भाषा

ENहिગુ
ग्रंथ पाठ

जातकपारिजातः · अध्याय p1

p1.1

तत्रादौ द्वादशाप्दीमध्ये आयुषोऽनिश्वितता
आद्वादशाब्दान्तयोनिजन्मनामायुष्कला निश्चयुतिं न शक्यते ।
मात्रा च पित्रा कृतपापकर्मणा बालप्रहैर्नाशमुपैति बालकः

p1.2

आद्ये चतूष्के जननीकृताधैर्मध्ये तु पित्राऽजितपापसैः ।
बालस्तदन्त्यासु चतुः समासु स्वकीयदोषैः समुपैति नाशम्

p1.3

अथारिष्टपूर्वकमायुषां भेदाः ।
अष्टौ बालारिष्टमादौ नराणां योगारिष्टं प्राहुराविंशतिः स्यात् ।
अल्पं चान्द्रात्रिंशतान्मध्यमायुरासप्तत्याः पूर्णमायुः शतान्तम्

p1.4

अथ अरिष्टदा ग्रहस्थितिः ।
विलग्नगतस्त्वपि देवमन्त्री विनाशरिःफारिगते शशाङ्के ।
विलोकिते पापवियचरेण विभानुना मृत्युमुपैति ग्र॥॥ः

p1.5

गण्डान्ततारासहिते मृगाक्के पापेक्षिते पापसमन्विते वा ।
बालो लयं यति समृत्युभागे चन्द्रे तथा पापनिरीक्षिते वा

p1.6

ताताविकासोदरभातुलाश्च मातामही मातृपता च बालः ।
सूर्यादिकैः पङ्चमधर्मयातैः क्रूरर्क्षगैराशु हताः क्रमेण

p1.7

रसातलस्थौ यदि भानुचन्द्रौ शनिः स्मरस्थो मरणाय मातुः ।
यदा यदा क्रूरखगो विलग्नादरातिगः सोदरनाशहेतुः

p1.6

अथ पित्रादीनामरिष्टयोगाः ।
तातान्विकासोदरमातुलाश्च मातामही मातृपिता च बालः ।
सूर्यादिकैः पङ्चमधर्मयातैः क्रूरर्क्षगैराशु हताः क्रमेण

p1.7

रसातलस्थौ यदि भानुचन्द्रौ शनिः स्मरस्थो मरणाय मातुः ।
यदा य्(व्)दा क्रूरखगो विलग्नादरातिगः सोदरनाशहेतुः

p1.8

क्रूरेक्षितौ चन्द्रविलग्नराशी सौम्यग्रहैर्वीच्चणयोगहीनौ ।
केन्द्रच्युतो यद्यमरेशमन्त्री जातस्य भाता समुपैति नाशम्

p1.9

अथ सगर्भामृत्युयोगौ ।
सभानुजे शीतकरे विलग्नाद् दिवाकरे रिःफगृहोपयाति ।
धरासुते नधुगते तदानीं विपद्यते तज्जननी सगर्भा

p1.10

विलग्नचन्द्रौ शुभदृक्विहीनावशोभनव्योमचरान्तरस्थौ ।
विनाशमेति प्रमदा सगर्भा वदन्ति सर्वे युगपत् पृथग्वा

p1.11

षष्ठावसानाष्टमभावगेषु क्रूरेषु सौम्यग्रहवर्जितेषु ।
पापान्तरस्थे भृगुजे गुरौ वा नारी सपुत्रा म्रियते तु सद्यः

p1.12

लग्नास्तयातौ यदि पापखेचरौ शुभैरयुक्तौ शुभदृईष्टिवर्जितौ ।
शस्त्रेण मृत्यु समुपैति गर्भिणी मासाधिपो नष्टकरो यदा वदेत्

p1.13

अथ जातस्य मातृमरणयोगाः ।
चन्द्राचतुर्थोपगतैरसद्भिर्वा नस्थितैः शोभनदृष्टिमुक्तैः ।
व्यापारगैर्वा यदि वासरेशाज्जातस्य माता निधनं प्रयाति

p1.14

शुक्राद्रवौ विक्रमगे बलाध्ये मन्देक्षिते मन्दसमन्विते वा ।
क्षीणे शशाङ्ले यदि वा सपापे माता सपुत्रा म्रियते,अचिरेण

p1.15

लग्नादिने वाऽष्टमगे धराजे पापेक्षिते सौम्यदृशा विहीने ।
ताराधिपे वृद्धिकलाविहीने माता कृतान्तस्य पदं समेति

p1.16

शुक्रात् कुजेऽहनि तपः सुतराशियात् चन्द्रात्रिकोणगृहगे रविजे रजन्याम् ।
पापेक्षिते च शुभयोगदृशा विहीने नाशं समेति जननी विबले शशाङ्के

p1.17

अथ गर्भस्य मासधिपाः(होरायाम्)
कललग्ननाक्कुरास्थिचर्माङ्गज्चेतनताः
सितकुजजीवरविचन्द्रार्कुबुधाः परतः ।
उदयकुजजीवरविचन्द्रार्किम्बुधाः गदिता
वदन्ति शुभाशुभं च मासाधिपतेः सदृशम्

p1.18

अथ गर्भ सुखम् ।
शशाङ्कलग्नोपगतैः शुभग्रहैस्त्रिकोणजायार्थसुखास्पदस्थितैः ।
तृतीयलाभर्क्षगतैश्च पापकैः सुखी च गर्भो रविणा निरीक्षितः

p1.19

अथ जातस्य पितृमरणयोगाः ।
व्ययस्थितेऽर्के ससुते विलग्नादपि क्षयेन्दौ मदनोपयाते ।
पितुर्वियोगं प्रव्दन्ति सद्यः शुभेक्षिते तु त्रिभिरब्दमानैः

p1.20

चरोपगे चन्द्रमसि क्षपायां बुधेक्षिते दूरदिशं प्रयातः ।
चरे शनौ भानुयुते निशायां विदेशगो वाति पिता विनाशम्

p1.21

अथ जातस्य मृत्युयोगाः ।
क्षीणे शशिन्युदयगे यदि कण्टकस्थे पापेऽथवा निधनगे म्रियतेऽथ बालः ।
रन्ध्ररिगैरशुभखेटदृशा समेतैः सौम्यैः कृतान्तनगरं समुपैति मासात्

p1.22

एकत्र मन्दावनिनन्दनार्का रन्ध्रस्थिता वा रिपुराशियाताः ।
सौम्यैरयुक्ता अविलोकितास्ते जातस्य सद्यो मरणप्रदाः स्युः

p1.23

चन्द्रांशे सओप्तमे भौमे सौम्यदृष्टिविवर्जिते ।
सप्तसप्ततितारायामुपैति मरणं शिशुः

p1.24

मन्दावनिजमार्तण्डैः पुत्रस्यानसमन्वितैः ।
सप्तसप्ततिनक्षत्रे जातस्य मरणं वदेत्

p1.25

धरसुते चन्द्रनवांशकस्थे लग्नांशके वा न च जीवदृष्टे ।
सुधाकरे नन्दनराशियाते समेति याम्यं पदभाशु बालः

p1.26

नीचं गते लग्नपतौ विलग्नान्नाशं गते वा रविजे तथाऽस्ते ।
जातो मृतप्रायकलेवरः सन्कृच्छेण वैवस्वतलोकमिति

p1.27

अपोक्लिमस्थानगता न भोगा विधूतवीर्यां यदि भानुमुख्याः ।
मासद्वयं तस्य वा जातस्य चायुः कथयन्ति तज्ज्ञाः

p1.28

लग्नारिरन्ध्रव्ययगे शशाङ्के पापेन दृष्टे शुभदृष्टिहीने ।
केन्द्रेषु सौम्यग्रहवर्जितेषु प्राणैवियोगं व्रजति प्रजातः

p1.29

सौरे मदस्थे यदि वा विलग्ने जलोदयऽब्जे यदि कीटगे वा ।
सौम्येषु केन्द्रोपगतेषु सद्यो जातस्य नाशं यवनोपदिष्टम्

p1.30

भौमक्षेत्रगते जीवे नीचराशिगतेऽथवा ।
सन्ध्यात्रये च सङ्जातो मासान्मृत्युमुपैति सः

p1.31

रन्ध्रे धरासूनुदिनेशसौरा जातस्तु मृत्युं समुपैति मासात् ।
केतुस्तु यस्मिन्नुदितोऽत्र जातो मासद्वयेनैव यमं प्रयाति

p1.32

पापाबुदयास्तगतौ क्रूरेण युतश्च शशी ।
दृष्टश्च शुभैर्न यदा मृत्युश्च भवेदचिरात्

p1.33

क्षीणे हिमगौ व्ययगे पापैरुदयाष्टमगैः ।
केन्द्रेषु शुभाश्च न चेत् क्षिप्रं निधनं प्रवदेत्

p1.34

क्रूरेण संयुतः शशी स्मरान्त्यमृत्युलग्नगः ।
कण्टकाद्विःशुभैरवीक्षितश्च मृत्युदः

p1.35

शशिन्यरिविनाशगे निधनमाशु पापेक्षिते ।
शुभैरथ समाष्टकं दलमतश्च मिश्रेक्षिते ।
असद्भिरवलोकिते बलिभिरत्र म्(भ)आसं शुभे
कलत्रसहिते च पापविजिते विलग्नाधिपे

p1.36

अशुभसहिते ग्रस्ते चन्द्रे कुजे निधनाश्रिते
जननिसुतयोर्मृत्युलग्ने रवौ तु सशस्त्रजः ।
उदयति रवौ शीतांशौ वा त्रिकोणविनाशगै-
र्निधनमशुभैर्वीर्योपेतैः शुभैरयुतेक्षिते

p1.37

असितरविशशाङ्कभूमिजैर्व्ययनवमोदयनैधनाश्रितैः ।
भवति मरणमाशु देहनां यदि बलिना गुरुणा न वीक्षितैः

p1.38

सुतमदननवान्त्यलग्नरन्ध्रेष्वशुभयुते मरणाय शीतश्मिः ।
भृगुसुतशशिपुत्रदेवपूज्यैर्यदि बलिभिर्न युतोऽवलोकितां वा

p1.39

अथ वर्षमध्ये मरणम् ।
योगे स्थानं बलनश्चन्द्रे स्वं वा तनुगृहमथवा ।
पपैर्दृष्टे बलवति मरणं वर्धस्यान्तः किल मुनिगदितम्

p1.40

अथ वर्षद्भयमायुः ।
वक्री शनिभौमगृहोपयातः केन्द्रेऽथवा शत्रुगृहे विनाशे ।
कुजेन सम्प्राप्तबलेन दृष्टो वर्षद्वयं जीवयति प्रजातम्

p1.41

अथ वर्षत्रयमायुः ।
बृहस्पतिर्भौमगृहेऽष्टमस्थः सूर्येन्दुभौमार्कजदृष्टमूनिः ।
अब्दैस्त्रिभिर्भार्गवदृष्टिहीनो लोकान्तरं प्रापयति प्रजातम्

p1.42

अथ चतुर्थवर्ष मरणम् ।
षष्ठाष्टमे कर्किणि जन्मलग्नात् सौम्ये सुधारश्मिनिरीक्ष्यमाणो ।
अब्दैश्चतुर्भिः समुपैति नाशं जातो नरः सर्वबलान्वितोऽपि

p1.43

अथ पङ्चमेऽब्दे मरणम् ।
रविचन्द्रभौमगुरुभिः कुजगुरुसौरेन्दुभिः सहैकस्थैः ।
रविशनिभौमशशाङ्कैर्मरणं खलु पङ्चमिवर्षैः

p1.44

अथ षद्वर्षमायुः ।
यदा सुधारशिमनवांशकस्थे निरीक्षिते शीतकरेण मन्दे ।
लग्नाधिपे चन्द्रदृशा समेते जातस्य षद्वर्षमितं तदाऽयुः

p1.45

अथ सप्तमेऽब्दे मरणम् ।
लग्ने यद्द्रेक्काणो निगलाहिहिहङ्गपाशधरसूज्ञः ।
मरणाय सप्तवर्षैः क्रूरयुतो न स्वपतिसन्दृष्टः

p1.46

अथ सप्ताष्टवर्षे मृत्युः ।
लग्ने रविशनिभौमाः शुक्रगृहे सप्तमे शशी क्षीणः ।
दृष्टो न देवगुरुणा सप्तभिरष्टभिरब्दकैर्वा स्यात्

p1.47

अथ नवमेऽब्दे मृत्युः ।
दिवकरेन्दुभूपुत्रः पुत्रस्यानसमन्विताः ।
जातो यमपुरं याति नवमाब्दे न संशयः

p1.48

पापो विलग्नाधिपतिः शशाङ्कादन्यस्थतः क्रूरनिक्षितश्चेत् ।
चन्द्रांशकस्थे यदि वा तदीशो जातः शिशुर्याति लयं नवाब्दैः

p1.49

अथ दशवर्शायुः ।
मृगांशकस्थिते मन्दे सौम्यदृष्टिसमन्विते ।
जन्मप्रभृतिशत्रुत्वं तस्यायुर्दशवत्सरम्

p1.50

अथ एकादशे वर्षे मरणम् ।
रविणा युक्तः शशिजः सौम्यैर्दृष्टो विनाशयति ।
एकादशभिर्वर्षैर्जातं नृपतुल्यभोगसम्पन्नम्

p1.51

अथ द्वादशेऽब्दे मरणम् ।
चन्द्रलग्नाधिपः सूर्यः स्वपुत्रेण समन्वितः ।
लग्नादष्तमराशिस्थो द्वादशाब्दे सितेक्षितः

p1.52

अल्यांशकस्थिते मन्दे सूर्येणैव निरीक्षिते ।
पितृद्वषसमायुक्तो द्वादशाब्दं च जीवति

p1.53

अथ त्रयोदशेऽब्दे मृत्युः ।
लग्नांशकस्थिते मन्दे जीवदृष्टिसमन्विते ।
त्रयोदशाब्दे मरणम् जातस्य पितृवैरिणः

p1.54

अथ चतुर्थदशऽब्दे मृत्युः ।
कन्यांशकस्थिते मन्दे सौम्यदृष्टिसमन्विते ।
चतुर्दशाब्दे मरणं जातः कोपी समेति च

p1.55

अथ पङ्चदशाब्दय्युः ।
सिमांशकस्थिते मन्दे राहुणा च निरीक्षिते ।
शस्त्रपीडा भवेत्तस्य चायुः पङ्चदशाब्दकम्

p1.56

अथ षोदशेऽब्दे मरणम् ।
कर्काशकस्थिते मन्दे जीवदृष्टिसमन्विते ।
सर्पपीडा भवेत्तस्य षोडशाब्दान्मृतिं वदेत्

p1.57

अथ सप्तदशेऽब्दे मृत्युः ।
यमांशकस्थिते मन्दे लग्ननाथेन वीक्षिते ।
रणशूरो महाभोगी मृतः सप्तदशाब्दके

p1.58

अथ अष्टादशेऽब्दे मृत्युः ।
परस्परक्षेत्रसमन्वितौ वा रन्ध्रेशलग्नाधिपती न सौम्यौ ।
रिःफारिभे वा गुरुणा वियुक्ते त्वष्टादशाब्दे निधनं प्रयाति

p1.57

अथ सद्यो मृत्युः ।
जीवांशकस्थिते मन्दे राहुणा च निरीक्षिते ।
देहाधिपे शुभादृष्टे जातः सद्यो वुनश्यति

p1.58

अथ १९ वर्षे मृत्युः ।
तदीशस्तुङ्गभागश्चेदायुरेकोनविंशतिः

p1.59

अथ २० वर्षे मृत्युः ।
केन्द्रेषु पापेषु निशाकरेण सौम्यग्रहैरीक्षणवर्जितेषु ।
षष्ठाष्टमे वा यदि शीतरश्मौ जातः सुखी विंशतिवत्सरान्तम्

p1.61

अथ २२ वर्षे मृत्युः ।
जीवेन सहितः सूर्यो लग्नस्थः कीटराशिगः ।
अष्टमाधिपतौ केन्द्रे द्वाविंशत्यब्दके मृतिः

p1.62

२६।२७ वर्षे मृत्युः ।
मन्दोद्ये शत्रुराशौ सौम्यैरापोक्लिमोपगैः ।
षड्विंशत्यब्दके वा स्यात् सप्तविंशतिवत्सरे

p1.63

अथ २८ वर्षे मरणम् ।
रन्ध्रेशे जीवसन्दृष्टे पापे पापनिरीक्षिते।
रन्ध्रस्थे जन्मपे मृत्युरष्टाविंशतुवत्सरे

p1.64

अथ २९ वर्षे मृत्युः ।
चन्द्रे मन्दसहायस्तु सूर्यश्चाष्टमसंस्थितः ।
एकोनत्रिंशके वर्षे जातो यम्पुरं व्रजेत्

p1.65

अथ २९ वा ३० वर्षे मृत्युः ।
जन्मरन्ध्रपयोर्मध्ये निशानाथे व्यये गुरौ ।
सप्तविंशतिवर्षे वा त्रिंशद्वयसि वा मृतिः

p1.66

अथ ३२ वर्षे मरणम् ।
अष्टमाधिपतौ केन्द्रे लग्नेशे बलवर्जिते ।
त्रिंशद्वर्षमितायुष्मान् द्वात्रिंशद्वत्सरे मृतिः

p1.67

क्षीणे शशाङ्के यदि पापयुक्ते रन्ध्राधिपे केन्द्रगतेऽष्टमे वा ।
पापान्विते हीनबले विलग्ने द्वात्रिंशदब्दे निधनं प्रयाति

p1.68

अथ अल्पायुर्योगाः ।
षष्ठाष्टमे व्यये पापे लग्नेशे दुर्बले सति ।
अल्पायुरनपत्यो वा शुभदृग्योगवर्जिते

p1.69

क्रूरषष्ठ्यंशकए वाऽपि रन्ध्रेशे भानुजेऽपि वा ।
पापान्विते पापखेटे चाल्पमायुर्विनिर्दिशेत्

p1.70

व्ययार्थौ पापसंयुक्तौ शुभदृष्टिविवर्जितौ ।
क्रूरषष्ठ्यंशसंयुक्तौ वाऽल्पमायुर्विनिरिदिशेत्

p1.71

इति द्वात्रिंशद्वत्सरान्तर्भूतबालारिष्टयोगारिष्टस्वल्पायुर्भेदाः समाप्ताः ।
अथआरिष्टभङ्गाः ।
अत्यन्तसत्त्वे यदि लग्ननाथे सौम्यान्विते तादृशदृष्टियोगे ।
केन्द्रस्थिते पापदृशा विहीने सद्भाग्ययुग् जीवति दीर्घमायुः

p1.72

अथ चन्द्रकृतोऽरिष्टभङ्गः ।
चन्द्रः सन्पूर्णगात्रस्तु सौम्यक्षेत्रांशगोऽपि वा ।
सर्वारिष्टनिहन्ता स्याद् विशेषाच्छुक्रवीक्षितः

p1.73

अथ शुभग्रहकृतोऽरिष्टभङ्गः ।
जीवभार्गवसौम्यानामेकः केन्द्रगतो बली ।
पापकृद्योगहीनश्चेत्सद्योऽरिष्टस्य भङ्गकृद्

p1.74

अथ चद्रकृतोऽरिष्टभङ्गः ।
स्वोच्चस्थः स्वगृहेऽथवापि सुहृदां वर्गे च सौम्यस्य वा ।
सम्पूर्णः शुभवीक्षितः शशधरो वर्गे स्वकीयेऽपि वा

p1.75

शत्रूणामवलोकनादिरहितः पापैरयुक्तेक्षितो।
अरिष्टं हन्ति उदुस्तरं दिनमणिः प्रालेयराशिं यथा

p1.76

पक्षे सिते भवति जन्म यदि क्षपायां कृष्णेऽथवाऽहनि शुभाशुभदृष्टमूर्तिः ।
तं चन्द्रमा रिपुविनाशग्तोऽपि नूनमापत्सु रक्षति पितेव शिशुं प्रजातम्

p1.77

अथ गुरुकृतोऽरिष्टभङ्गः ।
केन्द्रोपगोऽतिबलवान् स्फुरदंशुमली स्वर्लोकराजसचिवः शमयेदवश्यम् ।
एको बहुनि दुरितानि उदुतराणि भक्त्या प्रयुक्त इव शूलधरे प्रणामः

p1.77

अथ लग्नेशकृतोऽरिष्टभङ्गः ।
लग्नेशे बलयुक्तश्चेत् त्रिकोणे वा चतुष्टये ।
अरिष्टयोगजातोऽपि बालो जीवति निश्चयः

p1.78

अथ ग्रहकृतोऽरिष्टभङ्गः ।
यस्य जन्मनि तुङ्गस्याः स्वक्षेत्रस्थान्माश्रिताः ।
चिरायुषं शिशु जातं कुर्वन्त्यत्र न संशयः

p1.79

अथ राहुकृतोऽरिष्टभङ्गः ।
राहुस्त्रिषष्ठलाभे लग्नत्सौम्यैर्निरीक्षितः सद्यः ।
नाश्यति सर्वदुरितं मारुत् इव तलसङ्गातम्

p1.80

अजव्वृषकर्किविलग्ने रक्षति राहुर्निरन्तरं बालम् ।
वृथिवीपतिः प्रसन्नः कृतापराधं यथा पुरुषम्

p1.81

अथ पुमश्चन्द्रकृतोऽरिष्टभङ्गः ।
निशाकरः शोभनवर्गयुक्तः शुभेक्षितः पूरितदीप्तिजालः ।
जानस्य निःशोषमरिष्टमाशु निहन्ति यद्वद् गरलं गरुत्मान्

p1.82

अथ राशीशकृतोऽरिष्टभङ्गः ।
चन्द्राधिष्ठतराशीशे लग्न्स्थे शुभवीक्षिते ।
भृगुणा वीक्षिते चन्द्रे स्वोच्चेऽरिष्टं हरेत्तदा

p1.83

अथ लग्नेशकृतोऽरिष्टभङ्गः ।
लग्नाधिपोऽतिबलशुभैरदृष्टः केन्द्रस्थितः शुभखगैरवलोक्यमानः ।
मृत्युंविधूय विदधाति स दीर्घमायुः सार्धं गुणैर्बहुभिरूर्जितराजलक्ष्म्या

p1.84

अथ मध्यमायुःप्रदता जीवस्य ।
बलहीने विलग्नेशे जीवे केन्द्रत्रिकोणगे ।
षष्ठामव्यये पापे मध्यमायुरुदाहृतम्

p1.85

द्वात्रिंशद्वत्सरादुपति सप्ततिपर्यन्तं मध्यमायुर्योगः ।
अथ पूर्णयुःप्रदा योगाः ।
चतुष्टये शुभैर्युक्ते लग्नेशे शुभसंयुते ।
गुरुणा दृष्टिसंयोगे पूर्णमायुर्विनिर्दिशेत्

p1.86

केन्द्रान्विते विलग्नेशे गुरुशुक्रसमन्विते ।
ताम्यां निरिक्षिते वाऽपि पूर्णमायुर्विनिर्दिशेत्

p1.87

उच्चान्वितैर्स्त्रिभिः खेटैर्लग्नरन्ध्रेशसंयुतैः ।
रन्ध्रे पापविहीने च दीर्घमायुविनिर्दिशेत्

p1.88

रन्ध्रेस्थितैर्स्त्रिभिः खेटैः स्वोच्चमित्रस्ववर्गगैः ।
लग्नेशे बलसंयुक्ते दीर्घमायुविनिर्दिशेत्

p1.89

स्वोच्चस्थितेन केनापि खेचरेण समन्वितः ।
शनिर्वा रन्ध्रनाथो वा दीर्घमायुविनिर्दिशेत्

p1.90

त्रिषडायगताः पापाः शुभाः केन्द्रत्रिकोणगाः ।
लग्नेशे बलसंयुक्तः पूर्णमायुर्विनिर्दिशेत्

p1.91

षट्सप्तर्न्ध्रभावेषु उभेषु सहितेषु च ।
त्रिषडायेषु पापेषु दीर्घमायुर्विनिर्दिशेत्

p1.92

रिःफशत्रुगताः पापा ल्ग्नेशे यदि केन्द्रगः ।
रन्ध्रस्थानगता पापाः कर्मेशः बहुसम्मतम्

p1.93

रन्ध्रे शस्थगृहाधीशो यस्मिन् राशौ व्यवस्थितः ।
तदीशो लग्ननाथश्च केन्द्रगो यदि ताद्दशम्

p1.94

द्विस्वभावं गते लग्ने तदीशे केन्द्रगेऽपि वा ।
स्वोच्चमूलत्रिकोणे वा चिरं जीवति भाग्यवान्

p1.95

द्विस्वभावं गते लग्ने लग्नेशात् केन्द्रगौ यदि ।
द्वौ पापौ यस्य जनने तस्यायुर्दीर्घमादिशेत्

p1.96

चरांशकस्था रविमन्दभौमाः स्थिरांशकस्थौ गुरुदानवेज्यौ ।
शेषाश्च युग्मांशगता यदि स्युस्तदा समुद्भूतनरः शतायुः

p1.97

अथ पूर्णयुषः प्रमाणम् ।
सप्तत्युपरिशतान्तं पूर्णमायुः ।
अथ योगविदेषात् युगान्तमायुः ।
मन्दांशकस्था रविजीवभौमा धर्मस्थितास्तन्नवभागसंस्थाः ।
बलान्विता लग्नगतो हिमांशुर्युगान्तमायुः श्रियमादधाति

p1.98

अथ मुनित्वप्रदो ग्रहयोगः ।
एकांशभागौ गुरुसूर्यपुत्रौ धर्मस्थितौ वा यदि कर्मसंस्थौ ।
अर्कोदये सौम्यनिरीक्ष्यमाणौ मुनिर्भवेदत्र भवश्चिरायुः

p1.99

अथ अमितमायुः ।
गुरुशशिसहिते कुलिरलग्ने शशितनये भृगुजे च केन्द्रयाते ।
भवरिपुहजोपगैश्च शेषैरमितमिहायुरनुक्रममाद्विना स्यात्

p1.100

अथ देवसादृश्यप्रदा ग्रहस्थितिः ।
त्रिकोणे पापनिर्मुक्ते केन्द्रे सौम्यविवर्जिते ।
रन्ध्रे पापविहीने च जातस्त्वमरसन्निभः

p1.101

शन्यादिभौमपर्यन्तं लग्नादौ खेचराः स्थिताः ।
वैशेषिकांशसंयुक्ता जातस्त्वमरसन्निभः

p1.102

अथ श्रसङ्ख्यायुःप्राप्तिः ।
मेषान्त्यलग्ने सगुरौ भृगौ वा निशाकरे गोगृहमध्यमांशे ।
सिंहासनांशे यदि वा धराजे जातस्त्वसङ्ख्यातमुपैति मन्त्रैः

p1.103

अथ मुनिसमत्वम् ।
देवलोकांशके मन्दे भौमे पारावतांशके ।
सिंहासने गुरौ लग्ने जातो मुनिसमो भवेत्

p1.104

अथ युगान्तमायुः ।
गोपुरांशे गुरौ केन्द्रे शुक्रे पारावतांशके ।
त्रिकोणे कर्कटे लग्ने युगान्तं स तु जीवति

p1.105

अथ ब्रह्मपदप्राप्तिः ।
चापांशे कर्कटे लग्ने तस्मिन् देवेन्द्रपूजिते ।
त्रिचतुर्भिर्ग्रहैः केन्द्रे जातो ब्रह्मपदं व्रजेत्

p1.106

लग्ने सेव्ये भृगौ कामे कन्यायामुडुनायके ।
चापे मेषांशके लग्ने जातो याति परं पदम्

p1.107

अथ आयुषः सप्तविधता ।
बालारिष्टं योगसङ्जातमल्पं तेषां भङ्गान्मध्यमं दीर्घमायुः ।
दिव्यं योगाम्यासमन्त्रक्रियाद्यैरायुः सपतैतानि सङ्कीर्तितानि

p1.4

इति श्रीनवग्रहकृपया वैद्यनाथरचिते जातकपारिजाते
बालारिष्टाध्यायः चतुर्थः

मूल पाठ: jātakapārijātaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc