कालिकापुराणम् · अध्याय 33
कालिकापुराणम् त्रयस्त्रिंशोऽध्यायः अकालप्रलय कथनम्
अथ कालिका पुराण अध्याय ३३
॥ मार्कण्डेय उवाच ॥
तं तथा पीवरतनुं दृष्टा मात्स्यं मनुः स्वयम् ।
गृहीत्वा पाणिना फुल्लनलिनीं सरसीं ययौ
तत्सरस्तत्र विपुलं पुण्ये नारायणाश्रमे ।
एकयोजनविस्तीर्णं सार्धयोजनमायतम् ।
नानामीनगणोपेतं शीतामलजलोत्करम्
तदासाद्य सरो मत्स्यं विनिधाय मनुस्तदा ।
पालयामास सुतवत् कृपया परया युतः
सोऽचिरेणैव कालेन पीनो वैसारिणोऽभवत् ।
न ममौ तत्र सरसि बृहत्त्वात् द्विजसत्तमाः
स एकदा महामत्स्यः पूर्वापरतरद्वये
शिरः पुच्छे निधायाशु तुङ्गदेहः समुच्छ्रितः ।
स्वायम्भुवं महात्मानं चुक्रोश त्राहि मामिति
तं तथा च मनुर्ज्ञात्वा क्रोशन्तं स्थूलपुच्छकम् ।
आससाद तदा मत्स्यं जग्राह च करेण तम्
न शक्नोम्यहमुद्धर्तुं पृथरोमाणमद्भुतम् ।
इति संचिन्तयन्नेव प्रोद्दधार करेण तम्
भगवानपि विश्वात्मा मत्स्यरूपी जनार्दनः ।
स्वायम्भुवकरं प्राप्य लघिमानमुपाश्रयत्
ततः कराभ्यामुद्धृत्य स्कन्धे कृत्वा द्रुतं मनुः ।
निनाय सागरं तत्र तोये च निदधे ततः
यथेच्छमत्र वर्धस्व न कोऽपि त्वां वधिष्यति ।
अचिरेणैव सम्पूर्णदेहं त्वं समवाप्नुहि
इत्युक्त्वा स महाभागः सर्वप्राणभृतां वरः ।
लघुत्वं चिन्तयंस्तस्य विस्मयं परमं गतः
मत्स्योस्पि नचिरादेव पूर्णकायस्तदा महान् ।
सर्वतः पूरयामास देहाभोगेन सागरम् ॥१३।
तं पूर्णकायमालोक्य व्यतीत्याम्भः समुच्छ्रितम् ।
शिलाभिर्निचितं स्फीतं मानसाचलसंनिभम्
रुन्धन्तं सागरं सर्वं देहाभोगाचलीकृतम् ।
स्वायम्भुवो मनुर्धीमान् मेने मात्स्यं न तं तदा
ततः पप्रच्छ तं साम्ना मत्स्यं स्वाय्भुवो मनुः ।
विचिन्त्य लघिमानं च पश्यन् मूर्तिं तदाद्भुतम्
॥ मनुरुवाच ॥
न त्वां मत्स्यमहं मन्ये कस्त्वं मे वद सत्तम ।
महत्वं लघिमानं चिन्तयन् सुमहत्तर
त्वं ब्रह्माप्यथवा विष्णुः शम्भुर्वा मीनरूपधृक् ।
न चेद्गुह्य महाभाग तन्मे वद महामते
॥ मत्स्य उवाच ॥
आराध्योऽहं त्वयानित्यं यो हरिः सः सनातनः ।
तवेष्टकामसिद्ध्यर्थं प्रादुर्भूतः समाहितः
यत् त्वमिच्छसि भूतेश मत्तस्त्वं मीनमूर्तितः ।
तत् करिष्येऽद्य तां मूर्तिमिमां विद्धि मनो मम
॥ मार्कण्डेय उवाच ॥
इति तस्य वचः श्रुत्वा विष्णोरमिततेजसः ।
ज्ञात्वा प्रत्यक्षतो विष्णुं मनुस्तुष्टाव केशवम्
॥ मनुरुवाच ॥
नमस्ते जगदव्यक्तपरापरपते हरे ।
पावकादित्यशीतांशु नेत्रत्रयधराव्यय
जगत्कारण सर्वज्ञ जगद्धाम हरे पर ।
परापरात्मरूपात्मन् पारिणां पारकारण
आत्मानमात्मना धृत्वा धरारूपधरो हरे ।
विभर्षि सकलान् लोकानाधारात्मंस्त्रिविक्रम
सर्ववेदमय श्रेष्ठ धामधारणकारण ।
सुरौधपरमेशान नारायण सुरेश्वर
अयोनिस्त्वं जगद्योनिरपादस्त्वं सदागतिः ।
त्वं तेज: स्पर्शहीनश्च सर्वेशस्त्वमनीश्वर
त्वमनादिः समस्तादिस्त्वं नित्यानन्तरोऽन्तरः ।
यद्वैममण्डं जगतां बीजं ब्रह्माण्डसंज्ञितम्
तद्वीजं भवतस्तेजस्त्वयोक्तं सलिलेषु च ।
सर्वाधारो निराधारो निर्हेतुः सर्वकारणम्
नमो नमस्ते विश्वेश लोकानां प्रभव प्रभो ।
सृष्टिस्थित्यन्तहेतुस्त्वं विधिविष्णुहरात्मधृक्
यस्य ते दशधा मूर्तिरूर्मिषट्कादिवर्जिता ।
ज्योतिः पतिस्त्वमम्भोधिस्तस्मै तुभ्यं नमो नमः
कस्ते भावं वक्तुमीशः परेश स्थूलात्स्थूलो योऽरूपोर्थवर्गात् ।
तस्मै नित्यं मे नमोऽस्त्वद्य योऽभूदादित्यवर्णं तमसः परस्तात्
सहस्रशीर्षा पुरुष: सहस्रपात् सहस्रचक्षुः पृथिवीं समन्ततः ।
दशाङ्गुलं यो हि समत्यतिष्ठत् स मे प्रसीदत्विह विष्णुरुग्र:
नमस्ते मीनमूर्ते हे नमस्ते भगवन् हरे ।
नमस्ते जगदानन्द नमस्ते भक्तवत्सल
॥ मार्कण्डेय उवाच ॥
स्वायम्भुवेन मनुना संस्तुतो मत्स्यरूपधृक् ।
वासुदेवस्तदा प्राह मेघगम्भीरनिःस्वनः
॥ श्रीभगवानुवाच ॥
तुष्टोऽस्मि तपसा तेऽद्य भक्त्या चापि स्तुतो मुहुः ।
सपर्यया च दानेन वरं वरय सुव्रत
इष्टार्थं सम्प्रदास्यामि तुभ्यं नात्र विचारणा ।
वरयस्वेप्सितान् कामान् लोकानां वा हितं च यत्
॥ मनुरुवाच ॥
यदि देयो वरोमेऽद्य लोकानां यो हितो भवेत् ।
तन्मे देहि वरं विष्णो तं वक्ष्यामि शृणुष्व मे
शशाप कपिल: पूर्वं मदर्थे भुवनत्रयम् ।
हतप्रहतविध्वस्तं सकलं ते भवेदिति
येनेयमुद्धृता पृथ्वी येनेयं प्रतिपालिता ।
संहरिष्यति यस्त्वेनां तेऽधुना प्लावयन्त्विमाम्
ततोऽहं दीनहृदयस्त्वामेव शरणं गतः ।
न यथेदं त्रिभुवनं भविष्यति जलप्लुतम् ।
हतप्रहतविध्वस्तं तथा त्वं देहि मे वरम्
॥ श्रीभगवानुवाच ॥
न मत्तः कपिलो भिन्नस्तथा न कपिलादहम् ।
यदुक्तं तेन मुनिना मयोक्तं विद्धि तन्मनो
तस्माद् यदुदितं तेन तत्सत्यं नान्यथा भवेत् ।
करिष्ये तत्र साहाय्यं स्वायम्भुव निबोध तत्
हतप्रहतविध्वस्ते तोयमग्ने जगत्त्रये ।
श्यामलेनाथ शृङ्गेण त्वं मां ज्ञास्यसि वै तदा
यावज्जलप्लवस्तावद्यथा कार्यं त्वया मनो ।
तन्मे निगदतः पथ्यं शृणुष्वावहितोऽधुना
सर्वयज्ञियकाष्ठौघैरेका नौका विधीयताम् ।
तामहं द्रढयिष्यामि यथा नो भिद्यते जलैः
दशयोजनविस्तीर्णां त्रिंशद्योजनमायताम् ।
धारिणीं सर्वबीजानां भुवनत्रयवर्धिनीम्
सर्वयज्ञियवृक्षाणां भूरिवल्वलतन्तुभिः ।
नवयोजन दीर्घां तु व्यामत्रय- सुविस्तृताम्
कुरुष्व त्वं मनो तूर्णं बृहतीमीरिकां वटीम् ।
जगद्धात्री जगन्माया लोकमाता जगन्मयी ।
द्रढयिष्यति तां रज्जुं न त्रुट्त्यति यथा तथा
सर्वाणि बीजान्यादाय सवेदान् सप्त वै ऋषीन् ।
तस्यां नावि निषण्णस्त्वं वर्तमाने जलप्लवे ।
दक्षेण सह संगम्य स्मरिष्यसि मनो मम
स्मृतोऽहं तूर्णमायास्ये भवतो निकटं प्रति ।
श्यामलेनाथ शृङ्गेण त्वं मां ज्ञास्यसि वै तदा
यावत् प्रहतविध्वस्त- हतं स्याद्भुवनत्रयम् ।
तावत् पृष्ठेन तां नावं वोढाहं नात्र संशयः
जलप्लुते तु सम्पूर्णे शृङ्गे मम च तां तरीम् ।
त्वं तदा वटीरिकया सन्धानिष्यसि वै दृढम्
बद्धायां नावि मे शृङ्गे देवमानेन वत्सरान् ।
सहस्रं प्रेरयिष्यामि तां नावं शोषयन् जलम्
ततः शुष्केषु तोयेषु प्रोत्तुङ्गे शिखरे गिरेः ।
हिमाचलस्य बद्वाहं तस्मिन्नावमहं मनो
अहमाराधितो येन जप्येन भवता मनो ।
सर्वसिद्धिर्भवेत्तस्य यस्तोषयति तेन माम्
॥ मार्कण्डेय उवाच ॥
इति दत्वा वरं तस्मै मत्स्यस्तेन नमस्कृतः ।
अन्तर्दधे जगन्नाथो लोकानुग्रहकारकः
स्वायम्भुवोऽपि भगवानन्तर्धानं गते हरौ ।
यथोक्तं हरिणा पूर्वं नावं रज्जुं तथाकरोत्
सर्वयज्ञियवृक्षौघा छित्वा स्वायम्भुवस्तदा ।
उद्धृत्य कारयामास वास्यादिभिरसौ तरिम्
तेषां वल्कसमुद्भूतसूत्रसङ्घैर्वटीरिकाम् ।
पूर्वोक्तेन प्रमाणेन कारयामास वै मनुः
ततः कालेन महता वृत्तं युद्धं महाद्भुतम् ।
विष्णोर्यज्ञवराहस्य शरभस्य हरस्य च
ततो जलप्लवे जाते विध्वस्ते भुवनत्रये ।
तथा रज्ज्वा तरिं बध्वा बीजान्यादाय सर्वशः
वेदानृषींस्तदा सप्तदशञ्चादाय वै मनुः ।
तस्यां नावि समाधाय तोयमग्रे चराचरे ।
स्वायम्भुवस्तदा मत्स्यं हरिं सस्मार नौगतः
ततो जलानामुपरि सशृङ्ग इव पर्वतः
उदितश्चैकशृङ्गेण विष्णुर्मत्स्यस्वरूपधृक् ।
आगतस्तत्र नचिराद्यत्रास्ते तरिणा मनुः
तरिमारुह्य विपुले तोयराशौ भयङ्करे ।
यावच्चलाचलं तोयं तावत् पृष्ठे तरिं न्यधात्
जले प्रकृतिमापन्ने शृङ्गे बध्वा वटीरिकाम् ।
तां नावं नोदयामास सहस्रं दैववत्सरान्
स्वं नावं च अवष्टभ्य दधार परमेश्वरः ।
योगनिद्रा जगद्धात्री समासीदतद्वटीरिकाम्
ततः शनैः शनैस्तोये शोषं गच्छति वै चिरात् ।
पश्चिमं हिमवच्छङ्ग सुमग्नं तोयमध्यतः
द्वे सहस्त्रे योजनानामुच्छ्रितस्य हिमप्रभोः ।
पञ्चाशत्तु सहस्राणि शृङ्गं तत्तस्य चोच्छ्रितम्
तस्मिन् शृङ्गे ततो नावं बध्वा मत्स्यात्मधृग् हरिः ।
जगाम शोषणायाशु जलानां जगतां पतिः
एवं हि मत्स्यरूपेण वेदास्त्राताश्च शार्ङ्गिणा
॥ मार्कण्डेय उवाच ॥
कपिलस्य तु शापेन कृत आकालिको लयः
अकालिकोऽयं प्रलयो यतो भगवता कृतः ।
इति वः कथितं सर्वं यथावद् द्विजसत्तमाः
॥ इति श्रीकालिकापुराणे अकालप्रलयकथने त्रयस्त्रिंशोऽध्यायः
कालिका पुराण हिन्दी अनुवाद पढने के लिए देखें-[ह्त्त्प्स्:॥प्त्वैस्ह्नवि.ब्लोग्स्पोत्.चोम्।2023।07।कलिक-पुरन्-अध्यय्-33.ह्त्म्ल् द्प् कर्मकन्द्]
मूल पाठ: kālikāpurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0