भाषा

ENहिગુ
ग्रंथ पाठ

ज्ञानालोकालंकारसूत्र · अध्याय 6

6.1

§39 म्स्. 27अ6-27ब्4, प्. 329ब्2-330अ2, द्. 301अ4-301ब्3, त्. 357 248अ7-24, त्. 358 -, त्. 359(w) 263ब्17-263च्1.
अथ खलु भगवान् मञ्जुश्रिये कुमारभूताय साधुकारम् अदात् । साधु साधु मञ्जुश्रीः । सुभाषितं ते मञ्जुश्रीर् एवम् एव । मञ्जुश्रीर् न बुद्धा रूपतो द्रष्टव्या न धर्मतो न लक्षणतो न धर्मधातुतः । न बुद्धा एकाकिनो न महाजनमध्यगताः । न बुद्धा केनचिद् दृष्टाः, न श्रुता न पूजिता न पूज्यन्ते । न बुद्धा कस्यचिद् धर्मस्य एकत्वं वा बहुत्वं वा कुर्वन्ति । न बुद्धैर् बोधिः प्राप्ता । न बुद्धाः केनचिद् धर्मेन प्रभाव्यन्ते । न बुद्धैः कश्चिद् धर्मो दृष्टो न श्रुतो न स्मृतो न विज्ञातो नाज्ञातः । न बुद्धैर् भाषितं नोदाहृतम्, न बुद्धा भाषन्ति नोदाहरन्ति, न बुद्धा भाषिष्यन्ति नोदाहरिष्यन्ति । न बुद्धा अभिसंबुध्यन्ति, न बुद्धैः कश्चिद् धर्मो ऽभिसंबुद्धः । न बुद्धानां क्लेशाः प्रहीणाः, न व्यवदानं साक्षात्कृतम् । न बुद्धैः कश्चिद् धर्मो दृष्टः, न श्रुतो नाघ्रातो न विज्ञातः । तत् कस्य हेतोः । आदिपरिशुद्धत्वात् सर्वधर्माणाम् ॥
व्
§40 म्स्. 27ब्4-28ब्2, प्. 330अ2-ब्6, द्. 301ब्3-302अ6, त्. 357 248अ24-248ब्20, त्. 358 253ब्1-13, त्. 359(w) 263च्2-27.
(1) यः कश्चिन् मञ्जुश्रीर् बोधिसत्त्वः त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमान् सत्त्वान् प्रत्येकजिनत्वे स्थापयेद् इदं धर्मपर्यायं नाधिमुक्तः । यो चान्यो मञ्जुश्रीर् बोधिसत्त्व इमं धर्मपर्यायम् अधिमुच्येत् । अयं ततो बहुतरं पुण्यं प्रसवति ।
कः पुनर् वादो य इमं धर्मपर्यायं लिखेद् लेखापयेद् वा । अयम् एव ततो बहुतरं पुण्यं प्रसवति ॥
(2) यावन्तो मञ्जुश्रीर् बोधिसत्त्व त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः संविद्यन्ते, अण्डजा वा, जरायुजा वा, संस्वेदजा वा, ओपपादुका वा, रूपिणो वा, अरूपिणो वा, संज्ञिनो वा, असंज्ञिनो वा, अपदा वा, द्विपदा वा, चतुःपदा वा, बहुपदा वा, सर्वे ते परिकल्पम् उपादाय, अपूर्वाचरमं मानुष्यकम् आत्मभावं प्रतिलभेयुः । मानुष्यकम् आत्मभावं प्रतिलभ्य बोधिचित्तम् उत्पादयेयुः । बोधिचित्तम् उत्पाद्य एकैको बोधिसत्त्वो गङ्गासिकतासंख्येयानां बुद्धक्षेत्रपरमाणुरजःसमानां बुद्धानां बोधिसत्त्वानां सश्रावकाणां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् उपतिष्ठेत् । सर्वसुखोपधानानि चोपसंहरेत् । गङ्गासिकतासंख्येयां कल्पांस् ( जाअ 79 ) तेषां च परिनिर्वृतानां स्तूपानि कारयेत्, रत्नमयानि, योजनशतोच्छ्रितानि, रत्नवेदिकापरिवृतानि, मणिमुक्तारत्नदामकृतशोभानि, उच्छ्रितच्छत्रध्वजपताकानि, वशिराजमणिरत्नजालसंच्छन्नानि ।
यो चान्यो बोधिसत्त्व आशयसंपन्नः । इमं धर्मपर्यायं सर्वबुद्धविषयावतारज्ञानालोकालंकारं श्रुत्वाधिमुच्येद् अवतरेत् पत्तीयेत् परिबुद्धेत् । अन्तश एकाम् अपि गाथाम् उद्दिशेद् अयं ततो संख्येयतरं पुण्यं प्रसवेत् । बुद्धज्ञानानुगमनं संवर्तकम् अस्य पुण्याभिसंस्कारस्य । अस्य पुण्याभिसंस्कारस्य स पूर्वकः पुण्याभिसंस्कारः, तेषां बोधिसत्त्वानां दानमयं पुण्यक्रियावस्तु शततमाम् अपि कलां नोपैति, सहस्रतमाम् अपि, कोटीशतसहस्रतमाम् अपि, कलाम् अपि, गणनाम् अपि, उपमाम् अपि, उपनिषदम् अपि नोपैति ॥
§41 म्स्. 28ब्2-29ब्6, प्. 330ब्6-332अ2, द्. 302अ6-303अ7, त्. 357 248ब्22-249अ10, त्. 358 253ब्13-19, त्. 359(w) 263च्27-264ब्7.
(1) यः कश्चिन् मञ्जुश्रीर् गृही बोधिसत्त्वो गङ्गासिकतासंख्येयान् बुद्धान् बोधिसत्त्वान् सश्रावकसंघान् गङ्गासिकतासंख्येयान् ( जाअ 80 ) कल्पान् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् उपतिष्ठेत् । यश् चान्यः प्रव्रजितो बोधिसत्त्वः शीलवान् आशयसंपन्नो ऽन्तशो यस् तिर्यग्योनिगते ऽपि सत्त्व एकस्याप्य् आलोपं दद्यात् । तस्य पुण्याभिसंस्कारस्य पूर्वकः पुण्याभिसंस्कारः शततमाम् अपि कलां नोपैति, सहस्रतमाम् अपि, कोटीशतसहस्रतमाम् अपि, कोटीनियुतसहस्रतमाम् अपि, यावद् उपनिषदम् अपि न क्षमते ॥
(2) सचेन् मञ्जुश्रीस् त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमा बोधिसत्त्वाः प्रव्रजिताः शीलवन्त आशयशुद्धाः, तत एकैको बोधिसत्त्वो गङ्गानदीसिकतासंख्येयान् बुद्धान् बोधिसत्त्वान् सश्रावकसंघांश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिस्कारैर् उपतिष्ठेत्, गङ्गानदीसिकतासंख्येयान् कल्पान् । यस् तेषां बोधिसत्त्वानां पुण्याभिसंस्कारो भवेद् दानमयः । यो वान्यो बोधिसत्त्व आशयशुद्धो शीलवान् गृही वा प्रव्रजितो वा, इमं धर्मपर्यायं श्रुत्वाधिमुच्येत् पत्तीयेद् वा लिखेत लेखापयेद् वा । अस्य पुण्याभिसंस्कारस्य स पूर्वकः पुण्याभिसंस्कारः, तेषां बोधिसत्त्वानां दानमयं पुण्यक्रियावस्तु शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि, यावद् उपनिषाम् अपि न क्षमते ॥
(3) सचेन् मञ्जुश्रीर् बोधिसत्त्वो महासत्त्वस् त्रिसाहस्रमहासाहस्रं लोकधातुं सप्तरत्नपरिपूर्णां कृत्वा बुद्धेभ्यो भगवद्भ्यो दानं दद्यात् । एवं ददन् त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमान् कल्पान् दानं दद्यात् । यो वान्यो बोधिसत्त्व इमान् धर्मपर्यायान् अन्तशश् चतुष्पादिकां गाथां बोधिसत्त्वस्य देशयेत् । अस्य पुण्याभिसंस्कारस्य स पूर्वकः पुण्याभिसंस्कारः शततमाम् अपि कलां नोपैति, सहस्रतमाम् अपि, शतसहस्रतमाम् अपि, कोटीशतसहस्रतमाम् अपि, यावद् उपनिषाम् अपि न क्षमते ॥
(4) तिष्ठन्तु तावन् मञ्जुश्रीः त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमान् कल्पान् दानं ददतः पुण्याभिसंस्काराः । सचेन् मञ्जुश्रीर् गङ्गासिकतासंख्येया बोधिसत्त्वा भवेयुः । तत एकैको बोधिसत्त्वो गङ्गासिकतासंख्येयानि बुद्धक्षेत्राणि जाम्बूनदसुवर्णमयानि, सर्ववृक्षांश् च दिव्यैर् वस्त्रैः परिवेष्टयित्वा, सर्वप्रभासमुच्चयमणिरत्नजालसंच्छन्नानि कृत्वा, वशिराजमणिरत्नमयैः कूटागारैर् विद्युत्प्रदीपमणिरत्नवेदिकापरिवृतैः परिपूर्णां कृत्वा, उच्छ्रितच्छत्रध्वजपताकाभिर् गङ्गानदीसिकतासंख्येयेभ्यो बुद्धेभ्यो दिवसे दिवसे दानं दद्यात् । एवं ददङ् गङ्गासिकतासंख्येयान् कल्पान् दानं दद्यात् । यो वान्यो बोधिसत्त्व इमं धर्मपर्यायम् अधिमुच्यान्यस्य बोधिसत्त्वस्येतो धर्मपर्यायाद् अन्तश एकाम् अपि चतुष्पादिकां गाथां देशयेद् अवतारयेद् ( जाअ 82 ) वा । अस्य पुण्याभिसंस्कारस्य स पूर्वकः पुण्याभिसंस्कारस् तेषां बोधिसत्त्वानां दानमयः शततमाम् अपि कलां नोपैति, सहस्रतमाम् अपि, शतसहस्रतमाम् अपि, संख्याम् अपि, कलाम् अपि, गणनाम् अपि, उपनिषाम् अपि, यावद् उपनिषदम् अपि नोपैति ॥
§42 म्स्. 29ब्6-301ब्1, प्. 332अ2-ब्4, द्. 303अ7-302अ1, त्. 357 249अ11-249ब्5, त्. 358 253ब्19-23, त्. 359(w) 264ब्8-29.

(1) तद्यथा मञ्जुश्रीस् त्रैधातुकपर्यापन्नाः सर्वसत्त्वा नरकतिर्यक्प्रेतयमलोकोपपन्ना भवेयुः । अथ गृही बोधिसत्त्वस् तान् सर्वान् नरकतिर्यक्प्रेतयमलोकाद् उद्धृत्य प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् । यो वान्यो बोधिसत्त्वः प्रव्रजितो ऽन्तशस् तिर्यग्योनिगते ऽपि सत्त्व एकम् आलोपं दद्यात् । अयं ततो बहुतरम् असंख्येयतरं पुण्यं प्रसवयात् ॥
(2) सचेन् मञ्जुश्रीर् दशसु दिक्षु बुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमाणुरजःसमाः प्रव्रजिता बोधिसत्त्वा भवेयुः । तत एकैको बोधिसत्त्वो दशसु दिक्ष्व् एकैकस्मिन् दिग्भागे दशबुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमाणुरजःसमान् बुद्धान् भगवतः पश्येत् । एकैकं च तथागतं सबोधिसत्त्वं सश्रावकं दशसु बुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमणुरजःसमान् ( जाअ 83 ) कल्पांश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् उपतिष्ठेत् । एकैकस्य च तथागतस्य दिवसे दिवसे बुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमाणुरजःसमान् लोकधातून् वशिराजमणिरत्नप्रतिपूर्णान् कृत्वा दानं दद्यात् । यो वान्यो बोधिसत्त्वो ऽस्मिन् धर्मपर्याये ऽधिमुक्तो ऽन्तशस् तिर्यग्योनिगते ऽपि सत्त्व एकम् आलोपं दद्यात् । अस्य पुण्याभिसंस्कारस्य पूर्वकः पुण्याभिसंस्कारस् तेषां बोधिसत्त्वानां दानमयः शततमाम् अपि कलां नोपैति, सहस्रतमाम् अपि, शतसहस्रतामाम् अपि, संख्याम् अपि, कलाम् अपि, गणनाम् अपि, उपनिषाम् अपि, उपनिषदम् अपि न क्षमते । तत् कस्य हेतोः । अवैवर्तिकानां बोधिसत्त्वानाम् इयं मुद्रा यदुतास्य धर्मपर्यायस्य श्रवः ॥
§43 म्स्. 30ब्1-31अ5, प्. 332ब्4-333अ4, द्. 304अ1-304ब्6, त्. 357 249ब्6-249च्19, त्. 358 -, त्. 359(w) 264ब्30-265अ11.
(1) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोकधातुषु सत्त्वान् श्रद्धानुसारित्वे प्रतिष्ठापयेत् । यो वान्यो बोधिसत्त्व एकं सत्त्वम् अर्थानुसारित्वे प्रतिष्ठापयेत् । अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति ॥
(2) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशदिक्षु सर्वलोकधातुषु सर्वसत्त्वान् अर्थानुसारित्वे प्रतिष्ठापयेत् । यो वान्यो बोधिसत्त्व एकं सत्त्वं धर्मानुसारित्वे प्रतिष्ठापयेत् । अयं ( जाअ 84 ) ततो ऽसंख्येयतरं पुण्यं प्रसवति ॥
(3) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोकधातुषु सत्त्वान् धर्मानुसारित्वे प्रतिष्ठापयेत् । यो वान्यो बोधिसत्त्व एकं सत्त्वं स्रोतापत्तिफले प्रतिष्ठापयेत् । अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति ॥
(4) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोकधातुषु सर्वसत्त्वान् स्रोत-आपत्तिफले प्रतिष्ठापयेत् । यो वान्यो बोधिसत्त्व एकं सत्त्वं सकृदागामिफले प्रतिष्ठापयेत् । अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति ॥
(5) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोकधातुषु सर्वसत्त्वान् सकृदागामिफले प्रतिष्ठापयेत् । यो वान्यो बोधिसत्त्व एकं सत्त्वम् आनागामिफले प्रतिष्ठापयेत् । अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति ॥
(6) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोकधातुषु सर्वसत्त्वान् अनागामिफले प्रतिष्ठापयेत् । यो ( जाअ 85 ) वान्यो बोधिसत्त्व एकं सत्त्वं अर्हत्वे प्रतिष्ठापयेत् । अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति ॥
(7) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोकधातुषु सर्वसत्त्वान् अर्हत्वे प्रतिष्ठापयेत् । यो वान्यो बोधिसत्त्व एकं सत्त्वं प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् । अयं ततो ऽसंख्येयतरं पुण्यं प्रसवति ॥
(8) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोकधातुषु सर्वसत्त्वान् प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् । यो वान्यो बोधिसत्त्व एकं सत्त्वं बोधिचित्ते प्रतिष्ठापयेत् । अयं ततो ऽसंख्येयतरं पुण्यं प्रसवेत् ॥
(9) सचेन् मञ्जुश्रीर् बोधिसत्त्वो दशसु दिक्षु सर्वलोकधातुषु सर्वसत्त्वान् बोधिचित्ते प्रतिष्ठापयेत् । यो वान्यो बोधिसत्त्व एकं सत्त्वम् अवैवर्तिकत्वे प्रतिष्ठापयेत् । अयं ततो बहुतरं पुण्यं प्रसवेत् ॥
(10) सचेन् मञ्जुश्रीर् बोधिसत्त्वः सर्वसत्त्वान् अवैवर्तिकत्वे प्रतिष्ठापयेत् । यो वान्यो बोधिसत्त्व इमं धर्मपर्यायम् अधिमुक्तः लिखापयित्वा परेभ्यो विस्तरेण संप्रकाशयेत्, अन्तश एकं सत्त्वम् अप्य् अस्मिन् धर्मपर्याये ऽवतारयेत् । अयं ततो बहुतरं पुण्यं प्रसवेत् ॥
§44 म्स्. 31अ5-32अ3, प्. 333अ4-334अ5, द्. 304ब्6-305अ7, त्. 357 249च्19-250अ14, त्. 358 253ब्23-253च्18, त्. 359(w) 265अ12-265ब्24.
अथ खलु भगवांस् तस्यां वेलायाम् इमा गाथा अभाषत् ।
यो बोधिसत्त्वो दशबुद्धकोटिनां सद्धर्मं धारयेत् क्षयान्तकाले ।
सूत्रं च यो ऽन्यः शृणुयात् सगौरवाद् इदं ततः पुण्यमहान्तं विशेषयेत्

6.2

यो बुद्धकोटीदश पूजयेद् ऋद्ध्या समाक्रम्य दशासु दिक्षु ।
वन्दापयेत् स पुरुषांश् च सर्वान् कृत्वा कृपां सर्वसुखेष्व् अगृद्धः

6.3

यश् चेदं सूत्रं जिनधर्मसूचकं परस्य देशेत मुहूर्तकं पि ।
प्रसन्नचित्तः सुगतस्य शासन इदं ततः पुण्यफलं विशिष्यते

6.4

संदर्श्य सूत्रं सुगतप्रवेदितं प्रदीपभूतं मरुमानुषाणां ।
स तीक्ष्णप्रज्ञश् च महाबलश् च बुद्धान भूमिं लभते च शीघ्रम्

6.5

कथां श्रुणित्वा सुगतानम् ईदृशं संश्रावयेद् यश् च द्वितीयसत्त्वे ।
तेषां च बुद्धान नरोत्तमानां परिनिर्वृतानां निरुपाधिशेषे

6.6

स्तूपान् प्रतिष्ठापय उच्चशोभनान् भवाग्रपर्यन्तसुरत्नचित्रान् ।
छत्रैः पताकैस् तथ घण्टशब्दैः परिणाहवन्ते हि यथा भवाग्रम्

6.7

इच्छे त्व् अयं कश्चिद् इह बोधिसत्त्वः सूत्रं श्रुणित्वा इम एवरूपम् ।
काये प्रतिष्ठापयि पुस्तके वा इदं ततः पुण्यफलं विशिष्यते

6.8

यो बोधिसत्त्वो इमु धर्मु धारयेद् अपनीतमाच्छर्यमलो विशारदः ।
पुण्यं भवेत् तस्य हि अप्रमेयं लभेत बोधिं च यथेप्सितेन

6.9

इदं हि सूत्रं सुगतैः प्रशस्तं परिगृहीतं बहुबोधिसत्त्वैः ।
तथागतानाम् इह-म्-आत्मभाव आकाशधात्वे हि सर्वेषु दर्शितः

मूल पाठ: Jñānālokālaṃkārasūtra [Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma mahāyānasūtra] = JĀA · Edition: : Takayasu Kimura, Nobuo Otsuka, Hideaki Kimura, Hisao Takahashi, "Bonbun kotei 'Chikomyoshogon-kyo'; - Sarvabuddhaviṣayāvatārajñānālokālaṃkāra nāma mahāyānasūtra", In: Kūkai no shiso to bunka [*A Felicitation Volume Presented to Prof. Kicho Onozuka on his seventieth birthday], Tokyo 2004, pp. 1(596)-89(508). · Data entry Study Group on Buddhist Sanskrit Literature, Taisho University · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc