भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 11-30

11

धिक् त्वाम् असद्बुद्धिम् असत्प्रलापिनम् [!] एवं ह्य् अपि त्वं प्रतिभाषसे ऽत्र ।
कस्मान् मुनेः शास्तुर् उपासको ऽपि सद्धर्ममूर्तिं प्रतिनिन्दसे ऽद्य

12

कथं न जिह्वा पतिता तवाननाद् असत्प्रलापापहता तपस्विनी ।
अपुण्यराशिर् भगवान् इति ब्रुवन् कथं न मग्नस् त्वम् अरे रसातले

13

धिग् अप्रशस्ताम् असतां दुरत्ययां पृथग्जनानां प्रकृतिं चलाचलाम् ।
विमर्शम् अप्राप्य यथेष्टचारिणी करोति या लोकम् अपायगोचरम्

14

सुदारुणैर् आयुधभीमदर्शनैर् अरातिभिः सार्धम् अहो वरं गतम् ।
त्वया सुहृच्छद्मनिगूढपाप्मना पदं न चैकं वितथप्रलापिना

15

नमन्ति यं ब्रह्मविदो महर्षयः पुनाति यो विश्वम् इदं वृषांशुभिः ।
अपुण्यराशिर् यदि स व्रतीश्वरस् तथागतः पुण्यनिधिः कुतो ऽपरः

16

मुनेः परोद्धारनिमित्तमात्रम् अप्य् उपैति यस्योद्धृतकल्मषो ऽपि सन् ।
स योगपर्यन्तविदां धुरि स्थितो न पुण्यराशिर् यदि को न्व् इहापरः

17

न यस्य बुद्धिः प्रतिहन्यते क्व चिन् न च प्रहेयावयवो ऽवशिष्यते ।
न चास्ति सङ्गो जगदर्थसाधने स पुण्यराशिर् न कथंकथान्तशः

18

तदुक्तं स समाकर्ण्य द्वितीयोपासकस् [!] ततः ।
प्रागल्भवचसा भूय आयुष्मन्तं तम् अब्रवीत्

19

हितकाम्यतया निरत्ययं वचनं कामम् इदं सखे तव ।
अनुयुज्य तथापि शोभते वितथं साधुर् उदीरयन् भवान्

20

मम भक्तिर् उदारशासने सुगते या परमानुकम्पके ।
विदिता तव सा तथापि मां सहसा सौम्य कथं विगर्हसे

21

आपाताल्पसुखाभिमानरसिकं पर्यन्तरिक्ताश्रयं
सायासं सभयं प्रसङ्गविरसं धिग् लौकिकं संगतम् ।
यन् नामैवम् अकारणोद्धतरुषो मिथ्याविकल्पैर् हतं
गच्छत्य् एकपदे क्षयं परिचयं विक्षिप्य मूर्ध्नो ऽन्तिकम्

22

एतत् तेनोदितं श्रुत्वा प्रथमः स उपासकः ।
अन्यथा तद्वचो मत्वा मनसैवं व्यचिन्तयत्

23

अहो ह्य् अन्यद् अनेनोक्तम् अन्यन् मया विकल्पितम् ।
इति चिन्ताविषण्णात्मा तस्थौ लज्जाहताशयः

24

दृष्ट्वा स च सहायस् तं लज्जावनमिताननम् ।
तदभिप्रायम् आज्ञातुं प्रसह्य चैवम् अब्रवीत्

25

साधो किं मन्यसे ह्य् अत्र यत् ते लज्जाहतं मुखम् ।
तावत् ते यद् अभिप्रायं तत् प्रचक्ष्व ममाग्रतः

26

तस्यैतद् वचनं श्रुत्वा स आयुष्मान् उपासकः ।
तन्मनोऽन्तर्गतं सर्वम् अभिप्रायं व्यमुञ्चत

27

चित्तं यत्र प्रसाद्य क्षणम् अपि मनुजो ऽनुत्तमे दक्षिणीये
श्रीसौभाग्यप्रकर्षं भवगतिषु परं प्राप्य निर्द्वन्द्वरम्यम् ।
पश्चाद् आलोक्य लोकं वितथविलपितं प्रत्ययग्राहमात्रं
ज्ञात्वा प्राप्नोति शान्तं कथम् इव न महान् पुण्यराशिर् भवेत् सः

28

दत्त्वा पलालशकलस्रजम् अग्रसत्त्वे लेभे भवोपशमशान्तिसुखानि नारी ।
यस्मिन्न् अचिन्त्यचरितातिशयप्रभावे किं पुण्यराशिर् अयम् इत्य् अविदग्धम् एतत्

29

कोशातकीकुसुमम् अपि प्रदाय स्तूपे मुनेः परमकारुणिकस्य यस्य ।
भुक्त्वालये गुणविभूतिसुखप्रकर्षं लेभे ऽङ्गनामृतपुरप्रतिपत्समृद्धिम्

30

यस्मै पांशुप्रदानं प्रकृतिचलमना बालकैः संप्रदाय
स्फीतां मर्त्येन्द्रलक्ष्मीम् अनवनतसितच्छत्त्रहासाभिरामाम् ।
संप्राप्यातीतचिन्तं पदम् अभयम् असद्दाहपर्यन्तशान्तं
लेभे पश्चान् नरेन्द्रः कथम् इव स न भोः पुण्यराशिर् महर्षिः

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc