कादम्बरीकथासार · अध्याय 1
श्रियं दिशन्तु वः शौरेर् द्वये तुल्यश्रमाः क्रमाः ।
ये चादौ गोष्पदं पश्चात् त्रैलोक्यं क्राम्यतश् च ये ॥
सरसाः सदलङ्काराः प्रसादमधुरा गिरः ।
कान्तास् तातजयन्तस्य जयन्ति जगतीगुरोः ॥
गुणोद्द्योतनदीपानां सतां न परम् उज्ज्वलम् ।
यावन् मलिनम् अप्य् एषां कर्म दृष्टेः प्रसाधनम् ॥
गुणः कृशो ऽपि प्रथते पृथुर् अप्य् अपचीयते ।
प्राप्य साधुखलौ चन्द्रः पक्षाव् इव सितासितौ ॥
शक्तिनामाभवद् गौडो भारद्वाजकुले द्विजः ।
दार्वाभिसारम् आसाद्य कृतदारपरिग्रहः ॥
तस्य मित्राभिधानो ऽभूद् आत्मजस् तेजसां निधिः ।
जनेन दोषोपरमप्रबुद्धेनार्चितोदयः ॥
स शक्तिस्वामिनं पुत्रम् अवाप श्रुतशालिनम् ।
राज्ञः कर्कोटवंशस्य मुक्तापीडस्य मन्त्रिणम् ॥
कल्याणस्वामिनामास्य याज्ञवल्क्य इवाभवत् ।
तनयः शुद्धयोगर्द्धिनिर्धूतभवकल्मषः ॥
अगाधहृदयात् तस्मात् परमेश्वरमण्डनम् ।
अजायत सुतः कान्तश् चन्द्रो दुग्धोदधेर् इव ॥
पुत्रं कृतजनानन्दं स जयन्तम् अजीजनत् ।
आसीत् कवित्ववक्तृत्वफला यस्य सरस्वती ॥
वृत्तिकार इति व्यक्तं द्वितीयं नाम बिभ्रतः ।
वेदवेदाङ्गविदुषः सर्वशास्त्रार्थवादिनः ॥
जयन्तनाम्नः सुधियः साधुसाहित्यतत्त्ववित् ।
सूनुः समुदभूत् तस्माद् अभिनन्द इति श्रुतः ॥
काव्यविस्तरसंधानखेदालसधियः प्रति ।
तेन कादम्बरीसिन्धोः कथामात्रं समुद्धृतम् ॥
पुरुहूतपुरस्पर्धिविभवा भूषणं भुवः ।
बभूव विदिशा नाम पुरी वेत्रवतीतटे ॥
या पुण्यकर्मिणां तेजःशालिनां द्यौर् इवास्पदम् ।
रेजे रत्नगृहज्योतिर् जालैर् इन्द्रायुधप्रभैः ॥
तस्यां निजभुजोद्योगविजितारातिमण्डलः ।
आखण्डल इव श्रीमान् राजा शूद्रक इत्य् अभूत् ॥
अष्टानां लोकपालानां रूपं बिभ्रद् अपि प्रजाः ।
शश्वद् आनन्दयंस् ताभिश् चन्द्रमा इत्य् अवेदि यः ॥
स मेदिनीं विनिर्जित्य चतुरम्भोधिमेखलाम् ।
सचिवार्पिततद्भारस् तस्याम् आस्त यथासुखम् ॥
तेनानुद्वेजितजनैर् अर्थधर्माविरोधिभिः ।
विनोदैर् अत्यनीयन्त नवे वयसि वासराः ॥
तस्य चानन्यलभ्यानां सुखानां पारदृश्वनः ।
यूनो ऽपि सुरतक्रीडापराङ् मुखम् अभून् मनः ॥
प्रयत्नेनापि नावापि सा योषिद् विषमेषुणा ।
हर्तुं शशाक या तस्य हृदयं चक्षुर् एव वा ॥
अथ बाह्याङ्गणस्थानवर्तिनं तं कदाचन ।
प्रसृत्य प्रणयप्रह्वा प्रतीहारी व्यजिज्ञपत् ॥
दूराद् उपायनीकृत्य शुकम् आश्चर्यचेष्टितम् ।
चण्डालदारिका काचिद् आगता दर्शनार्थिनी ॥
श्रुत्वा क्षणं परामृश्य मुखम् आलोक्य मन्त्रिणाम् ।
समादिदेश तां राजा को दोषः प्रविशत्व् इति ॥
निजेन लक्ष्मणा लोकस्पर्शं परिहरन्त्य् अथ ।
मातङ्गकन्यकाविक्षद् अनुज्ञाता नृपाङ्गणम् ॥
तया च सह हस्तस्थसशुकस्वर्णपञ्जरः ।
वहन्न् अहिंस्रम् आकारं चण्डालस्थविरो ऽविशत् ॥
प्रविशन्तीं तु तां दृष्ट्वा कन्याम् अद्भुतदर्शनाम् ।
परं व्यस्मयत क्ष्मापः क्षणं चैवम् अचिन्तयत् ॥
इदं रूपम् इयं कान्तिर् इमे लावण्यशीकराः ।
मर्त्यताम् अपि न प्राहुर्मातङ्गत्वे तु का कथा ॥
तत् सत्यम् एव पश्यामि नूनं मातङ्गमायया ।
छन्नेयं देवता काचिन् मर्त्यलोकम् उपागता ॥
इत्यादि चिन्तयन्तं सा प्रगल्भवनितेव तम् ।
प्रणनाम महीपालम् अनाकुलविलोकिनी ॥
वैशम्पायननामायं रत्नम् अत्यद्भुतं शुकः ।
रत्नानां चास्पदं देवो दुग्धोदधिर् इवापरः ॥
इत्य् आदरेण नः स्वामिदुहित्रायम् उपाहृतः ।
प्रसादः क्रियताम् अस्या विहगः परिगृह्यताम् ॥
इत्य् उक्त्वा सो ऽग्रतो राज्ञः पञ्जरं मणिकुट्टिमे ।
विनिधाय प्रणम्यैनं सप्रश्रयम् अपासरत् ॥
इङ्गितज्ञा प्रतीहारी विवृतद्वारसम्पुटम् ।
अकरोत् पञ्जरं तस्मान् निर्ययौ च विहङ्गमः ॥
उत्क्षिप्य दक्षिणं पादं जयशब्दम् उदीर्य सः ।
प्रयुक्तवेदमन्त्राशीर् इमाम् आर्याम् अथापठत् ॥
स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्नेः ।
चरति विमुक्ताहारं व्रतम् इव भवतो रिपुस्त्रीणाम् ॥
ताम् आकर्ण्य महीपालो विस्मयोत्फुल्ललोचनः ।
कुमारपालनामानं प्रधानामात्यम् अब्रवीत् ॥
दृष्टं भवद्भिर् आश्चर्यम् ईदृशं श्रुतम् एव वा ।
तिर्यक्त्वे ऽतिशयः को ऽयं यो मनुष्येषु दुर्लभः ॥
श्रुताध्ययनसंस्कारो मातङ्गजनसंगतिः ।
मातङ्गेषु च कन्येयम् इत्य् आश्चर्यपरम्परा ॥
अमात्यस् त्व् अभ्यधाद् देव पूर्वसंस्कारकारिताः ।
भवन्त्य् अतिशयाः प्रायः प्राणिनां को ऽत्र विस्मयः ॥
एतानि तानि लिङ्गानि परलोकानुमां प्रति ।
तार्किकैर् उपपाद्यन्ते लोकायतनिराकृतौ ॥
विचित्रा वेधसः सृष्टिर्विचित्रा कर्मवासना ।
विचित्रस् तद्विपाकश् च विचित्रः कालपर्ययः ॥
इत्यादिशुकसम्बन्धिकथाविच्छेदकारणम् ।
उदभूत् तारगम्भीरो मध्याह्णपटहध्वनिः ॥
बहिः प्रकल्प्यताम् अस्याः सुखायावसथादिकम् ।
अयं चाभ्यन्तरं पत्ररथभूपः प्रवेश्यताम् ॥
इत्य् आदिश्य प्रतीहारीं सभाम् औज्झन् महीपतिः ।
विससर्ज च राजन्यचक्रं सेवार्थम् आगतम् ॥
ततः कृताल्पव्यायामः स्नातः पूजितदैवतः ।
हुताग्निः श्रुतविप्राशीर् भुक्त्वा शय्यागृहं ययौ ॥
तत्र पर्यङ्कम् आरुह्य ध्यात्वैव किम् अपि क्षणम् ।
तम् अन्तःपुरविश्रान्तं शुकम् आनाययत् पुनः ॥
तं च कञ्चुकिनानीतमादौ पृष्ट्वा सुखासिकाम् ।
पप्रच्छ कौतुकाक्षिप्तस् तद्वृत्तान्तम् अनन्तरम् ॥
वैशम्पायन को नु त्वं क्व जातः क्वोषितश् चिरम् ।
कुतस्त्यम् इदम् ईदृक् ते कलाशास्त्रादिकौशलम् ॥
मन्ये जातिस्मरः को ऽपि भवान् भूमिम् इमां गतः ।
न ह्य् अस्त्य् अतिशयप्राप्तिर् इयती पक्षिजातिषु ॥
केन वा भवतो नाम कृतं विप्रजनोचितम् ।
ईदृशान्यभिधानानि कुतो ऽन्त्यजनवेश्मसु ॥
कथं चण्डालसम्पर्क इह वा कथम् आगमः ।
इति कार्त्स्न्येन वृत्तान्तम् आत्मनो वक्तुम् अर्हसि ॥
इति पृष्टः क्षितीशेन बहुमानपुरःसरम् ।
क्षणं बुद्ध्यानुसंधाय शुको वक्तुं प्रचक्रमे ॥
देव विन्ध्याटवी तावत्तव श्रुतिपथं गता ।
पूर्वापरपयोराशिवेलासंस्पर्शशालिनी ॥
यदेकदेशे कण्डूलगण्डेभदलितद्रुमे ।
उषितौ दण्डकारण्ये ससीतौ रामलक्ष्मणौ ॥
यत्रागस्त्यमुनेर् आसीद् आश्रमः शमिनां मतः ।
लोपामुद्राकराक्षिप्तजलसंवर्धितद्रुमः ॥
तस्योपकण्ठे पम्पाख्यम् अस्ति पुण्यजलं सरः ।
सीताकरतलोल्लूनश्रवणाभरणोत्पलम् ॥
तस्यास्ति पश्चिमे तीरे जीर्णः शाल्मलिपादपः ।
आरोहपरिणाहाभ्यां व्याप्तव्योमदिगन्तरः ॥
तस्मिन् कृतकुलायानि वीतभीतीनि दुर्गमे ।
विहङ्गमसहस्राणि निवसन्ति निरन्तरम् ॥
दिवा तान्य् अभिनिर्वर्त्य प्राणयात्राम् इतस् ततः ।
तत्रागत्य स्वनीडेषु सुखं रात्रिषु शेरते ॥
तत्रैव बद्धवसती अभूतां पितरौ मम ।
जातो ऽहम् एकस् तनयस् तयोर् वयसि पश्चिमे ॥
उद्वोढुमसमर्था सा तीव्रां प्रसववेदनाम् ।
तयैव पञ्चतां नीता जननी मे दुरात्मनः ॥
जायावियोगदग्धो ऽपि तातः पुत्रैषणातुरः ।
शोकमुत्सृज्य मत्प्राणपोषणे यत्नम् अग्रहीत् ॥
न शशाक क्वचिद् गन्तुम् आत्मनः प्राणवृत्तये ।
मां वक्षसि निधायास्त नीड एव दिवानिशम् ॥
अन्यपत्ररथानीतभुक्तोज्झितफलादिना ।
मदाप्यायनशिष्टेन सो ऽकरोद् वृत्तिम् आत्मनः ॥
अतिक्रामति काले ऽथ किञ्चिदुद्भिन्नपक्षतौ ।
तातवक्षःस्थलस्थे ऽपि मय्य् उड्डयनलालसे ॥
अकस्माद् एव सम्भ्रान्तमृगपक्षिकुलश्रुतः ।
अभूत् कलकलस् तस्मिन्न् अरण्ये यमदुन्दुभिः ॥
ततस् तातोरसः किञ्चिद् उन्नमय्य शिरोधराम् ।
कुतूहलवशाच् चक्षुर् दिक्षु निक्षिप्तवानहम् ॥
अथापश्यम् असंख्यातकिरातपरिवारितम् ।
वने शबरसेनान्यम् आयान्तं मृगयारसात् ॥
ततो मृतम् इवात्मानम् उत्खातम् इव शाल्मलिम् ।
परिवृत्तम् इवारण्यं भयेनाहम् अचिन्तयम् ॥
हतप्राणिसहस्राङ्गस्रवद्रुधिरचर्चितैः ।
मुर्हूर्ताद् एव तद्व्याधैर् अथारण्यम् अपूर्यत ॥
सेनापतिः स निस्त्रिंशो मृगयाजनितश्रमः ।
निषसाद ततः पम्पासरसस् तीरशाद्वले ॥
क्षणं विश्रम्य पीत्वापः प्राश्य बालमृणालिकाः ।
पुलिन्दैः सह सेनानीः स जगाम यथागतम् ॥
एको जरत्पुलिन्दस् तु पापस् तत्र व्यलम्बत ।
प्रांशुर् भयङ्कराकारः कृतान्तस्येव किङ्करः ॥
अजातपिशितप्राप्तिर् अनुभूतवृथाश्रमः ।
यमदूतीम् इव दृशं स ददौ तत्र शाल्मलौ ॥
स दुरारोहतां तस्य जानन्न् अपि महातरोः ।
जातानध्यवसायो ऽपि यत्नम् आरोहणे ऽकरोत् ॥
अथाहम् असमत्रासविपर्यासितमानसः ।
अविशं पितुर् उत्सङ्गं तत्पक्षावृतविग्रहः ॥
स तु पापस् तम् आरुह्य तरुं नीडनिवासिनः ।
हत्वा हत्वा यथाशक्ति शुकान् भूमाव् अपातयत् ॥
क्रमेण स दुराचारस् तातस्यापि शिरोधरम् ।
बभञ्ज तं च चिक्षेप क्षितौ विगतजीवितम् ॥
तदा मम न तच्छोको नान्यत् किञ्चिच् च चेतसि ।
केवलं सहजातेन भयेनैवास्मि विप्लुतः ॥
ततो ऽहं पितुर् उत्सङ्गाद्विनिर्गत्य ससाध्वसम् ।
अन्तरं तरुशीर्णानां पर्णानां तूर्णमाविशम् ॥
पापः सो ऽप्य् अवरुह्याथ शाल्मलेर् मूलवर्तिनः ।
शुकान् गतासून् आदाय व्याधान् अनुसरन्न् अगात् ॥
अहं विधिनियोगात् तु तेन दुष्कृतकारिणा ।
जीर्णपर्णसवर्णत्वात्तदानीं नावधारितः ॥
ततो दूरम् अतिक्रान्ते तस्मिन् दारुणकर्मणि ।
संजातजीविताशं मां पिपासा पर्यबाधत ॥
अनुड्डयनसामर्थ्यात् पद्भ्याम् एव यथातथा ।
पम्पापुलिनपर्यन्तं गन्तुम् ऐच्छं पिपासितः ॥
तथाप्य् अतिनिरुत्साहः पतन् मुहुर् इतस् ततः ।
तम् एव पापकर्माणं शङ्कमानः पदे पदे ॥
चिरं हा तात तातेति शोचन् कण्ठान्तवर्तिभिः ।
प्राणैर् आयास्यमानो ऽहम् अतिष्ठम् अतिनिष्ठुरः ॥
तस्माद् अनतिदूरे ऽस्ति सरसस् तपसां निधेः ।
निर्धूतक्लेशजालस्य जाबालेर् आश्रमो मुनेः ॥
ततस् तस्मिन् सुतस् तस्य सरसि स्नातुम् आगतः ।
हारीतनामा मां तत्र तदवस्थं व्यलोकयत् ॥
कष्टं केनापि पापेन पातितः शुकशावकः ।
कुलायात्क्लाम्यतीत्युक्त्वा कृपया मां करे ऽग्रहीत् ॥
अपाययत् पयोबिन्दून् मरुताश्वासयन् मुहुः ।
कृताह्निकश् च कारुण्याद् अनयत् पितुर् आश्रमम् ॥
समाश्वस्तस्य हारीततातं दृष्ट्यैव पश्यतः ।
पदं स्थिरम् इव न्यस्तं हृदि मे जीविताशया ॥
नीडच्युतो ऽयमानीतो मया विहगपोतकः ।
इति पित्रे प्रणम्यासौ पाणिस्थं मामदर्शयत् ॥
अथ जाबालिम् अद्राक्षं साक्षाद् इव पितामहम् ।
महात्मभिः परिवृतं सानुकम्पैस् तपोधनैः ॥
जराधवलमूर्धानं धाम्ना प्रसरता बहिः ।
अनतिस्फुटसंलक्ष्यशरीरावयवाकृतिम् ॥
स तु मां क्षणम् उद्वीक्ष्य स्मयमान इवावदत् ।
इदं हि भुज्यते ऽनेन फलं स्वस्यैव कर्मणः ॥
त्रिकालदर्शी भगवान्स हि दिव्येन चक्षुषा ।
विश्वं पश्यति पाणिस्थबदरामलकादिवत् ॥
वचस् तद् आकर्ण्य कुतूहलाकुलाः समेत्य सर्वे मुनयस् त मब्रुवन् ।
बभूव को ऽयं भगवन् भवान्तरे किम् अस्य वा दुश्चरितं तद् उच्यताम् ॥
अभ्यर्थितो मुनिभिर् इत्य् उपरुध्यमानस् तान् अब्रवीत् कुरुत तावदहःक्रियाः स्वाः ।
सांध्यं विधाय विधिम् अस्खलितावधानम् आकर्णयिष्यथ कथां पृथुम् एतदीयाम् ॥
उक्तास् तथा भगवता मुनयो निजेन कर्मक्रमेण दिवसं गमयांबभूवुः ।
हारीतहस्तविहितैश् च मनोविनोदैस् तैस् तैर् आनीयत मयापि दिनावशेषः ॥
मूल पाठ: Kādambarīkathāsāra · Edition: Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [second series], vol. 11, 1888. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0