भाषा

ENहिગુ
ग्रंथ पाठ

कालिकापुराणम् · अध्याय 23

23.1

कालिकापुराणम् त्रयोविंशोऽध्यायः
अरुन्धतीविवाहवर्णनम्
अथ कालिका पुराण अध्याय २३
॥ मार्कण्डेय उवाच ॥
अथ सा ववृधे देवी तस्मिन् मुनिवराश्रमे ।
चन्द्रभागानदीतीरे तापसारण्यसंज्ञके

23.2

यथा चन्द्रकला शुक्लपक्षे नित्यं विवर्धते ।
यथा ज्योत्स्ना तथा सापि प्राप वृद्धिमरुन्धती

23.3

सम्प्राप्ते पञ्चमे वर्षे चन्द्रभागां तदा गुणैः ।
तापसारण्यमपि सा पवित्रमकरोत् सती

23.4

तत्र तीर्थं महापुण्यं मेधातिथिनिषेवितम् ।
क्रीडास्थानमरुन्धत्याः पूतं बाल्योचितं कृतम्

23.5

अद्यापि तापसारण्ये चन्द्रभागानदीजले ।
अरुन्धतीतीर्थतोये स्नात्वा याति हरिं नरः

23.6

कार्तिकं सकलं मासं चन्द्रभागानदीजले ।
स्रात्वा विष्णुगृहं गत्वा ह्यन्ते मोक्षमवाप्नुयात्

23.7

माघे मासि पौर्णमास्याममायां वा तथैव च ।
चन्द्रभागाजले स्नानं यस्तु कुर्यात् सकृत् सकृत्

23.8

तस्य वंशे राजयक्ष्मा न कदाचिद् भविष्यति ।
देहान्ते चन्द्रभवनं गत्वा हरेर्गृहम्

23.9

पुण्यक्षयादिहागत्य वेदज्ञो ब्राह्मणो भवेत् ।
चन्द्रभागाजलं पीत्वा चन्द्रलोकमवाप्नुयात्

23.10

सकृत् स्नात्वा तु विधिवद्वाजिमेधायुतं लभेत्

23.11

चन्द्रभागाजले स्नात्वा क्रीडन्ती बाल्यलीलया ।
पितुः समीपे तत्तीरे कदाचित्तामरुन्धतीम् ।
गच्छन्नाकाशमार्गेण ददर्श कमलासनः

23.12

अथावतीर्य भगवान् ब्रह्मा लोकपितामहः ।
अरुन्धत्यास्तदा कालमुपदेशे ददर्श ह

23.13

अथोवाच तदा ब्रह्मा मुनिभिः परिपूजितः ।
मेधातिथिप्रभृतिभिरुचितं तं महामुनिम्

23.14

॥ ब्रह्मोवाच ॥
उपदेशस्य कालोऽयमरुन्धत्या महामुने ।
तस्मादेनां सतीनान्तु स्त्रीणां त्वं कुरु सन्निधिम्

23.15

स्त्रिभिस्त्रियश्चोपदेश्याः काचिदन्यत्र विद्यते ।
बहुलायाश्च सावित्र्याः पुत्रीं त्वं स्थापयान्तिके

23.16

तयोः संसर्गमासाद्य पुत्री तव महामुने ।
महागुणैश्वर्ययुता माचिरात् तु भविष्यति

23.17

मेधातिथिर्वचः श्रुत्वा ब्रह्मण: परमात्मनः ।
एवमेषेति प्रोवाच तं तदा मुनिसत्तमः

23.18

ततो गते सुरश्रेष्ठे पुत्रीं मेधातिथिर्मुनिः ।
समादाय ययौ सूर्यभवनं प्रति तत्क्षणात्

23.19

ददर्श तत्र सावित्रीं सूर्यमण्डलमध्यगाम् ।
पद्मासनगतां देवीमक्षमालाधरां सिताम्

23.20

दृष्टा सा तेन मुनिना निःसृत्य रविमण्डलात् ।
बहुलां सा गता तूर्णं प्रस्थं मानसभूभृत:

23.21

प्रत्यहं तत्र सावित्री गायत्री बहुला तथा ।
सरस्वती च द्रुपदा पञ्चैता मानसाचले

23.22

धर्माख्यानैस्तथा साध्वीः कथाः कृत्वा परस्परम् ।
स्वं स्वं स्थानं पुनर्यान्ति लोकानां हितकाम्यया

23.23

मेधातिथिस्तु ताः सर्वा दृष्ट्वैकत्र तपोधनः ।
मातृः सर्वस्य लोकस्य प्रणनाम पृथक् पृथक्

23.24

उवाच च स ताः सर्वा ऋषिः श्लक्ष्णं तपोधनः ।
ससाध्वसो विस्मितश्च तासामेकत्र दर्शनात्

23.25

॥ मेधातिथिरुवाच ॥
मातः सावित्रि बहुले मत्पुत्रीयं महायशाः ।
कालोऽयमुपदेशेऽस्यास्तदर्थमहमागतः

23.26

जगत्स्रष्ट्रा समादिष्टा प्रयातु तव शिष्यताम् ।
एषा तेन भवत्पार्श्वमानीता पुत्रिका मम

23.27

सौचारित्र्यं यथास्याः स्यात्तथैनां बालिकां मम ।
युवां विनयतं देव्यौ मातर्मातर्नमोऽस्तु वाम्

23.28

अथोवाच तदा देवी सावित्री मुनिसत्तमम् ।
स्मितपूर्वं बहुलया सहिता ताञ्च बालिकाम्

23.29

॥ ते ऊचतुः ॥
ब्रह्मन् विष्णोः प्रसादेन सुचरित्रा भवत्सुता ।
पूर्वमेव मुने भूता तदुद्देशेन किं पुनः

23.30

किं त्वहं ब्रह्मवाक्येण बहुला च महासती ।
विनेष्यावस्तव सुतां धीरा स्यान्नचिराद् यथा

23.31

ब्रह्मण: पूर्वदुहिता भवतस्तु तपोवलात् ।
तथा विष्णोः प्रसादेन सुता तेऽभूदरुन्धती

23.32

कुलं पुनाति भवतः सत्यसौ वर्धयिष्यति ।
लोकानामथ देवानां शिवमेषा करिष्यति

23.33

॥ मार्कण्डेय उवाच ॥
अथ ताभिर्विसृष्टः स मुनिर्मेधातिथिः सुताम् ।
आश्वास्यारुन्धतीं नत्वा ताः स्वस्थानं जगाम ह

23.34

गते तस्मिन् मुनिवरे सह ताभ्यामरुन्धती ।
मातृभ्यामिव निर्भीता पालिता मोदमाप सा

23.35

कदाचित् सह सावित्र्या रात्रौ याति रवेर्गृहम् ।
तथा बहुलया याति शक्रगेहं कदाचन

23.36

एवं ताभ्यां समं देवी विहरन्ती सुरालये ।
निनाय दिव्यमानेन सा सप्त परिवत्सरान्

23.37

ताभ्यां तथोपविष्टा सा स्त्रीधर्ममचिरात् सती ।
सर्वं ज्ञातवती भूता सावित्री- बहुलाधिका

23.38

अथ तस्यास्तदा काले सम्प्राप्ते उचितेऽभवत् ।
शोभनो यौवनोद्भेदः पद्मिनीनां रुचिर्यथा

23.39

उद्भूत-यौवना सा तु वसिष्ठं मानसाचले ।
विहरन्ती ददशैँकं चारुतेजस्विनं मुनिम्

23.40

दृष्ट्वा तमिच्छयाञ्चक्रे कामभावेन सा सती ।
बालसूर्यप्रभं चारुरूपं ब्रह्मश्रिया युतम्

23.41

अथ सोऽपि महातेजा वसिष्ठो वरवर्णिनीम् ।
दृष्टैवोद्भूतमदनो वीक्षाञ्चके त्वरुन्धतीम्

23.43

तयोः परस्परं दृष्ट्वा ववृधे हृच्छयो महान् ।
अमर्यादं द्विजश्रेष्ठाः प्राकृते मदनो यथा ॥४२।
अथ धैर्यं समालम्व्य तथा मेधातिथेः सुता ।
आत्मानं धारयामास मनश्च मदनेरितम्

23.44

वसिष्ठोऽपि महातेजा धैर्यमालम्ब्य चात्मनः ।
मनः संस्तम्भयामास मदनोन्मथितं ततः

23.45

अरुन्धती ततो देवी विहाय मुनिसन्निधिम् ।
जगाम यत्र सावित्री निन्दन्ती स्वं मनोरथम्

23.46

बाध्यमानातिदुःखेन मानसेन महासती ।
सतीभावः परित्यक्तश्चिन्तयन्ती मयेति वै

23.47

तस्या मनोजदुःखेन विवर्णमभवन्मुखम् ।
शरीरं सकलं म्लानं गतिश्च वलिताभवत्

23.48

इदं विममृषे सा च गर्हयन्ती स्वकं मनः ।
मृणालतन्तुवत् सूक्ष्मा छिन्ना च तत्क्षणादपि

23.49

स्थिति: सतीनामल्पेन चापल्येनैव नश्यति ।
इति स्त्रीधर्ममध्याप्य मामाह चरितव्रता ।
सावित्री सारमेतद् हि सतीधर्मस्य चोद्धृतम्

23.50

तदद्य नाशितं पुंसि परकीये मनोरथम् ।
वर्द्धयन्त्या तदा किं मे परत्रेह भविष्यति

23.51

इति सञ्चिन्तयन्ती सा पुत्री मेधातिथेस्तदा ।
दुःखार्ता बहुलां देवी सावित्रीं चाससाद ह

23.52

तथाविधान्तु तां दृष्ट्वा विवर्णवदनां सतीम् ।
ध्यानचिन्तापरा भूत्वा सावित्री विममर्ष ह

23.53

विमृष्य दिव्यज्ञानेन सर्वं ज्ञातवती सती ।
वसिष्ठेन त्वरुन्धत्या यथाभुद्दर्शनं तथा

23.54

यथा तयोः सम्प्रवृद्धो मनोजश्चातिदुःसहः ।
मुखवैवर्ण्यहेतुश्च सावित्री दिव्यदर्शिनी

23.55

अथ मेधातिथेः पुत्र्या मूर्ध्नि हस्तं निवेश्य सा ।
इदमाह महादेवी सावित्री चरितव्रता

23.56

वत्से तव मुखं कस्माद्भिन्नवर्णमभूदिदम् ।
छिन्ननालं यथापद्मं सूर्यांशुपरितापितम्

23.57

कथं शरीरमभवत् म्लानं ते गुणवत्तमे ।
यथा निशापतेर्विम्बं तनुकृष्णाभ्रसंवृतम्

23.58

अन्तर्मनश्च ते भद्रे सचिन्तमिव लक्ष्यते ।
तन्मे कथय ते गुह्यं नैतच्चेद्दुः खकारणम्

23.59

॥ मार्कण्डेय उवाच ॥
अथ साधोमुखी भूत्वा किञ्चिन्नोवाच लज्जया ।
सावित्रीं मातरं गुर्वीं तथा पृष्टाप्यरुन्धती

23.60

यदा नोक्तवती किञ्चित्तदा मेधातिथेः सुता ।
स्वयं प्रकाशन सावित्री तामुवाच तपस्विनी

23.61

वत्से योऽसौ त्वया दृष्टो मुनिर्भास्करसन्निभः ।
स वसिष्ठो ब्रह्मसुतस्तव स्वामी भविष्यति ।
तव तस्य च दाम्पत्यं पुरा धात्रैव निर्मितम्

23.62

अतस्तव सतीभावो न हीनस्तस्य दर्शनात् ।
यद्वा तवाभूद्धृदयं सकामं तस्य दर्शनात् ।
न तद्दोषकरं पुत्रि मनोदुःखं ततस्त्यज

23.63

त्वया परं तपः कृत्वा पूर्वजन्मनि शोभने ।
वृतः स एव दयितः सकामस्तेन स त्वयि

23.64

शृणु पूर्वं त्वया वत्से वसिष्ठोऽयं वृतः पतिः ।
यथा तपः कृतं तत्र येन भावेन सन्ततम्

23.65

॥ मार्कण्डेय उवाच ॥
इत्युक्त्वा सा च सावित्री यथा सन्ध्याभवत् पुरा ।
कृतं तपो यदर्थन्तु चन्द्रभागाह्वये गिरौ

23.66

वसिष्ठेन तथा पूर्वं वर्णिरूपेण वेधसः ।
वचनादुपदिष्टा सा तपश्चर्यां दुरत्ययाम्

23.67

यथा प्रसन्नो भगवान् विष्णुः प्रत्यक्षतां गतः ।
वरं यथा ददौ तस्यै मर्यादा स्थापिता यथा

23.68

यथा वा वाञ्छितः स्वामी वसिष्ठः स तया मुनिः ।
मेधातिथेर्यथा यज्ञे वह्नौ त्यक्तं तया वपुः

23.69

यथा तत्तनया जाता तस्यैतद्विस्तरात् तदा ।
सावित्री कथयामास क्रमाद् बहुलया सह

23.70

अथ तस्याः वचः श्रुत्वा यदभूत् पूर्वजन्मनि

23.71

तच्छ्रुत्वा वै तदा ज्ञातं मम सर्वं मनोगतम्

23.72

इत्यतीवत्रपां प्राप्य सातीवाभूदधोमुखी ।
सावित्रीवचनाद्भूता पूर्वजन्मस्मरा च सा

23.74

तथैवाधोमुखी भूत्वा यद्वृत्तं पूर्वजन्मनि ।
तस्य सर्वस्य सस्मार दिव्यज्ञारुन्धती तदा ॥७३।
पूर्वं विष्णुप्रसादेन सा भूत्वा दिव्यदर्शिनी ।
अधुना बाल्यभावेन प्रच्छन्ना दिव्यदर्शना

23.75

सावित्रीवचनान्श्रुत्वा वृत्तान्तं पूर्वजन्मनः ।
प्रत्यक्षमिव तत् सर्वं पूर्वज्ञानमवाप सा

23.76

अवाप्य पूर्वं ज्ञानं तद्यद्दत्तं विष्णुना पुरा ।
वसिष्ठोऽयं वृतः स्वामी मया वै पूर्वजन्मनि

23.77

इति ज्ञातवती देवी सामोदारुन्धती स्वयम् ।
वसिष्ठदर्शनोद्भूते पूर्वं तस्यास्तु हृच्छये

23.78

यथातंकः समुत्पन्नः सतीत्वस्य निवारणे ।
तञ्च स्वयं सा तत्याज तदा मेधातिथेः सुता

23.79

त्यक्तचिन्तां ततस्तान्तु विज्ञायारुंधती सतीम् ।
सावित्री सूर्यभवनं तया सार्धं जगाम ह

23.80

अरुन्धतीं निवेश्याथ सावित्रीं सूर्यमन्दिरे ।
जगाम ब्रह्मभवनं सर्वज्ञा सासतीवरा

23.81

अथ प्रणम्य ब्रह्माणं पृष्टा तेनैव तत्क्षणात् ।
इदं जगाद सावित्री ब्रह्माणममितौजसम्

23.82

॥ सावित्र्युवाच ॥
भगवन् जगतां नाथ वसिष्ठं भवतः सुतम् ।
मानसस्य गिरेः सानौ ददर्शारुन्धती सती

23.83

तयोर्दर्शनमात्रेण ववृधे हृच्छयो महान् ।
परस्परं तौ स्पृहयाञ्चक्रतुश्च प्रजापते

23.84

ततो धैर्यात्तु संस्तभ्य मनोजं तौ सुदुःखितौ ।
विमनस्कौ गतौ स्थानं लज्जितौ तौ स्वकं स्वकम्

23.85

एवम्प्रवृत्ते ययोग्यं तदा त्वेतद्विधीयताम् ।
आयत्याञ्च सुरश्रेष्ठ लोकानां हितकाम्यया

23.86

॥ मार्कण्डेय उवाच ॥
इति श्रुत्वा वचस्तस्याः ब्रह्मा सर्वजगद्गुरुः ।
ददर्श दिव्यज्ञानेन प्रवृत्तिं भाविकर्मणः

23.87

इदञ्च स्वागतं प्रोचे तदा लोकपितामहः ।
तयोर्दाम्पत्यभावस्य कालोऽयं समुपस्थितः ।
अतो लोकहितार्थाय यास्येऽहं तत्प्रवृत्तये

23.88

इति निश्चत्य मनसा सावित्रीसहितो विधिः ।
जगाम मानसप्रस्थं यत्राभूद्दर्शनं तयोः

23.89

पितामहे तत्र याते शर्वः सुरगणैर्युतः ।
नन्दिभृंगिप्रभृतिभिः समायातो वृषध्वजः

23.90

भगवान् वासुदेवोऽपि ब्रह्मणा परिचिन्तितः ।
भक्त्या सोऽपि जगन्नाथः शङ्खचक्रगदाधरः ।
स्थितौ ब्रह्माहरौ यत्र तत्रैव स्वयमागतः

23.91

अथ ते जगतां नाथाः ब्रह्मविष्णुमहेश्वराः ।
नारदं प्रेषयामासुर्दूतं मेधातिथिं प्रति

23.92

याहि द्रुतं नारद त्वं चन्द्रभागाह्वयं गिरिम् ।
मुनिस्तस्योपत्यकायामास्ते मेधातिथि: परः

23.93

तमानय यथाकाममस्माकं वचनात् स्वयम् ।
मेधातिथिं समादाय भवानागच्छतु द्रुतम्

23.94

ब्रह्मादीनां वचः श्रुत्वा नारदोऽपि द्रुतं ययौ ।
मेधातिथिं समानेतुं महाकार्यस्य सिद्धये

23.95

मेधातिथिं समादाय ययौ मानसपर्वतम्

23.96

सेन्द्रा देवगणाः सर्वे मुनयश्च तपोधनाः ।
साध्या विद्याधरा यक्षा गन्धर्वाश्च समागताः

23.97

देवाश्च सर्वे देव्यश्च ये देवानुचरास्तथा ।
ते सर्वे मानसप्रस्थं याताश्चान्ये च जन्तवः

23.98

अथ भूते समाजे तु देवानां कमलासनः ।
मेधातिथिं मुनिं वाक्यमिदमाहातिदेशयन्

23.99

॥ ब्रह्मोवाच ॥
मेधातिथे वसिष्ठाय पुत्रीं ते चरितव्रताम् ।
देहि ब्राह्मेण विधिना समाजे त्रिदिवौकसाम्

23.100

बधूवरत्वमनयोः पूर्वं सृष्टं मयैव हि ।
हरिणा चाप्यनुज्ञातं कर्म चैतत् समञ्जसम्

23.101

एवं कृते तव कुले भविष्यति महद्यशः ।
हितं च सर्वभूतानां देहि त्वं मा चिरं कृथाः

23.102

॥ मार्कण्डेय उवाच ॥
ततो ब्रह्मवचः श्रुत्वा ह्यतिप्रमोदितो मुनिः ।
एवमस्त्विति चोवाच नत्वा तान् सुरपुङ्गवान्

23.103

एषां तु वचनात् पुत्रीमादायारुन्धतीं मुनिः ।
ध्यानस्थस्य वसिष्ठस्य देवैः सह जगाम ह

23.104

गत्वा वसिष्ठनिकटं देवैः परिवृतो मुनिः ।
ब्राह्मश्रिया दीप्यमानं ज्वलन्तमिव पावकम्

23.105

धर्मार्थकाममोक्षेषु धृतबुद्धिं पृथक् पृथक् ।
ददर्श मुनिमासीनं मानसाचलकन्दरे ।
वसिष्ठमोजस्विवरं बालसूर्यमिवोदितम्

23.106

अथ पुत्रीमग्रगतां कृत्वा मेधातिथिर्मुनिः ।
वसिष्ठं नियतात्मानमुवाचारुन्धतीपिता

23.107

॥ ऋषिरुवाच ॥
भगवन् ब्रह्मणः पुत्र पुत्रीं मे चरितव्रताम् ।
दत्तां प्रतिगृहाणैनां मया ब्राह्मेण धर्मतः

23.108

यत्र यत्राश्रमे ब्रह्मन् स्वेच्छया निवसिष्यसि ।
त्वद्भक्त्येषा भवित्री च च्छायेवानुगता तव

23.109

तत्र तत्रैव मे पुत्री समानव्रतधारिणी ।
पतिव्रता वरारोहा शुश्रूषां ते करिष्यति

23.110

॥ मार्कण्डेय उवाच ॥
इति श्रुत्वा वसिष्ठस्तु मुनेर्मेधातिथेर्वचः ।
दृष्ट्वा समागतान् देवान् ब्रह्मविष्णुशिवादिकान् ।
अवश्यमेतद्भावीति निश्चित्य दिव्यचक्षुषा

23.111

ब्रह्मणः सम्मते पुत्रीं तदा मेधातिथेर्मुनेः ।
वसिष्ठः प्रतिजग्राह वाढमित्युक्तवांश्च ह

23.112

गृहीतपाणिः सा देवी वसिष्ठेन महात्मना ।
पत्युः पादयुगे चक्षुर्युगं न्यस्तवती सती

23.113

ततो ब्रह्मा च विष्णुश्च रुद्रश्चान्ये तथामराः।
विवाहविधिना तौ तु मोदयाञ्चक्रुरुत्सवैः

23.114

सावित्री प्रमुखा देव्यो देवाश्चेन्द्रादयस्तथा ।
दक्षाद्याः कश्यपाद्यास्तु मुनयोऽतितपोधनाः

23.115

उन्मुच्य ब्रह्मवचनाद्वल्कलञ्चाजिनं जटाः ।
मन्दाकिनीजलेनाशु स्नापयित्वा सुतं विधेः

23.116

जाम्बुनदैस्तथा दिव्यैर्भूषणैश्च मनोहरैः ।
वसिष्ठं भूषयांचक्रुस्तथैवारुन्धतीं सतीम्

23.117

भूषयित्वाथ तौ तत्र समाप्य मुनिभिर्विधिम् ।
विवाहावभृथंचक्रुस्तयोर्विधि हरीश्वराः

23.118

निधाय सर्वतीर्थानां तोयं जाम्बुनदे घटे ।
आशीर्वादकरैर्मन्त्रैर्गायत्र्या द्रुपदादिभिः

23.119

स्वयं तौ स्नापयाञ्चक्रुर्ब्रह्मविष्णुमहेश्वराः ।
ततो महर्षयश्चान्ये तथा देवर्षयश्च ये

23.120

ते सर्वे ऋग्यजुः सामवेदभागैर्महास्वरैः ।
गङ्गादि सरितां तोयैश्चक्रुः शान्तिं तयोर्मुहुः

23.121

भुवनत्रयसञ्चारि विमानं सूर्यवर्चसम् ।
अव्याहतगतिं ब्रह्मा सतोयञ्च कमण्डलुम्

23.122

ताभ्यां दायं ददौ विष्णुर्दुप्रापं स्थानमुत्तमम् ।
यदूर्ध्व सर्वदेवानां मरीच्यादेः समीपतः ।
सप्तकल्पान्तजीवित्वं रुद्रः प्रादात्तयोर्वरम्

23.123

अदितिः कुण्डलयुगं ब्रह्मणा निर्मितं स्वकम् ।
ददौ स्वकर्णादाकृष्य पुत्र्यै मेधातिथेस्तदा

23.124

पतिव्रतात्वं सावित्री बहुला बहुपुत्रताम् ।
देवेन्द्रो बहुरनानि धनेशेन समं ददौ

23.125

एवं देवाश्च मुनयो देव्यश्चान्ये च ये स्थिताः ।
ददुस्तत्र यथायोग्यं दायं ताभ्यां पृथक् पृथक्

23.126

एवं विवाह्य विधिवत् सौवर्णे मानसाचले ।
अरुन्धतीं वसिष्ठस्तु मोदमाप तया सह

23.127

तत्र यत् पतितं तोयं मानसाचलकन्दरे ।
विवाहावभृथार्थाय शान्तये च सुराहृतम्

23.128

ब्रह्मविष्णुमहादेवपाणिभिः समुदीरितम् ।
तत्तोयं सप्तधा भूत्वा पतितं मानसाचलात् ।
हिमाद्रेः कन्दरे सानौ सरस्याञ्च पृथक् पृथक्

23.129

तत्तोयं पतितं शिप्रे देवभोग्ये सरोवरे ।
तेन शिप्रानदीजाता विष्णुना प्रेरिता क्षितौ

23.130

महाकौषी प्रपाते तु यद्वारि पतितं तु वै ।
कौषिकी नाम सा जाता विश्वामित्रावतारिता

23.132

उमा क्षेत्रे यत् पतितं तोयं तेन महानदी ॥१३१।
कावेरी नाम सा जाता महाकालसरः सृता ।
महाकाले सरः श्रेष्ठे पतितं तज्जलं गिरेः

23.133

हिमाद्रेः पार्श्वभागे तु दक्षिणे शंभुसन्निधौ ।
गोमती नाम तैर्जाता नदी गोमदुदीरिता

23.134

मैनाको नाम यः पुत्रः शैलराजस्य तत्समः ।
तस्मिन् सानौ समुत्पन्नो मेनकोदरतः पुरा

23.135

यत्तत्र पतितं तोयं तेन जाता महानदी ।
देविकाख्या महादेवप्रेरितो सागरं प्रति

23.136

यत्तोयं सङ्गतं दर्यां हंसावतारसन्निधौ ।
तेनाभूत् सरयूर्नाम्ना नदी पुण्यतमा स्मृता

23.137

यान्यम्भांसि महापार्श्वे खाण्डवारण्यसन्निधौ ।
हिमवत्कन्दरे याम्ये इराया हृदमध्यतः ।
इरावती नाम नदी तैर्जाता च सरिद्वरा

23.138

एता: सर्वाः स्नानपान सेवनैर्जाह्नवी यथा ।
फलं ददति मर्त्यानां दक्षिणोदधिगाः सदा

23.139

धर्मार्थकाममोक्षाणां बीजभूताः सनातनाः ।
महानद्यस्तु सप्तैताः सर्वदा देवभोगदाः

23.140

एवं नद्यः सप्तजाताः सदापुण्यतमोदकाः ।
अरुन्धत्या वसिष्ठस्य विवाहे देवसन्निधौ

23.141

एवं विवाह्य स तदा वसिष्ठस्तामरुन्धतीम् ।
देवैर्दत्तं तदा स्थानं विमानेन जगाम ह

23.142

ब्रह्म विष्णु महेशानां वचनान्मुनिसत्तमः ।
हिताय सर्वजगतां त्रिषु लोकेषु सर्वदा

23.143

यस्मिन् यस्मिन् युगे यादृक् स्त्रीणां भवति तादृशम्

23.144

वेशं भावं शरीरं च कृत्वा धर्मे नियोजनम् ।
विचरत्येष लोकांस्त्रीनप्रमत्तः प्रसन्नधीः

23.145

एवं पुरा वसिष्ठेन परिणीतात्वरुन्धती

23.146

सा हितार्थाय जगतां देवानां वचनात् पुरा

23.147

य इदं शृणुयान्नित्यमाख्यानं धर्मसाधनम् ।
सर्वकल्याणसंयुक्तं चिरायुर्वित्तवान् भवेत्

23.148

या स्त्री शृणोति सततमरुन्धत्याः कथामिमाम् ।
पतिव्रता सा भूत्वेह परत्र स्वर्गमाप्नुयात्

23.149

इदं परं स्वस्त्ययनमिदं धर्मप्रदं परम् ।
आख्यानं सर्वदा कीर्तिर्यशः पुण्यविवर्धनम्

23.150

विवाहे पुंसि यात्रायां यः श्राद्धे श्रावयेत्तथा ।
स्थैर्यं पुंसवनं सिद्धिः पितृप्रीतिश्च जायते

23.151

इति वः कथितं सर्वं वसिष्ठस्य महात्मनः ।
अरुन्धती यथाभूता भार्या वापि पतिव्रता

23.152

यस्य वा तनया जाता यथोत्पन्ना च यत्र च ।
यथा ब्रह्महरीशानां वचनात् स वृतः पतिः

23.153

एतत् वः सर्वमाख्यातं गुह्यतरं परम् ।
पुण्यदं पापहरणमायुरारोग्यवर्धनम्

23.154

इति विपुलवृषौघ क्षेमकारीतिहासं सदसि सकृदपीह श्रावयेद्यो द्विजानाम् ।
स भवति कलुषौद्यैर्हीन देहः समेतो मुनिवरसहचर्यां प्रेत्य गीर्वाण एव

23.23

॥ इति श्रीकालिकापुराणे वसिष्ठारुन्धतीविवाहो नाम त्रयोविंशोऽध्यायः

कालिका पुराण हिन्दी अनुवाद पढने के लिए देखें-[ह्त्त्प्स्:॥प्त्वैस्ह्नवि.ब्लोग्स्पोत्.चोम्।2023।03।कलिक-पुरन्-अध्यय्-23.ह्त्म्ल् द्प् कर्मकन्द्]

मूल पाठ: kālikāpurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc