कालिकापुराणम् · अध्याय 18
कालिकापुराणम् अष्टादशोऽध्यायः शिवविषादवर्णनम्
अथ कालिका पुराण अध्याय १८
॥ मार्कण्डेय उवाच ॥
दाक्षायणीगुणगणान् गणयन् गोरङ्गस्तदा ।
विललापातिदुःखार्तो मनुजः प्राकृतो यथा
विलपन्तं तदा भर्ग विज्ञाय मकरध्वजः ।
रतीबसन्तसहित आससाद महेश्वरम्
तं शुचातिपरिभ्रष्टं युगपत् स रतिपतिः ।
जघान पञ्चभिर्बाणैः रुदन्तं भ्रष्टचेतनम्
शोकाभिहतचित्तोऽपि स्मरबाण समाकुलः ।
सङ्कीर्णभावमापन्नः शुशोच च मुमोह च
क्षणं भूमौ निपतति क्षणमुत्थाय धावति ।
क्षणं भ्रमति तत्रैव निमीलति विभुः पुनः
ध्यायन् दाक्षायणीं देवीं हसमानः कदाचन ।
परिष्वजति भूमिष्ठां रसभावैरिव स्थिताम्
सती सतीति सततं नाम व्याहृत्य शङ्करः ।
मानं त्यज वृथेत्येवमुक्त्वा स्पृशति पाणिना
पाणिनापरिमाज्यैनामलङ्कारान् यथास्थितान् ।
तस्या विश्लिष्य च पुनस्तत्रैवानुयुयोज च
एवं कुर्वति भूतेशे मृता नोवाच किञ्चन ।
यदा सती तदा भर्गः शोकाद्गाढं रुरोद ह
रुदतस्तस्य पततो वाष्पान् वीक्ष्य तदा सुराः ।
ब्रह्मादयः परां चिन्तां जग्मुश्चिन्तापरायणाः
वाष्पाः पतन्तो भूमौ चेद्दहेयुः पृथिवीमिमाम् ।
उपायस्तत्र कः कार्य इति हा हेति चुक्रुशुः
ततो विमृष्यते देवा ब्रह्माद्यास्तु शनैश्चरम् ।
तुष्टुवुर्मूढभर्गस्य वाष्पधारणकारणात्
शनिस्तोत्र
॥ देवा ऊचुः ॥
शनैश्चर महाभाग लोकानुग्रहकारक ।
मूलशक्तिसमुद्भूत नमस्ते सूर्यसम्भव
नमस्ते शूलहस्ताय पाशहस्ताय धन्विने ।
तथा वरदहस्ताय तमश्छायात्मजाय ते
नीलमेघ प्रतीकाश भिन्नाञ्जनचयोपम ।
नमस्ते सर्व-लोकानां प्राणधारणहेतवे
गृध्रध्वज नमस्तेऽस्तु प्रसीद भगवन् दृढम् ।
वाष्पेभ्यः शोकजेभ्यश्च पाहि भर्गस्य नः क्षितिम्
यथा पुरा शतं वर्षानवजग्राह वर्षणम् ।
भवानेव तु मेघेभ्यस्तथा कुरु हराम्बुनि
तव चापग्रहं दृष्ट्वा मेघास्ते पुष्करादयः ।
मुमुचुः सततं वर्ष महेन्द्रस्य किलाज्ञया
आकाश एव वर्षाम्भस्तत्सर्वं भवता पुरा ।
विनाशितं यथा वाष्पं तथा नाशय शूलिनः
न त्वामृतेऽन्यः शक्तोऽस्ति हरवाष्पनिवारणे ।
दहेत् सदेवगन्धर्वब्रह्मलोकान् सपर्वतान् ।
पृथिवीं पतितो वाष्पस्तस्माद्धारय मायया
॥ मार्कण्डेय उवाच । ।
इत्येवम्भाषमाणेषु देवेषु मिहिरात्मजः ।
प्रत्युवाच स तान् देवान्नातिहृष्टमना इव
॥ शनैश्वर उवाच ॥
करिष्ये भवतां कर्म यथाशक्ति सुरोत्तमाः ।
तथा किन्तु विदग्धं हि न मां वेत्ति यथा हरः
दुःखशोकाकुलस्यास्य समीपे वाष्पधारिणः ।
कोपान्नश्येच्छरीरं मे नियतं नात्र संशयः
तस्माद् यथा मां भूतेशो न जानाति सतीपतिः ।
तथा कुरुध्वं नेत्रेभ्यो हरलोतकधारिणम्
॥ मार्कण्डेय उवाच ॥
ततो ब्रह्मादयो देवास्ते सर्वे शङ्करान्तिकम् ।
गत्वा हरं सम्मुमुहुः सांसार्या योगमायया
शनैश्चरोऽपि भूतेशमासाद्यान्तर्हितस्तदा ।
वाष्पवृष्टिं दुराधर्षामवजग्राह मायया
यदा स नाशकद्वाष्पान् सन्धारयितुमर्कजः ।
तदा महागिरौ क्षिप्ता वाष्पास्ते जलधारके
लोकालोकस्य निकटे जलधाराह्वयो गिरिः ।
पुष्करद्वीपपृष्ठस्थस्तोयसागर पश्चिमे
स तु सर्वप्रमाणेन मेरुपर्वतसन्निभः ।
तस्मिन् विन्यस्तवान् वाष्पांस्तदाशक्तः शनैश्चरः
स पर्वतोपि तान् वाष्पान्न धर्तुं क्षम ईशितुः ।
विदीर्णस्तैस्तु वाष्पौघैर्भग्नमध्योऽभवद्द्भुतम्
ते वाष्पाः पर्वतं भित्वा विविशुस्तोयसागरम् ।
सागरोऽपि ग्रहीतुं तन्न शशाक खरानति
ततस्तु सागरं मध्ये भित्वा वाष्पाः समागताः ।
तोयधेः प्राग्भवां वेलां स्पर्शमात्राद्विभेद ताम्
विभिद्य वेलां ते वाष्पाः पुष्करद्वीपमध्यगाः ।
नदी भूत्वा वैतरणी पूर्वसागरगाभवत्
जलधारस्य भेदेन संसर्गात् सागरस्य च ।
अवाप्य सौम्यतां किञ्चिद्वाष्पास्ते नाभिन्दन् क्षितिम्
वैवस्वतपुरद्वारे योजनद्वयविस्तृता ।
अद्यापि तिष्ठत्यपगा हरलोतकसम्भवा
॥ शक्ति पीठ स्थापन ॥
अथ शोकविमूढात्मा विलपन् वृषभध्वजः ।
जगाम प्राच्यदेशांस्तु स्कन्धे कृत्वा सतीशवम्
उन्मत्तवद्गच्छतोऽस्य दृष्ट्वा भावं दिवौकसः ।
ब्रह्माद्याश्चिन्तयामासुः शवभ्रंशनकर्मणि
हरगात्रस्य संस्पर्शाच्छवो नायं विशीर्णताम् ।
गमिष्यति कथं तस्मादस्य भ्रंशो भविष्यति
इति सञ्चिन्तयन्तस्ते ब्रह्मविष्णुशनैश्चराः ।
सतीशवान्तर्विविशुरदृश्या योगमायया
प्रविश्याथ शवं देवाः खण्डशस्ते सतीशवम् ।
भूतले पातयामासुः स्थाने स्थाने विशेषतः
देवीकूटे पादयुग्मं प्रथमं न्यपतत् क्षितौ ।
उड्डीयाने चोरुयुग्मं हिताय जगतां ततः
कामरूपे कामगिरौ न्यपतत्योनिमण्डलम् ।
तत्रैव न्यपतद्भूमौ पर्वते नाभिमण्डलम्
जालन्धरे स्तनयुगं स्वर्णहारविभूषितम् ।
अंशग्रीवं पूर्णगिरौ कामरूपात्ततः शिरः
यावद्भुवं गतो भर्गः समादाय सतीशवम्
प्राच्येषु याज्ञिको देशस्तावदेव प्रकीर्तितः
अन्ये शरीरावयवा लवश: खण्डिताः सुरैः ।
आकाशगङ्गामगमन् पवनेन समीरिताः
यत्र यत्रापतन् सत्यास्तदापादादयो द्विजाः ।
तत्र तत्र महादेव: स्वयं लिङ्गस्वरूपधृक् ।
तस्थौ मोहसमायुक्तः सतीस्नेहवशानुगः
ब्रह्मविष्णुशनिश्चापि सर्वे देवगणास्तथा ।
पूजयाञ्चक्रुरीशस्य प्रीत्या सत्याः पदादिकम्
देवीकूटे महादेवी महाभागेति गीयते ।
सतीपादयुगे लीना योगनिद्रा जगत् प्रभुः
कात्यायनी चोड्डीयाने कामाख्या कामरूपिणी ।
पूर्णेश्वरी पूर्णगिरौ चण्डी जालन्धरे गिरौ
पूर्वान्त कामरूपस्य देवी दिक्करवासिनी ।
तथा ललितकान्तेति योगनिद्रा प्रगीयते
यत्रैव पतितं सत्या: शिरस्तत्र वृषध्वजः ।
उपविष्टः शिरो वीक्ष्य श्वसञ्छोकपरायणः
उपविष्टे हरे तत्र ब्रह्माद्यास्ते दिवौकसः ।
समीपमगमंस्तस्य दूरत: सान्त्वयन् हरम्
देवानागच्छतो दृष्ट्वा शोक- लज्जासमन्वितः ।
गत्वा शिलात्वं तत्रैव लिङ्गत्वं गतवान् हरः
हरे लिङ्गत्वमापन्ने ब्रह्माद्यास्तु दिवौकसः ।
तुष्टुवुत्र्यम्बकं तत्र लिङ्गरूपं जगद्गुरूम्
शिव स्तुति
॥ देवा ऊचुः ॥
महादेवं शिवं स्थाणुमुग्रं रूद्रं वृषध्वजम् ।
श्मशानवासिनं भर्गं सर्वान्तकरणं परम्
त्वां नमामो वयं भक्त्या शङ्करं नीललोहितम् ।
गिरीशं वरदं देवं भूतभावनमव्ययम्
अनादिमध्यसंसारयोगविद्याय शम्भवे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये
जटिलाय गिरीशाय विद्याशक्तिधराय ते ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये
ज्ञानामृतान्तसम्पूर्णशुद्धदेहान्तराय च ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये
आदिमध्यान्त भूताय स्वभावानलदीप्तये ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये
प्रलयार्णवसंस्थाय प्रलयस्थितिहेतवे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये
यः परेभ्यः परस्तस्मात् पराय परमात्मने ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये
ज्वालामालावृताङ्गाय नमस्ते विश्वरूपिणे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये
नमः परमार्थाय ज्ञानदीपाय वेधसे ।
नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये
नमो दाक्षायणीकान्त मृड शर्व महेश्वर ।
नमस्ते सर्वभूतेश प्रसीद भगवञ्छिव
सशोके त्वयि लोकेशे चेष्टमाने महेश्वर ।
सुराः समाकुलाः सर्वे तस्माच्छोकं परित्यज
नमो नमस्ते भूतेश सर्वकारणकारण ।
प्रसीद रक्ष नः सर्वांस्त्यज शोकं नमोऽस्तुते
॥ मार्कण्डेय उवाच ॥
इति संस्तूयमानस्तु महादेवो जगत्पतिः ।
निजं रूपं समास्थाय प्रादुर्भूतः शुचाहतः
तं शुचा विह्वलं दृष्टा प्रादुर्भूतं विचेतसम् ।
शोकापहं विधिं साम्ना तुष्टाव वृषभध्वजम्
ब्रह्मकृता शिवस्तुति
॥ ब्रह्मोवाच ॥
हिरण्यबाहो ब्रह्मा त्वं विष्णुस्त्वं जगतः पतिः ।
सृष्टिस्थितिविनाशानां हेतुस्त्वं केवलं हर
त्वमष्टमूर्तिभिः सर्वं जगद्व्याप्य चराचरम् ।
उत्पादकः स्थापकश्च नाशक श्चापि विश्वकृत्
त्वामाराध्य महादेव मुक्तिं याता मुमुक्षवः ।
रागद्वेषादिभिस्त्यक्ताः संसारविमुखा बुधाः
विभिन्नवाय्वग्निजलौघवर्जितं न दूरसंस्थं रविचन्द्रसंयुतम् ।
त्रिमार्गमध्यस्थमनुप्रकाशकं तत्त्वं परं शुद्धमयं महेश्वर
यदष्टशाखस्य तरोः प्रसूनं चिदम्बुवृद्धस्य समीपजस्य ।
तपश्छदः संस्थगितस्य पीनं सूक्ष्मोपगं ते वशगं सदैव
अधः समाधाय समीरणस्वनं निरुद्ध्यं चोर्द्धं निशि हंसमध्यतः ।
हृत्पद्ममध्ये सुमुखीकृतं रजः परन्तु तेजस्तव सर्वदेक्ष्यताम्
प्राणायामैः पूरकैः स्तम्भकैर्वा रिक्तैश्चित्रैश्चोदनं यत्पराख्यम् ।
दृश्यादृश्यं योगिभिस्ते प्रपञ्चाः शुद्धं वृद्धं तत्त्वतस्तेऽस्ति लब्धम्
सूक्ष्मं जगद्व्यापि गुणौघपीनं मृग्यम्बुधेःसाधनसाध्यरूपम् ।
चौरैर क्षैनोज्झितं नैव नीतं वित्तं तवास्त्यर्थहीनं महेश
न कोपेन न शोकेन न मानेन न दम्भतः ।
उपयोज्य तु तद्वित्तमन्यथेव विवर्धते
मायया मोहितः शम्भो विस्मृतं ते हृदि स्थितम् ।
मायां भिन्नं परिज्ञाय धारयात्मानमात्मना
मायास्माभिः स्तुता पूर्वं जगदर्थे महेश्वर ।
तया ध्यानगतं चित्तं बहुयत्नैः प्रसाधितम्
शोकः क्रोधश्च लोभश्च कामो मोहः परात्मता ।
ईर्ष्यामानौ विचिकित्सा कृपासूया जुगुप्सता
द्वादशैते बुद्धिनाशहेतवो मनसो मलाः ।
न त्वादृशैर्निषेव्यन्ते शोकं त्यज ततो हर
॥ मार्कण्डेय उवाच ॥
इति शाम्ना स्तुत: शम्भुः संस्मृत्यपि स्ववाञ्छितम् ।
नावदध्रे तदात्मानं शोकात् सत्या विनाकृतः
अधोमुखः स्थितं वीक्ष्य ब्रह्माणं सः शनैरिदम् ।
प्राह ब्रह्मन्नायतिगं वद किं करवाण्यहम्
॥ मार्कण्डेय उवाच ॥
इत्युक्तो वामदेवेन विधाता सर्वदेवतैः ।
इदमाह तदेशस्य शोकविध्वंसकं वचः
॥ ब्रह्मोवाच ॥
त्यज शोकं महादेव संस्मृत्यात्मानमात्मना ।
न त्वं शोकस्य सदनं परं शोकात्तवान्तरम्
सशोके त्वयि भूतेश देवा भूताः ससाध्वसाः ।
भ्रंशयेज्जगतीं कोपः शोकः सर्वांश्च शोषयेत्
त्वद्वाष्पव्याकुला पृथ्वी विदीर्णा स्यान्न चेच्छनिः ।
अवजग्राह ते वाष्पं सोऽपि कृष्णोऽभवद् हठात्
यत्र देवाः सगन्धर्वाः सदा क्रीडन्ति सोत्सुकाः ।
सुमेरुसदृशो योऽसौ मानतः पर्वतोत्तमः
यस्मिन् प्रविश्य शिशिरे पद्मनालनिभे घनाः ।
उत्पिबन्ति स्म तोयानि पुष्करावर्तकादयः
मन्दरात् सततं यत्र कुम्भयोनिर्महामुनिः ।
गत्वा गत्वा तपस्तेपे हिताय जगतो हरः
यस्मिन् स्थित्वा गिरौ पूर्वमगस्त्यस्तोयसागरम् ।
पपौ तपोबलात् कृत्वा करमध्यगतं किल
शनैश्चरेण ते वोढुमसमर्थेन लोतकैः ।
क्षिप्तैर्विदारितस्तेऽसौ जलधाराह्वयो गिरिः
विभिद्य पर्वतं शम्भो वाष्पास्ते सागरं ययुः ।
भित्त्वा तु सागरं शीघ्रं प्रभीताण्डजसंकुलम्
जग्मुस्ते पूर्वपुलिनं तस्य द्विभिदुश्च ते ।
भित्वा वेलां ततः पृथ्वीं यिभिद्याशु तरङ्गिणीम्
चक्रुर्वैतरणीं नाम्ना पूर्वसागरगामिनीम् ।
न नावा न विमानेन न द्रोण्या स्यन्दनेन च
तर्तुं शक्या सा तु नदी तप्ततोयातिभीषणा ।
दुःखेन तान्तु पृथिवी विभर्ति महताधुना
सदा चोर्द्धगतैर्वाष्पैर्विक्षिपन्ती नभश्चरान् ।
तस्यास्तूपरि नो यान्ति देवा अपि भयातुराः
यमद्वारं परावृत्य योजनद्वयविस्तृता ।
निम्ना वहति सम्पूर्णा भीषयन्ती जगत्त्रयम्
त्वन्निःश्वासमरुज्जातैर्व्यस्ता पर्वतकाननाः ।
समाकुलद्वीपिनागा नाद्यापि प्रतिशेरते
तव निःश्वासजो वायुः पीडयन् जगतः सुखम् ।
नाद्यापि प्रशमं याति बाधाहीनः सनातनः
सतीशवं ते वहतः शीर्यमाणा पदे पदे ।
नाद्यापि व्याकुला पृथ्वी व्याकुलत्वं विमुञ्चति
न स्वर्गे न च पाताले तत्सत्त्वं विद्यतेऽधुना ।
यत्ते क्रोधेन शोकेन नाकुलं वृषभध्वज
तस्माच्छोकममर्षञ्च त्यक्त्वा शान्तिं प्रयच्छ नः।
आत्मानञ्चात्मना वेत्थ धारयात्मानमात्मना
सती च दिव्यमानेन व्यतीते शरदां शते ।
सा च त्रेतायुगस्यादौ भार्या तव भविष्यति
॥ मार्कण्डेय उवाच ॥
इत्युक्तो वेधसा शम्भुस्तूष्णीं ध्यानपरायणः ।
अधोमुखस्तदा प्राह ब्रह्माणममितौजसम्
॥ ईश्वर उवाच ॥
यावद् ब्रह्मन्नहं शोकादुत्तरामि सतीकृतान् ।
तावन्मम सखा भूत्वा कुरु शोकापनोदनम्
तस्मिन्नवसरे यत्र यत्र गच्छाम्यहं विधे ।
तत्र तत्र भवान् गत्वा शोकहानिं करोतु मे
॥ मार्कण्डेय उवाच ॥
एवमस्त्विति लोकेश प्रोक्त्वा वृषभवाहनम् ।
हरेण सार्धं कैलासं गन्तुं चक्रे मनस्ततः
ब्रह्मणा सहितं शम्भुं कैलासगमनोत्सुकम् ।
समासेदुर्गणा दृष्ट्वा नन्दिभृंगिमुखाश्च ये
ततः पर्वतसंकाशो वृषभ: पुरतो विधेः ।
उपतस्थे सिताभ्रस्य सदृशो गैरिको यथा
वासुक्याद्याश्च ये सर्पा यथास्थानञ्च ते हरम् ।
भूषयांचक्रुरुद्रम्य शिरोबाह्वादिषु द्रुतम्
ततो ब्रह्मा च विष्णुश्च महादेवः सतीपतिः ।
सर्वैः सुरगणैः सार्धं जग्मुः प्रालेयपर्वतम्
ततस्तानौषधिप्रस्थान् निःसृत्य नगराद्गिरिः ।
सर्वैरमात्यैः सहित उपतस्थे सुरोत्तमान्
ततः सम्पूजितास्तेन सुरौघा गिरिणा सह ।
सचिवैः पौरवर्णैश्च मुमुदुस्ते सुरर्षभाः
ततो ददर्श तत्रैव गिरीन्द्रस्य पुरे हरः ।
विजयामौषधिप्रस्थे सखीभिर्गौतमात्मजाम्
सापि सर्वान् सुरवरान् प्रणम्य हरमुक्तवान् ।
चुक्रोश मातृभगिनीं पृच्छन्तीं गिरिशं सतीम्
क्व सती ते महादेव शोभसे न तया विना ।
विस्मृतापि त्वया तात मधृदो नापसर्पति
ममाग्रे सा पुरा प्राणान् यदा त्यजति कोपतः ।
तदैवाहं शोकशल्यविद्धा नाप्नोमि वै सुखम्
इत्युक्त्वा वदनं वस्त्रप्रान्तेनाच्छाद्य सा भृशम् ।
रुदन्ती प्रापतद्भूमौ कश्मलञ्चाविशत्तदा
॥ इति श्रीकालिकापुराणे शिवविषादवर्णनम् नाम अष्टादशोऽध्यायः
कालिका पुराण हिन्दी अनुवाद पढने के लिए देखें-[ह्त्त्प्स्:॥प्त्वैस्ह्नवि.ब्लोग्स्पोत्.चोम्।2023।03।कलिक-पुरन्-अध्यय्-18.ह्त्म्ल् द्प् कर्मकन्द्]
मूल पाठ: kālikāpurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0