भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 40-59

40

प्रशमविधुरे नित्योद्वेगप्रदे गृहचारके
विषयमरुता व्याधूतानां हतोपनिषत्सुखम् ।
उपरतजनक्षोभायासप्रकामसुखे वने
व्रजति तु मनः सद्यः शान्तिं कुकार्यसमाकुलम्

41

अथान्यतमो ब्राह्मणो दारिद्र्यदुःखाभ्याहतस् तत्प्रतीकारचिकीर्षया मन्दोत्साहो ऽपि बोधिसत्त्वम् एकम् आर्तायनम् अवगम्य तद्विषयान्तम् उपगच्छन् मार्गपरिभ्रंशपर्याकुलात्मा ततस् ततः परिभ्रमन् क्षुद्दुःखोपग्लपिततनुर् अध्वक्लमविक्लवाविधेयगुरुतरचरणविग्रहस् तद् आश्रमपदम् आससाद । दृष्ट्वा चैनं बोधिसत्त्वश् चिराभ्यागतस्निग्धबान्धवस्नेहातिरिक्तवात्सल्यपेशलया पिबन्न् इव दृष्ट्या प्रत्युद्गम्याभिवाद्य च कृतप्रतिसंमोदनम् आगमनप्रयोजनं पर्यपृच्छत् । ब्राह्मणो ऽब्रवीत् ।
यः सर्वदो नाम भुवि प्रसिद्धो यथार्थनामा नरलोकपालः ।
कीर्त्या समाहूत इवास्मि तस्य प्राप्तस् तम् आर्तायनम् ईक्षमाणः

42

त्राता स एव व्यसनातुराणां वनीपकानां स च बन्धुर् एकः ।
तम् एव चैकं व्यपदिश्य साधुम् अन्यत्र मौनव्रतम् एति वाणी

43

तत् तस्य वचनं श्रुत्वा स कृपापेशलाशयः ।
आचकम्पे महासत्त्वस् तद्दुःखपवनाहतः

44

अथ स महात्मा दीर्घम् उष्णं च निश्वस्य तं ब्राह्मणं प्रोवाच ।
उपायश् चिन्त्यताम् अन्यो द्विज दुःखोपशान्तये ।
भ्रष्टैश्वर्यः स भूपालस् तपसे वनम् आश्रितः

45

अथ स ब्राह्मणः समीहितार्थप्रत्याशाप्रणयभङ्गदैन्याक्रान्तमानसः सहसा पृथिव्यां निपपात परं च संमोहम् उपजगाम ।
आशापर्यस्तधैर्याणि हृदयानि प्रसङ्गिनाम् ।
देहिनां मोहम् आयान्ति हेतुना येन केन चित्

46

अथ बोधिसत्त्वस् तं ब्राह्मणं शीताभिर् अद्भिः परिषिञ्च्य प्रतिलब्धसंज्ञं समाश्वासयन्न् अब्रवीत् ।
अस्त्य् अन्यो ऽपि प्रतीकारो भवदाशासमृद्धये ।
अहं सर्वंददो राजा मा शुचस् त्वम् इह द्विज

47

सर्वंददो नाम कथं कदा वा यस्य स्वदेहे ऽपि मनःप्रसङ्गः ।
यथार्थनामा त्व् अधुना भविष्याम्य् अहं त्वदभ्यागमनोत्सवेन

48

मद्राज्यप्रणयी राजा मां समन्वेषते किल ।
बद्ध्वा मां देह्य् अतस् तस्मै स त्वां सम्तोषयिष्यति

49

अनेकदुःखोपनिपातकातरश् चिरस्य तावद् भवदाश्रयाद् अयम् ।
ममोपयोगं गुणपक्षसिद्धये शरीरसंज्ञः कलिर् अद्य यास्यति

50

जरारुजामृत्युखलूरिकाम् इमां तनुं समाश्रित्य स हन्त यो ऽद्य मे ।
मनोरथो ब्राह्मणमुख्य पूर्यतां तव प्रभावाद् अभिवाञ्छितश् चिरम्

51

प्रीतिर् नृपस्य तव चार्थविशेषसिद्धिः संपत्स्यते मम च पारमिताप्रकर्षः ।
एकं शरीरम् अतिसृज्य विपत्परीतं पश्योत्सवातिशयम् आपतितं क्रमेण

52

एवंविधे ऽतिथिजनप्रणयाभिधाने प्रीत्यागमे च मम कार्यसमृद्धिहेतौ ।
देहे कृतान्तमकरास्यपुटातिथौ च नैकोपसर्गविहिते विधिर् अस्ति को ऽन्यः

53

कायाद् असाराद् अहम् अद्य सारं भवन्तम् आसाद्य समुज्जिहीर्षुः ।
मनोरथं तत् सफलं कुरुष्व त्वम् अद्य मे विप्र चिरानुबद्धम्

54

एवम् अस्त्व् इति पापात्मा प्रतिशुश्राव स द्विजः ।
अतिक्रम्यार्यमर्यादां लोभोपहतमानसः

55

कोटरान्तर्गतव्यालविषाद् अप्य् अतिदारुणैः ।
विषयैर् उपतप्तानां पापं किं नाम दुष्करम्

56

एकः परार्थं प्रददौ स्वदेहं समाददे ऽन्यः परम् आत्महेतोः ।
अहो विकृष्टं चरितं नराणां गुणेषु दोषेषु च सादराणाम्

57

तं बोधिसत्त्वं विनिबध्य गाढं पश्चाद्भुजं चौरम् इव द्विजातिः ।
समाचकर्ष प्रकृतिप्रगल्भो निवार्यमाणो वनदेवताभिः

58

साक्षाद् अयं धर्म इवावतीर्णः प्रशान्तवाक्कायमनोविकारः ।
द्विजाधमेनाविनयावलेपक्रूरेण कष्टं ह्रियते महर्षिः

59

अमी रुदन्तीव विलोलपल्लवाः प्रशस्तपुष्पाश्रुमुखा महीरुहाः ।
चलद्द्विरेफध्वनिदीननिस्वना वियुज्यमाना मुनिना सुमेधसा

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc