भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 61-19

61

प्रसाद्य च मनो मुनौ सुचरितैकरत्नाकरे
वचो ऽवितथवादिनः श्रुतिरसायनं श्रूयताम् ।
तदश्रवणवञ्चितं जगद् इदं भ्रमत्य् आतुरं
भवाध्वनि निराश्रये व्यसनकण्टकान्धाचिते

1

इति श्रीसार्थवाहजातकं समाप्तम् ॥
14. सर्वंदद
परदुःखदुःखिताः स्वजीवितम् अपि नापेक्षन्ते साधवः ।
तद्यथानुश्रूयते ।
बोधिसत्त्वो ऽन्यतमं स्वकुलक्रमागतं महीमण्डलं समनुशशास । तस्यार्थिजनमनोहरैर् अविषमप्रवृत्तिमधुरतरैर् अनतिक्रान्तकालाभिलषितैः फलाशाकार्पण्योपशमस्वच्छशोभैर् विभवविसर्गैर् लोकान् संतर्पयतः सर्वंदद इत्य् एवं यथार्थं नाम प्रथितम् आसीत् ।
जगद्धिताधानसमुत्सुकत्वात् स राज्यभारं बिभरां बभूव ।
क्षितीश्वरः पूर्वकृतानवद्यपुण्यप्रभावोपनतं क्रमेण

2

न तस्य किंपाकफलोपमाश् चला मनो मनोविभ्रममात्रभद्रिकाः ।
स्वभागधेयोपनता विभूतयो बबन्धुर् आर्यप्रकृतेर् महात्मनः

3

परिश्रमस् तस्य बभूव यौतको महाकृपाधीनमतेर् महीपतेः ।
प्रभुत्वम् आसीज् जगतां त्व् अबाधिथं विभूतिसंभोगसुखेषु भूरिषु

4

न तस्य मात्सर्यतमोऽवगुण्ठनं बभूव गात्रेष्व् अपि मानसं यदा ।
तदा कथैवोपरतासुखागते तृणोपमे शोकनिबन्धने धने

5

तं किल महात्मानम् अन्यतमः पार्थिवो ऽतृप्तः स्वराज्यश्रिया परित्यक्तधर्मयशाः सुखसाधनोपायदारुणः स्वराज्याद् उच्चालयितुम् उपचक्रमे ।
संप्राप्य भोगान् महतो ऽप्य् अनार्याः पन्थानम् आर्याचरितं विलङ्घ्य ।
तृष्णापरीताः करुणात्मकेषु साधुष्व् अपि क्रोधविषं वमन्ति

6

भैषज्यवृक्षा इव ये कदा चित् क्व चित् कथं चिज् जगतो हिताय ।
भवन्ति तान् अप्य् उपतप्तचित्ताः क्रोधाग्निना कापुरुषा दहन्ति

7

कुर्वीत को नाम मनुष्य आर्यः सचेतनस् तेषु मनःप्रदोषम् ।
येषां यशोभिः कुमुदावदातैर् उद्भासितानीव दिगन्तराणि

8

अथ धरणिरजोभिः शारिकाकण्ठधूम्रैस् तुरगखुरनिपातप्रोद्गतैश् छादयन् खम् ।
स नृपतिर् उपतस्थे मत्तमातङ्गसैन्यैर् उपवनतरुपूगान् आरुजन् मेघनीलान्

9

उदधिर् इव युगान्ते प्लावयंल् लोकम् अन्तर्लुलितमकरपुच्छच्छिन्नचञ्चत्तरङ्गः ।
स नृपबलसमूहो नग्ननिस्त्रिंशपत्त्रस्फुरितरविमयूखस् तत्पुरं संरुरोध

10

उपनतम् अपि पुण्यैर् विप्रलम्भावसानं धिग् अनुपशमकारि श्रीसुखं पार्थिवानाम् ।
पिशितम् इव विपूति क्रव्यभुग्मण्डलानां यद् इह भवति पुंसां वैरवैरस्य मूलम्

11

अथ बोधिसत्त्वः प्राग् एव विदितविषयदोषवैरवैरः संरम्भविप्रलभाद्यनर्थभूयिष्ठं राज्यम् अतिमन्यमानः स्वसुखसंभोगाभिष्वङ्गदैन्यानुपक्लिष्टमानसश् चिन्तयां बभूव ।
धिग् अस्त्व् अनार्यं विषयाश्रयं सुखं समीरणोद्धूतलतान्तचञ्चलम् ।
उपासते यत्र निबद्धमानसा नरा दशां बन्धुजनोपतापिनीम्

12

वातोद्धूततरङ्गितध्वजशिखाप्रत्याहताम्भोधरं
दानप्रस्रुतिसिक्तदन्तमुसलक्रूरद्विपेन्द्राकुलम् ।
शक्तो ऽरातिबलं विहन्तुम् अखिलं बाहुद्वितीयो ऽप्य् अहं
रक्षेद् अक्षतचारिणी यदि कृपा मातेव मां नापदि

13

या वा श्रीर् अधिगम्यते परवधव्यासङ्गदग्धात्मना
तां वाञ्छेद् भ्रमरोपगीतकुसुमां को वध्यमालाम् इव ।
यो ऽपि स्वार्हनिबन्धनप्रणयिना संप्रस्थितो वर्त्मना
प्राग् एव व्यसनातुरस्य जगतो यो ऽहं हितायोद्यतः

14

अपि च
राज्ये ऽपरो यदि मम प्रणयं करोति पूज्यो मया ननु विशेषत एव राजा ।
राज्याश्रयं खलु परार्थम् अहं बिभर्मि संक्लेशभारम् इमम् आयतदुःखहेतुम्

15

अतिथिर् इव यतो ऽयं माननीयो नरेन्द्रो मदुपहितविभूतिप्रार्थनाकृष्टचेताः ।
उपचितकुशलत्वाच् चानुकम्पाविशेषात् सुत इव विनयार्थं को ऽत्र कोपावकाशः

16

उन्मोचयत्य् एव बलाच् च यो मां राज्याभिधानाद् व्यसनप्रतानात् ।
यद्य् अत्र कुर्यां मनसः प्रकोपं पापो ऽपरः को ऽथ मया समः स्यात्

17

राज्यस्य दोषावयवे निवेशं प्रख्यापयन् हन्ति यशःसुखानि ।
माम् अर्थतः शिक्षयते नरेन्द्रो राज्याभिधाने तमसि भ्रमन्तम्

18

त्यक्तव्यम् एतेन च कारणेन क्षितीश्वरश्रीसुखम् आत्मकामैः ।
यद् अत्र सक्तस्य जनस्य वैरभयप्रसङ्गाः शिरसि स्फुरन्ति

19

यो वाहम् उत्सृज्य तपोवनानि निरन्तरायाण्य् अभितः शिवानि ।
गृहाभिधानं भयम् आवसामि नार्हामि नाहं व्यसनान्य् अमूनि

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc