कैवल्योपनिषद् · अध्याय 1
[ओं भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर् यजत्राः ।
स्थिरैर् अङ्गैस् तुष्टुवांसस् तनूभिर् व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस् तार्क्ष्यो ऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु ।
ओं शान्तिः शान्तिः शान्तिः ।]
ओं
अथाश्वलायनो भगवन्तं परमेष्ठिनम् उपसमेत्योवाच ।
अधीहि भगवन् ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् ।
यथाचिरात् [ययाचिरात्] सर्वपापं व्यपोह्य परात्परं पुरुषं याति विद्वान्
तस्मै स होवाच पितामहश् च श्रद्धा-भक्ति-ध्यान-योगाद् अवैहि ।
न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वम् आनशुः
परेण नाकं निहितं गुहायां विभ्राजते यद् यतयो विशन्ति ।
वेदान्त-विज्ञानसुनिश्चितार्थाः संन्यासयोगाद् यतयः शुद्धसत्त्वाः
ते ब्रह्मलोकेषु परान्तकाले परामृताः [परामृतात्] परिमुच्यन्ति सर्वे ।
विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरःशरीरः
अन्त्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य ।
हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विषदम् [विशदं] विशोकम्
अचिन्त्यम् अव्यक्तम् अनन्तरूपं शिवं प्रशान्तम् अमृतं ब्रह्मयोनिम् ।
तम् आदिमध्यान्तविहीनम् एकं विभुं चिदानन्दम् अरूपम् अद्भुतम्
उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ।
ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात्
स ब्रह्मा स शिवः सेन्द्रः सो ऽक्षरः परमः स्वराट् ।
स एव विष्णुः स प्राणः स कालो ऽग्निः स चन्द्रमाः
स एव सर्वं यद् भूतं यच् च भव्यं सनातनम् ।
ज्ञात्वा तं मृत्युम् अत्येति नान्यः पन्था विमुक्तये
सर्वभूतस्थम् आत्मानं सर्वभूतानि चात्मनि ।
संपश्यन् ब्रह्म परमं याति नान्येन हेतुना
आत्मानम् अरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ज्ञाननिर्मथनाभ्यासात् पापं [पाशं] दहति पण्डितः
स एव मायापरिमोहितात्मा शरीरम् आस्थाय करोति सर्वम् ।
स्त्रियन्नपानादिविचित्रभोगैः स एव जाग्रत् परितृप्तिम् एति
स्वप्न [स्वप्ने] स जीवः सुखदुःखभोक्ता स्वमायया कल्पितजीवलोके ।
सुषुप्तिकाले सकले विलीने तमो ऽभिभूतः सुखरूपम् एति
पुनश्च जन्मान्तरकर्मयोगात् स एव जीवः स्वपिति प्रबुद्धः ।
पुरत्रये क्रीडति यश्च जीवस् ततस् तु जातं सकलं विचित्रम्
धारमानन्दम् अखण्डबोधं यस्मिंल् लयं याति पुरत्रयं च ॥14*॥
एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर् ज्योतिर् आपः पृथिवी विश्वस्य धारिणी
यत् परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् ।
सूक्ष्मात् सूक्ष्मतरं नित्यं तत् त्वम् एव त्वम् एव तत्
जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत् प्रकाशते ।
तद् ब्रह्माहम् इति ज्ञात्वा सर्वबन्धैः प्रमुच्यते
त्रिषु धामसु यद् भोग्यं भोक्ता भोगश् च यद् भवेत् ।
तेभ्यो विलक्षणः साक्षी चिन्मात्रो ऽहं सदा शिवः
मय्य् एव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।
मयि सर्वंल् लयं याति तद् ब्रह्माद्वयम् अस्म्य् अहम्
[इति] प्रथमः खण्डः ॥
अणोर् अणियान् अहम् एव तद्वन् महान् अहं विश्वम् अहं विचित्रम् ।
पुरातनो ऽहं पुरुषो ऽहम् ईशो हिरण्मयो ऽहं शिवरूपम् अस्मि
अपाणिपादो ऽहम् अचिन्त्यशक्तिः पश्याम्य् अचक्षुः स शृणोम्य् अकर्णः ।
अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित् सदाहम्
वेदैर् अनेकैर् अहम् एव वेद्यो वेदान्तकृद् वेदविद् एव चाहम् ।
न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिर् अस्ति
न भूमिर् आपो न च वह्निर् अस्ति न चानिलो मे ऽस्ति न चाम्बरं च ।
एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलम् अद्वितीयम्
समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् ॥23*॥
यः शतरूद्रीयम् अधीते सो ऽग्निपूतो भवति स वायुपूतो भवति, स आत्मपूतो भवति स सुरापानात् पूतो भवति स ब्रह्महत्यात्पूतो भवति स सुवर्णस्तेयात् पूतो भवति स कृत्याकृत्यात् पूतो भवति तस्माद् अविमुक्तम् आश्रितो भवत्य् आश्रमी सर्वदा सकृद् वा जपेत् ।
अनेन ज्ञानम् आप्नोति संसारार्णवनाशनम् ।
तस्माद् एवं विदित्वैनं कैवल्यं पदम् [फलम्] अश्नुते ।
कैवल्यं पदम् [फलम्] अश्नुते
मूल पाठ: Kaivalyopaniṣad · Edition: Ramamaya Tarkaratna: The Arthavana Upanisads, Calucutta 1872, pp. 456-464. (Bibliotheca Indica, 76) · Data entry Jost Gippert · GRETIL (Göttingen) · CC BY-NC-SA 4.0