भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 3-22

3

वयसि प्रथमे ऽपि वर्तमानो विषयेष्व् अतिबद्धमानसो ऽसौ ।
अतिमानुषचेष्टितस्वभावो जगतां स्मयभाजनं बभूव

4

सो ऽपर्यवसितकुकार्यपर्याकुलम् उपशमविरोधिप्रकृष्टोपायासम् अर्थोपार्जनप्रधानकामरतिव्यवहारासारकर्मधर्मभूयिष्ठम् अविनयकलहवैरविग्रहायतनम् ईर्ष्यामात्सर्यचौर्यादिनिकेतभूतं शोकपरिदेवदुःखदौर्मनस्योपायासबहुलं मायाशाठ्यमदमानगहनं साहसावलेपाधिष्ठितम् अनार्यव्यवहारानुप्रवृत्तिजिह्मसत्त्वभावं प्रमादपदस्थानम् अनेकरूपपरिभवोपसृष्टं संनिहितदैन्यम् अनभिभूतविषादं प्रत्यासन्नविघातभयदौर्गत्यम् अविषह्योपद्रवसमुद्रं कण्टकगर्भादभ्रश्वभ्रप्रतिभयाकरम् अपास्य गार्हस्थ्यम् अन्यतमम् अश्रमपदम् अभ्यलंचकार ।
बहुच्छलं सो ऽथ बहुव्यलीकं बहूपसर्गं बहुदोषदुष्टम् ।
अपास्य गार्हस्थ्यम् अनर्थमूलं तपोवनं शान्तम् अलंचकार

5

सरोभिर् उन्निद्रपलाशकोषकुशेशयेन्दीवरचित्रतोयैः ।
अलंकृतं बालकशेरुनीलप्रतीरसंसुप्तशरारिहंसैः

6

मीनावलीरशनया सरितोपगूढं स्नेहाद् इव प्रणयिनं प्रियया प्रकामम् ।
सर्वर्तुपुष्पफलदैः स्वजनैर् इवान्तर् बालप्रवालहरितैस् तरुभिर् निरुद्धम्

7

व्यालैस् तपस्विभिर् इवाकृतिमात्ररूक्षैः पर्याकुलम् जलतृणाङ्कुरतुष्टचित्तैः ।
तं काननान्तम् उपगम्य स बोधिसत्त्वो धर्मो ऽवतीर्ण इव विग्रहवान् व्यराजत्

8

गृहस्थभावे ऽपे स वर्तमानो जन्मान्तराभ्यस्तविवेकवासः ।
आगारदोषैर् अपरिक्षतात्मा विशेषयाम् आस तपोवनस्थान्

9

– – ⏑ – – ⏑ ⏑ – ⏑ – – प्रमादिनां कापुरुषाश्रयाणाम् ।
उत्कण्ठयन्ति प्रविवेकयोग्यास् त एव शान्ताः सततं वनान्ताः

10

अभ्यस्तनैष्क्रम्यसुखोत्सवानां सतां प्रवासा इव गेहवासाः ।
मृगाङ्गनाकुञ्चितपल्लवानि वनानि तेषां भवनोत्तमानि

11

परिग्रहेष्व् एव विघातबुद्धिः संतोष एव स्वधनानुरागः ।
येषां गृहे चारकवाससंज्ञा तेषां न चित्रो वनसंनिवासः

12

तस्य पूर्वजन्मपरम्पराभ्यासवासनाघनस्नेहगौरवनिरत्ययाश् चत्वारः सहाया बभूवुः वायसः पारावतो भुजगो मृगश् च । ते तदाज्ञासंपादनैकतानमनसः स्वयोनिविधिना धर्मक्रियासौष्ठवेन जगत्य् अभिलक्षिता बभूवुः ।
छन्दोपघातविहतेष्व् अपरायणेषु तिर्यक्षु मोहबहुलेष्व् अधिकं विह्बान्ति ।
धर्मानुरागविशदाः प्रतिपत्तिशोभास् तामिस्रपक्षरजनीष्व् इव दीपमालाः

13

विस्मापयन्ति सुतरां विगुणाश्रयिण्यो धर्मक्रियाः करणपाटवयोगरम्याः ।
ग्रीष्मोष्मदुर्गमतरासु वनस्थलीषु प्रोद्भिद्यमानकमला इव पङ्कजिन्यः

14

तेषाम् एकदा स्नेहनिर्यन्त्रणरमणीयावस्थानप्रवृत्तसंकथानाम् अयं विनिश्चयो बभूव । किं नु खलु भवन्तो ऽतिशयेन दुःखं मन्यन्ते । तेषां दक्षताम् इवोद्भावयन् प्रथमतरं वायसः प्रोवाच । नेहास्ति क्षुधो ऽन्यत् परमं दुःखम् । कुतः
न व्याधयो न च जरा न सुःर्द्वियोगो नानिष्टसंगममया व्यसनप्रकाराः ।
दुःखानि तान्य् उपहरन्ति जनस्य यानि ह्री विप्रवासपरितापकरी जिघत्सोः

15

दुरुत्तरक्षारतरङ्गमालिनीम् उपागता वैतरणीं प्रमादिनः ।
बुभुक्षया यन् निगिरन्त्य् अयोगुडान् ततो ऽस्ति न क्षुत्सदृशो ऽपरः कलिः

16

कडेवरावस्करनिर्झरस्रवन्मलोपलेपाकमनीयदर्शनः ।
रुजा परीतो ऽपि पिपासति स्तनं यद् अर्भकः क्षुद्व्यसनं ततो महत्

17

विनाकृतः प्राणसमैर् अपि प्रियैर् गतो ऽपि शोकस्य वशं विदाहिनः ।
यद् अश्रुमिश्रान् कवडान् निषेवते ततो भयं क्षुत् परमं जिनो ऽब्रवीत्

18

अपि च भदन्ताः
जातः कुले महति मानमदावलिप्ते क्षुद्विक्षतो ऽभ्युदयकाल इव प्रहर्षात् ।
उच्छेषपिण्डम् अपि नाम नृपस्य भुङ्क्ते यत् सारमेय इव कष्टतरं किम् अन्यत्

19

प्रत्यन्तवासरतयस् तृणमात्रतुष्टा यत् तापसा इव परव्यसनानभिज्ञाः ।
लक्ष्यीभवन्ति हरिणाः परितः शराणां क्षुद्दुःखम् अत्र नियमेन परैमि हेतुम्

20

मर्मच्छिदापि पवनेन विशस्यमाना हिक्कास्फुरद्गल क कण्ठविकारदेहाः ।
आहारयन्ति पिचुना पि यद् अन्नलेशान् न क्षुत्समं व्यसनम् अस्ति ततः प्रजानाम्

21

अपि च साधवः
आसन्नान्नभुजो नभस्तलचरा देवा इवाभास्वराः
सत्त्वाः प्राथमकल्पिकाः स्वकिरणज्वालावलीमालिनः ।
आहारप्रणयप्रसङ्गविहतास् ते ताम् अवस्थां गताः
यत् प्रेता इव वर्तयन्ति कृपणाः कृच्छ्रोपलब्धाशनाः

22

क्षुद्दुःखोपनिपातदीनमनसः शुष्कानि काष्ठान्य् अपि
क्लिन्नानि क्रिमिसंकुलानि विघृणाः खादन्त्य् अमेध्यानि च ।
कक्षैः के चन यापयन्ति परुषैर् लालाजलक्लेदितैर्
अन्ये ऽस्थीनि चिरोज्झितान्य् अधृतयः क्षुद्विक्षता भुञ्जते

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc