भाषा

ENहिગુ
ग्रंथ पाठ

जैमिनीयन्यायमालाविस्तर · अध्याय 3.7

3.7.1

ज्योतिष्टोमः- स्वयमेको ऽपि समाप्तिभेदाद्भिद्यते ।
यज्ञायज्ञियस्तोत्रेण समाप्तौ ऽअग्निष्टोमःऽ इत्युच्यते ।
तस्मादपि स्तोत्रादूर्ध्वमुक्थ्यस्तोत्रेण समाप्तौ ऽउक्थ्यःऽ इत्युच्यते ।
एवं षोडश्यादयो ऽपि ।
तादृशस्य सप्तसंस्थावतो ज्योतिष्टोमस्य प्रकरणे दीक्षणीयेष्टिप्रायणीयेष्ट्यादीनामङ्गानां विधिराम्नातः ।
स च विधिर्ज्योतिष्टोमस्य प्रथमसंस्थाविशेषे ऽग्निष्टोमे यथा प्रवृत्तः, तथैवोक्थ्यादिष्वपि प्रवर्तते ।
कुतः ।
प्रकरणसंबन्धस्य समानत्वात् ।
किंच- यथाग्निष्टोमः फलत्वादङ्गविधिभिः संयुज्यते, एवमुक्थ्यादयो ऽपि ।
तेषां च फलमेवमाम्नायते-ऽपशुकाम उक्थ्यं गृह्णीयात्ऽ ऽषोडशिना वीर्यकामः स्तुवीतऽ ऽअतिरात्रेण प्रजाकामं याजयेत्ऽ इति ।
तस्मात् - सप्तस्वपि संस्थासु समानो ऽङ्गविधिः- इति प्राप्ते, -
ब्रूमः- यदेतदुक्थ्यादीनां फलमुदाहृतम्, तत्तु तेषां विकारत्वं गमयति ।
ऽकाम्यो गुणः श्रूयमाणो नित्यमर्थ विकृत्य निविशतेऽ इति न्यायाद्यथा गोदोहनगुणो नित्यं चमससाधनकमपां प्रणयनं विकृत्य निविशते,एवमुक्थ्यगुणो नित्यामग्निष्टोमस्य संस्थां विकृत्य संस्थान्तरत्वं गमयति ।
ततो ऽग्निष्टोमस्य गुणविकारा उक्थ्यादय इति न सर्वसंस्थासाधारणं प्रकरणम्, किंतु - अग्निष्टोमस्यै वासाधारणम ।
ननु- ऽज्योतिष्टोमेन यजेतऽ इत्युक्तत्वाज्ज्योतिष्टोमस्येदं प्रकरणम्, न त्वग्निष्टोमसंस्थायाः- इति चेत् ।
बाढम् ।
असा ज्योतिष्टोमो न कदाचिदप्यग्निष्टोमं व्यभिचरति ।
उक्थ्यादीनामप्यन्तर्भाविताग्निष्टोमकत्वात् ।
उक्थ्यादींस्तु व्यभिचरति ।
विनापि तैरग्निष्टोमश्शायां ज्योतिष्टोमत्वसंभवात् ।
अतो ऽग्निष्टोमसंस्थस्य ज्योतिष्टोमस्येदं प्रकरणं सत्तत्रैव दीक्षणीयाद्यङ्गविधिं निवेशयति ।
उक्थ्यादिषु चोदकादङ्गान्यतिदिश्यन्ते ॥ म्जैन्य्च्_3,6.26-27 ॥
इति श्रीमाधवीये जौमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य षष्ठ पादः
अथ तृतीयाध्यायस्य सप्तमः पादः ।
(प्रथमे बर्हिरादीनां दर्शपौर्णमासतदङ्गोभयाङ्गताधिकरणे सूत्राणि 1-5)
प्रकरणविशेषाद् असंयुक्तं प्रधानस्य । जैम्_3,7.1 ।
सर्वेषां वा शेषत्वस्यातत्प्रयुक्तत्वात् । जैम्_3,7.2 ।
आरादपीति चेत् । जैम्_3,7.3 ।
न तद्वाक्यं हि तदर्थत्वात् । जैम्_3,7.4 ।
लिङ्गदर्शनाच् च । जैम्_3,7.5 ।
सप्तमपादस्य प्रथमाधिकरणमारचयति -
स्तर्त् म्जैन्य् 3,7.1-2
मुख्याङ्गतैव वेद्यादेः प्रयाजाद्यङ्गतो ऽपि वा ।
तद्वाक्यं प्रक्रियायुक्तं मुख्याङ्गत्वस्य बोधकम्

3.7.2

मुख्याङ्गस्यापि वेद्यादेः प्रयाजादिषु चाङ्गता ।
मुख्यार्थत्वात्प्रयाजादेः स्वापूर्वव्यवधानतः

3.7.3

दर्शपूर्णमासयोः श्रूयते- ऽवेद्यां हवींष्यासादयतिऽ ऽबर्हिषि हवींष्यासादयतिऽ इति ।
तथा तद्धर्माः श्रूयन्ते- ऽवेदिं खनतिऽ ऽबर्हिर्लुनातिऽ इत्यादयः ।
मुख्यहवींष्याग्नेयपुरोडाशादीनि, अमुख्यहवींषि तु प्रयाजाद्यर्थानि ।
तत्र-स्वस्वधर्मसहितानि वेद्यादीनि प्रकरणबलान्मुख्यहविषा मेवाङ्गानि- ऽवेद्यां हवींष्यासादयतिऽ इति वाक्यात्सर्वहविरङ्गता- इति चेत् ।
न ।
प्रकरणेन वाक्यस्य संकोचनीयत्वात् ।
यदि वाक्यं प्रकरणनैरपेक्ष्येण स्वतन्त्रं स्यात्, तदा सादनमात्रपर्यवसानेन यागाभावे वैयर्थ्य स्यात् ।
सौमिकहीवषामप्येतद्वेद्यासादनं प्रसज्येत ।
तस्मात्- मुख्यहविरङ्गं वेद्यादिकम्- इति प्राप्ते-
ब्रूमः- अस्तु वैयर्थ्यातिप्रसङ्गपरिहारेण प्रकृतापूर्वसाधनभूतहविःषु वेद्यादेरङ्गत्वम् ।
प्रयाजादिहवींष्यपि स्वकीयावान्तरापूर्वद्वारा मुख्यापूर्वसाधनान्येवेति तदङ्गत्वमपि वेद्यादेर्युक्तम् ।
एवं सति वाक्यस्यात्यन्तसंकोचो न भविष्यति ॥ म्जैन्य्च्_3,7.1-2 ॥
(द्वितीये स्वामिसंस्काराणां प्रधानार्थताधिकरणे सूत्रम्)
फलसंयोगात् तु स्वामियुक्तं प्रधानस्य । जैम्_3,7.6 ।
द्वितीयाधिकरणमारचयति-
वपनाद्युपकारः किं द्वयोर्मुखाङ्गयोरुत ।
मुख्य एव द्वयोरस्तु कृत्स्नकर्तृगतत्वतः

3.7.4

युक्तः शास्त्रीयसंस्कारो मुख्यस्य फलभोजिनः ।
विनापि संसकृतिं दृष्टं कर्तृत्वं तत्र नास्ति सः

3.7.5

ज्योतिष्टोमे केशश्मश्रुवपनपयोव्रतादयो यजमानसंस्कारा आम्नाताः ।
ग्रहैः सोमहोमो ज्योतिष्टोमे मुख्यः ।
अग्नीषोमीयपश्वादिकमङ्गम् ।
तत्र-द्वयोर्मुख्याङ्गयोरेते वपनादय उपकुर्वन्ति ।
कुतः ।
कर्तृधर्मत्वात् ।
यजमानो हि कर्तृतया वपनादिभिः संस्क्रियते ।
कर्तृत्वं च यथा मुख्यं प्रति तस्य विद्यते, तथाङ्गं प्रत्यप्यस्ति ।
तस्मात्-उभयोरुपकारः- इति चेत् ।
मैवम् ।
द्वौ हि यजमानस्याऽकारौ- क्रियाकर्तृत्वम्, फलभोक्तृत्वं चेति ।
तयोरदृष्टः फलभोगः, क्रियानिष्पत्तिश्च दृष्टा ।
तथा सति- वपनादिकृतोपकारत्याप्यदृष्टत्वाद्भोक्तृशेषा वपनादयः फलभोगसाधने मुख्य एव पर्यवस्यन्ति ।
वपनादिसंस्काररहितैरप्यृत्विग्भिः कृषीवलादिभिश्च क्रिया निष्पाद्यमाना दृश्यते ।
ततस्तत्र कर्तृत्वाकारे वपनादिकृतः स उपकारो नास्ति ।
तस्मात्-अदृष्ट फलभोजिनो ऽस्य यजमानस्य यो ऽयमदृष्टरूपः शास्त्रीयः संस्कारः सो ऽयं मुख्ये कर्मणि युक्तो नाङ्गेषु ।
नात्र पूर्ववद्वाक्यमस्ति, येन परम्पराफलसाधनेष्वङ्गेषु वपनाद्युपकारः शङ्कयेत ।
प्रकरणं तु मुख्यस्यैव, न त्वङ्गानाम् ।
तस्मात्- न तेषूपकारः ॥ म्जैन्य्च्_3,7.3-4 ॥
(तृतीये सौमिकवेद्यादीनामङ्गप्रधानोभयाङ्गताधिकरणे सूत्रे 7 । 9)
चिकीर्षया च संयोगात् । जैम्_3,7.7 ।
तद्युक्ते तु फलश्रुतिस् तस्मात् सर्वचिकीर्षा स्यात् । जैम्_3,7.9 ।
स्तर्त् म्जैन्य् 3,7.5-6
तृतीयाधिकरणमारचयति-
मुख्यार्था सौमिकी वेदिरुभयार्थोत मुख्यगा ।
चिकीर्षितत्वान्मुख्यस्य वेद्या तत्कृतिसंभवात्

3.7.6

मुख्यपौष्कल्यहेतुत्वात्तदङ्गं च चिकीर्षितम् ।
मुख्यवत्तेन तद्वेदिरङ्गेष्वप्युपकारिणी

3.7.6

दार्शिकीं वेदिं मध्ये ऽन्तर्भाव्य प्राचीनवंशो मण्डपो ऽवस्थितः ।
ततः पूर्वस्यां दिशि सदोहविर्धानादीनां पर्याप्तो भूभागविशेषः ।
तैः सदःप्रभृतिभिः सह सौमिकी वेदिरित्युच्यते ।
सेयं मुख्यस्य सोमयागस्यैवोपकारं करोति, न त्वमुख्यानामग्नीषोमीयाद्यङ्गानाम् ।
कुतः ।
मुख्यस्य चिकीर्षितत्वात् ।
न च - अङ्गान्यपि चिकीर्षितानि- इति वाच्यम् ।
चिकीर्षास्वरूपस्य वेदेनैवाभिहितत्वात् ।
एवं श्रूयते- ऽषट्त्रिंशत्प्रक्रमा प्राची, चतुर्विंशतिरग्रेण, त्रिंशज्जघनेन, इयति शक्ष्यामहेऽ इति ।
अस्यायमर्थः- श्रूयमाणेनानेन दैर्ध्यप्रमाणेन तिर्यक्प्रमाणद्वयेन च प्रमिते भूभागे फलहेतुसोमयागं कर्तु शक्ष्यामहेऽ इति निश्चित्य तथैव कुर्यात- इति ।
सेयं चिकीर्षा मुख्यविषया ।
ऽइयति शक्ष्यामहेऽ इति परिमाणस्य शक्तेश्चोपन्यासात् ।
अङ्गानां तु पशूनामिष्टीनां च सदोहविर्धानादि मण्टपनिरपेक्षाणां यथोक्तपरिमाणमन्तरेणाप्यनुष्ठातुं शक्यत्वात्स उपन्यासस्तत्र निरर्थकः ।
सोमस्य त्वनुष्ठानं यथोक्तवेद्यामेव संभवति, नत्वन्यत्र ।
तस्मात्- सा वेदिर्मुख्यस्यैवोपकरोति- इति प्राप्ते, -
ब्रूमः- ऽइयति शक्ष्यामहेऽ इत्यत्र साङ्गप्रधानानुष्ठाने शक्तिरुक्ता ।
तादृशस्यैव फलं प्रति पुष्कलहेतुत्वात् ।
अतो मुख्याङ्गयोश्चिकीर्षायास्तुल्यत्वाद्वेदिरुभयार्था ।
न च- अत्र वपनादिसाम्यं शङ्कनीयम् ।
दृष्टोपयोगाभावस्य तत्रोक्तत्वात् ।
इह तु- हविरासादनादिर्दृष्ट उपयोगः ।
स च मुख्याङ्गयोः सम इत्युभयार्थत्वम्

3.7.7

(चतुर्थे-अमिमर्शनस्याङ्गप्रधानोभयाङ्गताधिकरणे सूत्र 8 । 10)
तथाभिधानेन । जैम्_3,7.8 ।
गुणाभिधानात् सर्वार्थम् अभिधानम् । जैम्_3,7.10 ।
स्तर्त् म्जैन्य् 3,7.7-8
चतुर्थाधिकरणमारचयति-
चतुर्होत्रा पौर्णमासीं मृशेदाज्यादिमर्शने ।
मन्त्रो मुख्य उताङ्गे ऽपि मुख्ये तद्वाचिशब्दतः

3.7.8

शब्दस्य कर्मवाचित्वात्तत्र मर्शनवर्जनात् ।
विभक्तिव्यत्यये मन्त्रो मुख्याङ्गहविषोर्द्वयोः

3.7.9

दर्शपूर्णमासयोः श्रूयते- ऽचतुर्होत्रा पौर्णमासीमभिमृशेत्, पञ्चहोत्राभावास्याम्ऽ इति ।
पृथिवी होताऽ- इत्यादिको मन्त्रश्चतुर्होता ।
तस्मिन्मन्त्रे यज्ञाङ्गानां चतुर्णा श्रुतत्वात् ।
अथवा- तस्य मन्त्रस्याभिमानित्वेनाऽत्मभूतः कश्चित्पुरुषः प्रजापतिना चतुर्थारमामन्त्रितः प्रत्वुत्तरमुवाचेति स पुरुषश्चतुर्हूतः ।
तदीयनाम्ना मन्त्रो ऽपि ऽचतुर्हूतःऽ इत्युच्यते ।
ऽपूज्यानां प्रत्यक्षनामग्रहणमयुक्तम्ऽ इत्यभिप्रायेण हूतशब्दस्थाने होतृशब्दः पठ्यते ।
अयमर्थः सर्वो ऽपि तैत्तिरीयब्राह्मणे श्रूयते-
"आत्मन्नात्मन्नित्यामन्त्रयत ।
तस्मै चतुर्हूतः प्रत्यशृणोत् ।
स चतुर्हूतो ऽभवत् ।
चतुर्हूतो ह वै नामैषः ।
तं वा एतं चतुर्हूतं सन्तं ऽचतुर्होताऽ इत्याचक्षते परोक्षेण ।
परोक्षप्रिया इव हि देवः"इति ।
ऽअग्निर्होताऽ- इत्यादिको मन्त्रः पञ्चहोता ।
तत्राप्युक्तप्रकारो द्रष्टव्यः ।
- अत्र-यो ऽयमाज्यादिहविष उपस्पर्शनार्थो मन्त्रः, असौ मुख्य एव हविषि निविशते ।
पौर्णमास्यमावास्याशब्दयोर्मुख्यहविर्विषय त्वात्-इति प्राप्ते,-
ब्रूमः- पौर्णमास्यभावास्यशब्दौ कर्मवाचिनौ, न तु हविर्वाचिनौ ।
न च कर्मणोरुपस्पर्शन संभवः ।
अथ कालविवक्षायां विभक्तिव्यत्ययेन सप्तम्यर्थो व्याख्यायेत, तदा कालसंबन्धस्य मुख्याङ्ग योरुभयोस्तुल्यत्वादुभयविधहविरुपस्पर्शने मन्त्रो विनियुज्यते ॥ म्जैन्य्च्_3,7.7-8 ॥
(पञ्चमे दीक्षादक्षिणयोः प्रधानार्थताधिकरणे सूत्रे - 11-12)
दीक्षादक्षिणं तु वचनात् प्रधानस्य । जैम्_3,7.11 ।
निवृत्तिदर्शनाच् च । जैम्_3,7.12 ।
स्तर्त् म्जैन्य् 3,7.9-10
पञ्चमाधिकरणमारचयति-
दण्डदीक्षा दक्षिणा तु शतं द्वादशमिर्युतम् ।
द्वयार्थमुत मुख्यार्थे सोमस्येत्युक्तिसंभवात्

3.7.10

मुख्याङ्गद्वयगं मैवं पारम्पर्यविडम्बना ।
वचनस्य न युक्तातः प्रधानार्थमिदं स्थितम्

3.7.11

ज्योतिष्टोमे दीक्षादक्षिणं श्रूयते- ऽदण्डेन दक्षियतिऽ इति, ऽतस्य द्वादशशतं दक्षिणाऽ इति च ।
तत्र दीक्षा मुख्याङ्गयोरुपकरोति, तथा दक्षिणापि ।
न च - दीक्षा सोमस्य, दक्षिणा सोमस्यऽ इति वाक्ये षष्ठ्या मुख्यसंबन्ध एवावगम्यते, न त्वङ्गसंबन्धः- इति वाच्यम् ।
दीक्षादक्षिणे सोमनैव साक्षात्संबध्नीताम्, स सोमः पुनरङ्गैः संबद्धैति परम्परया दीक्षादक्षिणयोरङ्गैरपि संबन्धो ऽस्ति ।
तस्मात्- उभयार्थे दीक्षादिकम्- इति प्राप्ते,-
ब्रूमः- अव्यवहितसंबन्ध एव षष्ठ्या अभिधेयोर्ऽथः ।
तदसंभवे तु - परम्परासंबन्धः कथंचिद्गृह्यते ।
इह तु तत्संभवात्पारम्पर्य न युक्तम् ।
तस्मात्- प्रधानार्थ दीक्षादिकम् ॥ म्जैन्य्च्_3,7.9-10 ॥
(षष्ठे - अन्तवैदेर्यूपानङ्गताधिकरणे सूत्रे 13-14)
तथा यूपस्य वेदिः । जैम्_3,7.13 ।
देशमात्रं वा शिष्येनैकवाक्यत्वात् । जैम्_3,7.14 ।
स्तर्त् म्जैन्य् 3,7.11-12
षष्ठाधिकरणमारचयति -
अन्तर्वेदि मिनोत्यर्ध यूपाङ्गमुत लक्षयेत् ।
देशं यूपाङ्गमावेन वेदिभागो ऽत्र चोद्यते

3.7.12

बहिर्वेद्यर्धमित्येतद्वाक्यं भिद्येत तद्विधौ ।
मीयमानस्य यूपस्य तावान्देशो ऽत्र लक्ष्यते

3.7.13

अग्नीषोमीयपशौ ऽयूपं मिनोतिऽ इति प्रकृत्य श्रूयते- ऽअर्धमन्तर्वेदि मिनोति, अर्ध बहिर्वेदिऽ इति ।
ऽयूपं स्थापयितुं कियद्विस्तारवानवटो ऽपेक्षितःऽ इति बुभुत्सायां तन्निर्णयाय यूपमूलस्य स्थौल्यमङ्गुल्यादिभिर्मातव्यम् ।
तस्य च पीयमानस्य यूपस्य वेद्यभ्यन्तरभागो ऽलङ्गत्वेनं विधीयते- इति चेत् ।
मैवम् ।
यथा संस्कृतो वेद्यभ्यन्तरभागः ऽअर्धमन्तर्वेदिऽ इत्यनेन वाक्येन विधीयते, तद्वद संस्कृतो बहिर्भागो ऽबहिर्वेदिऽ- इत्यनेन वाक्येन विधातव्यः ।
ततो वाक्यं भिद्येत ।
यदा तु वेदेरभ्यन्तरबाह्यभागाभ्यामुपलक्षितो ऽसंस्कृतोऽ लौकिकदेश एवात्र यूपाङ्गत्वेन विधीयते, न तु संस्कृतवेदिभागः ॥ म्जैन्य्च्_3,7.11-12 ॥
(सप्तमे हविर्धानस्य सामिधेन्यनङ्गताधिकरणे सूत्राणि 15-17)
सामिधेनीस् तद् अन्वाहुर् इति हविर् धानयोर् वचनात् सामिधेनीनाम् । जैम्_3,7.15 ।
देशमात्रं वा प्रत्यक्षं ह्य् अर्थकर्म सोमस्य । जैम्_3,7.16 ।
समाख्यानं च तद्वत् । जैम्_3,7.17 ।
स्तर्त् म्जैन्य् 3,7.13-14
सप्तमाधिकरणमारचयति -
हविर्धाने स्थितो ब्रूयात्सामिधेनीरिहाङ्गता ।
हविर्धानस्य तास्वाहो तद्देशो ऽनेन लक्ष्यते

3.7.14

वाक्यात्स्यादङ्गता मैवं प्रकृत्या पश्चिमे ऽग्नितः ।
देशः प्राप्तो लाघवेन लक्ष्यः शकटसंनिधिः

3.7.15

ज्योतिष्टोमे श्रूयते- ऽउत यत्सुन्वन्ति सामिधेनीस्तदन्वाहुःऽ - इति ।
हविर्धानमण्डपगतयोर् दक्षिणोत्तरभागावस्थितयोर्हविर्धाननामकयोः शकटयोर्मध्ये दक्षिणं शकटमत्र यत्तच्छब्दाभ्या मभिधीयते ।
तस्य समीपे सोमस्याभिषवः ।
ऽउतऽ इत्ययं शब्दो ऽथब्दार्थे वर्तते ।
ऽअथ यस्मिन्हविर्धाने सोममभिषुण्वन्ति, तस्मिन्सामिधेनीरनुब्रूयुःऽ ।
ऐह दक्षिणस्य हविर्धानस्य सामिधेनीष्वङ्गत्वं प्रतीयते ।
न चात्र पूर्ववद्वाक्यभेददोषः शङ्क्यः ।
अकवाक्यतायाः स्पष्टं प्रतिभासात्- इति प्राप्ते-
ब्रूमः- सामिधेनीनामिष्ट्यङ्गतया दर्शपूर्णमासावत्र प्रकृतिः ।
प्रकृतौ चाऽहवनीयाग्नेः पश्चिमो देशः सामिधेनीनां स्थानम् ।
इहोत्तरवेदेराहवनीयत्वात्तदपेक्षया हविर्धानस्य पश्चिमदेशावस्थानात् ।
स देशश्चोदकेन प्राप्तः- इति न देशस्य सामिधेन्यङ्गत्वं विधातव्यम् ।
किंतु दक्षिणोत्तरहविर्धानसमीप देशयोरनियमेन प्राप्तौ- दक्षिणस्यैव हविर्धानस्य समीपदेशः- इति नियन्तुं हविर्धानेन संनिधिर्लक्ष्यते ।
तथा सति नियममात्रविधानाल्लाघवं भवति ।
त्वत्पक्षे त्वभिषवोपलक्षितस्य दक्षिणस्य हविर्धानस्या त्यन्तमप्राप्तं सामिधेन्यङ्गत्वं विधीयत इति गौरवम् ।
तस्माद्देशलक्षणा ॥ म्जैन्य्च्_3,7.13-14 ॥
(अष्टमे- अङ्गानामन्यद्वारानुष्ठानाधिकरणे सूत्राणि 18-20)
शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात् स्वयं प्रयोगे स्यात् । जैम्_3,7.18 ।
उत्सर्गे तु प्रधानत्वाच् छेषकारी प्रधानस्य तस्माद् अन्यः स्वयं वा स्यात् । जैम्_3,7.19 ।
अन्यो वा स्यात् परिक्रयाम्नानाद् विप्रतिषेधात् प्रत्यग् आत्मनि । जैम्_3,7.20 ।
स्तर्त् म्जैन्य् 3,7.15-16
अष्टमाधिकरणमारचयति -
यजमानेन कर्तव्यं निखिलं त्याग एव वा ।
कर्तृगामिफलश्रुत्या युज्यते सर्वकर्तृता

3.7.16

प्रयोजके ऽपि कर्तृत्वमस्ति नो चेत्क्रयो वृथा ।
कार्ये तेन त्यागमात्रमृत्विजो ऽन्यत्र कर्तृता

3.7.17

ऽस्वर्गकामो यजेतऽ इति स्वर्गभोक्तुर्यागकर्तुश्च सामानाधिकरण्यादेकत्वं गम्यते ।
पाणिनिश्च ऽस्वरितञितः कर्त्रभिप्राये क्रिमाफलेऽ[पा.सू.1.3.72 ]इति सूत्रेण क्रियाफलस्य कर्तृगामित्वे सत्यात्मनेपदं विदधाति ।
अतः साङ्गकर्मानुष्ठानमन्तरेण फलासंभवान्निखिलं यजमानेन कर्तव्यम्- इति प्राप्ते-
ब्रूमः- निखिलानुष्ठानाभावे ऽपि प्रयोजकतया यजमानस्य सर्वकर्तृत्वमस्ति ।
ऽषहूभिर्हलैः कर्षतिऽ इत्यत्र तथादर्शनात् ।
यदि स्वेनैव सर्वमनुष्ठीयेत, तदानीमृत्विणां परिक्रयो वृथा स्यात् ।
तस्मात् -यजमानेन त्यागमात्रं कार्यम् ।
अन्यत्र साङ्गप्रधाने क्रीतस्यर्त्विजो ऽनुष्ठानम् ।
तथा सति साक्षात्परम्परया च सर्वकर्तृत्वस्य यजमाने संभवात्तस्य फलं न विरुध्यते ॥ म्जैन्य्च्_3,7.15-16 ॥
(नवमे परिक्रीतानामृत्विजां संख्याविशेषनियमाधिकरणे सूत्राणि 21-24)
तत्रार्थात् कर्तृपरिमाणं स्याद् अनियमो ऽविशेषात् । जैम्_3,7.21 ।
अपि वा श्रुतिभेदात् प्रतिनामधेयं स्युः । जैम्_3,7.22 ।
एकस्य कर्मभेदाद् इति चेत् । जैम्_3,7.23 ।
नोत्पत्तौ हि । जैम्_3,7.24 ।
स्तर्त् म्जैन्य् 3,7.17
नवमाधिकरणमारचयति -
न क्रीतकर्तृसंख्याया नियमो ऽसत्यस्ति वा न हि ।
अविशेषादस्ति यावत्कार्य तावन्त एव हि

3.7.17

ये यजमानेन क्रीताः कर्तार ऋत्विजः, तेषां संख्याविशेषो यद्यपि न श्रुतः ।
तथापि कार्यानुसारेण सो ऽवगन्तव्यः ।
ते च कार्यविशेषाः कर्तृसंयुक्ता एवं श्रूयन्ते- ऽपुरो ऽध्वर्युर्विभजति, प्रतिप्रस्थाता मन्थिनं जुहोति, नेष्ठा पत्नीमुदानयति, उन्नेता चमसानुन्नयति, प्रस्तोता प्रस्तौति, उद्गातोद्गायति, प्रतिहर्ता प्रतिहरति, सुब्रह्मण्यः सुब्रह्मण्यामाह्वयति, होता प्रातरनुवाकमनुब्रूते, मैत्रावरूणः प्रेष्यति, अच्छावाको यजति, ग्रावस्तुद्ग्रावस्तोत्रीयमन्वाहऽ इति ।
एवं ब्रह्मब्राह्मणाच्छं स्याग्नीध्रपोतॄणां चतुर्णा कर्माण्युदाहार्याणि ।
तस्मात्-
यावन्ति कर्याणि तावन्त ऋत्विजो वरीतव्याः

3.7.18

(दशमे चमसाध्वर्यूणां पृथक्त्वाधिकरणे सूत्रम्)
चमसाध्वर्यवश् च तैर् व्यपदेशात् । जैम्_3,7.25 ।
स्तर्त् म्जैन्य् 3,7.18
दशमाधिकरणमारचयति -
चमसाध्वर्यवो नान्य ऋत्विभ्यो ऽन्ये ऽथवाग्निमः ।
यौगिक्या संज्ञया मैवं षष्ठ्या तेभ्यो विभेदनात्

3.7.18

ज्योतिष्टोमे श्रूयते- ऽचमसाध्वर्यून्वृणीतेऽ इति ।
ये पूर्वत्र कार्यानुसारेणाध्वर्युप्रमुखा ऋत्विज उक्ताः, तेभ्यो न व्यतिरिक्ताश्चमसाध्वर्यवः ।
कुतः ।
यौगिकसंज्ञया तदभेदप्रतीतेः ।
त(य)था देवदत्त एव पचिक्रियायोगात्पाचको भवति, तथाध्वर्युप्रमुखा एव चमसयोगाच्चमसाध्वर्यवः- इति चेत् ।
मैवम् ।
मध्यतःकारिणां चमसाध्वर्यवः, होत्रकाणां, चमसाध्वर्यव इति अपठ्या भेदावभासात् ।
मध्यतःकारिणोर्ऽध्वयुहोत्रादयः ।
होत्रकाः प्रतिप्रस्थातृमौत्रावरुणादयः ।
तस्मादृत्विग्भ्यो ऽन्ये

3.7.19

(एकादशे चमसाध्वर्यूणां बहुत्वनियमाधिकरणे सूत्रम्)
उत्पत्तौ तु बहुश्रुतेः । जैम्_3,7.26 ।
स्तर्त् म्जैन्य् 3,7.19
एकादशाधिकरणमारचयति -
तान्वृणीतेति बहुता नास्ति वास्ति ग्रहैक्यवत् ।
नेति चेन्नात्र वैषम्यादुत्पत्तौ बहुताश्रुतेः

3.7.19

ऽचमसाध्वर्यून्वृणीतऽ इति यद्बहुत्वं श्रुतम्, तन्न विवक्षितम् ।
ग्रहैकत्ववदुद्देश्यगतत्वात्- इति चेत् ।
मैवम् ।
ग्रहवैषम्यात् ।
ऽग्रहं संमार्ष्टिऽ इत्येतद्ग्रहाणां नोत्पत्तिवाक्यम् ।
चमसाध्वर्यूणां त्वेतदेवोत्पत्तिवाक्यम् ।
ततस्तेषामुपादेयत्वात्तद्गतं बहुत्वं विवक्षितम्

3.7.20

(द्वादशे चमसाध्वर्यूणां दशसंख्यानियमाधिकरणे सूत्रम्-)
दशत्वं लिङ्गदर्शनात् । जैम्_3,7.27 ।
स्तर्त् म्जैन्य् 3,7.20
द्वादशाधिकरणमारचयति -
नेयत्तास्त्यस्ति वा तेषां न नियामकवर्जनात् ।
चमसानां दशत्वेन चमसाध्वर्यवो दश

3.7.20

स्पष्टोर्ऽथः

3.7.21

(त्रयोदशे शमितुरपृथक्त्वाधिकरणे सूत्रे 28-29)
शमिता च शब्दभेदात् । जैम्_3,7.28 ।
प्रकरणाद् वोत्पत्त्यसंयोगात् । जैम्_3,7.29 ।
स्तर्त् म्जैन्य् 3,7.21
त्रयोदशाधिकरणमारचयति-
तेभ्यो ऽन्यः शमितानन्यो वान्यः संज्ञापृथक्त्वतः ।
वरणाभावतो नान्यः संज्ञाभेदस्तु यौगिकः

3.7.21

ऽशमितार उपेत न यज्ञम्ऽ इत्यस्मिन्मन्त्रे श्रुतायाः शमितृसंज्ञायाः पृथक्त्यादुक्तेभ्यो ऽन्यः शमिता- इति चेत् ।
मैवम् ।
पृथग्वरणाभावात् ।
संज्ञाभेदस्तु पशुसंज्ञपनयोगादुपपद्यते ।
यद्यप्ययं मन्त्रो ऽध्वर्यु काण्डे पठितः, तथाप्यध्वर्योः परावृत्तिश्रवणादध्वर्युपुरुषाः प्रतिप्रस्थात्रादयः शमितारः ।
अत एव श्रूयते- ऽपरावर्तते ऽध्वर्युः पशोः संज्ञप्यमानात्ऽ इति

3.7.22

(चतुर्दशे- उपगस्यापृथक्त्वाधिकरणे सूत्रम्-)
उपगाश् च लिङ्गदर्शनात् । जैम्_3,7.30 ।
स्तर्त् म्जैन्य् 3,7.22
चतुर्दशाधिकरणमारचयति-
अन्ये स्युरुपगातार उदितेभ्यो न वा यथा ।
लोके ऽत्रापि तथा मैवं नाध्वर्युरितिलिङ्गतः

3.7.22

यथा लोके मुख्येभ्यो गायकनायकादिभ्यो ऽन्ये पार्श्वस्था उपगातारः, तथात्रापि- इति चेत् ।
मैवम् ।
यद्युक्तेभ्यः पुरुषेभ्य उपगातारो ऽन्ये भवेयुः, तदानीमध्वर्योः प्रसक्त्यभावात् ऽनाध्वर्युरुपगायेत्ऽ इति प्रतिषेधो ऽनर्थकः स्यात् ।
तस्मादुक्तेष्वेव यौगिकः संज्ञाभेदः

3.7.23

(पञ्चदशे सोमविक्रेतुः पृथक्त्वाधिकरणे सूत्रम्-)
विक्रयी त्वन्यः कर्मणो ऽचोदितत्वात् । जैम्_3,7.31 ।
स्तर्त् म्जैन्य् 3,7.23
पञ्चदशाधिकरणमारचयति-
सोमविक्रय्येक एषु न वा वरणवर्जनात् ।
एकः क्रत्वर्थता नास्ति विक्रयस्येति भिद्यते

3.7.23

क्रय एव ज्योतिष्टोमाङ्गत्वेन श्रुतः, न विक्रयः ।
न चाविहितमृत्विजः कुर्वन्ति ।
तस्मादन्यो विक्रेता

3.7.24

(षोडशे ऽऋत्विक्ऽ इति नाम्नो ऽसर्वगामिताधिकरणे सूत्राणि 32-35)
कर्मकार्यात् सर्वेषाम् ऋत्विक्त्वम् अविशेषात् । जैम्_3,7.32 ।
न वा परिसंख्यानात् । जैम्_3,7.33 ।
पक्षेणेति चेत् । जैम्_3,7.34 ।
न सर्वेषाम् अधिकारः । जैम्_3,7.35 ।
स्तर्त् म्जैन्य् 3,7.24-25
षोडशाधिकरणमारचयति-
किमृत्विग्नाम सर्वेषु समानमुत केषुचित् ।
ऋतौ यजनमेतिषां तुल्यमित्यस्ति नाम तत्

3.7.25

सौम्याध्वरस्य सप्त स्युर्दश चेत्यादिसंख्यया ।
न सर्वेषां समं नाम केषांचिद्योगरूढितः

3.7.26

ऋत्विक्शब्दस्य प्रवृत्तिनिमित्तमृतौ यजनम ।
तच्च ब्रह्मादिष्विव चनसाध्वर्युप्वप्यस्ति ।
तस्मात्- सर्वेषामृत्विग्नाम समानम्- इति चेत् ।
मैवम् ।
संख्याश्रुतिविरोधात् ।
ऽसौम्यस्याध्वरस्य यज्ञक्रतोः सप्तदशर्त्विजः, इति श्रूयते ।
तस्मात्- योगमनतिक्रम्य शास्त्रीयरूढिमप्याश्रित्य केषुचिदेवैतम्नानेत्यवगन्तव्यम् ॥ म्जैन्य्च्_3,7.24-25 ॥
(सप्तदशे-द्गदीक्षादक्षिणावाक्योक्तब्रह्मादीनामेव सप्तदशर्त्विक्त्वाधिकरणेद्घ-सूत्रे 36-37)
नियमस् तु दक्षिणाभिः श्रुतिसंयोगात् । जैम्_3,7.36 ।
उक्त्वा च यजमानत्वं तेषां दीक्षाविधानात् । जैम्_3,7.37 ।
स्तर्त् म्जैन्य् 3,7.26
सप्तदशाधिकरणमारचयति-
संख्याता अपि ये केचिन्नियता वाविशेषतः ।
आद्यो न दक्षिणादाने दीक्षायां च विशेषतः

3.7.26

ये सप्तदश संख्याताः, ते ब्रह्मादिषु चमसाध्वर्युषु च ये केचिदिच्छया ग्रहीतव्याः ।
विशेषस्याश्रवणात्- इति चेत् ।
मैवम् ।
दक्षिणावाक्ये दीक्षावाक्ये च विशेषश्रवणात् ।
ऽऋत्विग्भ्यो दक्षिणां ददातिऽ इत्युक्त्वा तद्विशेषः श्रूयते- ऽअग्नीधे ददातिऽ ऽ ब्रह्मणे ददातिऽ इत्यादिना ।
दीक्षावाक्यं च तत्र प्रकरणे ऽये यजमानास्त ऋत्विजःऽ इत्युक्त्वानन्तरमेव माम्नाद्यते- ऽअध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति, तत उद्वातारम्, ततो होतारम्, ततस्तं प्रतिप्रस्थाता दीक्षयित्वार्धिनो दीक्षयति ब्राह्मणाच्छंसिनं ब्रह्मणः, प्रस्तोतारमुद्गातुः, मैत्रावरुणं होतुः ।
ततस्तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्षयति- अग्नीधं ब्रह्मणः, प्रतिहर्तारमुद्गातुः, अच्छावाकं होतुः ।
ततस्तमुन्नेता दीक्षयित्वा पादिनो दीक्षयति- पोतारं ब्रह्मणः, सुब्रह्मण्यमुद्गातुः, ग्रावस्तुतं होतुः ।
ततस्तमन्यो ब्राह्मणो दीक्षयतिऽ इति अस्यायमर्थः- ऽअध्वर्युर्यजुर्वेदप्रोक्तं करोति, तस्य पुरुषास्त्रयः-ब्राह्मणाच्छंसी, अग्नीत्, पोता चेति ।
उद्गातोद्गानं करोति, तस्य पुरुषास्त्रयः - प्रस्तोता, प्रतिहर्ता, सुब्रह्मण्यश्चेति ।
होता शंसनं करोति, तस्य पुरुषास्त्रयः- मैत्रावरुणः अच्छावाकः, ग्रावस्तुदिति ।
चतुर्षु वर्गेषु ये प्रथमास्ते दक्षिणां संपूर्णा प्राप्नुवन्ति ।
ये द्वितीयास्ते तदर्ध प्राप्नुवन्ति- इत्यर्धिनः ।
ये तृतीयास्ते तृतीयांशं प्राप्नुवन्ति- इति तृतीयिनः ।
ये चतुर्थास्ते चतुर्थमंशं प्राप्नुवन्ति- इति पादिनः ।
तामेतानुक्तक्रमेण स स पुरुषः संस्करोतिऽ इति ।
अत्र - दीक्षावाक्ये निर्दिष्टा अध्वर्युप्रभृतय ऋत्विजः षोडश, न तु चमसाध्वर्यवः- इति नियमो द्रष्टव्यः

3.7.27

(अष्टादशे - ऋत्विजां स्वामिसप्तदशत्वाधिकरणे सूत्रम्-)
स्वामिसप्तदशाः कर्मसामान्यात् । जैम्_3,7.38 ।
स्तर्त् म्जैन्य् 3,7.27
अष्टादशाधिकरणमारचयति-
सदस्ये यजमाने वा साप्तदश्यं वृतत्वतः ।
सदस्ये कुरुते किंचिन्नासौ स्वामिनि तत्त्वतः

3.7.27

अध्वर्युब्रह्मादिषु षोडशसु व्यवस्थितेषु सप्तदशसंख्यापूरकः कश्चिदृत्विगवैक्षितः ।
सो ऽत्र सदस्यो भविष्यति ।
सदस्यवस्थितः सदस्यः ।
न च तस्य वरणाभावः ।
केषांचिच्छाखायां तद्वरणस्याऽम्नातत्वात् ।
ततः साप्तदश्यं सदस्ये पर्यवसितम्- इति चेत् ।
मैवम् ।
असौ सदस्यः किंचिदपि न करोति ।
ऽसदस्य इदं कुर्यात्ऽ इति विध्यभावात् ।
न च विना क्रियामृतुयजननिमित्त ऋत्विक्शब्दस्तस्मिन्नवकल्पते ।
यजमानस्तु त्यागं करोतीति तस्मिन्नुपपद्यते ।
तस्मात्साप्तदश्यं यजमाने युक्तम्

3.7.28

(एकोनविंशे- आध्वर्यवादिष्वध्वर्य्वादीनां कर्तृतानियमाधिकरणे, (विंशे- अग्नेः प्रकृतिविकृतिसर्वार्थताधिकरणे, च सूत्राणि 39 - जैम्_3,7.42)
ते सर्वार्थाः प्रयुक्तत्वाद् अग्नयश् च स्वकालत्वात् । जैम्_3,7.39 ।
तत्संयोगात् कर्मणो व्यवस्था स्यात् संयोगस्यार्थवत्त्वात् । जैम्_3,7.40 ।
तस्योपदेशसमाख्यानेन निर्देशः । जैम्_3,7.41 ।
तद्वच् च लिङ्गदर्शम् । जैम्_3,7.42 ।
स्तर्त् म्जैन्य् 3,7.28
एकोनविंशाधिकरणमारचयति-
न कार्य नियतं तेषां नियतं वाग्रिमो यतः ।
शक्ताः केन किमित्यत्र नियतिः स्यात्समाख्यया

3.7.28

तेषामध्वर्युप्रभृतीनां कार्य न नियतम् ।
यतः सर्वे सर्वत्र शक्ताः ।
प्रकरणं च सर्वसाधारणत्वान्न नियामकम्- इति चेत्-
मैवम् ।
समाख्याया नियामकत्वात् ।
यस्मिन्कर्मणि ऽआध्वर्यवम्ऽ इति समाख्या तत्कर्माध्वर्योः ।
एवमितरत्रापि

3.7.31

(विंशे - अग्नेः प्रकृतिविकृतिसर्वार्थताधिकरणे- उक्तसूत्रैकदेशः- )
अग्नयश्च (सर्वार्थाः) स्वकालत्वात्

3.7.29

विशाधिकरणमारचयति-
स्तर्त् म्जैन्य् 3,7.29
प्रकृत्यर्थो ऽथ सर्वार्थो वह्निराद्यो ऽस्तु पर्णवत् ।
पर्णन्यायो ऽतिदिष्टे स्यादुपदिष्टे तु सर्वगः

3.7.29

यथा ऽयस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोतिऽ इत्यसौ पर्णविधिः प्रकृत्यर्थः ।
एवमाधानस्याप्यनारभ्या धीतत्वादाहित आहवनीयाद्यग्निः प्रकृत्यर्थः- इति चेत्-
मैवम् ।
वैषम्यात् ।
पर्णवाक्यात्पर्णताया यावत्क्रतुप्रवेशे जुहूर्द्वारम् ।
सा च जुहूः प्रकृतावेव विहिता विकृतिषु सर्वत्रातिदिश्यते ।
आहवनीयाद्यग्नेस्तु क्रप्तुप्रदेशे द्वारं होमः ।
स च क्वचित्प्रकृतावेव विहितः सन्विकृतावतिदिश्यते ।
तद्यथाप्रयाणनारिष्ठादिहोमाः ।
तादृशे विषये ऽयदाहवनीये जुह्वतिऽ इति वाक्येनाग्निः प्रकृतावेव विधीयते ।
विकृतौ तु होमेन सहातिदिश्यते ।
तस्मासत्र पर्णन्यायः ।
यस्तु होमो विकृतावुपदिश्यते ।
तद्यथा- सांग्रहण्यामिष्टावामनहोमः ।
तत्र द्वाररभूतस्य होमस्य विकृतावुपदिश्यमानतया द्वारिणो ऽपि प्रकृताविव विकृतावपि वाक्येन विधिर्धारयितुमशक्यः ।
तस्मात्- सर्वार्थो वह्निः

3.7.30

(एकविंशे समाख्याबाधनाधिकरणे सूत्राणि 43-45)
प्रैषानुवचनं मैत्रावरुणस्योपदेशात् । जैम्_3,7.43 ।
पुरोऽनुवाक्याधिकारो वा प्रैषसंनिधानात् । जैम्_3,7.44 ।
प्रातर् अनुवाके च होतृदर्शनात् । जैम्_3,7.45 ।
स्तर्त् म्जैन्य् 3,7.30-31
एकविंशाधिकरणमारचयति-
यन्मैत्रावरुणः प्रेष्यत्यनु चाऽहेति बाधनम् ।
हौत्रादिकसमाख्यायास्तत्सर्वत्रोत कुत्रचित्

3.7.31

आद्यो ऽस्तु वचनान्मैवं साहित्योक्त्युपलम्भनात् ।
प्रैषानुवचने यत्र सहिते तत्र बाधनम्

3.7.32

अग्नीषोमीयपशौ श्रूयते- ऽमैत्रावरुणः प्रेष्यति चानु चाऽहऽ इति ।
तदेतद्वाक्यं प्रैषानुवचनयोर्मैत्रावरुणकर्तृकतां विदधाति ।
तेन च वाक्येन समाख्या बाध्यते ।
ऽअग्नये समिध्यमानायानुब्रूहिऽ ऽयूपायाज्यमानायानुब्रूहिऽ इत्यादिप्रैषाणामध्वर्यु कर्तृकत्वदर्शनात्- ऽआध्वर्यवाः प्रैषाःऽ इत्यस्ति याज्ञिकानां समाख्या ।
तथा ।
ऽप्रवो बाजा अभिद्यवःऽ- ऽअञ्जन्ति त्वामध्वरे देवयन्तःऽ इत्याद्यनुवचनानां होतृकर्तृकत्वदर्शनात् ।
ऽअनुवचनानि हौत्राणिऽ- इति याज्ञिकसमाख्या ।
प्रैषानुवचने च द्विविधे- समस्ते व्यस्ते च ।
पूर्वोदाहृते व्यस्ते ।
ऽहोतापक्षदग्निं समिधम्ऽ- इत्याद्यनुवचनमन्त्रस्यान्ते ऽहोतर्यजऽ इति प्रैष आम्नातः ।
एते प्रैषानुवचने समस्ते ।
तेषु च व्यस्तसमस्तप्रैषानुवचनेषु सर्वत्र प्रबलेन वाक्येन समाख्यां बाधित्वा होतृकर्तृकत्वमध्वर्युकर्तृकत्वं च परित्यज्य मैत्रावरुणकर्तृकत्वमेवाभ्युपयेम्- इति प्राप्ते-
अभिधीयते- ऽप्रेष्यति चानु चाऽहऽ इति चकारद्वयेन प्रैषानुवचनयोः समुच्चयो वाक्ये ऽस्मिन्नुपलभ्यते ।
ततः समुच्चित्रयोरेव समाख्याबाधनम् ।
व्यस्तयोस्तु यथासमाख्यं होत्रादिकर्तृकत्वमेवाभ्युपेयम् ॥ म्जैन्य्च्_3,7.30-31 ॥
(द्वाविंशे चमसहोमे ऽध्वर्युचमसाध्वर्युकतृकताधिकरणे सूत्राणि 46 -49)
चमसांश्चमसाध्वर्यवः समाख्यानात् । जैम्_3,7.46 ।
अध्वर्युर् वा तन्न्यायत्वात् । जैम्_3,7.47 ।
चमसे चान्यदर्शनात् । जैम्_3,7.48 ।
अशक्तौ ते प्रतीयेरन् । जैम्_3,7.49 ।
स्तर्त् म्जैन्य् 3,7.32-33
द्वाविंशाधिकरणमारचयति-
चमसैश्चमसाध्वर्युर्जुहोत्यध्वर्युरेव वा ।
संज्ञाविशेषादाद्यो ऽस्तु मैवमध्वर्युसंज्ञया

3.7.33

विशेषस्यानपेक्षत्वात्तेनान्यस्या अपेक्षणात् ।
अध्वर्युर्जुहुयाच्छक्तेस्तदशक्तौ परो ऽपि वा

3.7.34

ऽचमसाध्वर्युःऽ इत्येवंविधसंज्ञाविशेषाच्चमसाध्वर्यव एव चमसैर्जुहुयुः - इति चेत् ।
मैवम् ।
अध्वर्युसंज्ञाया निरपेक्षत्वेन प्रबलत्वात् ।
केवलाध्वर्यौ चमसाध्वर्युषु चानुगतो ऽध्वर्युशब्दः सामान्यरूपः ।
चमसशब्दस्तु चमसाध्वर्युष्वेवेति विशेषरूपः ।
तं च विशेषमनपेक्ष्यैवाध्वर्युशब्द ऋत्विक्संज्ञारूपेण वर्तितुं प्रभवति ।
चमसशब्दस्तु सामान्यवाचिनमध्वर्युशब्दमपेक्ष्यैव पुरुषेषु संज्ञा भवति ।
तथा सति ऽआध्वर्यवो होमःऽ इत्यनयां निरपेक्षयां प्रबलया समाख्ययाध्वर्युरेव सत्यां शक्तौ चमसैर्जुहुयात् ।
ग्रहहोमव्यापृतत्वेन कदाचिदशक्तौ चमसाध्वर्यवो जुहुयुः ॥ म्जैन्य्च्_3,7.32-33 ॥
(त्रयोविंशे श्येनवाजपेययोरनेककर्तृकताधिकरणे सूत्रे 50-51)
वेदोपदेशात् पूर्ववद्वेदान्यत्वे यथोपदेशं स्युः । जैम्_3,7.50 ।
तद्गुणाद् वा स्वधर्मः स्याद् अधिकारसामर्थ्यात् सहाङ्गैर् अव्यक्तः शेषे । जैम्_3,7.51 ।
स्तर्त् म्जैन्य् 3,7.34-35
त्रयोविंशाधिकरणमारचयति-
श्येन उद्गातृवेदोक्तो वाजपेयो यजुष्यम् ।
उद्गात्राध्वर्युणा कार्यौ यथाप्रकृति वाग्रिमः

3.7.35

आख्याविशेषादाख्यायाः पूर्वभावी हि चोदकः ।
प्रकृताविव कर्तारस्तत्तद्धर्मे व्यवस्थिताः

मूल पाठ: Jaiminīyanyāyamālāvistara a metrical exposition of Jaimini's Mīmāṃsāsūtra, with Mādhava's prose commentary · Edition: Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892. (Anandasrama Sanskrit Series, 24) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc