भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 82-101

82

मतिहुतभुजा दग्ध्वा स्कन्धप्रवृत्तिविषद्रुमं
स्थितिषु वशितां संप्राप्यापि प्रकाशयशोत्सवाः ।
सकलभुवनश्रेयः कृत्वा गताः सुगताः शमं
विषयकृपणाः कष्टं नष्टा वयं भवलुब्धकाः

83

स्थानास्थानविवेकयोगविदुषा स्थानेन संवर्णिता
स्कन्धानां क्षणिकाप्य् अनुत्तरगिरा निर्वृत्तिर् आयासिनी ।
स्थाने प्रज्वलितांस् तरून् इव खगास् त्यक्त्वा भवान् भङ्गुरान्
निर्वान्ति ज्वलना इवाम्बुविहताश् चित्तेश्वरा योगिनः

84

कृत्वाभियोगम् अपि चागमगह्वरेषु स्वैरप्रचारम् अनुगृह्य मनो मनुष्याः ।
अल्पश्रुता इति जगत्य् उपयान्ति संख्यां चेतोविनिग्रहफलं श्रुतम् आहुर् आर्याः

85

स सूचिकाग्रैर् इव तुद्यमानः पिपीलिकैर् भुग्नकरालदंष्ट्रैः ।
महीरजोधूसरकोमलाङ्गो मुहुर् मुहुः संपरिवर्तते स्म

86

स मक्षिकाणां नयुतैः परीतो मृदुः प्रयत्नाकुलपाणिपादः ।
विचेष्टमानः करुणं कथं चिद् भवान् जगर्हे मनसानुतापी

87

क्रूरारावैः पुरबलिभुजां मण्डलैः संपतद्भिर्
व्याधूतास्यो विपदम् अशिवां यो ऽस्वतन्त्रः प्रपेदे ।
गोमायूनां विषमविरुतैर् अग्निमालाकरालैर्
आर्यस्यापि प्रकृतिमृदुकं तस्य चेतश् चकम्पे

88

क्रव्याशिनां परवधप्रणयप्रगल्भैः पूगैर् असौ परिवृतो विगतासुकल्पः ।
प्राख्यापयत् स भवभोगलवाभिलाषदुःखानि तस्य च वचो विगतस्रवस्य

89

तस्य तथा कृच्छ्रगतस्य पुरद्वारि परिवर्तमानस्य गवां निर्गच्छन्तीनां पुरःसरो वृषभस् तम् आयुष्मन्तं दृष्ट्वा विधियोगसामर्थ्यात् पितेवोपगु तावद् अवतस्थे यावद् अतिक्रान्तः सर्वो गौगणः । सो ऽतितीव्रवेदनातुरतनुर् अल्पस्थामतया कण्ठगतप्राणः पुनर् अपि मया व्यसनम् एवानुभवनीयं मरणाद् ऊर्ध्वम् इत्य् अभिविषादो ऽपि मृत्युर् एव तत्कालदुःखप्रतीकारम् आकारयतु । वनविहगपक्षपातोद्धृतधरणितलरजोऽवकीर्णदेहो निराक्रन्दो मन्दम् अपरिस्पन्दकरचरणवदनकमल इदानीं न भविष्यामीति बुद्धम् एव भगवन्तं नमस्कर्तुम् आरब्धः । तद्भाग्यशेषोपकृष्टा इव चोपासका बुद्धधर्मसंघानुवादाश्रयाः संकथाः कथयन्तस् तं प्रदेशम् उपजग्मुः । स तान् अवलोक्य प्रत्युज्जीवित इव मृदुस्फुटकलेन वचसा कमलपलाशकोमलं पाणिम् अभिप्रसार्याब्रवीत् । भो भोः सत्पुरुषा मुहूर्तकं तावद् अस्मदनुकम्पयावतिष्ठध्वम् इति । अथ ते सहसा तच्छब्दश्रवणसंभ्रान्ताः किम् इदं कथं चेत्य् उत्पन्नविमर्शाः स्थिता वयं भद्रमुखेते तं महासत्त्वम् आश्वासयां बभूवुः । कौतूहलाकुलसमासाश् च पुनर् एवम् ऊचुः ।
अवस्थांश् च वयश् चेदं वाक्सौष्ठवम् इदं च ते ।
मत्वा चलति नो बुद्धिः कौतूहलसमाकुला

90

तत् सौम्य वद को नाम त्वं देवो ऽप्य् अथ दानवः ।
कथं चेमां दशां प्राप्तः सज्जनायासकारिणीम्

91

स तान् आह ।
मानुषो ऽस्मि महासत्त्वा नाहं देवो न दानवः ।
भवसंभोगतर्षेण प्राप्तस् त्व् अहम् इमां दशाम्

92

अथ ते तद्वचः श्रुत्वा संविग्नोद्धतमानसाः ।
अनुकम्पामृतस्निग्धं प्रत्यभाषन्त तं पुनः

93

उपासका वयं साधो नित्यं किंकुशलैषिणः ।
विस्तरं श्रोतुम् इच्छामः स चेत् खेदं न मन्यसे

94

स तान् इत्य् अवदद् यूयं धर्मभ्रातर एव मे ।
दुःखानि तावद् वार्यन्तां पश्चाद् वक्ष्यामि विस्तरम्

95

तथेति च प्रतिश्रुत्य गृहीत्वा पाणिभिः शनैः ।
प्रमृज्यास्तीर्य वस्त्राणि स्वानि तेषु न्यवेशयन्

96

प्रस्वस्थकायः स समाहितात्मा चत्वारि सत्यानि यथेक्षितानि ।
परीक्षमाणो न चिरेण साधुर् मलान् यथास्थूलमयांश् चकार

97

⏑ अनुशयविशेषं भावनामार्गहेयं ⏑ रविर् इव निशान्तध्वान्तम् उल्लिख्य भाभिः ।
स्वतनुम् अतनुपुण्याप्यायितान्तर्विशेषां अपहृतगुरुभारायासलघ्वीं बभार

98

अथ स महात्मा कृतकरणीयः क्षणम् अप्य् अवस्थां तां परित्यज्य सबहुमानः केवलं तेषाम् उपासकानां कृतज्ञताम् अनुरक्षन् पर्यङ्कं गगनतले बद्ध्वा तैः सबहुमानम् उदीक्ष्यमाणो विस्तरेण तेभ्यो यथावृत्तं व्याहृत्य पुनर् अपि तान् आबभाषे ।
अभिनन्दति यो जन्म स दुःखम् अभिनन्दति ।
दुःखाभिनन्दी दुःखेभ्यो न जातु परिमुच्यते

99

पक्वगण्डायमानस्य यः कायस्यास्य संभवः ।
ईत्युपायासदुःखानाम् उत्पादः स विदाहिनाम्

100

संसारावचरं कृत्स्नं सुखम् एकघनीकृतम् ।
नराणां जन्मदुःखेन क्षणिकेनाभिभूयते

101

विषोपदिग्धा निशिता इवायसाः शिखा इवाग्नेः प्रबलानिलाकुलाः ।
सभीमनादा इव चाश्मवृष्टयः प्रवृत्तयो दुष्प्रसहाः शरीरिणाम्

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc