भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 27-46

27

अनेकापायसंराद्धं राज्यं येनैव भूभृतां ।
तेनैवास्य क्षमस् त्यागः कुपितस्येव भोगिनः

28

धर्माद् एव च संप्राप्य राज्यश्रीसुखसंपदः ।
औदासीन्यं कथं नाम कुर्यात् तत्रैव पण्डितः

29

अपि च भदन्तः ॥
विना श्रमैस् तुच्छम् असारम् अध्रुवं सुखं न कामाश्रयम् अप्य् अवाप्यते ।
अशेषलोकत्रयसंपदास्पदं पदं किम् अङ्गाप्रतिमस्वयंभुवां

30

निवेश्य कामेषु चलेषु मानसं मुधैव खिन्ना वयम् अन्यजन्मसु ।
जगद्धिताय त्व् अधुनाभिवाञ्छिता भवन्तु नस् त्व् अन्तकराः परिश्रमाः

31

कथं नु तस्मिन् न यतेत बुद्धिमान् निबध्य यस्मिन्न् अभिलाषमात्रकं ।
असंस्तुतानाम् अपि चैकबन्धुतां जनो जनानाम् उपयाति तत्क्षणात्

32

तदत्ययाशङ्किभिश् चामात्यैः स महात्मा पुनः पुनः प्रतिबोध्यमानो ऽपि नैव तेषां वचनं प्रमाणयाम् आस ॥
त्यक्तस्पृहत्वात् क्षितिपस्य तस्य सर्वत्र कारुण्यमयी प्रवृत्तिः ।
गुणानुरागात् स तथापि तेषां पूजां मुनीनां प्रति सादरो ऽभूत्

33

गुणोद्गता एव गुणोदितेषु भवन्ति पूजाप्रतिपत्तिनम्राः ।
य एव रत्नातिशयान्तरज्ञास् त एव तेष्व् अत्यधिकं यतन्ते

34

फलाभिलाषोपहतान्तरात्मा परीक्षते पात्रविशेषम् एव ।
कृपालुकस् त्व् अर्थितयैव तुष्टः प्रवर्तते याचनकेषु सारं

35

वनस्पतीनाम् इव जन्म येषां परोपकारैकरसस्वभावं ।
लभेत तेषां हृदये ऽवकाशं खला फलाशा विदुषां कथं च

36

अथ स महासत्त्वो गुणानुवृत्तिस्थिरानुरागेण महता बलेन परिवृतः स्वपुरवराद् विनिर्ययौ ॥ निर्गच्छन्तं चैनं दूर्वाप्रवालकुसुमफलव्यग्रात्युच्छ्रितैकपाणयो द्विजवरा जय जय महाराजेत्य् उच्चैर् आनन्दयाम् आसुः ॥ अथ स महात्मा लौकिकमङ्गलापरिनिष्पत्तिम् अभिप्रकाशयन् बुद्धानाम् एव च भगवतां गुणानुवादं मङ्गलं चोद्भावयन् व्यापिना स्वरेण तान् अमङ्गले मङ्गलाभिनिवेशिनो विप्रान् अब्रवीत् ॥
सर्वानर्थोपसंहारप्रगल्भैः क्लेशशत्रुभिः ।
पराजितानां को नाम विजयः क्लीबचेतसां

37

दुर्भेदं यो बिभेद प्रविचयकिरणैर् ध्वान्तम् अन्तर्निविष्टं
तृष्णावल्लीं समूलां भवतरुशिखरारोहिनीं यो ददाह ।
आगृह्य क्रोधसर्पं हृदयबिलतलात् को ऽपि चिक्षेप यो ऽसौ
लोकालोकस्वभावः स जयति भगवान् भग्नसंसारचक्रः

38

अश्रान्तं सुविदूरगोचरचरं दुर्निग्रहं दुर्ग्रहं
दुष्पूरं विषयाभिलाषकृपणं मायास्वभावं चलं ।
एकान्तव्यवदानमार्गविमुखं संक्लेशपक्षोन्मुखं
यश् चित्तं दमयां बभूव स जयत्व् अव्यग्रचेता मुनिः

39

अन्तर्द्योतिर् अपास्य यस्य तमसाम् आयामिनीं वासनाम्
अक्लिष्टाम् अपि निर्दधाव निवृतिं कालत्रयव्यापिनीं ।
सर्वाकारपरोपकारविषयं यस्यापरप्रत्ययं
प्रज्ञानं भगवान् असौ विजयते बुद्धो जगच्छङ्करः

40

स क्रमेण व्यतीत्य तालहिंतालतमालनक्तमालनिचुलबकुलकाननोपशोभितं स्वविषयम् खदिरबदरबिल्वेङ्गुदशमीपलाशगहनदुर्गाम् अटवीं प्रपेदे ॥ तस्य खलु महासत्त्वस्य पुण्यतर्षेण द्रुततरं व्रजतः ॥
रजोभिः सैन्यानां शलभकुलसंपातकपिलैर्
निरुद्धं खं रेजे पुलिनम् इव पर्यस्तम् उदधेः ।
क्व चित् पाणिक्षेपैर् मदसुरभिशीकारशिशिरैर्
जलैर् नागेन्द्राणां नवतमवनीहारपटलैः

41

सो ऽतिक्रम्य ताम् अटवीम् अनुक्रमेण मेघस्य राज्ञो विषयम् अनुप्राप्तः । तदागमनसंभ्रान्तश् च मेघो महीपतिर् विदिततद्गुणप्रभावः प्रत्युद्गम्यैनं सबहुमानप्रहर्षविस्मयविकचलोचनो महता सत्कारेण मानयित्वा महार्हासनोपविष्टं तत् तत् प्रियम् अवोचत् ॥
सुस्वागतं क्षितीन्द्राय धन्यम् आगमनं तव ।
सुभाषितम् इदं लोके जीवन् भद्राणि पश्यसि

42

को नु संभावयेत् पुण्यां प्रमोदामृतपेशलां ।
आवयोः संगतिम् इमां हिमवद्विन्ध्ययोर् इव

43

दृश्यसे चरितैर् एव कामं लोकान्तचारिभिः ।
साक्षाद् वो दर्शनं यत् तु तन् मङ्गल्यफलोदयं

44

प्रत्यक्षम् अपि कल्याणं मनोरथविदूरगं ।
न श्रद्धत्ते जनः प्रायः प्रीतिप्रेङ्खोलिताशयः

45

स्वप्नो ऽयम् उत मायेति निश्चयं न लभामहे ।
भवन्तम् अपि पश्यन्तो लोचनानन्दबान्धवं

46

कच् चिद् अक्लान्तकायस् त्वं राजन् कच् चिद् अनामयः ।
कच् चिद् विश्रम्भनिःसङ्गः प्रणयाभिमुखो मयि

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc