जातकमाला · श्लोक 102-12
भवप्रबन्धव्यसनानुषङ्गिनी मतिर् विपर्यासतमोऽवगुण्ठिता ।
परं समुत्क्षिप्य निपातयत्य् अधो विपत्तिपातालतले दुरुत्तरे
तडिल्लतानां स्फुटनानुकारिणीम् अनेकरूपव्यसनानुबन्धिनीम् ।
उपाददानस्य न जात्व् इमां शिवं नरस्य संस्कारविकारसंकुलाम्
स्वयं समुत्थाप्य विकल्पवासनान् समीरणोद्धूतशिखान् भवानलान् ।
जनाः सरोषा इव निर्दहन्त्य् अमी स्वम् इन्द्रियग्रामम् अनर्थपण्डिताः
स्वभावदुःखान् प्रकृतिप्रभङ्गुरान् असारकान् फेनलवान् इवाम्भसः ।
अरीन् इमान् आत्मसमुद्भवान् भवान् सुखाभिमानाश् छलिताः शरीरिणः
निशम्य को नाम विडम्बनाम् इमां पुमान् मदीयां श्रवणोपतापिनीम् ।
रतिं प्रकुर्याद् अपरिप्लुतेन्द्रियो विचित्रसंक्लेशसमुद्भवे भवे
त एव सन्तः सुखम् अध्युपासते सनातनं शान्तम् अतीतमानुषम् ।
भवोपभोगप्रणयानुपातिनी मतिर् न येषां परिशुद्धकर्मणाम्
हतावलेपाः परिशुद्धवृत्तयः स्थितास् त एवोपरि सर्वसंपदाम् ।
न भावनां ये श्लथयन्ति साधवः प्रवृत्त्युपादानविषोपशान्तये
प्रख्याप्य दोषकणिकान् विभवान् भवानां नानाविधव्यसनसंकटसंभवानाम् ।
संवेज्य पर्षदम् ऋषिः स उपासकानां सद्यो ययौ प्रशमम् अग्निर् इवाम्बुषिक्तः
इति भवलुब्धकावदानम् ॥
4. कपीश्वरजातकम् = गोकी
अभ्यस्यन्ति तथा तथागतसुतास् त्यागं यथा स्वान् अपि
प्राणान् प्राणिकृते त्यजन्ति कृपया रोगान् इवायासिनः ।
क्षुद्राः पापविधौ तथा त्व् अभिरतिं बध्नन्ति निःसाध्वसा
भूत्वा दुश्चरितैकतानमनसो गच्छन्त्य् अधस्ताद् यथा
तद्यथानुश्रूयते
बोधिसत्त्वः किलान्यतमस्मिन् विविधवर्णगन्धरससंपन्नफलभारावनतद्रुमोपगूढे विकचसुरभिकुसुमवल्लीविराजितपर्यन्ते मरकतमणिप्रभाहरितशाद्वलकुथास्तीर्णविषमभूमिभागे कमलकुवलयाकरोन्मीलितविमलजलाशयपरिग्रहे महत्य् अरण्ये वानराधिपतिर् बभूव ॥
महाकृपास्वीकृतमानसत्वान् नीत्वापि पुण्यानि परं प्रकर्षम् ।
गतिं तिरश्चाम् अधमां प्रपेदे साधुः स केनापि तु कारणेन
शुभाशुभैः कर्मभिर् आर्यकर्मा क्रीडन्न् इवासौ भवरङ्गमध्ये ।
निदर्शयाम् आस विचित्ररूपाम् उपायपूर्वाम् उपपत्तिमायाम्
कृत्वाप्य् असौ दुर्गतिसंनिरोधम् अपायहेतोश् चिरविप्रवासात् ।
संमोहतामिस्रमयीं प्रपेदे तिर्यग्विपत्तिं करुणापरीतः
प्रवर्तते कर्मवशेन लोको निराश्रयो ऽयं गतिचक्रमध्ये ।
बभूव तस्य त्व् अनवद्यबुद्धेः शुभाशुभे कर्मणि कामकारः
महात्मा कायमात्रेण विनिपातं गतो ऽप्य् असौ ।
अविपन्नगुणाभ्यासपेशलाध्याशयो बभौ
अनार्यैश् चरितैर् दूरान् निशम्यैव विवर्जितः ।
आर्याम् उद्भावयाम् आस पद्धतिं स शिवोदयाम्
आत्मसंज्ञाविपर्यासप्रहाणाद् एव सो ऽत्यजत् ।
स्वसुखासङ्गिनीं चर्याम् अनार्यजनवर्तिनीम्
वृत्तशोभां समालोक्य तस्य जातिविरोधिनीम् ।
मुनयो ऽप्य् अभवन्न् आत्मन्य् अवज्ञाशिथिलादराः
स तत्र मातरम् अन्धां वृद्धां च परिचरन् विवेककामतया च स्वयूथम् अपहाय तेषु तेषु पुष्पफलसमृद्धेषु वनान्तरेष्व् अनुत्कण्ठितमना विजहार ।
अंसेन तां परिहरन् विषमेषु देशेष्व् अम्लायिनीं स्रजम् इवाधिपतिः कपीनाम् ।
आनृण्यम् अप्रतिसमं स जगाम मातुर् गर्भादिधारणपरिश्रमखेदितायाः
पाकोपपादितरसैः स फलप्रकारैर् निष्प्राणकैश् च मधुभिः कुसुमाधिवासैः ।
तोयैश् च फुल्लकमलोत्पलिनीमनोज्ञैस् तां मातरं परिचचार विशुद्धसत्त्वः
तया करुणया चासाव् अनुबद्धः कपीश्वरः ।
विजहार विविक्तेषु पर्वतेषु वनेषु च
मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0