भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 20-39

20

तत् स्वस्तिराज्यद्युतिविस्तरेभ्यो नैकव्यलीकाश्रयदारुणेभ्यः ।
यास्यामि शान्तानि वनान्य् अतो ऽहं विवेकजप्रीतिनिबन्धनानि

21

कल्याणमित्रं यत एव राजा ममाद्य नैष्क्रम्यसुखोदयाय ।
कल्याणम् एवास्त्व् अनयो ऽप्य् अतो ऽस्य सबन्धुमित्रस्य शरच्छतानि

22

मा गा गर्वं महिम्नः क्षितिपतिर् अहम् इत्य् उज्झ्यतां विप्रलम्भः
प्रत्यासन्नोपतापाम् अनुवहसि वृथा भङ्गिनीं किं नयाज्ञाम् ।
राज्यं त्यक्तव्यम् एव व्यसनपरिगतं नात्यजस् त्वं किमर्थं
शङ्के दौर्जन्यम् इत्थं मम नृपतिर् अयं क्षापयिष्यत्य् अयत्नः

23

कदा त्यक्त्वा गेहं कुकृतशतसंबाधविरसं
वने वत्स्यामीति प्रशमसुखसंभोगसुभगे ।
वितर्का ये भूताः सुचिरम् अनुबद्धा मम मतेः
प्रसिद्धास् ते दिष्ट्या क्षितिपतिम् इमं प्राप्य न चिरात्

24

इति विनिश्चित्य बोधिसत्त्वो जन्मान्तराभ्यस्तनैष्क्रम्यसुखाभ्युदयपरिचयो मृग इव वागुरावरोधनिर्गमोपलम्भोद्भूतप्रमोदः समपनीतराज्यश्रीसूचकालंकारविभ्रमकायभारलघुविविक्तविग्रहः परैर् अपरिज्ञाततपोवनगमनप्रयोजनः संरूढप्रणयविश्रम्भस्नेहबहुमाननिरत्ययं च बन्धुवर्गं स्वपुण्यबलावष्टम्भोपनतसुखोपभोग्यां च राजलक्ष्मीं पर्युषितोपभोगमलिनम्लानकुसुमबन्धनाम् इव स्रजं परित्यज्यान्य्तमद् विविक्तम् आश्रमपदम् अलंचकार ।
आहूयमान इव पल्लविनां द्रुमाणां
शाखाकरैः स्वकुसुमाभरणाभिरामैः ।
शान्तं वनान्तम् उपगम्य स बोधिसत्त्वः
प्राप्तो ऽमृतं नृपसुखैर् अनवाप्तपूर्वम्

25

यान्य् एव शोकपरिदेवमुखानि लोके कामात्मनाम् अनुचितोपशमोत्सवानाम् ।
तान्य् एव नाम दधति प्रशमप्रियाणां प्रीतिं निरामिषसुखप्रणयानवद्याम्

26

पुष्पाधिवासशुचिभिः स वनान्तवातैः
संवीजितः प्रतिविनोद्य शरीरखेदम् ।
ध्यात्वा प्रमादमलिनां मनुजेन्द्रलक्ष्मीं
संवेगम् एव मनसि क्षितिपः पुपोष

27

कृत्वा नमः स भुवनत्रयशङ्करेभ्यः
सर्वात्मना दशसु दिक्षु तथागतेभ्यः ।
अम्लानशाद्वलकुथापरिभोगरम्ये
मूले तरोः क्षितिपतिर् निषसाद मध्ये

28

स खेदितो ऽन्तःपुरसुन्दरीणां संक्लेशपक्षानुगुणैर् विलासैः ।
विविक्तसंभोगसुखान्य् अरण्यान्य् आलोक्य विश्रान्त इव क्षितीशः

29

परिस्रवन्निर्झरवारिधाराप्रक्षालितश्यामशिलातलानि ।
सानूनि पश्यन् स महीधराणाम् अयत्नरम्याणि मुदं जगाम

30

आलिङ्गितान् पुष्पभरालसाभिः स्नेहाद् इव प्राणसमांल् लताभिः ।
महीरुहान् भूरिपलाशनीलान् आलोक्य रेमे स महीमहेन्द्रः

31

अकर्कशश्यामकशेरुकाणि भ्रमद्द्विरेफाहतपुष्कराणि ।
निरीक्षमाणः स नृपो ऽभिरेमे सरांसि पाठीनकुलाकुलानि

32

विवेकजप्रीतिसुखानुकूलां निसर्गरम्यां स वनान्तभूमिम् ।
निरीक्षमाणः क्षितिपः प्रहर्षं जगाम संशान्तमनोविकारः

33

उदीक्ष्य संसक्तशिखण्डिकेकामनोऽभिरामाणि स काननानि ।
अनेकसंक्लेशविषोपदग्धां नृपश्रियं भूमिपतिर् जगर्हे

34

क्वासौ विपर्याससुखाभिमानप्रसङ्गजिह्मा क्षितिपाललक्ष्मीः ।
क्व चैव चेतोविनिबन्धनानि शान्तान्य् अरण्याश्रयिणां सुखानि

35

अनर्थरागाश्रयदूषिताय नमो ऽस्तु तस्मै क्षयिणे सुखाय ।
विषज्य यस्मिन् मनसः प्रवृत्तिं कृपास्पदत्वं विदुषां व्रजन्ति

36

अवनतशिखैर् वानीराणां द्रुमैस् तटरोहिभिः
कृतपरिकरश्रीसंभोगाः प्रशान्तरयोद्धवाः ।
हरितपुलिनाः शष्पोद्भेदैर् झरैः सरितः शिवाः
क्षितितलपतिः पश्यंल् लेभे रतिं स निरामिषाम्

37

वितथविषयक्रोधाभ्यासप्रयोगमलीमसं
हृदयम् असतां शान्ते ऽरण्ये रतिं कथम् एष्यति ।
स तु नरपतिर् गोत्रोत्कर्षप्रभावपरिग्रहाद्
विषयविमुखः प्रीतिं भेजे परां विजने वने

38

प्रकृतिचपला नैकापाया निरन्तरदारुणा
न खलु हृदयं नो ज्ञानार्थं हरन्ति विभूतयः ।
अपगतमनःसंक्षोभाणां वनान्तम् उपेयुषां
भवति तु सतां पूर्वाभ्यासान् मतिः प्रगुणा शुभे

39

हरिणचरणक्षुण्णोपान्ताः सशाद्वलनिर्झराः
कुसुमशबलैर् विश्वाखातैस् तरङ्गितपादपाः ।
मुदितविहगश्रेणीचित्रध्वनिप्रतिनादिता
मनसि न मुदं कस्यादध्युः शिवा वनराजयः

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc