भाषा

ENहिગુ
ग्रंथ पाठ

ज्ञानसङ्कलिनीतन्त्रम् · अध्याय 1

1

ज्ञानसङ्कलिनीतन्त्रम्
कैलाशशिखरासीनं देवदेवं जगद्गुरुम् ।
पृच्छति स्म महादेवी ब्रूहि ज्ञानं महेश्वर

2

देवी उवाच
कुतः सृष्टिर्भवेद् देव कथं सृष्टिर्विनश्यति ।
ब्रह्मज्ञानं कथं देव सृष्टिसंहारवर्जितम्

3

ईश्वर उवाच
अव्यक्ताच्च भवेत् सृष्टिरव्यक्ताच्च विनश्यति ।
अव्यक्तं ब्रह्मणो ज्ञानं सृष्टिसंहार वर्जितम्

4

ओङ्कारादक्षरात् सर्वास्त्वेता विद्याश्चतुर्दश ।
मन्त्र - पूजा - तपो - ध्यानं कर्माकर्म तथैव च

5

षडङ्गं वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
धर्मशास्त्रपुराणानि एता विद्याश्चतुर्दश

6

तावद् विद्या भवेत् सर्वा यावद् ज्ञानं न जायते ।
ब्रह्मज्ञानं पदं ज्ञात्वा सर्वविद्या स्थिरा भवेत्

7

वेदशास्त्रपुराणानि सामान्यगणिका इव ।
या पुनः शाम्भवी विद्या गुप्ता कुलवधूरिव

8

देहस्थाः सर्वविद्याश्च देहस्थाः सर्वदेवताः ।
देहस्थाः सर्वतीर्थानि गुरुवाक्येन लभ्यते

9

अध्यात्मविद्या हि नृणां सौख्यमोक्षकरी भवेत् ।
धर्म कर्म तथा जप्यमेतत् सर्वं निवर्तते

10

काष्ठमध्ये यथा वह्निः पुष्पे गन्धः पयोऽमृतम् ।
देहमध्ये तथा देवः पुण्यपापविवर्जितः

11

इडा भगवती गङ्गा पिङ्गला यमुना नदी ।
इडापिङ्गलयोर्मध्ये सुषुम्ना च सरस्वती

12

त्रिवेणीसंगमो यत्र तीर्थराजः स उच्यते ।
तत्र स्नानं प्रकुर्वीत सर्वपापैः प्रमुच्यते

13

देवी उवाच
कीदृशी खेचरी मुद्रा विद्या च शाम्भवी पुनः ।
कीदृश्यध्यात्मविद्या च तन्मे ब्रूहि महेश्वर

14

ईश्वर उवाच
मनः स्थिरं यस्य विनावलम्बनं
वायुः स्थिरो यस्य विना निरोधनम् ।
दृष्टिः स्थिरा यस्य विनावलोकनं
सा एव मुद्रा विचरन्ती खेचरी

15

बालस्य मूर्खस्य यथैव चेतः
स्वप्नेन हीनोऽपि करोति निद्राम् ।
ततो गतः पथो निरावलम्बः
सा एव विद्या विचरन्ती शाम्भवी

16

देवी उवाच
देवदेव जगन्नाथ ब्रूहि मे परमेश्वर ।
दर्शनानि कथं देव भवन्ति च पृथक् पृथक्

17

ईश्वर उवाच
त्रिदण्डी च भवेद् भक्तो वेदाभ्यासरतः सदा ।
प्रकृतिवादरताः शाक्ता बौद्धा शून्यातिवादिनः

18

अतोर्ध्वं गामिनो ये वा तत्त्वज्ञा अपि तादृशाः ।
सर्वं नास्तीति चार्वाका जल्पन्ति विषयाश्रिताः

19

उमा पृच्छति हे देव पिण्डब्रह्माण्डलक्षणम् ।
पञ्चभूतं कथं देव गुणाः के पञ्चविंशतिः

20

ईश्वर उवाच
अस्थि मांसं नखं चैव त्वङ्लोमानि च पञ्चमम् ।
पृथ्वी पञ्चगुणा प्रोक्ता ब्रह्मज्ञानेन भासते

21

शुक्रशोणितमज्जा च मलं मूत्रं च पञ्चमम् ।
अपां पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भासते

22

निद्रा क्षुधा तृषा चैव क्लान्तिरालस्यपञ्चमम् ।
तेजः पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भासते

23

धारणं चालनं क्षेपं संकोचं प्रसरं तथा ।
वायोः पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भासते

24

कामं क्रोधं तथा मोहं लज्जा लोभञ्च पञ्चमम् ।
नभः पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भासते

25

आकाशाज्जायते वायुर्वायोरुत्पद्यते रविः ।
रवेरुत्पद्यते तोयं तोयादुत्पद्यते मही

26

मही विलीयते तोये तोयं विलीयते रवौ ।
रविर्विलीयते वायौ वायुर्विलीयते तु खे

27

पञ्चतत्त्वाद् भवेत् सृष्टिस्तत्त्वात् तत्त्वं वीलीयते ।
पञ्चतत्त्वात् परं तत्त्वं तत्त्वातीतं निरञ्जनम्

28

स्पर्शनं रसनं चैव घ्राणं चक्षुश्च श्रोत्रकम् ।
पञ्चेन्द्रियमिदं तत्त्वं मनः साधकमिन्द्रियम्

29

ब्रह्माण्डलक्षणं सर्वं देहमध्ये व्यवस्थितम् ।
साकाराश्च विनश्यन्ति निराकारो न नश्यति

30

निराकारं मनो यस्य निराकारसमो भवेत् ।
तस्मात् सर्वप्रयत्नेन साकारं तु परित्यजेत्

31

देवी उवाच
आदिनाथ मयि ब्रूहि सप्तधातुः कथं भवेत् ।
आत्मा चैवान्तरात्मा च परमात्मा कथं भवेत्

32

ईश्वर उवाच
शुक्रशोणितमज्जा च मेदो मांसं च पञ्चमम् ।
अस्ति त्वक् चैव सप्तैते शरीरेषु व्यवस्थिताः

33

शरीरं चैवमात्मानमन्तरात्मा मनो भवेत् ।
परमात्मा भवेच्छून्यं मनो यत्र विलीयते

34

रक्तधातुर्भवेन्माता शुक्रधातुर्भवेत् पिता ।
शून्यधातुर्भवेत् प्राणो गर्भपिण्डं प्रजायते

35

देवी उवाच
कथमुत्पद्यते वाचा कथं वाचा विलीयते ।
वाक्यस्य निर्णयं ब्रूहि पश्य ज्ञानमुदाहर

36

ईश्वर उवाच
अव्यक्ताज्जायते प्राणः प्राणादुत्पद्यते मनः ।
मनसोत्पद्यते वाचा मनो वाचा विलीयते

37

देवी उवाच
कस्मिन् स्थाने वसेत् सूर्यः कस्मिन् स्थाने वसेछशी ।
कस्मिन् स्थाने वसेद् वायुः कस्मिन् स्थाने वसेन्मनः

38

ईश्वर उवाच
तालुमूले स्थितश्चन्द्रो नाभिमूले दिवाकरः ।
सूर्याग्रे वसते वायुश्चन्द्राग्रे वसते मनः

39

सूर्याग्रे वसते चित्तं चन्द्राग्रे जीवितं प्रिये ।
एतद्युक्तं महादेवि गुरुवाक्येन लभ्यते

40

देवी उवाच
कस्मिन् स्थाने वसेच्छक्तिः कस्मिन् स्थाने वसेच्छिवः ।
कस्मिन् स्थाने वसेत् कालो जरा केन प्रजायते

41

ईश्वर उवाच
पाताले वसते शक्तिर्ब्रह्माण्डे वसते शिवः ।
अन्तरिक्षे वसेत् कालो जरा तेन प्रजायते

42

देवी उवाच
आहारं काङ्क्षते कोऽसौ भुञ्जते पिबते कथम् ।
जाग्रत् स्वप्नसुषुप्तौ च को वाऽसौ प्रतिबुध्यति

43

ईश्वर उवाच
आहारं काङ्क्षते प्राणो भुञ्जतेऽपि हुताशनः ।
जाग्रत्स्वप्नसुषुप्तौ च वायुश्च प्रतिबुध्यति

44

देवी उवाच
को वा करोति कर्माणि को वा लप्येत पातकैः ।
को वा करोति पापानि को वा पापैः प्रमुच्यते

45

शिव उवाच
मनः करोति पापानि मनो लिप्येत पातकैः ।
मनश्च तन्मना भूत्वा न पुण्यैर्न च पातकैः

46

देवी उवाच
जीवः केन प्रकारेण शिवो भवति कस्य च ।
कार्यस्य कारणं ब्रूहि कथं किञ्च प्रसादनम्

47

शिव उवाच
भ्रान्तिबद्धो भवेज्जीवो भ्रान्तिमुक्तः सदाशिवः ।
कार्यं हि कारणं त्वञ्च पुनर्बोधो विशिष्यते

48

मनोऽन्यत्र शिवोऽन्यत्र शक्तिरन्यत्र मारुतः ।
इदं तीर्थमिदं तीर्थं भ्रमन्ति तामसा जनाः

49

आत्मतीर्थं न जानाति कथं मोक्षो वरानने ॥
न वेदं वेदमित्याहुर्वेदो ब्रह्म सनातनम् ।
ब्रह्मविद्यारतो यस्तु स विप्रो वेदपारगः

50

मथित्वा चतुरो वेदान् सर्वशास्त्राणि चैव हि ।
सारं तु योगिभिः पीतं तक्रं पिबन्ति पण्डिताः

51

उच्छीष्टं सर्वशास्त्राणि सर्वा विद्या मुखे मुखे ।
नोच्छिष्टं ब्रह्मणो ज्ञानमव्यक्तं चेतनामयम्

52

न तपस्तप इत्याहुर्ब्रह्मचर्यं तपोत्तमम् ।
ऊर्ध्वरेता भवेद् यस्तु स देवो न तु मानुषः

53

न ध्यानं ध्यानमित्याहुर्ध्यानं शून्यगतं मनः ।
तस्य ध्यानप्रसादेन सौख्यं मोक्षं न संशयः

54

न होमं होममित्याहुः समाधौ तत्तु भूयते ।
ब्रह्माग्नौ हूयते प्राणं होमकर्म तदुच्यते

55

पापकर्म भवेद् भव्यं पुण्यं चैव प्रवर्तते ।
तस्मात् सर्वप्रयत्नेन ताद्रूप्यं च त्यजेद् बुधः

56

यावद् वर्णं कुलं सर्वं तावज्ज्ञानं न जायते ।
ब्रह्मज्ञानपदं ज्ञात्वा सर्ववर्णविवर्जितः

57

देवी उवाच
यत्त्वया कथितं ज्ञानं नाहं जानामि शङ्कर ।
निश्चयं ब्रूहि देवेश मनो यत्र विलीयते

59

शंकर उवाच
मनो वाक्यं तथा कर्म तृतीयं यत्र लीयते ।
विना स्वप्नं यथा निद्रा ब्रह्मज्ञानं तदुच्यते

60

एकाकी निस्पृहः शान्तश्चिन्ताविवर्जितः ।
बालभावस्तथा भावो ब्रह्मज्ञानं तदुच्यते

61

श्लोकार्धं तु प्रवक्ष्यामि यदुक्तं तत्त्वदर्शिभिः ।
सर्वचिन्तापरित्यागो निश्चिन्तो योग उच्यते

62

निमिषं निमिषार्द्धं वा समाधिमधिगच्छति ।
शतजन्मार्जितं पापं तत्क्षणादेव नश्यति

63

देवी उवाच
कस्य नाम भवेच्छक्तिः कस्य नाम भवेच्छिवः ।
एतन्मे ब्रूहि भो देव पश्चाज्ज्ञानं प्रकाशय

64

ईश्वर उवाच
चलच्चित्ते वसेच्छक्तिः स्थिरचित्ते वसेच्छिवः ।
स्थिरचित्तो भवेद्देवि स देहस्थोऽपि सिध्यति

65

देवी उवाच
कस्मिन् स्थाने त्रिधा शक्तिः षट्चक्रं च तथैव च ।
एकविंशतिब्रह्माण्डं सप्तपातालमेव च

66

ईश्वर उवाच
ऊर्ध्वशक्तिर्भवेत् कण्ठः अधशक्तिर्भवेत् गुदः ।
मध्यशक्तिर्भवेन्नाभिः शक्त्यतीतं निरञ्जनम्

67

आधारं गुह्यचक्रं तु स्वाधिष्ठानं च लिङ्गकम् ।
चक्रभेदं मयाख्यातं चक्रातीतं नमो नमः

68

कायोर्ध्वं च ब्रह्मलोकः स्वाधः पातालमेव च ।
ऊर्ध्वमूलमधःशाखं वृक्षाकारं कलेवरम्

69

देवी उवाच
शिव शंकर ईशान ब्रूहि मे परमेश्वर ।
दशवायुः कथं देव दशद्वाराणि चैव हि

70

ईश्वर उवाच
हृदि प्राणः स्थितो वायुरपानो गुदसंस्थितः ।
समानो नाभिदेशे तु उदानः कण्ठमाश्रितः

71

व्यानः सर्वगतो देहे सर्वागात्रेषु संस्थितः ।
नाग ऊर्ध्वगतो वायुः कूर्मस्तीर्थानि संस्थितः

72

कृकरः क्षोभिते चैव देवदत्तोऽपि जृम्भणे ।
धनञ्जयो नादघोषे निविशेच्चैव शाम्यति

73

एष वायुर्निरालम्बो योगिनां योगसम्मतः ।
नवद्वारं च प्रात्यक्षं दशमं मन उच्यते

74

देवी उवाच
नाडीभेदं च मे ब्रूहि सर्वगात्रेषु संस्थितम् ।
शक्तिः कुण्डलिनी चैव प्रसूता दशनाडिका

75

ईश्वर उवाच
इडा च पिङ्गला चैव सुषुम्ना चोर्ध्वगामिनी ।
गान्धारी हस्तिजिह्वा च प्रसवा गमनायता

76

अलम्बुसा यशा चैव दक्षिणाङ्गे च संस्थिताः ।
कुलश्च शङ्खिनी चैव वामाङ्गे च व्यवस्थिताः

77

एतासु दशनाडीषु नानानाडीप्रसूतिका ।
द्विसप्ततिसहस्राणि शरीरे नाडिकाः स्मृताः

78

एता यो विन्दते योगी स योगी योगलक्षणः ।
ज्ञाननाडी भवेद्देवी योगिनां सिद्धिदायिनी

79

देवी उवाच
भूतनाथ महादेव ब्रूहि मे परमेश्वर ।
त्रयो देवा कथं देव त्रयो भावास्त्रयो गुणाः

80

ईश्वर उवाच
रजोभावस्थितो ब्रह्मा सत्त्वभावस्थितो हरिः ।
क्रोधभावस्थितो रुद्रस्त्रयो देवास्त्रयो गुणाः

81

एकमूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।
नानाभावं मनो यस्य तस्य मुक्तिर्न जायते

82

वीर्यरूपी भवेद् ब्रह्मा वायुरूपः स्थितो हरिः ।
मनोरूपः स्थितो रुद्रस्त्रयो देवास्त्रयो गुणाः

83

दयाभावस्थितो ब्रह्मा शुद्धभावस्थितो हरिः ।
अग्निभावस्थितो रुद्रस्त्रयो देवास्त्रयो गुणाः

84

एकं भूतं परं ब्रह्म जगत् सर्वं चराचरम् ।
नानाभावं मनो यस्य तस्य मुक्तिर्न जायते

85

अहं सृष्टिरहं कालोऽप्यहं ब्रह्माऽप्यहं हरिः ।
अहं रुद्रोऽप्यहं शून्यमहं व्यापी निरञ्जनम्

86

अहं सर्वात्मको देवि निष्कामो गगनोपमः ।
स्वभावनिर्मलं स्वान्तं स एवाहं न संशयः

87

जितेन्द्रियो भवेच्छूरो ब्रह्मचारी सुपण्डितः ।
सत्यवादी भवेद् भक्तो दाता धीरो हितेरतः

88

ब्रह्मचर्यं तपोमूलं धर्ममूला दया स्मृता ।
तस्मात् सर्वप्रयत्नेन दयाधर्मं समाश्रयेत्

89

देवी उवाच
योगेश्वर जगन्नाथ उमायाः प्राणवल्लभ ।
वेदसन्ध्या तपो ध्यानं होमकर्म कुलं कथम्

90

ईश्वर उवाच
अश्वमेधसहस्राणि वाजपेयशतानि च ।
ब्रह्मज्ञानसमं पुण्यं कलां नार्हति षोडशीम्

91

सर्वदा सर्वतीर्थेषु यत् फलं लभते शुचिः ।
ब्रह्मज्ञानसमं पुण्यं कलां नार्हति षोडशीम्

92

न मित्रं न च पुत्राश्च न पिता न च बान्धवाः ।
न स्वामी च गुरोस्तुल्यं यद्दृष्टं परमं पदम्

93

न च विद्यागुरोस्तुल्यं न तीर्थं न च देवताः ।
गुरोस्तुल्यं न वै कोऽपि यद्दृष्टं परमं पदम्

94

एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् ।
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा चानृणी भवेत्

95

यस्य कस्य न दातव्यं ब्रह्मज्ञानं सुगोपितम् ।
यस्य कस्यापि भक्तस्य सद्गुरुस्तस्य दीयते

96

मन्त्रं पूजां तपो ध्यानं होमं जप्यं बलिक्रियाम् ।
संन्यासं सर्वकर्माणि लौकिकानि त्यजेद् बुधः

97

संसर्गाद् बहवो दोषा निःसङ्गाद् बहवो गुणाः ।
तस्मात् सर्वप्रयत्नेन यतिः सङ्गं परित्यजेत्

98

अकारः सात्त्विको ज्ञेय उकारो राजसः स्मृतः ।
मकारस्तामसः प्रोक्तस्त्रिभिः प्रकृतिरुच्यते

99

अक्षरा प्रकृतिः प्रोक्ता रक्षरः स्वयमीश्वरः ।
ईश्वरान्निर्गता सा हि प्रकृतिर्गुणबन्धना

100

सा माया पालिनी शक्तिः सृष्टिसंहारकारिणी ।
अविद्या मोहिनी या सा शब्दरूपा यशस्विनी

101

अकारश्चैव ऋग्वेद उकारो यजुरुच्यते ।
मकारः सामवेदस्तु त्रिषु युक्तोऽप्यथर्वणः

102

ओङ्कारस्तु प्लुतो ज्ञेयस्त्रिनाद इति संज्ञितः ।
अकारस्त्वथ भूर्लोक उकारो भुव उच्यते

103

सव्यञ्जनो मकारस्तु स्वर्लोकस्तु विधीयते ।
अक्षरैस्त्रिभिरेतैश्च भवेदात्मा व्यवस्थितः

104

अकारः पृथिवी ज्ञेया पीतवर्णेन संयुतः ।
अन्तरीक्षं उकारस्तु विद्युद्वर्ण इहोच्यते

105

मकारः स्वरिति ज्ञेयः शुक्लवर्णेन संयुतः ।
ध्रुवमेकाक्षरं ब्रह्म ओं इत्येवं व्यवस्थितम्

106

स्थिरासनो भवेन्नित्यं चिन्तानिद्राविवर्जितः ।
आसु स जायते योगी नान्यथा शिवभाषितम्

107

य इदं पठते नित्यं शृणोति च दिने दिने ।
सर्वपापविशुद्धात्मा शिवलोकं स गच्छति

108

देवी उवाच
स्थूलस्य लक्षणं ब्रूहि कथं मनो विलीयते ।
परमार्थं च निर्वाणं स्थूलसूक्ष्मस्य लक्षणम्

109

शिव उवाच
येन ज्ञानेन हे देवि विद्यते न च किल्बिषी ।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
स्थूलरूपी स्थितोऽयं च सूक्ष्मश्च अन्यथा स्थितः

मूल पाठ: jñānasaṅkalinītantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc