जैमिनीयन्यायमालाविस्तर · अध्याय 2.2
अग्नीषोमीयपशौ श्रूयते --"सं ते अप्राणो वातेन गच्छताम्, समङ्गानि यजत्रैः, सं यज्ञपतिराशिषा"इति ।
अयमर्थः- ऽ भोः पशो तव प्राणो ऽ वातेन बाह्येन वायुना संगच्छताम्, तव हृदयाद्यङ्गानि यागविशेषैः संयुज्यन्ताम्, यज्ञपतिराशिषा संयुज्यताम् ऽ इति ।
तत्र"यज्ञपतिः"इत्यस्मिंस्तृतीये मन्त्रे ऽसम्ऽ इत्युपसर्गस्य क्रियापदाकाङ्क्षत्वात्प्रथममन्त्रगतस्य ऽ गच्छताम् ऽ इति पदस्यैकवचनान्तस्य यज्ञपतिशब्देनान्वेतुं योग्यत्वात्पूर्ववद्बुद्धिस्थत्वेन संनिहितत्वादाकाङ्क्षासंनिधियोग्यतानां सद्भावेन क्रियापदमनुषज्यते -- इति प्राप्ते , -
ब्रूमः- मध्यममन्त्रे बहुवचनान्तेन ऽ अङ्गानि ऽ इत्यनेनान्वेतुमयोग्यत्वात्तद्व्यवायेन बुद्धिसंनिध्यभावान्नास्त्यनुषङ्गः ।
ततो द्वितीयतृतीयमन्त्रयोर्यथोचितं वाक्यशेषो ऽध्याहर्तव्यः ॥ म्जैन्य्च्_2,1.38-39 ॥
इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वितीयाध्यायस्य प्रथमः पादः
(अथ द्वितीयाध्यायस्य द्वितीयः पादः)
(प्रथमे ऽङ्गापूर्वभेदाधिकरणे सूत्रम्)
शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् । जैम्_2,2.1 ।
स्तर्त् म्जैन्य् 2,2.1-2
द्वितीयपादस्य प्रथमाधिकरणमाचरयति --
ददाति यजतीत्यादौ भावनैक्यमुतान्यता ।
आख्यातैक्यात्तदेकत्वं धातुभेदो ऽप्रयोजकः
धातुभेदेन भिन्नत्वमाख्याते श्रूयते ततः ।
उत्पत्त्येकानुरक्तत्वाद्भिद्यन्ते भावना मिथः
इहैकप्रकरणगतान्यपर्यायधातुनिष्पन्नान्याख्यातानि यजति, ददाति, जुहोति, इत्यादीन्युदाहरणम् ।
तानि चैवं श्रूयते --"सोमेन यजेत""हिरण्यमात्रेयाय ददाति" "दाक्षिणानि जुहोति"इति ।
तेषु भावनावाचिन आख्यातस्यैकत्वाद्भावनाया एकत्वं युक्तम् ।
न च धातुभेदाद्भावनाभेदः ।
तद्वाचित्वाभावेन धातोस्तस्यामप्रयोजकत्वात् - इति प्राप्ते , ब्रूमः- अस्त्वाख्यातमेव भावनायाः प्रयोजकम् ।
तच्चाख्यार्त प्रतिधातु भिन्नम् ।
न हि बहूनां धातूनामुपर्येक आख्यातप्रत्ययः श्रूयते ।
नापि व्याकरणे धातुसमूहादेकमाख्यातं विहितम् ।
तत आख्यातानां बहूनामेकैकधातुविशेषामुरक्तत्वेनैवोत्पन्नानां भावनावाचित्वेन यागदानहोमभावनाः परस्परं भिद्यन्ते ॥ 1-2 ॥
स्तर्त् म्जैन्य् 2,2.3
अत्र गुरुमतमाह -
नियोगैकत्वतः शास्त्रमभिन्नमिति चेन्न तत् ।
धातुभेदाच्छास्त्रभेदे नियोगो भिद्यते बलात्
ऽ कर्मभेदचिन्ता नाध्यायार्थः, किंतु शास्त्रभेदचिन्ता ऽ इति गुरोर्मतम् ।
तत्र ऽ यजेत, दद्यात्, जुहुयात् ऽ इत्येतेषु लिङ्प्रत्ययबाच्यस्य नियोगस्यैकत्वाधातूनां नियोगवाचकत्वाभावेनाप्रयोजकत्वादेकनियोगार्थे कृत्स्नं शास्त्रमेकम् - इति पूर्वपक्षः ।
प्रतिधातु लिङ्प्रत्ययस्य भिन्नत्वाद्धात्वर्थानुबन्धभेदेन तद्विशिष्टे नियोगे ऽपि भेदस्य वारयितुमशक्यतया नियोगानुसारि शास्त्रं भिन्नम् - इति सिद्धान्तः
(द्वितीये समिदाद्यपूर्वभेदाधिकरणे सूत्रम्)
एकस्यैवं पुनः श्रुतिर् अविशेषाद् अनर्थकं हि स्यात् । जैम्_2,2.2 ।
स्तर्त् म्जैन्य् 2,2.4-5
द्वितीयाधिकरणमारचयति -
समिधो यजतीत्यादावेकत्वमुत भिन्नता ।
धातुप्रत्यययोरैक्यादेकत्वं भिन्नता कुतः
अभ्यासात्कर्मभेदो ऽत्र नामत्वान्न विधिर्गुणे ।
विधित्वं श्रुतितो भाति संनिधेरनुवादता
दर्शपूर्णमासयोः श्रूयते -"समिधो यजति" ऽतनूनपातं यजति ऽ ऽ इडो यजति ऽ"बर्हिर्यजति""स्वाहाकारं यजति"इति ।
तत्र पञ्चकृत्वः श्रूयमाणे यजतिपदे पूर्वोक्तेषु ऽ यजति ददाति ऽ इत्यादिपदेष्विव धातुभेदो नास्ति, येन भावनाभेद आशङ्क्येत ।
तस्मादाख्यातैक्यप्रयुक्तं भावनैक्यमनिवार्यमिति चेत् ।
मैवम् ।
यजतिपदाभ्यासेन कर्मभेदावगमात् ।
कर्मैकत्वे ऽभ्यासो निरर्थकः स्यात् ।
अथोच्येत -- ऽ समिघो यजति ऽ इत्यनेन प्रथमश्रुतेन वाक्येन विहितं समिन्नामकं यागमुपरितनैश्र्चतुर्भिर्यजतिपदैरनूद्य तनूनपादादयो देवतारूपा द्रव्यरूपा वा गुणाश्चत्वारो विकल्पिता विधीयन्ते, ततो ऽनुवादार्थत्वान्नाभ्यासवैयर्थ्यम् --- इति ।
तन्न ।
तनूनपादादिशब्दानां यागनामत्वेन गुणविधित्वाभावात् ।
न तावदत्र देवताविधिः ।
चतुर्थीतद्धितयोरश्रवणात् ।
नापि द्रव्यविधिः, तृतीयान्तत्वाभावात् ।
ततः ऽ अग्निहोत्रं जुहोति ऽ इत्यादाविन द्वितीयान्तानां युक्तं नामत्वम् ।
यत्तु - चतुर्णामुपरितानां यजतिपदानामनुवादत्वम् ।
तदसत् ।
तेषां विधायकत्वात् ।
यथा ऽ समिधो यजति ऽ इत्यत्र यजतिपदे विधित्वं श्रुत्या प्रतीयते, तथान्येष्वपि चतुर्षु पदेषु विधित्वं श्रौतम् ।
अनुवादत्वं तु पुरोवादरूपस्य ऽ समिधो यजतिऽ इत्यस्य संनिधिनावगम्यते ।
संनिधिश्च श्रुतेर्दुर्बलः ।
विधित्वे च पूर्ववाक्यविहितस्य समिन्नामकस्य यागस्य पुनर्विधानायोगात्तनूनपादादिनामकानि यागान्तराणि विधीयन्ते ।
नन्वेवं सति संज्ञाभेदात्कर्मभेदः संपद्यते, नत्वभ्यासात् ।
तथासति वक्ष्यमाणेनाधिकरणेन संकीर्यते ।
मैवम् ।
वैषम्यात् ।
ऽ अथैष ज्योतिः ऽ इत्यस्मिन्वक्ष्यमाणोदाहरणे यागावगप्तात्प्रागेन संज्ञात्वावगमात्संज्ञायाः कर्मभेदहेतुत्वम् ।
इह तु विधायकैर्यजतिपदैर्यागेष्ववगतेषु, भेदे चाभ्यासादवगते, भिन्नानां यागानां समित्संज्ञाया अन्याः संज्ञा अपेक्षितः ।
इति तनूनपादादीनां संज्ञात्वं पश्चादवगम्यते ।
तस्मात् - अभ्यास एवात्र भेदहेतुः ॥ म्जैन्य्च्_2,2.4-5 ॥
(तृतीय आघाराद्यग्नेयादीनामङ्गाङ्गिभावाधिकरणे सूत्राणि 3-8)
प्रकरणं तु पौर्णमास्यां रूपावचनात् । जैम्_2,2.3 ।
विशेषदर्शनाच् च सर्वेषां समेषु ह्य् अप्रवृत्तिः स्यात् । जैम्_2,2.4 ।
गुणस् तु श्रुतिसंयोगात् । जैम्_2,2.5 ।
चोदना वा गुणानां युगपच्छास्त्राच् चोदिते हि तदर्थत्वात् तस्य तस्योपदिश्येत । जैम्_2,2.6 ।
व्यपदेशश् च तद्वत् । जैम्_2,2.7 ।
लिङ्गदर्शनाच् च । जैम्_2,2.8 ।
स्तर्त् म्जैन्य् 2,2.6-10
तृतीयाधिकरणमारचयति --
एवं विद्वान्पौर्णमासीममावास्यामितीरितम् ।
कर्मान्यदुत पूर्वोक्तसमुदायानुवादकम्
कर्मान्तरं स्यादभ्यासाद्ध्रौवं द्रव्यं हि देवता ।
वार्त्रघणीत्यादितो लभ्यानुवादस्तु न युज्यते
वार्त्रघणीत्याज्यभागाङ्गव्यवस्थोक्तेर्न देवता ।
पौर्णेत्यनूद्यते पौर्णमासीयुक्तं त्रिकं तथा
अमेत्यपि समूहस्य द्वित्वसिद्धिः प्रयोजनम् ।
सहस्थितिः पौर्णमास्यामित्युक्तिभ्यां त्रिके त्रिके
विद्वद्वाक्यविधौ विध्यावृत्तिराग्नेयकादिना ।
विहितस्य फलित्वेन प्राधान्यमितरे गुणाः
इदमाम्नायते ---- ऽ य एवं विद्वान्पौर्णमासीं यजते ऽ ऽ य एवं विद्वानमावास्यां यजते ऽ इति ।
अत्र यजतिना कर्मान्तरं विधीयते, न तु प्रकृता आग्नेयादयः षड्यागा अनूद्यन्ते ।
आग्नेयादयश्च कालसंयुक्तास्तस्मिन्प्रकरण एवमाम्नायन्ते - ऽ यदाग्नेयो ऽष्टाकपालो ऽमावास्यायां पौर्णमास्यां चाच्युतो भवति ऽ इति, ऽ तावब्रूतामग्नीषोमावाज्यस्यैव अनावुपांशु पौर्णमास्यां यजन् ऽ इति , ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत् ऽ इति, ऽ ऐन्द्रं दध्यमावास्यायाम्"इति, ऽ ऐन्द्रं पयो ऽमावास्यायाम् ऽ इति ।
एतेभ्यः प्रकृतेभ्यः षड्भ्य आग्नेयादिभ्यो विद्वद्वाक्यविहितस्य, कर्मणो ऽन्यत्वे सति पूर्वाधिकरणन्यायेन विध्यभ्यास उपपद्यते ।
न च कर्मान्तरे द्रव्यदेवतयोरभावः, ध्रौवाज्यसद्भावात् ।
अत एवोक्तम् ----
"ध्रौवं साधारणं द्रव्यं देवता मान्त्रवर्णिकी ।
रूपवन्तौ ततो यागौ विधीयेते पृथक्तया"इति ।
"सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्यम्"इति ध्रौवस्य साधारणत्वं श्रुतम् ।
देवताया मान्त्रवर्णिकत्वमित्थमुन्नेतव्यम् --"तस्माद्वार्त्रघणी पौर्णमास्यामनूच्येते, वृधन्वती अमावास्यायाम्"एति वार्त्रघ्न्यौ वृधन्वत्यौ चर्चौ क्रमेण कालद्वयोपेते कर्मणि विधीयेते ।
तत्र --"अग्निर्वृत्राणि जङ्घनत्"इत्येको वार्त्रघ्रो मन्त्रः ।
ऽ त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा ऽ इत्यपरः ।
तयोरुक्तावग्नीषोमौ पौर्णमासदेवते ।
एवमन्तराम्नातयोर्वृधिधातुयुक्तयोर्मन्त्रयोरुक्तावग्नीषोमावमावस्यादेवते ।
आभ्यां द्रव्यदेवताभ्यां रूपवत्त्वाद्यागान्तरमत्र विधीयते ।
षड्यागानुवादत्वे तदनुवादेव विधेयान्तरस्य कस्यचिददर्शनाद्विद्वद्वाक्यमनर्थकं स्यात् ।
न केवलं तदानर्थक्यम्, किंतु"पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाममावास्यया यजेत ऽ इत्येतदपि व्यर्थ स्यात् ।
न चैतत्कालविधायकम्,"यदाग्नेयः"-- इत्याद्युत्पत्तिवाक्यैरेव तद्विधानात् ।
कर्मान्तरत्वे तु कालं विधास्यति ।
तस्मात्कर्मान्तरविधिः- इति प्राप्ते , ब्रूमः- आस्तां तावद्द्रव्यम् ।
देवता तु विधित्सितस्य कर्मान्तरस्य सर्वथा न लभ्यते ।
वार्त्रघ्न्योर्वृधन्वत्योश्चाऽज्यभागदेवताप्रतिपादकत्वात् ।
हौत्रे मन्त्रकाण्डे सानिधेनीरावाहननिगदं प्रयाजमन्त्रांश्चाऽम्नाय प्रयाजानन्तरभाविनोराज्यभागयोः क्रमे वार्त्रघ्न्यौ वृधन्वत्यौ चाऽम्नाते लिङ्गं चाग्निविषयं सोमविषयं च तत्रोपलभ्यते ।
ततो लिङ्गक्रमाभ्यामाज्यभागविषयत्वमवगम्यते ।
यत्तु -"वार्त्रघ्नी पौर्णमास्याम्"- इत्यादि वाक्यम्, तल्लिङ्गक्रमकॢप्तयोराज्यभागाघ्गयोर्मन्त्रयुगलयोः कालद्वये व्यवस्थामाचष्टे ।
न तु नूतनकर्माङ्गतामनयोर्विदधाति ।
अतो रूपराहित्याद्विद्वद्वाक्यं कर्मान्तरविधायकं न भवति , किं तर्हि - पूर्वप्रकृतेष्वाग्नेयादिषु षट्सु त्रिकरूपौ द्वौ समुदायावनुवदति ।
न च कालवाचिभ्यां पौर्णमास्यमावास्याशब्दाभ्यां यागानुवादानुपपत्तिः ।
तत्कालविहितयोर्यागत्रिकयोरुपलक्षितत्वात् ।
न चानुवादो व्यर्थः ।
समुदायद्वित्वसिद्धेस्तत्प्रयोजनत्वात् ।
तत्सिद्धौ च"दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत"इत्यस्मिन्फलवाक्ये षड्यागविवक्षया द्विवचननिर्देश उपपद्यते ।
यदप्युक्तम् - अनुवादपक्षे"पौर्णमास्याम्"इत्यादिवाक्यवैर्थ्यम् - इति ।
तदयुक्तम् ।
कालविधाना संभवे ऽप्येकस्य त्रिकस्य सहप्रयोगविधानात् ।
आग्नेयोपांशुयाजाग्नीषोमीयाणां त्रयाणां पौर्णमासीकालविहितानां सहप्रयोगः ऽ पोर्णमास्या ऽ इत्यनेन तृतीयैकवचनान्तेन विधीयते ।
एवमितरत्रापि ।
ननु - विद्वद्वाक्यस्य कर्मान्तरविधायकत्वाभावे ऽपि नानुवादकत्वम् ।
तस्य यागाविधायकत्वाभ्युपगमात् ।
"आग्नेयो ऽष्टाकपालः"इत्यादिवाक्यानि तु विहितयागानुवादेन द्रव्यदेवतालक्षणगुणविधायकानि - इति चेत् ।
न ।
तथासत्येकेन वाक्येनानेकगुणविध्यसंभवात् ।
प्रतिगुणं पृथग्विधौ विध्यावृत्तिः प्रसज्येत ।
आग्नेयादिवाक्यानां विधायकत्वे तु विशिष्टविधित्वान्नास्ति विध्यावृत्तिदोषः ।
तस्मादाग्नेयादिवाक्यविहितानां विद्वद्वाक्यमनुवादकम् ।
किंचानुवादत्वमभ्युपगम्य कर्मान्तरविधिं वदतः प्रयोजादीनामाग्नेयादीनां च गुणप्रधानभावो न सिध्येत् ।
तथा हि -- ऽ समिधो यजति ऽ ऽ आघारमाघारयति ऽ इत्यादयः कालयोगरहिताः केचिद्विधय आम्नाताः ।
ऽ यदाग्नेयो ऽष्टाकपालो ऽमावास्यायां च पौर्णमास्यां च ऽ इत्यादयः कालयुक्ता अपरे ।
तेषामुभयेषां प्रकृतत्वात्"दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत"इति वाक्ये सर्वेषां फलसंबन्धो बोधनीयः ।
ऽदर्शपूर्णमासाभ्याम्, इति द्विवचनं बहुवचनत्वेन परिणेतव्यम् ।
विद्वद्वाक्यविहिते द्वे कर्मान्तरे प्रयाजादय आग्नेयादयश्चेति ।
एतेषु द्वित्वासंभवात् ।
सर्वेषां च फलसंबन्धे राजसूयगतेष्टिपशुसोमवत्समप्राधान्यात्प्रयाजादीनां गुणभावो न स्यात् ।
तदभावे चानङ्गत्वात्सौर्यादिविकृतिष्वाग्नेयादीनामिवातिदेशो न स्यात् ।
अनुवादपक्षे तु त्रिकयोः कालयोगेन दर्शपूर्णमासशब्दार्हत्वात् ।
समुदायद्वित्वेन द्विवचनार्हत्वाच्चाऽग्नेयादीनामेव फलसंबन्धेन प्राधान्यम् ।
प्रयाजादीनां तु गुणभाव इति न को ऽपि दोषः ।
तस्मात् -- विद्वद्वाक्यमनुवादकम् ॥ म्जैन्य्च्_2,2.6-10 ॥
(चतुर्थ उपांशुयाजापूर्वताधिकरणे सूत्राणि 9 - 12)
पौर्णमासीवद् उपांशुयाजः स्यात् । जैम्_2,2.9 ।
चोदना वाप्रकृतत्वात् । जैम्_2,2.10 ।
गुणोपबन्धात् । जैम्_2,2.11 ।
प्राये वचनाच् च । जैम्_2,2.12 ।
स्तर्त् म्जैन्य् 2,2.11-12
चतुर्थाधिकरणमारचयति --
उपांशुयाजमित्येषो ऽनुवादो ऽत्राथवा विधिः ।
विष्ण्वादिवाक्ये विस्पष्टविधेरस्यानुवादता
जामित्वोक्तेरन्तराल उपांशुगुणके विधौ ।
सत्यर्थवादो विष्ण्वादिस्तद्रूपं ध्रौवमन्त्रतः
इदमाम्नायते -- ऽ जामि वा एतद्यज्ञस्य क्रियते ।
यदन्वञ्चौ पुरोडाशावपांशुयाजमन्तरा यजति ।
विष्णुरुपांशु यष्टव्यो ऽजामित्वाय ।
प्रजापतिरुपांशु यष्टव्यो ऽजीमत्वाय ।
अग्नीषोमावुपांशु यष्टव्यावजामित्वाय"इति ।
तत्र विष्ण्वादिवाक्येषु विहितस्य यागत्रयसमुदायस्यानुवादः- इति चेत् ।
मैवम् ।
आग्नेयाग्नीषोमीयपुरोडाशद्वयनैरवन्तर्यकृतस्य जामित्वदोषस्य वाक्योपक्रम उपन्यासात्परोडाशयोरन्तराले किंचिद्विधित्सितम् ।
न ह्यन्तरालगुणविशिष्टं विधेयं विष्ण्वादिवाक्येषु प्रतीयते ।
पूर्ववाक्ये तु तत्प्रतीयत इति विधायकं तद्वाक्यम् ।
न चात्र ऽयजतिऽ इति वर्तमानापदेशः शङ्कनीयः ।
पञ्चमलकारस्याऽश्रयणात् ।
अन्तरालकालवदुपांशुत्वगुणस्यापि विशेषणत्वात्तद्विशिष्टकर्मण उपांशुयाजनाप्रकत्वम् ।
सत्येवं गुणद्वयविशिष्टकर्मण्याद्येन वाक्येन विहिते विष्ण्वादिवाक्यमर्थवादः स्यात् ।
न चात्र विहितयागानुवादेन देवताविधिः शङ्कनीयः ।
समाधातव्येन जामित्वदोषेणोपक्रमात्, आजामित्वेन समाधानेनोपसंहाराच्च ऽ जामि वै ऽ इत्यादेः ऽ अजामित्वाय ऽ इत्यन्तस्य सर्वस्य महावाक्यस्यैकत्वप्रतीतेः ।
न खल्वेकस्मिन्वाक्ये विधेयबाहुल्यं संभवति ।
न चात्र विधित्सितस्योपांशुयाजस्य द्रव्याभावः ।
ध्रौवस्य तद्रद्रव्यत्वात् ।
नापि देवताया अभावः ।
नानाशाखासूपांशुयाजक्रमे पठितैर्वैष्णवप्राजापत्याग्नीषोमीयमन्त्रैर्विकल्पेन देवतात्रयस्य प्रतीयमानत्वात् ।
तस्मात् - यजतीत्येतद्विधायकम् ॥ म्जैन्य्च्_2,2.11-12 ॥
(पञ्चम आघाराद्यपूर्वताधिकरणे सूत्राणि 13-16)
आघाराग्निहोत्रम् अरूपत्वात् । जैम्_2,2.13 ।
संज्ञोपबन्धात् । जैम्_2,2.14 ।
अप्रकृतत्वाच् च । जैम्_2,2.15 ।
चोदना वा शब्दार्थस्य प्रयोगभूतत्वात् तत्सन्निधेर् गुणार्थेन पुनः श्रुतिः । जैम्_2,2.16 ।
स्तर्त् म्जैन्य् 2,2.13-14
पञ्चमाधिकरणमारचयति --
अग्निहोत्राघारवाक्यमनुवादो ऽथवा विधिः ।
अरूपत्वात्तु दध्यूर्ध्ववाक्येनोक्तमनूद्यते
गुण्यसिद्धौ न दध्यादिर्गुणो दुष्टा विशिष्टता ।
रूपं दध्यादिमन्त्राभ्यामतो ऽसौ गुणिनो विधिः
इदमाम्नायते - ऽ अग्निहोत्रं जुहोति ऽ ऽदधण जुहोति ऽ ऽपयसा जुहोतिऽ इति च ।
इदमपरमाम्नायत् - ऽआधारमाघारयतिऽ ऽऊर्ध्वमाघारयतिऽ ऽ ऋजुमाघारयतिऽ इति च ।
तत्राग्निहोत्रवाक्यं दध्यादिवाक्यविहितस्य कर्मसमुदायस्यानुवादः ।
आघारवाक्यं चोर्ध्वादिवाक्यविहितस्य ।
न त्वेद्वाक्यद्वयं कर्मविधायकम् ।
कुतः ।
द्रव्यदेवतालक्षणस्य यागरूपस्याभावात् - इति चेत् ।
तत्र वक्तव्यम् - किं दध्यादिवाक्येन गुणामात्रं विधीयते, किंवा गुणविशिष्टकर्म ।
नाऽद्यः ।
अग्निहोत्रादिवाक्यस्य त्वन्मते कर्मविधायकत्वाभावेन गुणिनः कस्यचिदसिद्धौ गुण्यनुवादपुरःसरस्य गुणमात्रविधानस्यासंभवात् ।
द्वितीये विधिगौरवं स्यात् ।
तच्च सत्यां गतावयुक्तम् ।
अतो ऽग्निहोत्रादिवाक्यं कर्मविधायकम् ।
तत्र द्रव्यं दध्यादिवाक्यैर्लभ्यते ।
देवता तु मान्त्रवर्णिकी ।
आघारे ऽप्येवं द्रव्यदेवते उन्नेतव्ये ॥ म्जैन्य्च्_2,2.13-14 ॥
(षष्ठे पशुसोमापूर्वताधिकरणे सूत्राणि 17-20)
द्रव्यचोदना पशुसोमयोः प्रकरणे ह्य् अनर्थको द्रव्यसंयोगो न हि तस्य गुणार्थेन । जैम्_2,2.17 ।
अचोदकाश् च संस्काराः । जैम्_2,2.18 ।
तद्भेदात् कर्मणो ऽभ्यासो द्रव्यपृथक्त्वाद् अनर्थकं हि स्याद् भेदो द्रव्यगुणीभावात् । जैम्_2,2.19 ।
संस्कारस् तु न भिद्येत परार्थत्वाद् द्रव्यस्य गुणभूतत्वात् । जैम्_2,2.20 ।
स्तर्त् म्जैन्य् 2,2.15-16
षष्ठाधिकरणमारचयति --
यजत्यालभतीत्येतावनुवादौ विधी उत ।
गृह्णात्यवद्यतीत्याभ्यां विहितेर्ऽथे ऽनुवादिनौ
नानुवादो ऽपुरोवादे यज्यालभ्योरतो विधिः ।
ब्रह्मणे सोमसंस्कारो ऽवदाने पशुसंस्क्रिया
ऽ सोमेन यजेत ऽ इति श्रूयते ।
तत्र ऽ ऐन्द्रवायवं गृह्रणाति, मैत्रावरूणं गृह्रणाति ऽ इत्यादीन्यपि श्रुतानि ।
एवम् ऽ अग्निषोमीयं पशुमालभेत ऽ इति श्रूयते ।
तत्र ऽ हृदयस्याग्रे ऽवद्यति ।
अथ जिह्वायाः ।
अथ वक्षसः ऽ इत्यादीन्यपि श्रुतानि ।
तत्रैन्द्रवाय्वादिवाक्यैर्यागा विधीयन्ते ।
इन्द्रवाय्वादिप्रातिपदिकैर्देवतानार्ं, तद्धतेन सोमरसद्रव्यस्य च प्रतीयमानत्वात् ।
एतेषां ग्रहणवाक्यविहितानां यागानां समुदायः ऽ सोमेन यजेत ऽ इत्यनेनानूद्यते ।
तथावदानवाक्येषु हृदयादिद्रव्यं श्रुतम् ।
ततो द्रव्यविशिष्टा यागास्तत्र विधीयन्ते ।
तदनुवादेन पश्वालम्भवाक्ये ऽग्नीषोमरूपा देवता विधीयते ।
तस्मात् - अवदानवाक्यविहितानां यागानां समुदायः"पशुमालभेत"इत्यनेनानूद्यते - इति प्राप्ते --
ब्रूमः- सति हि पुरोवादे ऽनुवादो भवति ।
न चात्र पुरोवादो ऽस्ति ।
ऽसोमेन यजेत ऽ इत्यनेन प्रतीतस्यार्थस्य ग्रहणवाक्येष्वप्रतीतेः ।
नहि ग्रहणं यजनं भवति ।
नापि तद्धितप्रत्ययोक्तो रसः सोमलता ।
न च - तद्धितप्रत्ययः सर्वनामार्थे विहितः प्रकृतं ब्रूते, न तु रसम् - इति शङ्कनीयम् ।
ऽ धारया गृह्राति ऽ इति रसस्यैव प्रकृतत्वात् ।
तथा"पशुमालभेत"इत्यनेन प्रतीतोर्ऽथो नावदानवाक्येषु प्रतीयते ।
ततः पुरोवादाभावेनानुवादासंभवाद्यजत्यालभतिभ्यां कर्मणी विधीयेते ।
ग्रहणवाक्यैस्तु देवताविशिष्टः सोमसंस्कारो विधीयते ।
अवदानवाक्यैश्च पशुसंस्कारः ॥ म्जैन्य्च्_2,2.14-16 ॥
(सप्तमे संख्याकृतकर्मभेदाधिकरणे सूत्रम्)
पृथक्त्त्वनिवेशात् संख्यया कर्मभेदः स्यात् । जैम्_2,2.21 ।
स्तर्त् म्जैन्य् 2,2.17-21
सप्तमाधिकरणमारचयति --
आहुतीस्तिस्त्र इत्यत्र कर्मैक्यमुत भिन्नता ।
एकत्वं सकृदाख्यातात्संख्यावृत्त्या प्रयाजवत्
आख्यातमात्रं नो मानं संख्यया बहुकर्मता ।
आवृत्त्यैकादशत्वं तु प्रयाजे गत्यभावतः
पशून्सप्तदश प्राजापत्यानित्यत्र भाष्यकृत् ।
विचारमाह पूर्वत्र क्रियात्रित्वस्फुटत्वतः
बहुत्वोपेतपशुभिर्देवयोगादभिन्नता ।
रूपस्य तेन कर्मैक्यं संख्या नात्र क्रियागता
देवतासंगतस्यैव तद्धितार्थस्य पश्चिमः ।
बहुत्वसंगमो रूपसंख्यया तत्क्रियाभिदा
ऽ तिस्त्र आहुतीर्जुहोति ऽ इति श्रूयते ।
तत्र ऽ जुहोति ऽ इत्येतदाख्यातं ऽ समिधो यजति ऽ इत्यादिवन्नाभ्यस्तम्, किंतु सकृदेवाऽम्नातम् ।
तत एकमिदं कर्म ।
त्रित्वसंख्या तु तस्यैव कर्मण आवृत्त्या नेतव्या ।
यथा प्रयाजेष्वेकादशत्वसंख्या पञ्चानामेव प्रयाजानामावृत्त्या नीता, तद्वत् - इति प्राप्ते -
ब्रूमः- किमिदमाख्यातं पदान्तरनिरपेक्षमेव कर्मैक्ये प्रमाणम्, उत पदान्तरान्वितम् ।
नाऽद्यः ।
वाक्यांशस्य पदमात्रस्य प्रमितिजनकत्वाभावात् ।
द्वितीये - त्रि -त्वसंख्यया विशेषितेनाऽख्यातेन कर्मबहुत्वं गम्यते ।
प्रयोजानां तु पूर्वमेव पञ्चसंख्यावरुद्धत्वादावृत्तिमन्तरेणैकादशत्वं दुःसंपादम् ।
इह त्वेतद्विधितः पूर्व कर्मण एकत्वसंख्यावरोधो नास्तीति वैषम्यम् ।
तदेतद्वृत्तिकारोदाहरणं भाष्यकारो नानुमन्यते ।
कर्मवाचिन आहुतिशब्दस्य विशेषणेन त्रिशब्देन कर्मबहुत्वस्य स्फुटतया पूर्वपक्षानुत्थानात् ।
इदं त्वत्रोदाहरणम् - ऽ सप्तदश प्राजापत्यान्पशूनालभते ऽ इति ।
अत्र ऽ प्रजापत्तिर्देवता येषां पशूनां ते प्राजापत्याः ऽ इति तद्धितव्युत्पत्तौ बहुत्वोपोताः पशव एकं द्रव्यम् ।
ततो द्रव्यैक्याद्देवतैक्याच्च यागस्य रूपमभिन्नमित्येकमिदं कर्म ।
या तु ऽसप्तदशऽ इति संख्या, सा पशुद्रव्यगता, न तु पूर्वोदाहृतत्रित्वसंख्येव क्रियागता ।
तस्मात् -- ऽन कर्मभेदमापादयति ऽ इति प्राप्ते -
ब्रूमः- अत्र ऽ प्रजापतिर्देवता यस्य पशोः स प्राजापत्यः ऽ इति तद्धितान्तं प्रातिपदिकं व्युत्पाद्य पश्चात्तद्धितान्तप्रातिपादिकार्थस्य प्रजापतिदेवताविशिष्टपशोः कर्मत्वबहुत्वविवक्षायामुत्पन्ने इमे द्वितीयाविभक्तिबहुवचने ।
तत्र प्रथमभाविन्या द्वितीयाविभक्तेरेव तद्धितोत्पत्तिवेलायामन्वयो नास्ति, कुतः पश्चाद्भाविनो बहुवचनस्यान्वयः ।
एवं सति ऽ प्राजापत्यः ऽ इत्यनेन तद्धितान्तप्रातिपदिकनैकपशुद्रव्यमेकदेवतोपेतं यागस्य रूपं समर्प्यते ।
तादृशानां रूपाणां बहुत्वाय बहुवचनम् ।
बहुत्वविशेषश्च ऽ सप्तदशः ऽ इति निर्दिश्यते ।
तस्मात् - अत्र संख्यया कर्मभेदः ।
एवं च सति, अष्टमे वक्ष्यमाणं सप्तदशपशूनामैकादशिनपशुगणविकृतित्वमुपपद्यते ॥ म्जैन्य्च्_2,2.17-21 ॥
(अष्टमे संज्ञाकृतकर्मभेदाधिकरणे सूत्रम्)
संज्ञा चोत्पत्तिसंयोगात् । जैम्_2,2.22 ।
स्तर्त् म्जैन्य् 2,2.22-23
अष्टमाधिकरणमारचयति --
अथैष ज्योतिरित्यत्र गुणो वा कर्म वा पृथक् ।
गुणः सहस्त्रदानात्मा ज्योतिष्टोमे ह्यनूदिते
अथेति प्रकृते छिन्न एतच्छब्दो ऽग्रगं वदेत् ।
संख्ययेवान्यकर्मत्वमिह नूतनसंज्ञया
"अथैष ज्योतिः, अथैष विश्वज्योतिः, अथैष सर्वज्योतिः, अनेन सहस्त्रदक्षिणेन यजेत ऽ इति श्रूयते ।
अत्र प्रकृतं ज्योतिष्टोपम् ऽएष ज्योतिः ऽ इत्यनूद्य तस्मिन्सहस्त्रदानलक्षणो गुणो विधीयते -- इति चेत् ।
न ।
प्रकृतस्य ज्योतिष्टोमस्य ऽ अथ ऽ इत्यनेन विच्छिन्नत्वात् ।
न चैवं सति ऽ अयैष ज्योतिः ऽ इत्युक्त एतच्छब्दो ऽनुपपन्न इति वाच्यम् ।
संनिहितवाचिनैतच्छब्देनातीतसंनिहितस्येवाऽगामिसंनिहितस्यापि परामर्शसंभवात् ।
आगामिसंनिहितश्च ज्योतिः शब्दार्थः ।
स च ज्योतिः शब्दो ऽती मपरामृशन्नपूर्वसंज्ञारूपत्वान्नूतनं किंचित्कर्माभिधत्ते ।
ततो यथा पूर्वत्र संख्यया कर्मभेदः, तथात्रापि संज्ञया कर्म भिद्यते ।
विश्वज्योतिः सर्वज्योतिः शब्दयोरप्ययं न्यायो द्रष्टव्यः ॥ म्जैन्य्च्_2,2.22-23 ॥
(नवमे देवताभेदकृतकर्मभेदाधिकरणे सूत्रम्)
गुणाश् चापूर्वसंयोगे वाक्योः समत्वात् । जैम्_2,2.23 ।
स्तर्त् म्जैन्य् 2,2.24-25
नवमाधिकरणमारचयति --
गुणः कर्मान्तरं वा स्याद्वाजिभ्यो वाजिनं त्विति ।
गुणो देवाननूद्योक्तसमुच्चयविकल्पतः
आमिक्षोत्पत्तिशिष्टत्वात्प्रबला तत्र वाजिनम् ।
गुणो ऽप्रविश्य कर्मान्यत्कल्पयेद्वाजिदेवकम्
ऽतप्ते पयसि दध्यानयति , सा वैश्वदेव्यामिक्षा, वाजिभ्यो वाजिनम् ऽ इति श्रूयते ।
घनीभूतः पयःपिण्ड आमिक्षा, जलं वाजिनम् ।
तत्र --- आमिक्षाद्रव्यभाजो ये विश्वे देवा उक्ताः, ते ऽवाजिभ्यःऽ इत्यनेनानूद्यन्ते ।
ऽवाजो ऽन्नमामिक्षारूपमेषामस्ति ऽ इति तन्निष्पत्तेः ।
ताननूद्य वाजिनद्रव्यरूपो गुणो विधीयते ।
तच्च द्रव्यमामिक्षाद्रव्येण सह समुच्चीनतां विकल्प्यतां वा, इति प्राप्ते --
ब्रूमः- उत्पत्तिशिष्टेनाऽमिक्षाद्रव्येणावरुद्धेवैश्वदेवयागे वाजिनद्रव्यस्योत्पन्नशिष्टस्य प्रवेशाभावाद्वाजिनं वाजिशब्दार्थस्य देवतान्तरमापादयति ।
ततो द्रव्यदेवतालक्षणस्य रूपस्य भिन्नत्वात्कर्मान्तरम् ॥ म्जैन्य्च्_2,2.24-25 ॥
(दशम् द्रव्यविशेषानुक्तिकृतकर्मैक्याधिकरणे सूत्रम्)
अगुणे तु कर्मशब्दे गुणस् तत्र प्रतीयेत । जैम्_2,2.24 ।
स्तर्त् म्जैन्य् 2,2.26
दशमाधिकरणमारचयति--
दधिहोमे ऽन्यकर्मत्वं गुणो वान्यत्तु पूर्ववत् ।
निर्गुणत्वादग्निहोत्रे युक्तो दध्यादिको गुणः
"दधण जुहोति"इति श्रूयते ।
तत्र -"अग्निहोत्रं जुहोति"इत्येतस्मात्प्रकृतात्कर्मणो ऽन्यद्दधिहोमरूपं कर्म - इति पूर्वन्यायेनावगम्यते ।
यथा पूर्वत्र वाजिनद्रव्येण कर्म भिद्यते, तथा दधिद्रव्येणेति चेत् ।
न ।
वैषम्यात् ।
यथा वैश्वदेवो याग आमिक्षागुणावरुद्धः, तथाग्निहोत्रं न गुणान्तरावरुद्धम् ।
प्रत्युत - निर्गुणत्वाद्गुणमाकाङ्क्षति ।
तस्मादयं गुणविधिः ।
एवं"पयसा जुहोति"इत्यादिषु द्रष्टव्यम् ।
पयोदध्यादीनां सर्वेषामुत्पन्नशिष्टतयां समबलत्वादेकैकेन द्रव्येणाग्निहोत्रनिष्पत्तेश्च व्रीहीयववद्विकल्पः
(एकादशे दध्यादिद्रव्यसफलत्वाधिकरणे सूत्रे 25 - 26 )
फलश्रुतेस् तु कर्म स्यात् फलस्य कर्मयोगित्वात् । जैम्_2,2.25 ।
अतुल्यत्वात् तु वाक्ययोर् गुणे तस्य प्रतीयेत । जैम्_2,2.26 ।
एकादशाधिकरणमारचयति --
स्तर्त् म्जैन्य् 2,2.27-28
यद्दघ्नेन्द्रियकामस्य जुहुयादिति तत्पृथक् ।
गुणो वा भिद्यते कर्म धात्वर्थस्य फलित्वतः
मत्वर्थगौरवादिभ्यो नान्यत्कर्म फलाय तु ।
गुणे विधेये धात्वर्थो विहितत्वादनूद्यते
"दघ्नेद्रियकामस्य जुहुयात्"इति श्रूयते ।
तदिदं मकृतादग्निहोत्रादन्यत्कर्म ।
म त्वत्र विधिः ।
कुतः ।
ऽइन्द्रियकामस्यऽ इत्यक्तस्य फलस्य धात्वर्थ मन्तरेण द्रव्यमात्रादनिष्पत्तेः - इति चेत् ।
नैवम् ।
कर्मान्तरविधौ ऽदधमता होमेनोन्द्रियं भावयेत्ऽ इति मत्वर्थलक्षणा प्रसङ्गात् ।
गुणविशिष्टक्रियाविधौ, गौरवात् ।
प्रकृतहानामकृतप्रक्रियाप्रसङ्गाच्च ।
गुणमात्रं तु फलाय विधीयते ।
यद्यपि ऽदधण जुहोतिऽ इति प्राप्तम्, तथापि फलसंबन्धो न प्रप्तः ।
धात्वरथाभाते फलासंभव इति चेत् ।
न ।
ऽअग्निहोत्रं जुहोतिऽइति विहितस्य धात्वर्थस्यानूद्यमानत्वात् ॥ म्जैन्य्च्_2,2.27-28 ॥
(द्वादशे वारवन्तीयादीनां कर्मान्तरताधिकरणे सूत्रम्)
समेषु कर्मयुक्तं स्यात् । जैम्_2,2.27 ।
स्तर्त् म्जैन्य् 2,2.29-31
द्वादशाधिकरणमारचयति --
उक्त्वाग्निष्टुतमेतस्य वारवन्तीयसाम हि ।
रेवतीष्वृक्षु कृत्वेति श्रुतं पशुफलाप्तये
रेवत्यादिगुणः कर्म पृथग्वा पूर्ववद्गुणः ।
रेवतीवारवन्तीयसंबन्धाख्यः पशुप्रदः
साम्नो ऽत्र फलकर्मभ्यां संबन्धे वाक्यभिन्नता ।
तेनोक्तगुणसंयुक्तमन्यत्कर्मोच्यते फले
ऽ त्रिवृदग्निष्टुदग्निष्टोमस्तस्य वायव्यास्वृक्ष्वेकविंशमग्निष्टोमसाम कृत्वा ब्रह्मवचसकामो यजेत ऽ इत्यस्य संनिधौ श्रूयते - ऽ एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत ऽ इति ।
अस्यायमर्थः - ऽ अग्निष्टोमस्य विकृतिरूपः कश्चिदेकाहो ऽग्निष्टुन्नामकः ।
स च पृष्ठस्तोत्रे त्रिवृत्सोमयुक्ततया ऽत्रिवृत्ऽ इत्युच्यते ।
अग्निष्टोमोक्थादीनां सप्तानां सोमसंस्थानां मध्ये ऽग्निष्टोमसंस्थारूपत्वात् ऽ अग्निष्टोमः ऽ इत्यप्युच्यते ।
प्रकृतौ तृतीयसवन आर्भवपवमानस्योपरि यज्ञायज्ञीयं साम गीयते ।
तेन च साम्नाग्निष्टोमयागस्य समाप्यमानत्वात् ऽ अग्निष्टोमसाम ऽ इत्युच्यते ।
तच्च प्रकृतौ ऽयज्ञायज्ञा वो अग्नयः ऽ इत्याद्याग्नेयीष्वृक्षु गीयते ।
अस्मिंस्त्वग्निष्टुति ब्रह्मवर्चसकामेन वायव्यास्वृक्षु तत्साम गातव्यम् ।
तञ्च प्रकृताविवैकविंशस्तोमयुक्तम् ।
पशुकामत्य तु ऽ रेवतीर्नः सधमादःऽ- इत्यादिषु रेवतीष्वक्षु वारवन्तीयं साम गायेत्, इति ।
तत्र रेवतीनामृचां वारवन्तीयनामकेन साम्ना यः संबन्धः, सो ऽयं पशुफलायाग्निष्टुति विधीयते ।
ऽएतस्यैव ऽ इति प्रकृतपरामर्शकेनैतच्छब्देन, अन्यव्यावर्तकेनैवकारेण चाग्निष्टुतः समर्प्यमाणत्वात् ।
यथा पूर्वाधिकरण इन्द्रियफलाय प्रकृते ऽग्निहोत्रे दधिगुणो विहितः,तद्वत् ।
इति प्राप्ते, ब्रूमः- विषमो दृष्टान्तः ।
दधणे होमजनकत्वं न शास्त्रेण बोधनीयम् ।
तस्य लोकतो ऽवगन्तुं शक्यत्वात् ।
फलसंबन्ध एक एव शास्त्रबोध्य इति न तत्र वाक्यभेदः ।
इह तु - रेवत्युगाधारकवारवन्तीयसाम्नो ऽग्निष्टुत्कर्मसाधनत्वं फलसाधनत्वं चेत्युभयस्य शास्त्रैकबोध्यत्वाद्दुर्वारो वाक्यभेदः ।
तेन पशुफलकं यथोक्तगुणविशिष्टं कर्मान्तरमत्र विधीयते ।
एतच्छब्द एवकारश्च विधीयमानकर्मान्तरविषयतया योजनीयौ ॥ म्जैन्य्च्_2,2.29-31 ॥
(त्रयोदशे सौभरनिधनयोः कामैक्याधिकरणे सूत्रे 28 - 29 )
सौभरे पुरुषश्रुतेर् निधनं कामसंयोगः । जैम्_2,2.28 ।
सर्वस्य वोक्तकामत्वात् तस्मिन् कामश्रुतिः स्यान् निधनार्था पुनः श्रुतिः । जैम्_2,2.29 ।
स्तर्त् म्जैन्य् 2,2.32-35
त्रयोदशाधिकरणमारचयति --
वृष्टन्नस्वर्गकामानां सौभरं स्तोत्रमीरितम् ।
निधनान्यपि हीषूर्गू इति वृष्ट्यादिकाभिनाम्
फलान्तरं किं वृष्ट्यादि हीशादीनामुतोदिते ।
सौभरे फलसंभिन्ने निधनं विनियम्यते
फलान्तरं चतुर्थ्योक्तं वृष्टिकामाय हीषिति ।
सौभरस्य फलं वृष्टिहीषियुक्त्या विवर्धते
नोक्तवृष्ट्यन्नकामानामन्यत्वं प्रत्यभिज्ञया ।
नियमे ऽपि चतुर्थ्येषा तादर्थ्यादुपपद्यते
मूल पाठ: Jaiminīyanyāyamālāvistara a metrical exposition of Jaimini's Mīmāṃsāsūtra, with Mādhava's prose commentary · Edition: Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892. (Anandasrama Sanskrit Series, 24) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0