। - - % अ पथ्या, पादस् चोम्पोउन्देद्?
% व्। - -। - व् -। व् - % ब् चोर्रेच्त्
% - - - - व् -। - -। % च् पथ्या
% व् व्। - -। व् -। व् - % द् चोर्रेच्त्
इत्थं तवापि शुद्धिः स्यात्तिष्ठ तावद्गृहे मम ।
कात्यायन नृपो ऽप्येष सानुतापो भविष्यति
% - -। व् - व्। - -। - % अ पथ्या, पादस् चोम्पोउन्देद्?
% - व्। - - व् -। व् - % ब् चोर्रेच्त्
% - - व् व्। व् -। - व्। % च् पथ्या
% - व् - -। व् - व् - % द् चोर्रेच्त्
इत्युक्तः शकटालेन च्छन्नो ऽहं तस्य वेश्मनि ।
प्रतीक्षमाणो ऽवसरं तान्यहान्यत्यवाहयम्
% - - -। व् व् - - -। % अ पथ्या
% - -। -। - व्। - व् - % ब् चोर्रेच्त्
% व् - व् - -। व् व् -। % च् भ-विपुला
% - व् - - व् - व् - % द् चोर्रेच्त्
तस्याथ योगनन्दस्य काणभूतेः कदाचन ।
पुत्रो हिरण्यगुप्ताख्यो मृगयायै गतो ऽभवत्
% - - व्। - व् - - व्। % अ पथ्या
% - व् - -। व् - व् - % ब् चोर्रेच्त्
% - -। व् - व् - - -। % च् पथ्या
% व् व् - -। व् -। व् - % द् चोर्रेच्त्
अश्ववेगात्प्रयातस्य कथंचिद्दूरमन्तरम् ।
एकाकिनो वने तस्य वासरः पर्यहीयत
% - व् - - व् - - व्। % अ पथ्या
% व् - - - व् - व् - % ब् चोर्रेच्त्
% - - व् -। व् -। - व्। % च् पथ्या
% - व् -। - व् - व् - % द् चोर्रेच्त्
ततश्च तां निशां नेतुं वृक्षमारोहति स्म सः ।
क्षणात्तत्रैव चारोहदृक्षः सिंहेन भीषितः
% व् - व्। -। व् -। - -। % अ पथ्या
% - व् - - व् -। व्। - % ब् चोर्रेच्त्
% व् - - - व्। - - व् % च् पथ्या, पादस् चोम्पोउन्देद्?
% - -। - - व्। - व् - % द् चोर्रेच्त्
स दृष्ट्वा राजपुत्रं तं भीतं मानुषभाषया ।
मा भैषीर्मम मित्त्रं त्वमित्युक्त्वा निर्भयं व्यधात्
% व्। - -। - व् - -। -। % अ पथ्या
% - -। - व् व् - व् - % ब् चोर्रेच्त्
% -। - - व् व्। - -। व् % च् पथ्या, पादस् चोम्पोउन्देद्?
% - - -। - व् -। व् - % द् चोर्रेच्त्
विस्रम्भादृक्षवाक्येन राजपुत्रो ऽथ सुप्तवान् ।
ऋक्षस्तु जाग्रदेवासीदधः सिंहो ऽथ सो ऽब्रवीत्
% - - - - व् - - व्। % अ पथ्या
% - व् - -। व्। - व् - % ब् चोर्रेच्त्
% - - व्। - व् - - - % च् पथ्या, पादस् चोम्पोउन्देद्?
% व् -। - -। व्। -। व् - % द् चोर्रेच्त्
ऋक्षं मानुषमेतं मे क्षिप यावद्व्रजाम्यहम् ।
ऋक्षस्ततो ऽब्रवीत्पाप न मित्रं घातयाम्यहम्
% - -। - व् व् - -। -। % अ पथ्या
% व् व्। - - व् - व् - % ब् चोर्रेच्त्
% - - व् -। व् - - व्। % च् पथ्या
% व्। - -। - व् - व् - % द् चोर्रेच्त्
क्रमादृक्षे प्रसुप्ते च राजपुत्रे च जाग्रति ।
पुनः सिंहो ऽब्रवीदेतमृक्षं मे क्षिप मानुष
% व् - - -। व् - -। व्। % अ पथ्या
% - व् - -। व्। - व् - % ब् चोर्रेच्त्
% व् -। - -। व् - - व् % च् पथ्या, पादस् चोम्पोउन्देद्?
% - -। -। व् व्। - व् - % द् चोर्रेच्त्
तच्छ्रुत्वात्मभयात्तेन सिंहस्याराधनाय सः ।
क्षिप्तो ऽपि नापतच्चित्रमृक्षो दैवप्रबोधितः
% - - - व् व् - - व्। % अ पथ्या
% - - - - व् - व्। - % ब् चोर्रेच्त्
% - -। व्। - व् - - व् % च् पथ्या, पादस् चोम्पोउन्देद्?
% - -। - - व् - व् - % द् चोर्रेच्त्
मित्त्रद्रोहिन् भवोन्मत्त इति शापम् अदाच् च सः ।
तस्य राजसुतस्यैतद्वृत्तान्तावगमावधिम्
% - - - -। व् - - व्। % अ पथ्या
% व् व्। - व्। व् -। व्। - % ब् चोर्रेच्त्
% - व्। - व् व् - - - % च् पथ्या, पादस् चोम्पोउन्देद्?
% - - - व् व् - व् - % द् चोर्रेच्त्
प्राप्यैव स्वगृहं प्रातरुन्मत्तो ऽभून्नृपात्मजः ।
योगनन्दश्च तद्दृष्ट्वा विषादं सहसागमत्
% - - -। व् व् -। - व् % अ पथ्या, पादस् चोम्पोउन्देद्?
% - - -। - व् - व् - % ब् चोर्रेच्त्
% - व् - - व्। - - -। % च् पथ्या
% व् - -। व् व् - व् - % द् चोर्रेच्त्
अब्रवीच्च स काले ऽस्मिञ् जीवेद् वररुचिर् यदि ।
इदं ज्ञायेत तत्सर्वं धिङ् मे तद्वधपाटवम्
% - व् - व्। व्। - -। -। % अ पथ्या
% - -। व् व् व् -। व् - % ब् चोर्रेच्त्
% व् -। - - व्। - - -। % च् पथ्या
% -। -। - व् व् - व् - % द् चोर्रेच्त्
तच्छ्रुत्वा वचनं राज्ञः शकटालो व्यचिन्तयत् ।
हन्त कात्यायनस्यायं लब्धः कालः प्रकाशने
% - - -। व् व् -। - -। % अ पथ्या
% व् व् - -। व् - व् - % ब् चोर्रेच्त्
% - व्। - - व् - - -। % च् पथ्या
% - -। - -। व् - व् - % द् चोर्रेच्त्
न सो ऽत्र मानी तिष्ठेच राजा मयि च विश्वसेत् ।
इत्यालोच्य स राजानमब्रवीद्याचिताभयः
% व्। -। व्। - -। - - व्। % अ म-विपुला
% - -। व् व्। व्। - व् - % ब् चोर्रेच्त्
% - - - व्। व्। - - व् % च् पथ्या, पादस् चोम्पोउन्देद्?
% - व् - - व् - व् - % द् चोर्रेच्त्
राजन्नलं विषादेन जीवन्वररुचिः स्थितः ।
योगनन्दस्ततो ऽवादीद्द्रुतमानीयतामिति
% - - व् -। व् - - व्। % अ पथ्या
% - - व् व् व् -। व् - % ब् चोर्रेच्त्
% - व् - - व् -। - - % च् पथ्या, पादस् चोम्पोउन्देद्?
% व् व् - - व् - व् - % द् चोर्रेच्त्
अथाहं शकटालेन योगनन्दान्तिकं हठात् ।
आनीतस् तं तथाभूतं राजपुत्रं व्यलोकयम्
% व् - -। व् व् - - व्। % अ पथ्या
% - व् - - व् -। व् - % ब् चोर्रेच्त्
% - - -। -। व् - - -। % च् पथ्या
% - व् - -। व् - व् - % द् चोर्रेच्त्
मित्त्रद्रोहः कृतो ऽनेन देवेत्युक्त्वा तथैव सः ।
सरस्वतीप्रसादेन वृत्तान्तः कथितो मया
% - - - -। व् -। - व्। % अ पथ्या
% - - - -। व् - व्। - % ब् चोर्रेच्त्
% व् - व् - व् - - व्। % च् पथ्या
% - - -। व् व् -। व् - % द् चोर्रेच्त्
ततस्तच्छापमुक्तेन स्तुतो ऽहं राजसूनुना ।
त्वया कथमिदं ज्ञातमित्यपृच्छत्स भूपतिः
% व् - - - व् - - -। % अ पथ्या
% व् -। -। - व् - व् - % ब् चोर्रेच्त्
% व् -। व् व् व् -। - व् % च् पथ्या, पादस् चोम्पोउन्देद्?
% - व् - - व्। - व् - % द् चोर्रेच्त्
अथाहम् अवदं राजंल् लक्षणैर् अनुमानतः ।
प्रतिभातश्च पश्यन्ति सर्वं प्रज्ञावतां धियः
% व् - व्। व् व् -। - -। % अ पथ्या
% - व् -। व् व् - व् - % ब् चोर्रेच्त्
% व् व् - - व्। - - व्। % च् पथ्या
% - -। - - व् -। व् - % द् चोर्रेच्त्
तद्यथा तिलको ज्ञातस्तथा सर्वमिदं मया ।
इति मद्वचनात्सो ऽभूद्राजा लज्जानुतापवान्
% - व् -। व् व् -। - - % अ पथ्या, पादस् चोम्पोउन्देद्?
% व् -। - व् व् -। व् - % ब् चोर्रेच्त्
% व् व्। - व् व् - -। - % च् पथ्या, पादस् चोम्पोउन्देद्?
% - -। - - व् - व् - % द् चोर्रेच्त्
अथानादृतसत्कारः परिशुद्ध्यैव लाभवान् ।
स्वगृहं गतवानस्मि शीलं हि विदुषां धनम्
% व् - - व् व् - - -। % अ पथ्या
% व् व् - - व्। - व् - % ब् चोर्रेच्त्
% व् व् -। व् व् - - व्। % च् पथ्या
% - -। व्। व् व् -। व् - % द् चोर्रेच्त्
प्राप्तस्यैव च तत्रत्यो जनो ऽरोदीत्पुरो मम ।
अभ्येत्य मां समुद्भ्रान्तमुपवर्षो ऽब्रवीत्ततः
% - - - व्। व्। - - -। % अ पथ्या
% व् -। - - व् -। व् - % ब् चोर्रेच्त्
% - - व्। -। व् - - व् % च् पथ्या, पादस् चोम्पोउन्देद्?
% व् व् - -। व् - व् - % द् चोर्रेच्त्
राजा हतं निशम्य त्वामुपकोशाग्निसाद्वपुः ।
अकरोदथ मातुस्ते शुचा हृदयमस्फुटत्
% - -। व् -। व् - -। - % अ पथ्या, पादस् चोम्पोउन्देद्?
% व् व् - - व् - व् - % ब् चोर्रेच्त्
% व् व् - व् व्। - - -। % च् पथ्या
% व् -। व् व् व् - व् - % द् चोर्रेच्त्
तच् छ्रुत्वाभिनवोद्भूतशोकावेगविचेतनः ।
सद्यो ऽहम् अपतं भूमौ वातरुग्ण इव द्रुमः
% -। - - व् व् - - व् % अ पथ्या, पादस् चोम्पोउन्देद्?
% - - - व् व् - व् - % ब् चोर्रेच्त्
% - -। व्। व् व् -। - -। % च् पथ्या
% - व् - व्। व् -। व् - % द् चोर्रेच्त्
क्षणाच्च गतवानस्मि प्रलापानां रसज्ञताम् ।
प्रियबन्धुविनाशोत्थः शोकाग्निः कं न तापयेत्
% व् - व्। व् व् - - -। % अ पथ्या
% व् - - -। व् - व् - % ब् चोर्रेच्त्
% व् व् - व् व् - - -। % च् पथ्या
% - - -। -। व्। - व् - % द् चोर्रेच्त्
आ संसारं जगत्यस्मिन्नेका नित्या ह्यनित्यता ।
तदेतामैश्वरीं मायां किं जानन्नपि मुह्यसि
% -। - - -। व् - - - % अ पथ्या, पादस् चोम्पोउन्देद्?
% - -। - -। व् - व् - % ब् चोर्रेच्त्
% व् - - - व् -। - -। % च् पथ्या
% -। - - व् व्। - व् - % द् चोर्रेच्त्
इत्यादिभिर् उपागत्य वर्षेण वचनैर् अहम् ।
बोधितो ऽथ यथातत्त्वं कथंचिद्धृतिमाप्तवान्
% - - व् व्। व् - - व्। % अ पथ्या
% - - व्। व् व् -। व् - % ब् चोर्रेच्त्
% - व् -। व्। व् - - -। % च् पथ्या
% व् - - व् व् - व् - % द् चोर्रेच्त्
ततो विरक्तहृदयस्त्यक्त्वा सर्वं निबन्धनम् ।
प्रशमैकसहायो ऽहं तपोवनमशिश्रियम्
% व् -। व् - व् व् व् - % अ न-विपुला, पादस् चोम्पोउन्देद्?
% - -। - -। व् - व् - % ब् चोर्रेच्त्
% व् व् - व् व् - -। -। % च् पथ्या
% व् - व् व् व् - व् - % द् चोर्रेच्त्
दिवसेष्वथ गच्छत्सु तत्तपोवनमेकदा ।
अयोध्यात उपागच्छद्विप्र एको मयि स्थिते
% व् व् - व् व्। - - व्। % अ पथ्या
% - व् - व् व् - व् - % ब् चोर्रेच्त्
% व् - - व्। व् - - - % च् पथ्या, पादस् चोम्पोउन्देद्?
% - व्। - -। व् -। व् - % द् चोर्रेच्त्
स मया योगनन्दस्य राज्यवार्ताम् अपृच्छ्यत ।
प्रत्यभिज्ञाय मां सो ऽथ सशोकमिदमब्रवीत्
% व्। व् -। - व् - - व्। % अ पथ्या
% - व् - -। व् - व् - % ब् चोर्रेच्त्
% - व् - - व्। -। -। व्। % च् पथ्या
% व् - व् व् व् - व् - % द् चोर्रेच्त्
शृणु नन्दस्य यद्वृत्तं तत्सकाशाद्गते त्वयि ।
लब्ध्वावकाशस् तत्राभूच् छकटालश् चिरेण सः
% व् व्। - - व्। - - -। % अ पथ्या
% - व् - - व् -। व् - % ब् चोर्रेच्त्
% - - व् - -। - - -। % च् म-विपुला
% व् व् - -। व् - व्। - % द् चोर्रेच्त्
स चिन्तयन्वधोपायं योगनन्दस्य युक्तितः ।
क्षितिं खनन्तमद्राक्षीच्चाणक्याख्यं द्विजं पथि
% व्। - व् - व् - - -। % अ पथ्या
% - व् - - व्। - व् - % ब् चोर्रेच्त्
% व् -। व् - व् - - - % च् पथ्या, पादस् चोम्पोउन्देद्?
% - - - -। व् -। व् - % द् चोर्रेच्त्
किं भुवं खनसीत्युक्ते तेन विप्रो ऽथ सो ऽब्रवीत् ।
दर्भमुन्मूलयाम्यत्र पादो ह्येतेन मे क्षतः
% -। व् -। व् व् - - -। % अ पथ्या
% - व्। - -। व्। -। व् - % ब् चोर्रेच्त्
% - व् - - व् - - व्। % च् पथ्या
% - -। - - व्। -। व् - % द् चोर्रेच्त्
तच्छ्रुत्वा सहसा मन्त्री कोपनं क्रूरनिश्चयम् ।
तं विप्रं योगनन्दस्य वधोपायममन्यत
% - - -। व् व् -। - -। % अ पथ्या
% - व् -। - व् - व् - % ब् चोर्रेच्त्
% -। - -। - व् - - व्। % च् पथ्या
% व् - - व् व् - व् - % द् चोर्रेच्त्
नाम पृष्ट्वाब्रवीत्तं च हे ब्रह्मन्दापयामि ते ।
अहं त्रयोदशीश्राद्धं गृहे नन्दस्य भूपतेः
% - व्। - - व् - -। व्। % अ पथ्या
% -। - - - व् - व्। - % ब् चोर्रेच्त्
% व् -। व् - व् - - -। % च् पथ्या
% व् -। - - व्। - व् - % द् चोर्रेच्त्
दक्षिणातः सुवर्णस्य लक्षं तव भविष्यति ।
भोक्ष्यसे धुरि चान्येषामेहि तावद्गृहं मम
% - व् - -। व् - - व्। % अ पथ्या
% - -। व् व्। व् - व् - % ब् चोर्रेच्त्
% - व् -। व् व्। - - - % च् पथ्या, पादस् चोम्पोउन्देद्?
% - व्। - - व् -। व् - % द् चोर्रेच्त्
इत्युक्त्वा शकटालस्तं चाणक्यमनयद्गृहम् ।
श्राद्धाहे ऽदर्शयत्तं च राज्ञे स श्रद्दधे च तम्
% - - -। व् व् - - -। % अ पथ्या
% - - व् व् व् - व् - % ब् चोर्रेच्त्
% - - -। - व् - -। व्। % च् पथ्या
% - -। -। - व् -। व्। - % द् चोर्रेच्त्
ततः स गत्वा चाणक्यो धुरि श्राद्ध उपाविशत् ।
सुबन्धुनामा विप्रश्च तामैच्छद्धुरमात्मनः
% व् -। व्। - -। - - -। % अ म-विपुला
% व् -। - व्। व् - व् - % ब् चोर्रेच्त्
% व् - व् - -। - - व्। % च् म-विपुला
% - - - व् व् - व् - % द् चोर्रेच्त्
तद्गत्वा शकटालेन विज्ञप्तो नन्दभूपतिः ।
अवादीन्नापरो योग्यः सुबन्धुर्धुरि तिष्ठतु
% - - -। व् व् - - व्। % अ पथ्या
% - - -। - व् - व् - % ब् चोर्रेच्त्
% व् - - - व् -। - -। % च् पथ्या
% व् - - व् व्। - व् - % द् चोर्रेच्त्
आगत्यैतां च राजाज्ञां शकटालो भयानतः ।
न मे ऽपराध इत्युक्त्वा चाणक्याय न्यवेदयत्
% - - - -। व्। - - -। % अ पथ्या
% व् व् - -। व् - व् - % ब् चोर्रेच्त्
% व्। -। व् - व्। - - -। % च् पथ्या
% - - - -। व् - व् - % द् चोर्रेच्त्
सो ऽथ कोपेन चाणक्यो ज्वलन्निव समन्ततः ।
निजां मुक्त्वा शिखां तत्र प्रतिज्ञामकरोदिमाम्
% -। व्। - - व्। - - -। % अ पथ्या
% व् - व् व्। व् - व् - % ब् चोर्रेच्त्
% व् -। - -। व् -। - -। % च् पथ्या
% व् - - व् व् - व् - % द् चोर्रेच्त्
अवश्यं हन्त नन्दो ऽयं सप्तभिर्दिवसैर्मया ।
विनाश्यो बन्धनीया च ततो निर्भन्युना शिखा
% व् - -। - व्। - -। -। % अ पथ्या
% - व् - व् व् - व् - % ब् चोर्रेच्त्
% व् - -। - व् - -। व्। % च् पथ्या
% व् -। - - व् -। व् - % द् चोर्रेच्त्
इत्युक्तवन्तं कुपिते योगनन्दे पलायितम् ।
अलक्षितं स्वगेहे तं शकटालो न्यवेशयत्
% - - व् - -। व् व् -। % अ भ-विपुला
% - व् - -। व् - व् - % ब् चोर्रेच्त्
% व् - व् -। व् - -। -। % च् पथ्या
% व् व् - -। व् - व् - % द् चोर्रेच्त्
तत्रोपकरणे दत्ते गुप्तं तेनैव मन्त्रिणा ।
स चाणक्यो द्विजः क्वापि गत्वा कृत्यामसाधयत्
% - - व् व् व् -। - -। % अ पथ्या
% - -। - - व्। - व् - % ब् चोर्रेच्त्
% व्। - - -। व् -। - व्। % च् पथ्या
% - -। - - व् - व् - % द् चोर्रेच्त्
तद्वशाद्योगनन्दो ऽथ दाहज्वरमवाप्य सः ।
सप्तमे दिवसे प्राप्ते पञ्चत्वं समुपागमत्
% - व् - - व् - -। व्। % अ पथ्या
% - - व् व् व् - व्। - % ब् चोर्रेच्त्
% - व् -। व् व् -। - -। % च् पथ्या
% - - -। व् व् - व् - % द् चोर्रेच्त्
हत्वा हिरण्यगुप्तं च शकटालेन तत्सुतम् ।
पूर्वनन्दसुते लक्ष्मीश्चन्द्रगुप्ते निवेशिता
% - -। व् - व् - -। व्। % अ पथ्या
% व् व् - - व्। - व् - % ब् चोर्रेच्त्
% - व् - व् व् -। - - % च् पथ्या, पादस् चोम्पोउन्देद्?
% - व् - -। व् - व् - % द् चोर्रेच्त्
मन्त्रित्वे तस्य चाभ्यर्थ्य बृहस्पतिसमं धिया ।
चाणक्यं स्थापयित्वा तं स मन्त्री कृतकृत्यताम्
% - - -। - व्। - - व्। % अ पथ्या
% व् - व् व् व् -। व् - % ब् चोर्रेच्त्
% - - -। - व् - -। -। % च् पथ्या
% व्। - -। व् व् - व् - % द् चोर्रेच्त्
मन्वानो योगनन्दस्य कृतवैरप्रतिक्रियः ।
पुत्रशोकेन निर्विण्णः प्रविवेश महद्वनम्
% - - -। - व् - - व्। % अ पथ्या
% व् व् - - व् - व् - % ब् चोर्रेच्त्
% - व् - - व्। - - -। % च् पथ्या
% व् व् - व्। व् - व् - % द् चोर्रेच्त्
इति तस्य मुखाच्छ्रुत्वा विप्रस्य सुतरामहम् ।
काणभूते गतः खेदं सर्वमालोक्य चञ्चलम्
% व् व्। - व्। व् - - -। % अ पथ्या
% - - व्। व् व् - व् - % ब् चोर्रेच्त्
% - व् - -। व् -। - -। % च् पथ्या
% - व् - - व्। - व् - % द् चोर्रेच्त्
खेदाच् चाहम् इमां द्रष्टुम् आगतो विन्ध्यवासिनीम् ।
तत्प्रसादेन दृष्ट्वा त्वां स्मृता जातिर्मया सखे
% - -। - व्। व् -। - व्। % अ पथ्या
% - व् -। - व् - व् - % ब् चोर्रेच्त्
% - व् - - व्। - -। -। % च् पथ्या
% व् -। - - व् -। व् - % द् चोर्रेच्त्
प्राप्तं दिव्यं च विज्ञानं मयोक्ता ते महाकथा ।
इदानीं क्षीणशापो ऽहं यतिष्ये देहमुज्झितुम्
% - -। - -। व्। - - -। % अ पथ्या
% व् - -। -। व् - व् - % ब् चोर्रेच्त्
% व् - -। - व् - -। -। % च् पथ्या
% व् - -। - व् - व् - % द् चोर्रेच्त्
त्वं च संप्रति तिष्ठेह यावदायाति ते ऽन्तिकम् ।
शिष्ययुक्तो गुणाढ्याख्यस्त्यक्तभाषात्रयो द्विजः
% -। व्। - व् व्। - - व्। % अ पथ्या
% - व् - - व्। -। व् - % ब् चोर्रेच्त्
% - व् - -। व् - - - % च् पथ्या, पादस् चोम्पोउन्देद्?
% - व् - - व् -। व् - % द् चोर्रेच्त्
सो ऽपि ह्यहमिव क्रोधाद्देव्या शप्तो गणोत्तमः ।
माल्यवान्नाम मत्पक्षपाती मर्त्यत्वमागतः
% -। -। व् व् व् -। - - % अ पथ्या, पादस् चोम्पोउन्देद्?
% - -। - -। व् - व् - % ब् चोर्रेच्त्
% - व् - - व्। - - व् % च् पथ्या, पादस् चोम्पोउन्देद्?
% - -। - - व् - व् - % द् चोर्रेच्त्
तस्मै महेश्वरोक्तैषा कथनीया महाकथा ।
ततस्ते शापनिर्मुक्तिस्तस्य चापि भविष्यति
% - -। व् - व् - - -। % अ पथ्या
% व् व् - -। व् - व् - % ब् चोर्रेच्त्
% व् - -। - व् - - - % च् पथ्या, पादस् चोम्पोउन्देद्?
% - व्। - व्। व् - व् - % द् चोर्रेच्त्
एवं वररुचिस्तत्र काणभूतेर्निवेद्य सः ।
प्रतस्थे देहमोक्षाय पुण्यं बदरिकाश्रमम्
% - -। व् व् व् - - व्। % अ पथ्या
% - व् - - व् - व्। - % ब् चोर्रेच्त्
% व् - -। - व् - - व्। % च् पथ्या
% - -। व् व् व् - व् - % द् चोर्रेच्त्
गच्छन्ददर्श गङ्गायां सो ऽथ शाकाशिनं मुनिम् ।
तत्समक्षं च तस्यर्षेः कुशेनाभूत्करक्षतिः
% - - व् - व्। - - -। % अ पथ्या
% -। व्। - - व् -। व् - % ब् चोर्रेच्त्
% - व् - -। व्। - - -। % च् पथ्या
% व् - - - व् - व् - % द् चोर्रेच्त्
ततो ऽस्य रुधिरं निर्यत्तेन शाकरसीकृतम् ।
अहंकारपरीक्षार्थं कौतुकात्स्वप्रभावतः
% व् -। व्। व् व् -। - - % अ पथ्या, पादस् चोम्पोउन्देद्?
% - व्। - व् व् - व् - % ब् चोर्रेच्त्
% व् - - व् व् - - -। % च् पथ्या
% - व् - - व् - व् - % द् चोर्रेच्त्
तद्दृष्ट्वा हन्त सिद्धो ऽस्मीत्यगाद्दर्पमसौ मुनिः ।
ततो वररुचिः किंचिद्विहस्येव जगाद तम्
% - - -। - व्। - -। - % अ पथ्या, पादस् चोम्पोउन्देद्?
% व् - - व् व् -। व् - % ब् चोर्रेच्त्
% व् -। व् व् व् -। - - % च् पथ्या, पादस् चोम्पोउन्देद्?
% व् - - व्। व् - व्। - % द् चोर्रेच्त्
जिज्ञासनाय रक्तं ते मया शाकरसीकृतम् ।
यावन्नाद्याप्यहंकारः परित्यक्तस्त्वया मुने
% - - व् - व्। - -। -। % अ पथ्या
% व् -। - व् व् - व् - % ब् चोर्रेच्त्
% - - - - व् - - -। % च् पथ्या
% व् - - - व् -। व् - % द् चोर्रेच्त्
ज्ञानमार्गे ह्यहंकारः परिघो दुरतिक्रमः ।
ज्ञानं विना च नास्त्येव मोक्षो व्रतशतैरपि
% - व् - -। व् - - -। % अ पथ्या
% व् व् -। व् व् - व् - % ब् चोर्रेच्त्
% - -। व् -। व्। - - व्। % च् पथ्या
% - -। व् व् व् - व् - % द् चोर्रेच्त्
स्वर्गस्तु न मुमुक्षूणां क्षयी चित्तं विलोभयेत् ।
तस्मादहंकृतित्यागाज्ज्ञाने यत्नं मुने कुरु
% - - व्। व्। व् - - -। % अ पथ्या
% व् -। - -। व् - व् - % ब् चोर्रेच्त्
% - - व् - व् - - - % च् पथ्या, पादस् चोम्पोउन्देद्?
% - -। - -। व् -। व् - % द् चोर्रेच्त्
विनीयैवं मुनिं तेन प्रणतेन कृतस्तुतिः ।
तं बदर्याश्रमोद्देशं शान्तं वररुचिर्ययौ
% व् - - -। व् -। - -। % अ पथ्या
% व् व् - व्। व् - व् - % ब् चोर्रेच्त्
% -। व् - - व् - - -। % च् पथ्या
% - -। व् व् व् - व् - % द् चोर्रेच्त्
अथ स निबिडभक्त्या तत्र देवीं शरण्यां
शरणमुपगतो ऽसौ मर्त्यभावं मुमुक्षुः ।
प्रकटितनिजमूर्तिः सापि तस्मै शशंस
स्वयमनलसमुत्थां धारणां देहमुक्त्यै
% व् व्। व्। व् व् व् - -। - व्। - -। व् - - % मालिनी (8+7)
% व् व् व् व् व् व् -। -। - व् - -। व् - - % मालिनी (8+7)
% व् व् व् व् व् व् - -। - व्। - -। व् - - % मालिनी (8+7)
% व् व् व् व् व् व् - -। - व् -। - व् - - % मालिनी (8+7)
दग्ध्वा शरीरमथ धारणया तया तद्दिव्यां गतिं वररुचिः स निजां प्रपेदे ।
विन्ध्याटवीभुवि ततः स च काणभूतिर् आसीदभीप्सितगुणाढ्यसमागमोत्कः
मूल पाठ: Kathāsaritsāgara · Edition: Durgaprasad and Parab, Bombay : Nirnaya-Sagar Press 1915 · Data entry James Mallinson Elena Artesani Rabi Acharya Nirajan Kafle Tyler Neill · GRETIL (Göttingen) · CC BY-NC-SA 4.0