जातकमाला · श्लोक 31-50
प्रसह्य पङ्काङ्कम् ऋषेर् वराहः [!] चैत्ये वपुर् यस्य चिरं स एव ।
तस्यैव धर्मस्य सुधर्मतासौ यदाधिपत्येन भवाद् विमुक्तः
कियान् प्रसादो जडचेतनानां सखे तिरश्चां गुणनिश्चयो वा ।
क्षेत्रस्य तस्यैव तु सा विभूतिर् येनात्र सत्त्वाः सफली भवन्ति
दृष्ट्वा लोकविलोचनोत्सवसुखां संशान्तसर्वोद्धवां
व्यामाभापरिवेषिणीं भगवतो बुद्धस्य मूर्तिं पुरा ।
हर्षोत्कम्पिगलश् चुकूज मधुरं प्रेङ्खत्कलापः शिखी
तद्धेतोश् च शमं जगाम स शिखी धाराम्बुसिक्तो यथा
मङ्गल्यत्वम् अचिन्त्ययोगमहतां सर्वार्थसिद्ध्यावहं
बुद्धानां तद् उदीक्ष्यतां भगवतां संमोहनिद्राच्छिदाम् ।
अत्यन्तोपशमावहं भवति यत् तिर्यग्गतानाम् अपि
प्राग् एवाभिमुखाशयस्य विदुषः शास्तुर् गुणाम्भोनिधेः
मन्ये दर्शनम् एव तद् गुणवतां तेषाम् अवन्ध्योदयं
सर्वाकारपरोपकारमधुरं पूर्वाभिसंस्कारजम् ।
प्रद्वेषोपहताशयान् अपि जनान् संप्रापयत्य् उत्तमं
स्थानं सर्वभवोपसर्गविगमाद् एकान्तशान्तं शिवम्
श्रुत्वा नाम तथागतस्य मकरः सांयात्रिकेभ्यः पुरा
संपृक्तास्यपुटो ममार सुगते चेतः प्रसाद्य क्षणम् ।
तद्धेतोः सरितां पतिं परिमितं नीत्वा पुनर् दुस्तरं
जन्माम्भोनिधिम् उत्ततार विपुलं निःसृत्य मार्गे प्लवम्
अपायपातालतलावलम्बी सुरो मुनीन्द्रं शरणं प्रपद्य ।
स्वपुण्यसोपानपरम्पराभिः समारुरोहाग्र्यतरं विमानम्
कृत्वा व्याघ्रभयान् नमो भगवते बुद्धाय सर्वात्मना
नाम्नैवानुपमस्य पुण्यमहतीम् आलोक्य नान्दीं पुमान् ।
निःशेषव्यसनान्धकारगहनप्रध्वंसिनीं प्राप्तवाञ्
छान्तिं काम् अपि वागतीतविषयां प्रह्लादसंवर्धनीम्
इति भुवनमहिम्नाम् आकरं शाश्वतानां
तम् अनुपमविशेषाचिन्त्यचर्यारहस्यम् ।
किम् अपि कथम् अपीशं शंकरं प्राप्तुम् आर्यं
पदम् अमरम् अहार्यं पुण्यराशिं वदामि
इति तद्गदितं श्रुत्वा स इतर उपासकः ।
तम् आयुष्मन्तम् आलोक्य पुनर् एवं समब्रवीत्
सम्यग् अभिहितं साधो भवतात्र तथापि च ।
ममाप्य् एवम् अभिप्रायं श्रूयतां सांप्रतं सखे
कृत्वा चित्तप्रदोषं सकृद् अपि सुगते प्राप्तलोकावसाने
यत्राविच्छिन्नमैत्रीजलकलशशतक्षालितान्तःप्रकोपे ।
आसंसारापरान्तं ज्वलदनलशिखागर्भपर्यन्तरन्ध्रं
गाहन्ते ऽवीचिम् अज्ञाः कथम् इव स जिनो ऽपुण्यराशिर् न तुङ्गः
एलापत्रम् अवज्ञया किल मुनौ च्छित्वा प्रमादात्मकः
पार्थग्जन्यविषस्य वृत्तिम् अशिवाम् उद्भावयन् कर्मणा ।
एलापादपपादपाटितशिरो – – द्वमच्छोणितो
नागेन्द्रः पृथुभीमभोगपटलो नाद्यापि निर्मुच्यते
सूक्ष्मो ऽप्य् एवम् अनादरो भगवति प्राबन्धिकीं व्यापदं
यत् सर्वायतनोपतापविरसाम् आकर्षति प्राणिनाम् ।
सर्वोत्कर्षदशावसानमहतीं काम् अप्य् अनायासिनीं
प्राप्तः शान्तिम् अपुण्यराशिर् असतां तस्मात् स सत्त्वोत्तमः
कृत्वा चेतःप्रदोषं कृपणकपुरुषो यत्र वीथीमुखस्थः
कीटः कोपोपदग्धो नृपरथचरणाघातविच्छिन्नमूर्धा ।
ज्वालामालाकलापं विवृतम् इव भुवो भीषणं वक्त्रकोशं
श्वभ्रं तस्माद् विवेश प्रतिहततिमिरो ऽपुण्यराशिस् ततो ऽसौ
एवं बुद्धे भगवति गतिभ्रान्त्युपादानदाह-
प्राप्ताभिज्ञे मृदुर् अपि कृतश् चेतनासंनिवेशः ।
संतानानान् उपततिफलप्राप्तये निर्बबन्ध
सः सर्त्ता [?] – भवसुखलवास्वादलग्नाभिलाषम्
मत्वा कर्मस्वकम् अनुशयस्नायुतन्त्रीप्रणेयं
लोकैर् दुःखैर् विषयकृपणैर् इन्द्रियैर् विप्रलब्धम् ।
उत्पद्यन्ते विपदुपशमप्राप्तये ये जनानां
मातुं तेषु प्रभवति पुमान् को ऽपकारोपकारौ
हृत्वा धातुधरान्* स्रजो भगवतः सद्यो ऽभवद् दारको
विस्फोटस्फुटितार्द्रमांसगुडको बीभत्ससर्वाश्रयः ।
सत्कारं प्रविधाय तत्र च पुनः सद्यो ऽभवन् निर्व्रणः
तत् को नाम न पूजयेत् सहृदयः पुण्यार्णवं जङ्गमम्
तस्मात् प्रदुष्टमनसां भगवान् अपुण्यराशिः प्रसन्नमनसां तु स पुण्यराशिः ।
पर्यायतो विगतसर्वसवासनान्तःसंक्लेशकिल्बिषदशो विषयान्तदर्शी
कृत्वा भग्नां प्र ति कृतिम् ऋषेर् अङ्गना कन्दुकेन
प्रकृईडन्ती करकिसलयप्रच्युतेन प्रमादात् ।
पश्चात्तापज्वरपरिगता पूजयित्वापि बुद्धं
किं संप्राप्ता न कनकवती बाहुविच्छेददुःकम्
मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0