जैमिनीयगृह्यसूत्र · अध्याय 2
॥ इति जैमिनिसूत्रं पूर्वम् ॥
जैम्ग्स् 2.1:
श्राद्धं करिष्यन्तः स्नाताः शुचिवाससस्तिलैर्वास्त्ववकीर्य सव्यमाचरन्तो ऽन्नमुपसाधयेरन्हविष्यैरुपसिच्यैवैवं दद्याद्यद्यद्दद्यात्तत्तद्धविष्यैरुपसिच्यैव हविष्या इति तिलानामाख्या दन्तधावनं स्नानीयानि पाद्यमानीय प्रथमोद्धृतं ब्राह्मणांस्त्र्यवदातानुपवेशयत्या मे गच्छन्तु पितरो भागधेयं विराजाहूताः सलिलात्समुद्रियात् ।
अक्षीयमाणमुपजीवतैनन्मया प्रत्तं स्वधया मदध्वमित्युपमूललूनान्दर्भान्विष्टरान्प्रसव्यान्कृत्वा ब्राह्मणेभ्यः प्रदद्यादेतत्ते पितरासनमसौ ये च त्वात्रानु तेभ्यश्चासनमित्येवं पितामहायैवं प्रपितामहाय हविष्योदकं तिरः पवित्रं गन्धान्सुमनसश्च दद्यादन्नमवत्त्वा घृतेनाभिधार्य दर्भान्परिस्तरणीयानिति तदादायाग्नौ करिष्यामीति ब्राह्मणाननुज्ञाप्य प्राग्दक्षिणामुखो ऽग्निं प्रणयित्वा त्रिर्धून्वन्प्रदक्षिणमग्निं परिस्तृणाति प्राचीनावीति त्रिः प्रसव्यं त्रिः पर्युक्षेत्प्रदक्षिणं प्राचीनावीति त्रिः प्रसव्यमौदुम्बर इध्मः परिधयो भवन्ति मेक्षणं च पवित्रं संस्कृत्यान्नमुत्पूयाग्नौ पवित्रं प्रास्य मेक्षणेन जुहोत्यग्नये कव्यवाहनाय स्वधा नमः स्वाहा सोमाय पितृमते स्वधा नम स्वाहेति यज्ञोपवीति भूत्वाप उपस्पृश्य यमायाङ्गिःस्वते स्वाहेति मेक्षणमग्रावनुप्रहरति नमस्कारान्कृत्वा यथादैवतं त्रिः पर्युक्षेत्प्रदक्षिणं प्राचीनावीति त्रिः प्रसव्यं सव्यञ्जनमन्नं पात्रेषु वर्धयित्वामासु पक्वमिति क्षीरं घृतं वा सिञ्चत्यामासु पक्वममृतं निविष्टं मया प्रत्तं स्वधया मदध्वमिति वर्धितान्यादिशत्येतद्वः पितरो भागधेयं पात्रेषु दत्तममृतं स्वधावत् ।
अक्षीयमाणमुपजीवतैनन्मया प्रत्तं स्वधया मदध्वम् ॥
अमृता वागमृता वाचो अग्ने वाचो ऽमृतः त्वं त्रिवृतैकधामा ।
एभिर्मत्प्रत्तैः स्वधया मदध्वमिहास्मभ्यं वसीयो ऽस्तु देवाः ॥
अयं यज्ञः परमो यः पितृणां पात्रदेयं पितृदैवत्यमग्ने ।
वाक्च मनश्च पितरो नः प्रजानीमाश्विभ्यां प्रत्तं स्वधया मदध्वम् ॥
य इह पितरः पार्थिवासो य अन्तरिक्ष उत ये समुद्रियाः ।
ये वाचमाप्त्वा अमृता बभूवुस्ते ऽस्मिन्सर्वे हविषि मादयन्ताम् ॥
एषा व ऊर्गेषा वः स्वधा चामत्त च पिबत च मा च वः क्षेष्ट ।
स्वधां वहध्वममृतस्य योनिं यात्र स्वधा पितरस्तां भजध्वम् ॥
येह पितर ऊर्ग्देवता च तस्यै जीवेम शरदः शतं वयम् ।
ज्योतिष्मद्धत्ताजरं म आयुरित्यथैतानि ब्राह्मणेभ्य उपनिक्षिप्य स्वाङ्गुष्ठेनानुशत्यमुष्मै स्वधामुष्मै स्वधेति यन्मे ऽप्रकामा इति भुञ्जतो ऽनुमन्त्रयते यन्मे ऽप्रकामा उत वा प्रकामा समृद्धे ब्राह्मणे ऽब्राह्मणे वा ।
य स्कन्दति निरृतिं वात उग्रां येन नः प्रीयन्ते पितरो देवताश्च ।
वायुष्टत्सर्वं शुन्धतु तेन शुद्धेन देवता मादयन्तां तस्मिञ्छुद्धे पितरो मादयन्तामित्यक्रान्समुद्र इत्याश्वं गीत्वा संपन्नं पृष्टाथाचामयेद्यज्ञोपवीती भूत्वाभिरमन्तां भवन्त इत्युत्का प्रिदक्षिणं कृत्वा यन्मे रामेति गच्छन्तो ऽनुमन्त्रयते यन्मे रामा शकुनिः श्वापदश्च यन्मे ऽशुचिर्मन्त्रकृतस्य प्राशत् ।
वैश्वानरः सविता तत्पुनातु तेन पूतेन देवता मादयन्तां तस्मिन्पूते पितरो मादयन्तामिति
जैम्ग्स् 2.2:
शेषमनुज्ञाप्य प्रत्येत्य प्राग्दक्षिणायतं चतुरश्रं गोमयेनोपलिप्यापहता असुरा रक्षांसि पिशाचाः पितृषद इति मध्ये रेखां काष्ठेनोल्लिख्य ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति परापुरो निपुरो ये भरन्त्यग्रिष्टांल्लोकात्प्रणुनोत्त्वस्मादित्युल्मुकं दक्षिणतो निदधात्यनुलेखं दर्भानास्तीर्योदपात्रेणाचामयत्याचाम पितरसौ ये च त्वात्रानु ते चाचामन्त्वित्येवं पितामहायैवं प्रापितामहाय तेषु पिण्डान्निदधात्यनुनामापहस्तेनैतत्ते पितरसौ ये च त्वात्रानु तेभ्यश्च स्वधा नम इत्येवं पितामहायैवं प्रापितामाहय नामान्यजानतः पितरेतते पितामहैतत्ते प्रपितामहैतत्त इति बन्ध्वजानत इदं पितृभ्यः पृथिवीषद्भ्य इदं पितामहेभ्यो ऽन्तरिक्षसद्भ्य इदं प्रापितामहेभ्यो दिविपद्भ्य इत्यत्र पितरो मादयध्वं यथाभागमावृषायध्वमित्युदगावृत्या तमितोरासीतामीमदन्त पितरो यथाभागमावृषायिपतेति जपित्वा पूर्ववदाचामय्य नीवीं विस्रंस्य नामस्कारान्कृत्वा यथादैवतमेतद्धः पितर इति वस्राण्यादिशत्यूर्णास्तुकां दशाम्बरं वा एतद्धः पितरो वासो गृहान्नः पितरो दत्ताधत्त पितरो गर्भं कुमारं पुष्करस्रजं यथेह पुरुषो ऽसदित्यञ्जनाभ्यञ्जने ददात्याङ्क्ष्यासावित्यभ्यङ्क्ष्यासाविति गन्धान्सुमनसश्च दद्यान्नमो वः पितर इति षडिभर्नमस्कारैरुपतिष्ठते नमो वः पितरो मनो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरो घोराय नमो वः पितरो बलाय नमो वः पितरो मन्यवे स्वधायै च पितरो नमो व इत्यूर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतं स्वधा स्थ तर्पयत मे पितृनित्यपः प्रसिच्य मा मे क्षेष्टेत्यभिमन्त्र्य मा मे क्षेष्ट बहु मे पूर्तमस्तु ब्रह्माणो मे जुषन्तामन्नमन्नम् ।
सहस्रधारममृतोदकं मे पूर्तमस्त्वेतत्परमे व्योमन् ॥
देवाश्च पितरश्चैतत्पूर्तं मे अत्रोपजीवन्ताम् ।
अक्षीयमाणमुपजीवतैनन्मया प्रत्तं स्वधया मदध्वमिति ये समानाः सुमनस इति प्रदक्षिणं कृत्वा ये समानाः सुमनसो जीवा जीवेषु मामकाः ।
तेषां श्रीर्मयि कल्पतामस्मिंल्लोके शतं समा इत्यामयावी पिण्डान्प्राश्नीयादन्नाद्यकामो वाग्नौ वा संक्षेपयेदप्सु वाभ्यमहरेयुरजं गां ब्राह्मणं वा प्राशयेयुः शेषस्य प्राश्नीयान्न चान्नतृप्तिं गच्छेत्
जैम्ग्स् 2.3:
ऊर्ध्वमाग्रहायण्यास्त्रयो ऽपरपक्षास्तेषामेकैकस्मिन्नेकैकाष्टका भवति शाकाष्टका मांसाष्टकापूपाष्टकेति तत्र शाकमांसापूपानि हवींष्योदनं च तेषां हविषां स्थालीपाकावृताग्नौ जुहुयादष्टकायै स्वाहा एकाष्टकार्ये स्वाहा अष्टकायै सुराधसे स्वाहा संवत्सराय परिवत्सरायेदावत्सरायेद्वत्सराय कृणुता नामोभिः ।
त्वया वयं सुमतौ यज्ञियानां ज्योगजीता अहताः स्याम स्वाहेति हुत्वोपतिष्ठत एहि भगैहि भगैहि भगेति मध्यमायां गां कारयेत्तामष्टकायै प्रोक्षेत्तस्यास्त्रीणि सव्यान्युपोद्धरति पार्श्वमपघनीं श्रोणीमिति श्वोभूते श्राद्धमन्वष्टक्यं तदहर्वा ब्राह्मणान्हविरर्हानुपवेश्य तांस्तर्पयित्वा तस्मादग्रेर्दक्षिणतः षडग्रीन्प्रणीय तेषामेकैकस्मिन्नेकैकां कर्षूखानयेदायामेन प्रादेशमात्रीं पार्थिवेन त्र्यङ्गुलामवाग्वैकाङ्गुलामिति तासु पिण्डान्निदधात्यनुनामापहस्तेन मञ्जाः पितृभ्य उपकर्षति पार्श्वानि स्त्रीणां तत्राध्वर्यवः केचिदधीयते मध्यमं पिण्डं पत्नी प्राश्नीयात्प्रजाकामस्य तथा श्राद्धस्य स्थालीपाकं वा श्राद्धस्य स्थालीपाकं वा
जैम्ग्स् 2.4:
आहिताग्नेः शरीरनाशे त्रीणि षष्टिशतानि पलाशत्सरूणामाहृत्य तैः प्रतिकृतिं कुर्यात्कृष्णाजिने ऽशीत्यर्धं शिरसि दध्याद्ग्रीवायां तु दशैव तु बाह्वोश्चैव शतं दध्यातङ्गुलिषु पुनर्दशा उरसि त्रिंशतं दध्याज्जठरे विंशतीं तथोर्वोश्चैव शतं दध्यात् मेढ्रे चापि दशैव तु जानुजंघयोस्त्रिंशत दध्यात् दश पादाङ्गुलीष्वपि इत्येतावन्तीह पुरुषस्य शरीराणि भवन्तीति विज्ञायते मध्ये शरीरं सतीशरीरमुप्तकेशं निकृत्तनखं प्रक्षालितं चितामारोपयन्त्यत्र पात्राण्यपि चिनोति तस्यामेनमादधति तस्य नासिकयोः स्रुवौ निदध्यादित्येतेनानुवाकेन य एवंवित्स्यात्स यदोपतापी स्यादिति पूर्वमेव चतुर्गृहीतं गृहीत्वान्यं यथासंभवमास्ये हिरण्यशकलममाधायाग्नीनुपोह्य सामभिरुपतिष्ठते नाके सुपर्णमिति ग्राम्यं गेयमुदिते धूमे त्वेषस्ते धूम ऋण्वतीत्यग्नौ समारूढे ऽग्ने मृड महं असीत्येतयोरन्यतरेण पराक् पराग्वा असौ लोक इति ब्राह्मणम्
जैम्ग्स् 2.5:
आहिताग्नेश्वेत्पूर्वं जाया म्रियेत तां निर्मन्थ्येन दहेत्सांतपनेन वा श्मशानकृतं स्वकृतमनिरिणमपसलवक्रोदकं कृत्वा यत्र वौषधयो जायन्ते तत्र शरीरं दग्ध्वोदककरणाय यान्त्यनवेक्षमाणा न वाहिनीषु कुर्वन्ति तेषां योयः पश्चाञ्जातः ससो ऽग्रं कुर्यादुपकूलमकूले कूपं खात्वा सव्यहस्तस्यानामिकया सकृदुदकं प्रोहति प्रेतस्य नामकरणेन वाहिनीषु चेदुद्ग्रथ्य केशान्निमज्यैकाञ्जलिं दत्त्वोपसंगृह्य केशानुल्मुकस्याग्निमारभेताग्रे शूकाहे पापं मे ऽपहतेति शमीमारभेत शम्यसि शमय मे पापमित्यश्मानमारभेताश्मासि स्थिरो ऽस्यहं स्थिरो भूयासमिति तूष्णीं गोमयं कृतोदकं दक्षिणामुखमासीनं तमनुगन्तार उपविशन्ति तानितरः कल्याणीभिर्वाग्भिः प्रत्याहोपास्तमनवेलायां ग्रामं प्रविशन्ति तां रात्रिमेकमाषेण वसन्ति शान्त्या वा श्वो भूते क्षीरोदके संसृज्य शरीराण्यवसिञ्चत्यजशृङ्गेण गोशृङ्गेन मृणमयेन कोशेन वा तृतीयायां गन्धौषधीभिः संसृज्य शमीशाखया पलाशशाखया वासंह्लादयन्कुम्भ्यामवदध्यात्स्त्री चेद्वट एव दध्याच्चतुष्पथमतीत्य महावृक्षं नदीं वा तीर्थेषु निखनेत् प्रेतस्य तृतीयायां स्नापयन्त्यपामार्गेण मृदा गोमयेन च वासांसि प्रक्षाल्य दशरात्रमासते चतुर्थ्यां भिक्षामावर्तयेरन्तस्य सिद्धमग्नौकरणं कालं च यावदाकांक्षेयुर्भिक्षयानुसंतरेयुरूर्ध्वं दशरात्राच्छ्राद्धं दद्युर्न दद्युरा श्राद्धस्य प्रदानान्नक्षत्रेषु नियमो मधास्वेकतारेषु भरणीषु च पूर्वसमयेषु न रेहिणयमुत्तरेषु ध्रुवेषु ब्राह्मणान्हविरर्हानुपवेश्य तांस्तर्पयित्वैकवत्पिण्डं दद्यान्न चान्विति ब्रूयात्सर्वैः कर्मैस्तर्पयेदनुगमनं कृत्वा शेषमनुज्ञाप्य प्रत्येत्य शेषं न प्राश्नीयाद्ब्राह्मणान्स्वस्ति वाच्य प्राश्नीयात्
जैम्ग्स् 2.6:
अथातो गृहकर्मणो गृहवृद्धिमिच्छन्मासिमास्यूतावृतौ संवत्सरे संवत्सरे वा पूर्वपक्षे पुण्ये नक्षत्रे गृहशान्तिमारभेतापामार्गपलाशशिरीपाकारैदुम्बरलसदाभद्रामृततृणमिन्द्रवल्लीभिर्बद्ध्वा गृहान्परिमार्ज्य परिसमूह्यापो ऽभ्युक्ष्य पञ्चगव्यैर्दर्भमुष्टिना संप्रोक्ष्य सिद्धार्थकान्संप्रकीर्य वास्तुबलिं कृत्वा वास्तोर्मध्ये वास्तोष्पत्तिं हुत्वा सावित्र्या सहस्रं जुहुयात्ततो दक्षिणपुरस्तात्ततो दक्षिणापश्चात्तत उत्तरपुरस्तात्तत उत्तरपश्चान्मध्ये वा गौर्वासो हिरण्यं दक्षिणा ब्राह्मणानन्नेन परिविष्यं पुण्याहं स्वस्त्युद्धिमिति वाचयित्वैवं प्रयुञ्जानो ऽनन्तं महान्तं पोषं पुष्यति बहवः पुत्रा भवन्ति न च बालाः प्रमीयन्ते नाग्निर्दहति न दंष्ट्रिणः खादयेयुर्न तस्कराः सपत्ना रक्षांसि पिशाचा अपि बाधन्ते यदि गावः प्रतप्येरन्गवां मध्य आहुतिसहस्रं जुहुयादित्येतेनैव कल्पेनाश्चोष्ट्रखराजाविकमहिषहस्तिकुलमन्यतरद्द्विपदां चतुष्पदां च व्याख्यातम्
जैम्ग्स् 2.7:
अथातो ऽद्भुतशान्तिं व्याख्यास्यामो ऽथ यद्यगारे स्थूणा विरोहेत् कपोतो वागारं गच्छेद्गौर्वा गां धयेदनह्वान्वा दिवमुल्लिखेदनग्नौ वा धूमो जायेतानग्नौ वा दीप्येत मधु वा जायेत वल्मीकं वोपजायेत मण्डूको वाम्भृणे वाश्येच्छ्वानो वा गृहे पर्यटेयुरित्येतानन्यांश्च यत इन्द्र भयामहे ।
सदसस्पतिमद्भुतम् ।
अधायामुतेसुमुदस्य ।
सनादग्रे ।
यद्वा उ विश्पतिः शितः ।
प्रत्यग्रे ।
यं रक्षन्ति ।
प्रजापत्ययर्चा पुरस्ताच्चोपरिष्टाच्च महाव्याहृतिभिर्जुहोति एतान्यृक्सामानि गायेति
जैम्ग्स् 2.8:
अथातो ऽनश्नत्संहितायाः कल्पं व्याख्यास्यामः शुचिवासाः स्याच्चीरवासा वा हविष्यमन्नमशनमिच्छेदपः फलानि वा ब्राह्मणस्त्वेव प्रत्याहरेत्प्राङ् वोदङ् वा ग्रामान्निष्क्रम्य शुचौ देश उदकान्ते वा गोमयेन गोचर्ममात्रं स्थण्डिलमुपलिप्य प्रोक्ष्य लक्षणमुल्लिख्याद्भिरभ्युक्ष्याग्निमुपसमाधायाघारावाज्यभागौ हुत्वाज्याहुतीर्जुहोत्यग्नये सोमाय रुद्रायेन्द्राय ब्रह्मणे प्रजापतये बृहस्पतये विश्वेभ्यो देवेभ्य ऋषिभ्य ऋग्भ्यो यजुर्भ्यः सामभ्यः श्रद्धायै प्रज्ञायै मेधायै सावित्र्यै सदसस्पतये ऽनुमतये च हुत्वा दुर्भेष्वासीनः प्राक्तूलेषूदक्तूलेषु वा दक्षिणेन पाणिना दर्भान्धारयन्नोपूर्वा व्याहृतीः सावित्रीं च चतुरनुद्रुत्य मनसा सामसावित्रीं च सोमं राजानं ब्रह्मजज्ञानीये चोभे वेदादिमारभेत संततमधीयीत मौनी न चान्तरा विरमेत् अथान्तरः व्याहरेदथान्तरा विरमेत् त्रीन्प्राणानायम्यतम्याचम्य वृत्तान्तादेवारभेताप्रतिभायां यावता कालेन वेदमधीयीत तावत्कालमधीयीत यज्जानीयादृक्तो यजुष्टः सामतस्तदवाप्नुयात्तद्ब्राह्मणं तच्छान्दसं तद्दैवतं साम वा अकानित्येतदेव वाभ्यस्येत्तिष्ठान्नासीनः शयानश्चङ्क्रम्यमाणो वा संहितां प्रयुञ्ज्यात्समृद्धिरेवास्य भवत्याद्यं त्रिवर्गं वा सहस्रकृत्व इति जैमिनिश्च वार्यमन्तं वा यथाकामी वा द्वादश संहिता अधीत्य यदनेनानध्यायेष्वधीतं यद्गुरवः कोपिता यान्यकार्याणि कृतानि ताभिः पवते शुद्धमस्य पूतं ब्रह्म भवत्यथापरा द्वादश संहिता अधीत्य ताभिः प्रजापतेर्लोकमवाप्नोत्यनश्नत्संहितासहस्रमधीत्य ब्रह्मभूतो विरजो भवति कामचारी सर्वान्कामानवाप्नोति संवत्सरं भैक्षभक्षः प्रयुञ्जानश्चक्षुर्लभते षण्मासान्यावकभक्षश्चतुरो मासानुदकसक्तुभक्षो द्वौ मासौ फलभक्षो मासमब्भक्षो द्वादशरात्रं वानश्नन् क्षिप्रमन्तर्धीयते ज्ञातीन्पुनाति सप्तातीतान्सप्तानागतानात्मानं च पञ्चदशं तारयते तामेतां देवनिश्रेणीत्याचक्षत एतया वै देवा देवत्वमगच्छन्नृषय ऋषित्वं तस्य ह वा एतस्या ब्रह्मसत्रस्य त्रिविध एवारभ्यो भवति प्रातःसवने माध्यंदिने सवने ब्राह्मे वापररात्रे तस्य ह वै एतस्य द्वावेवानध्यायौ यदात्माशुचिर्यद्देशस्तद्वा एतत्प्रजापतिः सप्तऋषिभ्यः प्रोवाच सप्तऋषयो महाजह्नवे महाजह्नुर्ब्राह्मणेभ्यो ब्राह्मणेभ्यः
जैम्ग्स् 2.9:
अथ ग्रहाणमातिथ्यं बलिकर्मोपुरतं व्याख्यास्यामः अश्रद्दधानमशुचिकरणमजाप्यं त्यक्तमङ्गलं ।
सुव्यक्तं ग्रहा नयन्ति ।
पुरुषं यमसादनम् ।
ग्रहाणां दीप्रचेष्टानां नक्षत्रपथचारिणाम् ।
ग्रहातिथ्यं प्रवक्ष्यामि शान्तिकर्मणि कारयेत् ।
भास्कराङ्गारकौ रक्तौ श्वेतौ शुकनिशाकरौ ।
सोमपुत्रो गुरुश्चैव तावुभौ पीतको स्मृतौ ।
कृष्णं शनैश्वरं विद्याद्राहुं क्रेतुं तथैव च ।
ग्रहवर्णानि पुष्पाणि प्राज्ञस्तत्रोपकल्पयेत् ।
गोमयेन गोचर्ममात्रं स्थण्डिलमुपलिप्य प्रोक्ष्य लक्षणमुल्लिख्याद्भिरभ्युक्ष्याग्निमुपसमाधायाङारावाज्यभागौ हुत्वा ग्रहानावाहन्त्यादित्यं मध्ये लोहितं पूर्वदक्षिणतः सोमम् ।
पूर्वोत्तरतो बुधमुत्तरेण गुरुं पूर्वेण भार्गवम् ।
पश्चिमे शनैश्चरं विद्याद्राहुं दक्षिणपश्चिमे पश्चिमोत्तरतः केतुं वृत्तमादित्याय त्रिकोणमङ्गारकस्य चतुरश्रं सोमाय बाणं बुधाय दीर्घचतुरश्रं बृहस्पतये पञ्चकोणं शुक्राय धनुः शनैश्चराय राहोः शूर्पं केतोर्ध्वजमिति ईश्वरं भास्करं विद्यात उमां सोमं तथैव च ।
स्कन्दमङ्गारकं चैव बुधो नारायणः स्थितः ।
बृहस्पतिः स्वयं ब्रह्म शुक्रः शक्रस्तथैव च ।
यमं शनैश्चरं विद्याद्राहोः कालदूतिनः केतोश्चित्रगुप्तश्चेत्येते ग्रहदेवताः अग्निरापो भूमिर्विष्णुरिन्द्राणी प्रजापतिः सर्पो ब्रह्मेत्येते प्रत्यधिदेवताः जातमर्क कलिङ्गेषु यामुनेषु च चन्द्रमाः ।
विन्ध्य अङ्गारकदेशो मध्यदेशो बुधः स्मृतः ।
बृहस्पतिः सिन्धुदेशः शक्रदेशो घटेषु च ।
शनैश्चरस्तु सौराष्ट्रो राहुस्तु पूर्वदेशिकः केतुः पर्वत इत्येते देशानां ग्रहजात इति अर्कसमिधमादित्याय प्रादेशमात्राभिधारितानाम्यादिभिर्जुहुयात् खादिरमङ्गारकाय पालाशं सोमायापामार्गं बुधायाश्वत्थं बृहस्पतय औदुम्बरं शुक्राय शमीं शनैश्चराय राहोर्दूर्वाः केतोः कुशाग्रमित्यष्टाविंशतिमाज्याहुतीर्जुहोत्येताभिः पक्वाग्नेर्जुहोत्यादित्याय इलोदनं हविष्यमन्नमङ्गारकाय सोमाय घृतपायसं पयोदनं बृहस्पतये क्षीरोदनं शुक्राय दध्योदनं बुधाय तिलपिष्टमाषोदनं शनैश्चराय राहोर्मांसोदनं केतोश्चित्रोदनमिति आ सत्येनेत्यादित्याय अग्निर्मूर्धा दिव इत्यङ्गारकाय आप्यायस्व समेतु इति सोमाय ब्रह्म जज्ञानमिति बुधाय बृहस्पते अति यदर्य इति बृहस्पतये अस्य प्रत्नामनु द्युतमिति शुक्राय शं नो देवीरभिष्टय इति शनैश्चराय कया नश्चित्र आभुवदिति राहोः केतुं कृणवन्नकेतव इथि केतोः रक्तं धेनुमादित्याय रक्तमनड्वाहमङ्गारकाय सोमाय शङ्खं बुधाय काञ्चनं बृहस्पतये वासः शुक्राय हयं नीलां गां शनैश्चराय राहोः कृष्णायसं केतोः कुञ्जरमिति सर्वेषामपि हिरण्यं वा येन वा तुष्यत्याचार्यस्तद्ददाति यथा समुत्थितं यन्त्रं यन्त्रेण प्रतिहन्यते ।
तथा ग्रहोपस्पृष्टानां शान्तिर्भवति दारुणम् ॥
नादिशेत्तपसा युक्तं नादिशेद्दिवमाश्रितम् ।
न च वेदान्तकं विप्रं वृत्तान्तां नारीं परिवृताम् ॥
अहिंसकस्य दान्तस्य धर्मजिघनस्य च ।
नित्यं च नियमस्थस्य सदानुग्रहा ग्रहाः ॥
ग्रहा गावो नरेन्द्राश्च ब्राह्मणाश्च विशेषतः ।
पूजिताः पूजयन्त्येते निर्दहन्त्यवमानिता
मूल पाठ: Jaiminīyagṛhyasūtra · Edition: no source given; cf. the ed. by Willem Caland: The Jaiminigṛhyasūtra belonging to the Sāmaveda, Lahore : Moti Lal Banarsi Dass (Punjab Sanskrit Series, 2) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0