भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 48-67

48

तमालनीलोत्पलपत्त्रवृष्टयो निपेतुर् अन्तर्गतमत्तषट्पदाः ।
विपाटितस्येव विमानकोटिभिर् नभस्तलस्यावयवास् ततस् ततः

49

पुण्यप्रभावजनिते भगवान् निषद्य पद्मे सहस्रदलके रथचक्रमात्रे ।
अम्लानपुण्यपरिपाकविमुक्तगन्धे तं चन्दनं परमकारुणिकः शशास

50

येनार्जितं धनम् इदं परिपालितं च स्वेदोपदिग्धवपुषा कुटुकुञ्चकेन ।
नन्दः पिता तव स एव फलानि भुङ्क्ते तिक्तानि मत्सरविषद्रुमसंभवानि

51

स्थानाद् इतः पुनर् अयं कलुषान्तरात्मा यास्यत्य् अपायम् अनुपायभयप्रतिष्ठम् ।
अर्चिष्मता हुतभुजा विनिकीर्णदेहा यस्मिन् वसन्ति विवशा बहवः कदर्याः

52

एतां सुहृज्जनविषादकरीम् अवस्थाम् आलोक्य मोहतमसः प्रतिबिम्बभूताम् ।
स्वाङ्गान् निकृत्य पिशितान्य् अपि को न दद्यात् संसारवर्त्मनि नरः परिवर्तमानः

53

क्लेशान्धकारवदना विकरालदंष्ट्रा दावाग्निदग्धशिखरा इव शैलपादाः ।
आयासिनो यद् अनवाप्तजला भ्रमन्ति प्रेताः फलं तद् अपि लोभविषद्रुमाणाम्

54

तृष्णाविदारितमुखाः समुपेत्य बाला दूर्वाप्रवालहरितोपनितम्बलेखाम् ।
संशुष्कपङ्कपटलप्रकरान्तरालां पश्यन्ति के चिद् अनलज्वलितां स्रवन्तीम्

55

देहान् दहन्ति दहना इव चन्द्रपादाः शीता रवेर् अपि करा हि समुद्गिरन्ति ।
अङ्गारचूर्णपरुषाश् च भवन्त्य् अमीषां मेघाम्बुशीकरमुचो ऽपि कदम्बवाताः

56

आशीविषैर् इव निरीक्षितमात्रशोभाः प्रेतैर् द्रुमा विमलनीलचलत्पलाशाः ।
सद्यो भवन्ति परिशुष्कविशीर्णपर्णाः प्रत्यादिशन्त इव मत्सरिणो मनुष्यान्

57

प्रेतोपपत्तिनियता व्यसनाभिघाता व्यक्तीभवन्ति मनुजेष्व् अपि नैकरूपाः ।
क्षुत्तर्षशीतपरितापभयप्रकारास् त्यागद्विषां विपद् अतः परतो ऽनुमेया

58

पञ्चोपतापविरसाक्षरम् अप्रगल्भं देहीति यद् वदति दुर्बलमन्दमन्दम् ।
वित्तावलिप्तमनसः कुलजो ऽपि साधुः सा नीचता विभवलोभपराजितानाम्

59

आशाविघातभयसंकुचितश् च दीनो देहीत्य् अपि प्रसहते कृपणो न वक्तुम् ।
यन् निर्धनो धनवतः पुरुषान् अकाले मौनव्रतं तद् अपि लोभकृतं नराणाम्

60

न जनस्य मलो ऽस्ति लोभतुल्यो न च मात्सर्यसमः परोपघातः ।
न च याचकतुल्यम् अस्ति मित्रं जगतां त्यागसमो न बन्धुर् अन्यः

61

परिपाकविमुक्तगन्धकोशं भ्रमराः पद्मम् इव प्रकामगन्धम् ।
अपनीतपरिग्रहावलेपं बहवः सत्पुरुषं भजन्ति सन्तः

62

स्वमदार्द्रविशेषका गजेन्द्रा नवकार्तस्वरबद्धपाशकक्षाः ।
अनुयान्ति जनं प्रदानशीलं जविनश् चामरिणश् च वाजिमुख्याः

63

विनयाभरणाः क्रियाभिरम्याः प्रमदाश् चित्रकलाविदग्धभावाः ।
उपयान्ति नरस्य दासभावं कुशलैर् एव वशीकृताः पुराणैः

64

भवनानि विभूतिमन्ति मेरोः शिखराणीव मनोज्ञदर्शनानि ।
स्वकृतानवगीतकर्ममायारचितान्य् एव मुदा विशन्ति सन्तः

65

विनिमीलितजातिवाददोषेष्व् अनपाकृष्टचरित्रभूषणेषु ।
उपपत्तिर् अदुर्लभा कुलेषु व्यपनीताविलमत्सराश्रयाणाम्

66

कुसुमस्तबकाभिरामशोभं नरनारीनयनद्विरेफहारि ।
कुशलस्य फलं वपुर् नराणां मतिवीर्याचपलप्रयामधीरम्

67

विकसत्कुमुदाकरातिरेकप्रभया यद् गगनं स्फुरन्ति कीर्त्या ।
गतलोभमलस्य ता नराणां द्युतयस् त्यागनिशाकरस्य रम्याः

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc