भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 58-77

58

साक्षाद् अयं धर्म इवावतीर्णः प्रशान्तवाक्कायमनोविकारः ।
द्विजाधमेनाविनयावलेपक्रूरेण कष्टं ह्रियते महर्षिः

59

अमी रुदन्तीव विलोलपल्लवाः प्रशस्तपुष्पाश्रुमुखा महीरुहाः ।
चलद्द्विरेफध्वनिदीननिस्वना वियुज्यमाना मुनिना सुमेधसा

60

सुदुर्लभम् दर्शनम् अस्य सर्वथा विलोचनप्रीतिकरस्य देहिनाम् ।
विलेपुर् इत्य् उद्गतशोककातराः प्रगाढशोका मुनयो वनौकसः

61

आदाय विप्रो ऽथ तम् आर्यसत्त्वं निःसाध्वसानाकुलधीरचेष्टम् ।
प्रवेशयाम् आस पुरं स यस्मिन् महीपतिस् त्ष्ठति तत्सपत्नः

62

यम् अद्राक्षुर् नेत्रैः पुरयुवतयः स्नेहविकचैर्
गजस्कन्धारूढं पतिम् इव सुराणां नरपतिम् ।
तम् एवापश्यंस् ताः परवशगतं वल्कलधरं
मुखैः शोकायासस्तिमितगुरुपक्ष्मान्तनयनैः

63

तं मत्तवारणगतिं कनकावदातं
प्रांशुं सुमेरुम् इव लक्षणरत्नचित्रम् ।
चीराम्बरं वृजिनदीर्घजटाकलापं
दृष्ट्वा नृपो रिपुर् अधीरतया चकम्पे

64

तथाभूतं चैनम् अवेक्ष्य साध्वसाकुलितमतिश् चिन्तयाम् आस ।
को न्व् एष काञ्चनशिलातलचारुवक्षाः
क्षामोदरो भुजगभोगविलम्बिबाहुः ।
प्रत्यादिशन्न् इव कुकार्यसमाकुलं मां
प्राप्तो युवापि विनयप्रतिपत्तिधीरः

65

धर्मो ऽवतीर्ण इव विग्रहवान् कुतो ऽयम्
आलम्बवल्कलधरो नयनाभिरामः ।
बद्धश् च नाम च न दैन्यविषादवश्यस्
तेजोनिधिः प्रशमम् उद्गिरतीव चायम्

66

अथ स ब्राह्मणाधमस् तं राजानम् अब्रवीत् । जयतु जयतु महाराजो दिष्ट्या वर्धसे । यो ऽसौ तव प्रत्यनीको राजा केनापि प्रयोजनेनारण्यम् अनुप्रविश्य तापसनेपथ्यावच्छादितो दौरात्म्यं किम् अप्य् आरेभे । स एष मया बलात्कारं त्वत्प्रियचिकीर्षया बद्ध्वा मीन इव स्फुरन्न् आनीतस् तद् अत्र देवः प्रमाणम् इति । अथ स राजा तत् तस्य पापकर्मणः कर्मासंभावयन्न् अवोचद् एनम् । मा तावद् भोः ।
जेतुं सागरमेखलां वसुमतीं बाहुद्वितीयो ऽप्य् अयं
शक्तः शक्तिमतां वरः करिकरव्यालम्बिबाहुद्रुमः ।
त्वं शक्तो ऽस्य पराभवं कथम् अरे कर्तुं बृहद्वक्षसः
तत् त्वं ब्रूहि पराभवन्ति न मृगाः सिंहं स्फुरत्केसरम्

67

स तस्मै राज्ञे यथाभूतम् आविश्चकार । धिक् त्वाम् इति च निर्भर्त्सितः कोपकलुषया दृष्ट्या तेन राज्ञा परां व्रीडाम् आपन्नः । स्वयम् एव विमुच्य बन्धनानि क्षितिपः सो ऽथ यथासुखं नृपर्षिम् उपवेश्य तम् आसने महार्हे बहुमानानतविग्रहो जगाद ।
गुणभक्तितयातिमानुषं ते नृप कर्मातिशयावदानम् एतत् ।
प्रथयन्ति सुरासुरप्रधाना बहुमानश्लथम् आनतैः शिरोभिः

68

यदि रञ्जयितुं प्रजाः समर्थो नृप राजेत्य् अभिधानसंनिवेशः ।
गुणरत्ननिधे त्वम् एव राजा विगुणो रञ्जयितुं जगन् न शक्तः

69

अनुशाधि यथा पुरा पुरं स्वं वयम् आज्ञाप्रवणा भवद्विधानाम् ।
विनयाद् व्यसनं च नः क्षमेथाः स्खलति प्रोषितलोचनः समे ऽपि

70

जातप्रसादम् अथ तं नृपतिं विदित्वा पात्रीकृतं सुचरितस्य स बोधिसत्त्वः ।
शिष्यं विनीतम् इव गौरवभारनम्रं प्रोवाच नीलजलदस्तनयित्नुघोषः

71

आयुर् नृणाम् अचिरकालविनाशि तावत् तप्तोपलोदरनिषिक्त इवाम्बुबिन्दुः ।
सङ्गाः प्रियैः सह सदैव वियोगतिक्ताः संपत्तयो विपरिणामविषाविषह्याः

72

कामा मुहूर्तवितथाभिनिवेशरामाः किंपाकपादपफलप्रतिमोपभोगाः ।
नैकान्तरायविरसं सभयं सवैरं राज्यं प्रमादवधबन्धनिमित्तभूतम्

73

तस्माद् विपाकमधुराणि कुरुष्व नित्यं कर्माणि सज्जनमनोविनिबन्धनानि ।
शोकाश्रुकातरमुखास् तु विपाककाले येषां भवन्ति पुरुषाः प्रजहीहि तानि

74

नार्थो राज्यसुखैः पुनर् मम चलै रिक्तैर् अनाश्वासिकैर्
वैरायासविषाददैन्यकलहद्वारैः परप्रत्ययैः ।
उत्कण्ठां जनयन्ति मे क्षितिधराः संसक्तधाराधराः
पुष्पालम्बकदम्बपादपवनश्यामोपकण्ठाः शिवाः

75

हरिणकुलविलुप्तस्निग्धशष्पोत्तरीया निपतितसितपुष्पा द्यौर् इवालक्ष्यतारा ।
अपहरति बलान् मे मानसं काननान्तक्षितिर् उपरतराज्यप्रार्थनाविप्रलम्भम्

76

स्थिरवनगमनाशयं विदित्वा नृपतिर् असाव् अथ तं विशुद्धसत्त्वम् ।
अपहृतहृदयो गुणैस् तदियैर् वनगमनाभिमुखः किलावतस्थे

77

अवगमितमनाश् च बोधिसत्त्वः क्षितिपतिना विनयानतेन तेन ।
उपरतविषयस्पृहो ऽपि चेतो वनगमनाद् विनिवर्तयां बभूव

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc