भाषा

ENहिગુ
ग्रंथ पाठ

कालिकापुराणम् · अध्याय 12

12.1

कालिकापुराणम् द्वादशोऽध्यायः त्रिदेवानामनन्यत्वप्रतिपादनम्
कालिकापुराण बारहवाँ अध्याय - तीनो देवों का अनन्यत्व
अथ कालिका पुराण अध्याय १२
॥ ऋषय ऊचुः ॥
अनन्यत्वं त्रिदेवानां यज्जगाद जनार्दनः ।
शम्भवे तद्वयं श्रोतुमिच्छामो द्विजसत्तम

12.2

एकत्वं दर्शयामास कथं वा गरुडध्वजः ।
तत् समाचक्ष्व विप्रेन्द्र परं कौतूहलं हि नः

12.3

॥ मार्कण्डेय उवाच ॥
शृणुध्वं मुनयो गुह्यं परमं प्रयतं परम् ।
त्रिदेवानामनन्यत्वं तथैवैकत्वदर्शनम्

12.4

हरेण पृष्टो गोविन्दस्तं समाभाष्य सादरम् ।
इदमाह मुनिश्रेष्ठा अभिन्नप्रतिपादकम्

12.5

॥ श्रीभगवानुवाच ॥
इदं तमोमयं सर्वमासीद्भुवनवर्जितम् ।
अप्रज्ञातमलक्ष्यञ्च प्रसुप्तमिव सर्वतः

12.6

न दिवारात्रिभागोऽत्र नाकाशं न च काश्यपी ।
न ज्योतिर्न जलं वायुर्नान्यत् किञ्चन संस्थितम्

12.7

एकमासीत् परंब्रह्म सूक्ष्मं नित्यमतीन्द्रियम् ।
अव्यक्तं ज्ञानरूपेण द्वैतहीनविशेषणम्

12.8

प्रकृतिः पुरुषश्चैव नित्यौ द्वौ सर्वसंहितौ ।
स्थितः कालोऽपि भूतेश जगत्कारणमेककम्

12.9

यदेकं परमं ब्रह्म तत्स्वरूपात् परं हर ।
रुपत्रयमिदं नित्यं तस्यैव जगत: पतेः

12.10

कालो नामापरं रूपमनाद्यं तत्तु कारणम् ।
सर्वेषामेव भूतानामवच्छेदेन संगतः

12.11

ततस्तत् स्वप्रकाशेन भास्वद्रूपं प्रकाशते ।
पुरा सृष्ट्यर्थमतुलं क्षोभयन् प्रकृतिं स्वयम्

12.12

संक्षुब्धायान्तु प्रकृतौ महत्तत्त्वमजायत ।
महत्तत्त्वात्ततः पश्चादहङ्कारस्त्रिधाभवत्

12.13

अहङ्कारे तु संजाते शब्दतन्मात्रतस्ततः ।
आकाशमसृजद्विष्णुरनन्तं मूर्तिवर्जितम्

12.14

ततस्तु रसतन्मात्रादपः सृष्ट्वा महेश्वरः ।
निराधार: स्वयं दध्रे तास्तदा निजमायया

12.15

ततस्त्रिगुणसाम्येन संस्थितां प्रकृतिं प्रभुः ।
पुनः संक्षोभयामास सृष्ट्यर्थं परमेश्वरः

12.16

ततः सा प्रकृतिस्तासु बीजं त्रिगुणभागवत् ।
अप्सु संसर्जयामास जगद्वीजं निराकुलम्

12.17

तद्धि वृद्धं क्रमेणैव हैममण्डमभून्महत् ।
जग्राहापः समस्तास्ता गर्भ एव तदण्डकम्

12.18

अप्सु स्थितासु हैमाण्डगर्भे विष्णुस्तदण्डकम् ।
त्वयैव मायया दध्रे ब्रह्माण्डमतुलं पुनः

12.19

वारिणा वह्निभिश्चैव वायुभिर्नभसा तथा ।
बहिस्तदण्डकं छन्नं सर्वपार्श्वे समन्ततः

12.20

सप्तसागरमानेन तथा नद्यादि मानतः।
ब्रह्माण्डाभ्यन्तरे तोयं तदन्यत्तु बहिर्गतम्

12.21

तदन्तः स्वयमेवासौ विष्णुर्ब्रह्मस्वरूपधृक् ।
दैवं वर्षमूषित्वैव प्रविभेद तदण्डकम्

12.22

तस्मात् समभवन्मेरुरुत्पन्नोऽस्मिन् महेश्वर ।
जरायुः पर्वता जाता समुद्राः सप्त तज्जलात्

12.23

तन्मध्ये गन्धतन्मात्रात् पृथिवी समजायत ।
ईश्वरेण प्रकृत्या च योजिता त्रिगुणात्मिका

12.24

प्रागेव पर्वतादिभ्यः समुत्पन्ना वसुन्धरा ।
ब्रह्माण्डखण्डसंयोगादृढा भूता तु सा भृशम्

12.25

।
तस्यामेव स्थितो ब्रह्मा सर्वलोकगुरुः स्वयम् ।
यदा ब्रह्माण्डमध्यस्थो ब्रह्मा व्यक्तो न चाभवत् ।
तदैव रूपतन्मात्रात्तेजः सम्यगजायत

12.26

वायुस्तु स्पर्शतन्मात्रात् प्रकृत्या विनियोजितात् ।
बभूव सर्वभूतानां प्राणभूतः समन्ततः

12.27

अद्भिस्तेजोभिरतुलैर्वायुभिर्नभसा तथा ।
अन्तर्बहिस्तदण्डस्य व्याप्तमन्यत्तु गर्भगम्

12.28

ततो ब्रह्मशरीरन्तु त्रिधा चक्रे महेश्वरः ।
प्रधानेच्छावशाच्छम्भो त्रिगुणत्रिगुणीकृतम्

12.29

तदर्द्धभागः संज्ञातश्चतुर्वक्त्रश्चतुर्भुजः ।
पद्मकेशरगौराङ्ग कायो ब्राह्मो महेश्वरः

12.30

तन्मध्यभागो नीलाङ्ग एकवक्त्रश्वतुर्भुजः ।
शङ्खचक्रगदापद्मपाणि: कायः स वैष्णवः

12.31

अभवत्तदधोभागः पञ्चवक्त्रश्चतुर्भुजः ।
स्फटिकाभ्रसमः शुक्लः स कायश्चन्द्रशेखरः

12.32

इतस्ततो ब्राह्मकाये सृष्टिशक्तिं न्ययोजयत् ।
स्वयमेवाभवत् स्रष्टा ब्रह्मरूपेण लोकभृत्

12.33

स्थितिशक्तिं निजां मायां प्रकृत्याख्यां न्ययोजयत् ।
महेशो वैष्णवे काये ज्ञानशक्तिं निजां तथा

12.34

स्थितिकर्ताभवद्विष्णुरहमेव महेश्वर ।
सर्वशक्तिनियोगेन सदा तद्रूपता मम

12.35

अन्तः शक्तिं तथाकाये शाम्भवे च न्ययोजयत् ।
अन्तकर्ता भवच्छम्भुः स एव परमेश्वरः

12.36

ततस्त्रिषु शरीरेषु स्वयमेव प्रकाशते ।
ज्ञानरूपं परं ज्योतिरनादिर्भगवान् प्रभुः

12.37

सृष्टिस्थित्यन्तकरणादेक एव महेश्वरः।
ब्रह्माविष्णुः शिवश्चेति संज्ञामाप पृथक् पृथक्

12.38

अतस्त्वञ्च विधाता च तथाहमपि न पृथक् ।
एवं शरीरं रूपञ्च ज्ञानमस्माकमन्तरम्

12.39

॥ मार्कण्डेय उवाच ॥
एतच्छ्रुत्वा वचस्तस्य विष्णोरमिततेजसः ।
हर्षोत्फुल्लमुखः प्रोचे पुनरेव जनार्दनम्

12.40

॥ ईश्वर उवाच ॥
एक एव महेशश्चेत् ज्योतीरूपो निरञ्जनः ।
का वा मायाथ कः कालः का वा प्रकृतिरुच्यते

12.41

के पुमांसस्ततोभिन्नाभिन्नाश्चेत् कथमेकता ।
तन्मे वदस्व गोविन्द तत्प्रभावं यथागतम्

12.42

॥ श्रीभगवानुवाच ॥
त्वमेव पश्यसि सदा ध्यानस्थः परमेश्वरम् ।
आत्मन्यात्मस्वरूपं तज्ज्योतीरूपं सदक्षरम्

12.43

मायाञ्च प्रकृतिं कालं पुरुषञ्च स्वयं विभो ।
ज्ञाता त्वं ध्यानयोगेन यस्माद्ध्यानपरो भव

12.44

मायया मोहितो यस्मादधुना त्वम्मदीयया ।
ततो विस्मृत्य परमं ज्योतिर्हि वनितारतः

12.45

अधुना कोपयुक्तस्त्वं विस्मृत्यात्मानमात्मनि ।
यां पृच्छसि प्रकृत्यादिरूपाणि प्रमथाधिप

12.46

॥ मार्कण्डेय उवाच ॥
ततस्तत्र महादेवः श्रुत्वा वाक्यं सुनिश्चितम् ।
मुनीनां पश्यतां योगयुक्तो ध्यानपरोऽभवत्

12.47

आसाद्य बन्धं पर्यकं निर्निमीलितलोचनः ।
आत्मानञ्चिन्तयामास तदात्मनि महेश्वरः

12.48

परं चिन्तयतस्तस्य शरीरं विवभौ शुभम् ।
तेजोभिरुज्ज्वलं द्रष्टुं नशेकुर्मुनयस्तदा

12.49

तत्क्षणात् ध्यानयुक्तश्च शम्भुः स विष्णुमायया ।
परित्यक्तोऽति विवभौ तपस्तेजोभिरुज्ज्वलः

12.50

ये ये गणास्तदा तस्थुः सेवया शङ्करान्तिके ।
न तेऽपि वीक्षितुं शेकुः शङ्करं वा दिवाकरम्

12.51

स्वयमेव तदा विष्णुः समाधिमनसो भृशम् ।
प्रविवेश शरीरान्तर्ज्योतीरूपेण धूर्जटेः

12.52

प्रविश्य तस्य जठरे यथा सृष्टिक्रमः पुरा ।
तथैव दर्शयामास स्वयं नारायणोऽव्ययः

12.53

न स्थूलं न च सूक्ष्मञ्च न विशेषणगोचरम् ।
नित्यानन्दं निरानन्दमेकं शुद्धमतीन्द्रियम्

12.54

अदृश्यं सर्वद्रष्टारं निर्गुणं परमं पदम् ।
परमात्मगमानन्दं जगत्कारणकारणम्

12.55

प्रथमं ददृशे शम्भुरात्मानं तत्स्वरूपिणम् ।
तत्र प्रविष्टमनसा बहिर्ज्ञानविवर्जितः

12.56

तस्यैव रूपं प्रकृतिं सृष्ट्यर्थे भिन्नतां गताम् ।
ददर्श तस्यैवाभ्यासे पृथग्भूताविवैकिकाम्

12.57

पुरुषांश्च ददर्शासौ यथैव वसतस्ततः ।
अग्नेरिव कणात् स्थूलादजस्त्रं द्विजसत्तमाः

12.58

तदेव कालरूपेण भासते च मुहुर्मुहुः ।
सृष्टिस्थित्यन्तयोगानामवच्छेदेन कारणम्

12.59

प्रकृतिः पुरुषश्चैव कालोऽपि च मुहुर्मुहुः ।
अभिन्नान् भाषमानांश्च सर्गार्थे भिन्नतां गताम्

12.60

पृथग्भूतानभिन्नांश्च ददृशे चन्द्रशेखरः ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन

12.61

सप्रधानस्वरूपेण कालरूपेण भासते ।
तथापुरुषरूपेण संसारार्थं प्रवर्तते

12.62

भोगार्थं प्राणिनां शश्वच्छरीरे च प्रवर्तते ।
सैव माया या प्रकृतिः सा मोहयति शङ्करम्

12.63

हरिं तथा विरिञ्चिञ्च तथैवान्यजनुर्भवान् ।
मायाख्या प्रकृतिर्जात जन्तुं सन्मोहयत्यपि

12.64

सा स्त्री रूपेण च सदा लक्ष्मीभूता हरेः प्रिया ।
सा सावित्री रतिः सन्ध्या सा सती सैव वीरिणी

12.65

बुद्धिरूपा स्वयं देवी चण्डिकेति च गीयते ।
इति स्वयं ददर्शाशु ध्यानमार्गगतो हरः

12.66

महदादि प्रभेदेन तथा सृष्टिक्रमं स्वयम्

12.67

दर्शयित्वा हरिः कालं प्रकृतिं पुरुषांस्तथा ।
तथान्यद्दर्शयामास तच्छरीरं द्विजोत्तमाः

12.12

॥ श्रीकालिकापुराणे त्रिदेवानामनन्यत्वप्रतिपादनं नाम द्वादशोऽध्यायः

कालिका पुराण हिन्दी अनुवाद पढने के लिए देखें-[ह्त्त्प्स्:॥प्त्वैस्ह्नवि.ब्लोग्स्पोत्.चोम्।2023।03।कलिक-पुरन्-अध्यय्-12.ह्त्म्ल् द्प् कर्मकन्द्]

मूल पाठ: kālikāpurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc