मीमांसासूत्र · भाग 4160
दर्शयति च । जैम्_9,2.16 ।
वाक्यानां तु विभक्तत्वात् प्रतिशब्दं समाप्तिः स्यात् संस्कारस्य तदर्थत्वात् । जैम्_9,2.17 ।
तथा चान्यार्थ दर्शनम् । जैम्_9,2.18 ।
अनवानोपदेशश् च तद्वत् । जैम्_9,2.19 ।
अभ्यासेनेतरा श्रुतिः । जैम्_9,2.20 ।
तदभ्यासः समासु स्यात् । जैम्_9,2.21 ।
लिङ्गदर्शनाच् च । जैम्_9,2.22 ।
नैमित्तिकं तूत्तरात्वम् आनन्तर्यात् प्रतीयेत । जैम्_9,2.23 ।
ऐकार्थ्याच् च तदभ्यासः । जैम्_9,2.24 ।
प्रागाथिकं तु । जैम्_9,2.25 ।
स्वे च । जैम्_9,2.26 ।
प्रगाथे च । जैम्_9,2.27 ।
लिङ्गदर्शनाव्यतिरेतकाच् च । जैम्_9,2.28 ।
अर्थैकत्वाद् विकल्पः स्यात् । जैम्_9,2.29 ।
अर्थैकत्वाद् विकल्पः स्याद् ऋक्सामयोस् तदर्थत्वात् । जैम्_9,2.30 ।
वचनाद् विनियोगः स्यात् । जैम्_9,2.31 ।
सामप्रदेशे विकारस् तदपेक्षः स्याच् छास्त्रकृत्वात् । जैम्_9,2.32 ।
वर्णे तु वादरिर् यथाद्रव्यं द्रव्यव्यतिरेकात् । जैम्_9,2.33 ।
स्तोभस्यैके द्रव्यान्तरे निवृत्तिम् ऋग्वत् । जैम्_9,2.34 ।
सर्वातिदेशस् तु सामान्याल् लोकवद् विकारः स्यात् । जैम्_9,2.35 ।
अन्वयञ् चापि दर्शयति । जैम्_9,2.36 ।
निवृत्तिर् वार्थलोपात् । जैम्_9,2.37 ।
अन्वयो वार्थवादः स्यात् । जैम्_9,2.38 ।
अधिकञ् च विवर्णञ् च जैमिनिः स्तोभशब्दत्वात् । जैम्_9,2.39 ।
धर्मस्यार्थकृतत्वाद् द्रव्यगुणविकारव्यतिक्रमप्रतिषेधे चोदनानुबन्धः समवायात् । जैम्_9,2.40 ।
तदुत्पत्तेस् तु निवृत्तिस् तत्कृतत्वात् स्यात् । जैम्_9,2.41 ।
अवेश्येरन् वार्थवत्त्वात् संरकारस्य तदर्थत्वात् । जैम्_9,2.42 ।
आख्या चैवं तदावेशाद् विकृतौ स्याद् अपूर्वत्वात् । जैम्_9,2.43 ।
परार्थेन त्व् अर्थसामान्यं संस्कारस्य तदर्थत्वात् । जैम्_9,2.44 ।
क्रियेरन् वार्थनिर्वृत्तेः । जैम्_9,2.45 ।
एकार्थत्वाद् अविभागः स्यात् । जैम्_9,2.46 ।
निर्देशाद् वा व्यवतिष्ठेरन् । जैम्_9,2.47 ।
अप्राकृते तद्विकाराद् विरोधाद्यवतिष्ठेरन् । जैम्_9,2.48 ।
उभयसाम्नि चैवम् एकार्थापत्तेः । जैम्_9,2.49 ।
स्वार्थत्वाद् वा व्यवस्था स्यात् प्रकृतिवत् । जैम्_9,2.50 ।
पार्वणहोमयोस् त्व् अप्रवृत्तिः समुदायार्थसंयोगात् तदभीज्या हि । जैम्_9,2.51 ।
कालस्येति चेत् । जैम्_9,2.52 ।
नाप्रकरणत्वात् । जैम्_9,2.53 ।
मन्त्रवर्णाच् च । जैम्_9,2.54 ।
तदभावे ऽग्निवद् इति चेत् । जैम्_9,2.55 ।
नाधिकारकत्वात् । जैम्_9,2.56 ।
उभयोर् अविशेषात् । जैम्_9,2.57 ।
यदभीज्या वा तद्विषयौ । जैम्_9,2.58 ।
प्रयाजे ऽपीति चेत् । जैम्_9,2.59 ।
नाचोदितत्वात् । जैम्_9,2.60 ।
प्रकृतौ यथोत्पत्तिवचनम् अर्थानां तथोत्तरस्यां ततौ तत्प्रकृतित्वात्वाद् अर्थे चाकार्यत्वात् । जैम्_9,3.1 ।
लिङ्गदर्शनाच् च । जैम्_9,3.2 ।
जातिनैमित्तिकं यथास्थानम् । जैम्_9,3.3 ।
अविकारम् एके ऽनार्षत्वात् । जैम्_9,3.4 ।
लिङ्गदक्शनाच् च । जैम्_9,3.5 ।
निकारो वातदुक्तहेतुः । जैम्_9,3.6 ।
लिङ्गं मन्त्रचिकीर्षार्थम् । जैम्_9,3.7 ।
नियमो वोभयभागित्वात् । जैम्_9,3.8 ।
लौकिके दोषसंयोगाद् अपवृक्ते हि चोद्यते निमित्तेन प्रकृतौ स्याद् अभागित्वात् । जैम्_9,3.9 ।
अन्यायस् त्व् अविकारेणा द्रष्टप्रतिघातित्वाद् अविशेषाच् च तेनास्य । जैम्_9,3.10 ।
विकारो वा तदर्थत्वात् । जैम्_9,3.11 ।
अपि त्व् अन्यायसम्बन्धात् प्रकृतिवत् परेष्व् अपि यथार्थं स्यात् । जैम्_9,3.12 ।
यथार्थं त्व् अन्यायस्याचोदितत्वात् । जैम्_9,3.13 ।
छन्दसि तु यथादृष्टम् । जैम्_9,3.14 ।
विप्रतिपत्तौ विकल्पः स्यात् तत्सत्वाद् गुणे त्व् अन्यायकल्पनैकदेशत्वात् । जैम्_9,3.15 ।
प्रकरणविशेषाच् च । जैम्_9,3.16 ।
अर्थाभावात् तु नैवं स्याद् गुणमात्रम् इतरत् । जैम्_9,3.17 ।
द्यावोस् तथेति चेत् । जैम्_9,3.18 ।
नोत्पत्तिशब्दत्वात् । जैम्_9,3.19 ।
अपूर्वे त्व् अविकारो ऽप्रदेशात् प्रतीयेत । जैम्_9,3.20 ।
विकृतौ चापि तद्वचनात् । जैम्_9,3.21 ।
अध्रिगुः सवनीयेषु तद्वत् समानविधानाश् चेत् । जैम्_9,3.22 ।
प्रतिनिधौ चाविकारात् । जैम्_9,3.23 ।
अनाम्नानाद् अशब्दत्वम् अभावाच् चेतरस्य स्यात् । जैम्_9,3.24 ।
तादर्थ्याद् वा तदाख्यं स्यात् संस्कारैर् अविशिष्टत्वात् । जैम्_9,3.25 ।
उक्तञ् च तत्त्वम् अस्य । जैम्_9,3.26 ।
संसर्गिषु चार्थस्यास्थितपरिमाणत्वात् । जैम्_9,3.27 ।
लिङ्गदर्शनाच् च । जैम्_9,3.28 ।
एकधेत्य् एकसंयोगाद् अभ्यासेनाभिधानं स्यात् । जैम्_9,3.29 ।
अविकारो वा बहूनाम् एककर्मवत् । जैम्_9,3.30 ।
सकृत्त्वं चैकध्यं स्याद् एकत्वात् त्वचो ऽनभिप्रेतं तत्प्रकृतित्वात् परेष्व् अभ्यासेन विवृद्धाव् अभिधानां स्यात् । जैम्_9,3.31 ।
मेधपतित्वं स्वामिदेवतस्य समवायात् सर्वत्र च प्रयुक्तत्वात् तस्याचान्यायनिगदत्वात् सर्वत्रैवाविकारः स्यात् । जैम्_9,3.32 ।
अपि वा द्विसमवायो ऽर्थान्यत्वे यथासंख्यं प्रयोगः स्यात् । जैम्_9,3.33 ।
स्वामिनो वैकशब्द्याद् उत्कर्षो देवतायां स्यात् पत्न्यां द्वितीयशब्दः स्यात् । जैम्_9,3.34 ।
देवता तु तदाशीष्ट्वात् सम्प्राप्तत्वात् स्वामिन्य् अनर्थिका स्यात् । जैम्_9,3.35 ।
उत्सर्गाच् च भक्त्या तस्मिन् पतित्वं स्यात् । जैम्_9,3.36 ।
उत्कृष्येतैकसंयुक्तो द्विदेवते सम्भवात् । जैम्_9,3.37 ।
एकस् तु समवायात् तस्य तल्लक्षणत्वात् । जैम्_9,3.38 ।
संसर्गित्वाच् च तस्मात् तेन विकल्पः स्यात् । जैम्_9,3.39 ।
एकत्वेपि गुणानपायात् । जैम्_9,3.40 ।
नियमो बहुदेवते विकारः स्यात् । जैम्_9,3.41 ।
विकल्पो वा प्रकृतिवत् । जैम्_9,3.42 ।
अर्थान्तरे विकारः स्याद् देवतापृथक्त्वाद् एकाभिसमवायात् स्यात् । जैम्_9,3.43 ।
षड्विंशतिर् अभ्यासेन पशुगणे तत्प्रकृतित्वाद् गणस्य प्रविभक्तत्वाद् अविकारे हि तासाम् अकार्त्स्न्येनाभिसम्बन्धो विकारान् न समासः स्याद् असंयोगाच् च सर्वाभिः । जैम्_9,4.1 ।
अभ्यासे ऽपि तथेति चेत् । जैम्_9,4.2 ।
न गुणाद् अर्थकृतत्वाच् च । जैम्_9,4.3 ।
समासे ऽपि तथेति चेत् । जैम्_9,4.4 ।
नासम्भवात् । जैम्_9,4.5 ।
स्वाभिश् च वचनं प्रकृतौ तथेह स्यात् । जैम्_9,4.6 ।
वङ्क्रीणां तु प्रधानत्वात् समासेनाभिधानं स्यात् प्राधान्यम् अध्रिगोस् तदर्थत्वात् । जैम्_9,4.7 ।
तासां च कृत्स्नवचनात् । जैम्_9,4.8 ।
अपि त्व् असन्निपातित्वात् पत्नीवद् आम्नातेनाभिधानं स्यात् । जैम्_9,4.9 ।
विकारस् तु प्रदेशत्वाद् यजमानवत् । जैम्_9,4.10 ।
अपूर्वत्वात् तथा पत्न्याम् । जैम्_9,4.11 ।
अनाम्नातस् त्व् अविकारात् सङ्ख्यासु सर्वगामित्वात् । जैम्_9,4.12 ।
सङ्खाया त्व् एवं प्रधानं स्याद् वङ्क्रयः पुनः प्रधानम् । जैम्_9,4.13 ।
अनाम्नातवचनम् अवचनेन हि वङ्क्रीणां स्यान् निर्देशः । जैम्_9,4.14 ।
अभ्यासो वाविकारात् स्यात् । जैम्_9,4.15 ।
पशुस् त्व् एवं प्राधानं स्याद् अभ्यासस्य तन्निमित्तत्वात् तस्मात् समासशब्दः स्यात् । जैम्_9,4.16 ।
अश्वस्य चतुस्त्रिंशत् तस्य वचनाद् वैशेषिकम् । जैम्_9,4.17 ।
तत् प्रतिषिध्य प्रकृतिर् नियुज्यते सा चतुस्त्रिंशद्वाच्यत्वात् । जैम्_9,4.18 ।
ऋग् वा स्याद् आम्नातत्वाद् अविकल्पश् च न्याय्यः । जैम्_9,4.19 ।
तस्यां तु वचनाद् ऐरवत्पदविकारः स्यात् । जैम्_9,4.20 ।
सर्वप्रतिषेधो वासंयोगात् पदेन स्यात् । जैम्_9,4.21 ।
वनिष्ठुसन्निधानाद् उरूकेण वपाभिधानम् । जैम्_9,4.22 ।
प्रशसास्याभिधानम् । जैम्_9,4.23 ।
बाहुप्रशंसा वा । जैम्_9,4.24 ।
श्येन-शला-कश्यप-कवषस्त्रेकपर्णेष्व् आकृतिवचनं प्रसिद्धसन्निधानात् । जैम्_9,4.25 ।
कार्त्स्न्यं वा स्यात् तथाभावात् । जैम्_9,4.26 ।
अध्रिगोश् च तदर्थत्वात् । जैम्_9,4.27 ।
प्रासङ्गिके प्रायश्चित्तं न विद्यते परार्थत्वात् तदर्थे हि विधीयते । जैम्_9,4.28 ।
धारणे च परार्थत्वात् । जैम्_9,4.29 ।
क्रियार्थत्वाद् इतरेषु कर्म स्यात् । जैम्_9,4.30 ।
न तूत्पन्ने यस्य चोदनाप्राप्तकालत्वात् । जैम्_9,4.31 ।
प्रदानदर्शनं श्रपणे तद्धर्मभोजनार्थत्वात् संसर्गाच् च मधूदकवत् । जैम्_9,4.32 ।
संस्कारप्रतिषेधश् च तद्वत् । जैम्_9,4.33 ।
तत्प्रतिषेधे च तथाभूतस्य वर्जनात् । जैम्_9,4.34 ।
अधर्मत्वम् अप्रदानात् प्रणीतार्थे विधानाद् अतुल्यत्वाद् असंसर्गः । जैम्_9,4.35 ।
परो नित्यानुवादः स्यात् । जैम्_9,4.36 ।
विहितप्रतिषेधो वा । जैम्_9,4.37 ।
वर्जने गुणभावित्वात् तदुक्तप्रतिषेधात् स्यात् कारणात् केवलाशनम् । जैम्_9,4.38 ।
व्रतधर्माच् च लेपवत् । जैम्_9,4.39 ।
रसप्रतिषेधो वा पुरुषधर्मत्वात् । जैम्_9,4.40 ।
अभ्युदये दोहापनयः स्वधर्मा स्यात् प्रवृत्तत्वात् । जैम्_9,4.41 ।
शृतोपदेशाच् च । जैम्_9,4.42 ।
अपनयो वार्थान्तरे विधानाच् चरुपयोवत् । जैम्_9,4.43 ।
लक्षणार्था शृतश्रुतिः । जैम्_9,4.44 ।
श्रयणानां त्व् अपूर्वत्वात् प्रदानार्थे विधानं स्यात् । जैम्_9,4.45 ।
गुणो वा श्रयणार्थत्वात् । जैम्_9,4.46 ।
अनिर्देशाच् च । जैम्_9,4.47 ।
श्रुतेश्च तत्प्रधानत्वत् । जैम्_9,4.48 ।
अर्थवादश् च तदर्थत्वात् । जैम्_9,4.49 ।
संस्कारं प्रति भावाच् च तस्माद् अप्य् अप्रधानम् । जैम्_9,4.50 ।
पर्यग्निकृतानाम् उत्सर्गे तादर्थ्यम् उपधानवत् । जैम्_9,4.51 ।
शेषप्रतिषेधो वार्थाभावाद् इडान्तवत् । जैम्_9,4.52 ।
पूर्वत्वाच् च शब्दस्य संस्थापयतीति चाप्रबृत्तेनोपपद्यते । जैम्_9,4.53 ।
प्रबृत्तेर् यज्ञहेतुत्वात् प्रतिषेधे संस्काराणाम् अकर्म स्यात् तत्कारितत्वाद् यथा प्रयाजप्रतिषेधे ग्रहणम् आज्यस्य । जैम्_9,4.54 ।
क्रिया वा स्याद् अवच्छेदाद् अकर्म सर्वहानं स्यात् । जैम्_9,4.55 ।
आज्यसंस्थाप्रतिनिधिः स्याद् द्रव्योत्सर्गात् । जैम्_9,4.56 ।
समाप्तिवचनात् । जैम्_9,4.57 ।
चोदना वा कर्मोत्सर्गाद् अन्यैः स्याद् अविशिष्टत्वात् । जैम्_9,4.58 ।
अनिज्यां च वनस्पतेः प्रसिद्धान्तेन दर्शयति । जैम्_9,4.59 ।
संस्था तद्देवतत्वात् स्यात् । जैम्_9,4.60 ।
विधेः प्रकरणान्तरे ऽतिदेशात् सर्वकर्म स्यात् । जैम्_10,1.1 ।
अपि वाभिधानसंस्कारद्रव्यम् अर्थे क्रियेत तादर्थ्यात् । जैम्_10,1.2 ।
तेषाम् अप्रत्यक्षविशिष्टत्वात् । जैम्_10,1.3 ।
इष्ठिर् आरम्भसंयोगाद् अङ्गभूतान् निवर्तेतारमभस्य प्रधानसंयोगात् । जैम्_10,1.4 ।
प्रधानाच् चान्यसंयुक्तात् सर्वारम्भान् निवर्तेतानङ्गत्वात् । जैम्_10,1.5 ।
तस्यां तु स्यात् प्रयाजवत् । जैम्_10,1.6 ।
न वाङ्गभूतत्वात् । जैम्_10,1.7 ।
एकवाक्यत्वाच् च । जैम्_10,1.8 ।
कर्म च द्रव्यसंयोगार्थम् अर्थाभावान् निवर्तेत तादर्थ्यं श्रुतिसंयोगात् । जैम्_10,1.9 ।
स्थाणौ तु देशमात्रत्वाद् अनिबृत्तिः प्रतीयेत । जैम्_10,1.10 ।
अपि वा शेषभूतत्वात् संस्कारः प्रतीयेत । जैम्_10,1.11 ।
समाख्यानं च तद्वत् । जैम्_10,1.12 ।
मन्त्रवर्णश् च तद्वत् । जैम्_10,1.13 ।
प्रयाजे च तन्न्यायत्वात् । जैम्_10,1.14 ।
लिङ्गदर्शनाच् च । जैम्_10,1.15 ।
तथाज्यभागाग्निर् अपीति चेत् । जैम्_10,1.16 ।
व्यपदेशाद् देवतान्तरम् । जैम्_10,1.17 ।
समत्वाच् च । जैम्_10,1.18 ।
पशावपीति चेत् । जैम्_10,1.19 ।
न तदभूतवचनात् । जैम्_10,1.20 ।
लिङ्गदर्शनाच् च । जैम्_10,1.21 ।
गुणो वा स्यात् कपालवद् गुणभूतविकाराच् च । जैम्_10,1.22 ।
अपि वा शेषभूतत्वात् तत्संस्कारः प्रतीयेत स्वाहाकारवद् अङ्गानाम् अर्थसंयोगात् । जैम्_10,1.23 ।
व्यृद्धवचनञ् च विप्रतिपत्तौ तदर्थत्वात् । जैम्_10,1.24 ।
गुणेपीति चेत् । जैम्_10,1.25 ।
नासंहानात् करालवत् । जैम्_10,1.26 ।
ग्रहाणाञ् च सम्प्रतिपत्तौ तद्वचनं तदर्त्वात् । जैम्_10,1.27 ।
ग्रहाभावे च तद्वचनम् । जैम्_10,1.28 ।
देवतायाश् च हेतुत्वं प्रसिद्धं तेन दर्शयति । जैम्_10,1.29 ।
अविरुद्धोपपत्तिर् अर्थापत्तेः शृतवद् भूतविकारः स्यात् । जैम्_10,1.30 ।
स द्व्यर्थः स्याद् उभयोः श्रुतिभूतत्वाद् विप्रतिपत्तौ तादर्थ्याद् विकारत्वम् उक्तं तस्यार्थवादत्वम् । जैम्_10,1.31 ।
विप्रतिपत्तौ तासाम् आख्याविकारः स्यात् । जैम्_10,1.32 ।
अभ्यासो वा प्रयाजवद् एकदेशो ऽन्यदेवत्यः । जैम्_10,1.33 ।
चरुर् हविर्विकारः स्याद् इज्यासंयोगात् । जैम्_10,1.34 ।
प्रसिद्धग्रहणत्वाच् च । जैम्_10,1.35 ।
ओदनो वान्नसंयोगात् । जैम्_10,1.36 ।
न द्व्यर्थत्वात् । जैम्_10,1.37 ।
कपालविकारो वा विशये ऽर्थोपपत्तिभ्याम् । जैम्_10,1.38 ।
गुणमुख्यविशेषाच् च । जैम्_10,1.39 ।
तच्छ्रुतौ चान्यहविष्ठ्वात् । जैम्_10,1.40 ।
लिङ्गदर्शनाच् च । जैम्_10,1.41 ।
ओदनो वा प्रयुक्तत्वात् । जैम्_10,1.42 ।
अपूर्वव्यपदेशाच् च । जैम्_10,1.43 ।
तथा च लिङ्गदर्शनम् । जैम्_10,1.44 ।
स कपाले प्रकृत्या स्याद् अन्यस्य चाश्रुतित्वात् । जैम्_10,1.45 ।
एकस्मिन् वा विप्रतिषेधात् । जैम्_10,1.46 ।
न वार्थान्तरसंयोगाद् अपूपे पाकसंयुक्तं धारणार्थं चरौ भवति तत्रार्थात् पात्रलाभः स्याद् अनियमो ऽविशेषात् । जैम्_10,1.47 ।
चरौ वा लिङ्गदर्शनात् । जैम्_10,1.48 ।
तस्मिन् पेषणम् अनर्थलोपात् स्यात् । जैम्_10,1.49 ।
अक्रिया वा अपूपहेतुत्वात् । जैम्_10,1.50 ।
पिण्डार्थत्वाच् च संयवनम् । जैम्_10,1.51 ।
संवपनञ् च तादर्थ्यात् । जैम्_10,1.52 ।
सन्तापनम् अधःश्रपणात् । जैम्_10,1.53 ।
उपधानं च तादर्थ्यात् । जैम्_10,1.54 ।
पृथुश्लक्ष्णे वानपूपत्वात् । जैम्_10,1.55 ।
अभ्यूहश् चोपरिपाकार्थत्वात् । जैम्_10,1.56 ।
तथावज्वलनम् । जैम्_10,1.57 ।
व्युद्धृत्यासादनं च प्रकृतावश्रुतित्वात् । जैम्_10,1.58 ।
कृष्णलेष्वर्थलोपाकः स्यात् । जैम्_10,2.1 ।
स्याद् वा प्रत्यक्षशिष्टत्वात् प्रदानवत् । जैम्_10,2.2 ।
उपस्तरणाभिघारणयोर् अमृतार्थत्वाद् अकर्म स्यात् । जैम्_10,2.3 ।
क्रियेत वार्थवादत्वात् तयोः संसर्गहेतुत्वात् । जैम्_10,2.4 ।
अकर्म वा चतुर्भिर् आप्तिवचनात् सह पूर्णं पुनश् चतुरवत्तम् । जैम्_10,2.5 ।
क्रिया वा मुख्यावदानपरिमाणात् सामन्यात् तद्गुणत्वम् । जैम्_10,2.6 ।
तेषां चैकावदानत्वात् । जैम्_10,2.7 ।
आप्तिः संख्या समानत्वात् । जैम्_10,2.8 ।
सतोस् त्व् आप्तिवचनं व्यर्थम् । जैम्_10,2.9 ।
विकल्पस् त्व् एकावदानत्वात् । जैम्_10,2.10 ।
सर्वविकारे त्व् अभ्यसानर्थक्यं हविषो हीतरस्य स्याद् अपि वा स्विष्टकृतः स्याद् इतरस्यान्याय्यत्वात् । जैम्_10,2.11 ।
अकर्म वा संसर्गार्थनिवृत्तत्वात् तस्माद् आप्तिसमर्थत्वं । जैम्_10,2.12 ।
भक्षाणां तु प्रत्यर्थत्वाद् अकर्म स्यात् । जैम्_10,2.13 ।
स्याद् वा निर्धानदर्शनात् । जैम्_10,2.14 ।
वचनं वाज्यभक्षस्य प्रकृतौ स्याद् अभागित्वात् । जैम्_10,2.15 ।
वचनं वा हिरण्यस्य प्रदानवदाज्यस्य गुणभूतत्वात् । जैम्_10,2.16 ।
एकधोपहारे सहत्वं ब्रह्मभक्षाणां प्रकृतौ विहितत्वात् । जैम्_10,2.17 ।
सर्वत्वं च तेषाम् अधिकारात् स्यात् । जैम्_10,2.18 ।
पुरुषापनयो वा तेषाम् अवाच्यत्वात् । जैम्_10,2.19 ।
पुरुषापनयात् स्वकालत्वम् । जैम्_10,2.20 ।
एकार्थत्वाद् अविभागः स्यात् । जैम्_10,2.21 ।
ऋत्विग्दानं धर्ममात्रार्थं स्याद् ददातिसामर्थ्यात् । जैम्_10,2.22 ।
परिक्रयार्थं वा कर्मसंयोगाल् लोकवत् । जैम्_10,2.23 ।
दक्षिणायुक्तवचनाच् च । जैम्_10,2.24 ।
नचान्येनानम्येत परिक्रीयात् कर्मणः परार्थत्वात् । जैम्_10,2.25 ।
परिक्रीतवचनाच् च । जैम्_10,2.26 ।
सनिवन्येव भृति वचनात् । जैम्_10,2.27 ।
नैष्कर्तृकेण संस्तवाच् च । जैम्_10,2.28 ।
शेषभक्षाश् च तद्वत् । जैम्_10,2.29 ।
संस्कारो वा द्रव्यस्य परार्थत्वात् । जैम्_10,2.30 ।
शेषे च समत्वात् । जैम्_10,2.31 ।
स्वामिनि त दर्शनात् तत्सामान्याद् इतरेषान्तथात्वम् । जैम्_10,2.32 ।
तथा चान्यार्थदर्शनम् । जैम्_10,2.33 ।
वरणमृत्विजामानमनार्थत्वात् सत्रे न स्यात् स्वकर्मत्वात् । जैम्_10,2.34 ।
परिक्रयश् च तादर्थ्यात् । जैम्_10,2.35 ।
प्रतिषेधश् च कर्मवत् । जैम्_10,2.36 ।
स्याद् वा प्रासर्पिकस्य धर्ममात्रत्वात् । जैम्_10,2.37 ।
न दक्षिणाशब्दात् तस्मान् नित्यानुवादः स्यात् । जैम्_10,2.38 ।
उदवसानीयः सत्रधर्मा स्यात् तदङ्गत्वात् तत्र दाने धर्ममात्रं स्यात् । जैम्_10,2.39 ।
न त्व् एतत् प्रकृतित्वाद् विभक्तचोदितत्वाच् च । जैम्_10,2.40 ।
तेषां तु वचनाद् द्वियज्ञवत्सहप्रयोगः स्यात् । जैम्_10,2.41 ।
तत्रान्यान् ऋत्विजो वृणीरन् । जैम्_10,2.42 ।
एकैकशस् त्व् अविप्रतिषेधात् प्रकृतेश् चैकसंयोगात् । जैम्_10,2.43 ।
कामेष्टौ च दानशब्दात् । जैम्_10,2.44 ।
वचनं वा सत्रत्वात् । जैम्_10,2.45 ।
द्वेष्ये च चोदनाद् दक्षिणापनयात् । जैम्_10,2.46 ।
अस्थियज्ञो ऽविप्रतिषेधाद् इतरेषां स्याद् विप्रतिषेधाद् अस्थ्नाम् । जैम्_10,2.47 ।
यावादुक्तम् उपयोगः स्यात् । जैम्_10,2.48 ।
यदि तु वचनात् तेषां जपसंस्कारम् अर्थलुप्तं सेष्टि तदर्थत्वात् । जैम्_10,2.49 ।
क्रत्वर्थं तु क्रियेत गुणभूतत्वात् । जैम्_10,2.49* ।
काम्यानि तु न विद्यन्ते कामा ज्ञानाद् यथेतरस्यानुच्यमानानि । जैम्_10,2.50 ।
ईहार्थाश् चाभावात् सूक्तवाकवत् । जैम्_10,2.51 ।
स्युर् वार्थवादत्वात् । जैम्_10,2.52 ।
नेच्छाभिधानात् तदभावाद् इतरस्मिन् । जैम्_10,2.53 ।
स्युर् वा होतृकामाः । जैम्_10,2.54 ।
न तदाषीष्ट्वात् । जैम्_10,2.55 ।
सर्वस्वारस्य दिष्टगतौ समापनं न विद्यते कर्मणो जीवसंयोगात् । जैम्_10,2.56 ।
स्याद् वोभयोः प्रत्क्षशिष्टत्वात् । जैम्_10,2.57 ।
गते करमास्थियज्ञवत् । जैम्_10,2.58 ।
जीवत्य् अवचनम् आयुर् आशिषस् तदर्थत्वात् । जैम्_10,2.59 ।
वचनं वा भागित्वात् प्राग्यथोक्तात् । जैम्_10,2.60 ।
क्रिया स्याद् धर्ममात्राणाम् । जैम्_10,2.61 ।
गुणलोपे च मुख्यस्य । जैम्_10,2.62 ।
मुष्टिलोपात् तु संख्यालोपस् तद्गुणत्वात् स्यात् । जैम्_10,2.63 ।
न निर्वापशेषत्वात् । जैम्_10,2.64 ।
संख्या तु चोदनां प्रति सामान्यात् तद्विकारः संयोगाच् च परं मुष्ठेः । जैम्_10,2.65 ।
न चोदनाभिसम्बन्धात् प्रक्रतौ संस्कारयोगात् । जैम्_10,2.66 ।
औत्पत्तिके तु द्रव्यतो विकारः स्याद् अकार्यात्वात् । जैम्_10,2.67 ।
नैमित्तिके तु कार्यत्वात् प्रकृतेः स्यात् तदापत्तेः । जैम्_10,2.68 ।
विप्रतिषेधे तद्वचनात् प्राकृतगुणलोपः स्यात् तेन च कर्मसंयोगात् । जैम्_10,2.69 ।
परेषां प्रतिषेधः स्यात् । जैम्_10,2.70 ।
प्रतिषेधाच् च । जैम्_10,2.71 ।
अर्थाभावे संस्कारत्वं स्यात् । जैम्_10,2.72 ।
अर्थेन च विपर्यासे तादर्यात्तत्त्वमेव स्यात् । जैम्_10,2.73 ।
विकृतौ शब्दवत्त्वात् प्रधानस्य गुणानाम् अधिकोत्पत्तिः सन्निधानात् । जैम्_10,3.1 ।
प्रकृतिवत् तस्य चानुपरोधः । जैम्_10,3.2 ।
चोदनाप्रभुत्वाच् च । जैम्_10,3.3 ।
प्रधानं त्व् अङ्गसंयुक्तं तथाभूतम् अपूर्वं स्यात् तस्य विध्युपलक्षणात् सर्वो हि पूर्ववान् विधिर् अविशेषात् प्रवर्तितः । जैम्_10,3.4 ।
न चाङ्गविधिर् अनङ्गे स्यात् । जैम्_10,3.5 ।
कर्मणश् चैकशब्द्यात् सन्निधाने विधेर् आख्यासंयोगो गुणेन तद्विकारः स्याच् छब्दस्य विधिगामित्वाद् गुणस्य चोपदेश्यत्वात् । जैम्_10,3.6 ।
अकार्यत्वाच् च नाम्नः । जैम्_10,3.7 ।
तुल्या च प्रभुता गुणे । जैम्_10,3.8 ।
सर्वम् एवं प्रधानम् इति चेत् । जैम्_10,3.9 ।
तथाभूतेन संयोगाद् यथार्थविधयः स्युः । जैम्_10,3.10 ।
विधित्वं चाविशिष्ठम् एवं प्राकृतानां वैकृतैः कर्मणायोगात् तस्मात् सर्वं प्रधानार्थम् । जैम्_10,3.11 ।
समत्वाच् च तदुत्पत्तेः संस्कारैर् अधिकारः स्यात् । जैम्_10,3.12 ।
हिरण्यगर्भः पूर्वस्य मन्त्रलिङ्गात् । जैम्_10,3.13 ।
प्रकृत्यनुपरोधाच् च । जैम्_10,3.14 ।
उत्तरस्य वा मन्त्रार्थित्वात् । जैम्_10,3.15 ।
विध्यतिदेशात् तच्छ्रुतौ विकारः स्याद् गुणानाम् उपदेश्यत्वात् । जैम्_10,3.16 ।
पूर्वस्मिंश् चामन्त्रत्वदर्शनात् । जैम्_10,3.17 ।
संस्कारे तु क्रियान्तर तस्य विधायकत्वात् । जैम्_10,3.18 ।
प्रकृत्यनुपरोधाच् च । जैम्_10,3.19 ।
विधेस् तु तत्र भावात् सन्देहे यस्य शब्दस् तदर्थः स्यात् । जैम्_10,3.20 ।
संस्कारसामर्थ्याद् गुणसंयोगाच् च । जैम्_10,3.21 ।
विप्रतिषेधात् क्रियाप्रकरणे स्यात् । जैम्_10,3.22 ।
षड्भिर् दीक्षयतीति तासां मन्त्रविकारः श्रुतिसंयोगात् । जैम्_10,3.23 ।
अभ्यासात् तु प्रधानस्य । जैम्_10,3.24 ।
आवृत्त्या मन्त्रकर्म स्यात् । जैम्_10,3.25 ।
अपि वा प्रतिमन्त्रत्वात् प्राकृतानाम् अहानिः स्याद् अन्यायश् च कृते ऽभ्यासः । जैम्_10,3.26 ।
पौर्वापर्यञ्चाभ्यासे नोपपद्यते नैमित्तिकत्वात् । जैम्_10,3.27 ।
तत्प्रथक्त्वं च दर्शयति । जैम्_10,3.28 ।
न चाविशेषाद् व्यपदेशः स्यात् । जैम्_10,3.29 ।
अग्न्याधेयस्य नैमित्तिके गुणविकारे दक्षिणादानम् अधिकं स्याद् वाक्यसंयोगात् । जैम्_10,3.30 ।
शिष्ठत्वाच् चेतरासां यथास्थानम् । जैम्_10,3.31 ।
विकारस् त्व् अप्रकरणे हि काम्यानि । जैम्_10,3.32 ।
शङ्कते च निवृत्तेर् उभयत्वं हि श्रूयते । जैम्_10,3.33 ।
वासो वत्सञ् च सामान्यात् । जैम्_10,3.34 ।
अर्थापत्तेस् तद्धर्माः स्यान् निमित्ताख्याभिसंयोगात् । जैम्_10,3.35 ।
दाने पाको ऽर्थलक्षणः । जैम्_10,3.36 ।
पाकस्थ चान्नकारित्त्वात् । जैम्_10,3.37 ।
तथाभिघारणस्य । जैम्_10,3.38 ।
द्रव्यविधिसन्निधौ सङ्ख्या तेषां गुणत्वात् स्यात् । जैम्_10,3.39 ।
समत्वात् तु गुणानाम् एकस्य श्रुतिसंयोगात् । जैम्_10,3.40 ।
यस्य वा सन्निधाने स्याद् वाक्यतो ह्य् अभिसम्बन्धः । जैम्_10,3.41 ।
असंयुक्तास् तु तुल्यवद् इतराभिर् विधीयन्ते तस्मात् सर्वाधिकारः स्यात् । जैम्_10,3.42 ।
असंयोगाद् विधिश्रुताव् एकजाताधिकारः स्याच् छ्रुत्याकोपात् क्रतोः । जैम्_10,3.43 ।
शब्दार्थश् चापि लोकवत् । जैम्_10,3.44 ।
सापशूनाम् उत्पत्तितो विभागात् । जैम्_10,3.45 ।
अनियमो ऽविशेषात् । जैम्_10,3.46 ।
भागित्वाद् वा गवां स्यात् । जैम्_10,3.47 ।
प्रत्ययात् । जैम्_10,3.48 ।
लिङ्गदर्शनाच् च । जैम्_10,3.49 ।
तत्र दानं विभागेन प्रदानानां पृथक्त्वात् । जैम्_10,3.50 ।
परिक्रयाच् च लोकवत् । जैम्_10,3.51 ।
विभागं चापि दर्शयति । जैम्_10,3.52 ।
समं स्याद् अश्रुतित्वात् । जैम्_10,3.53 ।
अपि वा कर्मवैषम्यात् । जैम्_10,3.54 ।
अतुल्याः स्युः परिक्रये विषमाख्या विधिश्रुतौ परिक्रयान् न कर्मण्य् उपपद्यते दर्शनाद् विशेषस्य तथाभ्युदये । जैम्_10,3.55 ।
तस्य धेनुर् इति गवां प्रकृतौ विभक्तचोदितत्वात् सामान्यात् तद्विकारः स्याद् यथेष्टिर् गुणशब्देन । जैम्_10,3.56 ।
सर्वस्य वा क्रतुसंयोगाद् एकत्वं दक्षिणार्थस्य गुणानां कार्यैकत्वाद् अर्थे विकृतौ श्रुतिभूतं स्यात् तस्मात् समवायाद् धि कर्मभिः । जैम्_10,3.57 ।
चोदनानाम् अनाश्रयाल् लिङ्गेन नियमः स्यात् । जैम्_10,3.58 ।
एका पञ्चेति धेनुवत् । जैम्_10,3.59 ।
त्रिवत्सश् च । जैम्_10,3.60 ।
तथा च लिङ्गदर्शनम् । जैम्_10,3.61 ।
एके तु श्रुतिभूतत्वात् सङ्ख्यया गवां लिङ्गविशेषेण । जैम्_10,3.62 ।
प्राकाशौ तथेति चेत् । जैम्_10,3.63 ।
अपि त्व् अवयवार्थत्वाद् विभक्तप्रकृतित्वाद् गुणेदन्ताविकारः स्यात् । जैम्_10,3.64 ।
धेनुवच् चाश्वदक्षिणा स ब्रह्मण इति पुरुषापनयो यथा हिरण्यस्य । जैम्_10,3.65 ।
एके तु कर्तृसंयोगात् स्रग्वत् तस्य लिङ्गविशेषेण । जैम्_10,3.66 ।
अपि वा तदधिकाराद् धिरण्यवद् विकारः स्यात् । जैम्_10,3.67 ।
तथा च सोमचमसः । जैम्_10,3.68 ।
सर्वविकारो वा क्रत्वर्थे प्रतिषेधात् पशूनां । जैम्_10,3.69 ।
ब्रह्मदाने ऽविशिष्टम् इति चेत् । जैम्_10,3.70 ।
उत्सर्गस्य क्रत्वर्थत्वात् प्रतिषिद्धस्य कर्म स्यान्न् अ च गौणः प्रयोजनम् अर्थः स दक्षिणानां स्यात् । जैम्_10,3.71 ।
यदि तु ब्रह्मणस् तदूनं तद्विकारः स्यात् । जैम्_10,3.72 ।
सर्वं वा पुरुषापनयात् तासां क्रतुप्रधानत्वात् । जैम्_10,3.73 ।
यजुर्युक्ते ऽध्वर्योर् दक्षिणा विकारः स्यात् । जैम्_10,3.74 ।
अपि वा श्रुतिभूतत्वात् सर्वासां तस्य भागो नियम्यते । जैम्_10,3.75 ।
प्रकृतिलिङ्गासंयागात् कर्मसंस्कारं विकृतावधिकं स्यात् । जैम्_10,4.1 ।
चोदनालिङ्गसंयोगे तद्विकारः प्रतीयेत प्रकृतिसन्निधानात् । जैम्_10,4.2 ।
सर्वत्र तु ग्रहाम्नानम् अधिकं स्यात् प्रकृतिवत् । जैम्_10,4.3 ।
अधिकैश् चैकवाक्यत्वात् । जैम्_10,4.4 ।
लिङ्गदर्शनाच् च । जैम्_10,4.5 ।
प्राजापत्येषु चाम्नानात् । जैम्_10,4.6 ।
आमने लिङ्गदर्शनात् । जैम्_10,4.7 ।
उपगेषु शरवत् स्यात् प्रकृतिलिङ्गसयोगात् । जैम्_10,4.8 ।
आनर्थक्यात् त्व् अधिकं स्यात् । जैम्_10,4.9 ।
संस्कारे चान्यसंयोगात् । जैम्_10,4.10 ।
प्रयाजवद् इति चेत् । जैम्_10,4.11 ।
नार्थान्यत्वात् । जैम्_10,4.12 ।
आच्छादने त्व् ऐकार्थ्यात् प्राकृतस्य विकारः स्यात् । जैम्_10,4.13 ।
अधिकं वान्यार्थत्वात् । जैम्_10,4.14 ।
समुच्चयं च दर्शयति । जैम्_10,4.15 ।
सामस्वर्थान्तरश्रुतेर् अविकारः प्रतीयेत । जैम्_10,4.16 ।
अर्थे त्व् अश्रूयमाणे शेषत्वात् प्राकृतस्य विकारः स्यात् । जैम्_10,4.17 ।
सर्वेषाम् अविशेषात् । जैम्_10,4.18 ।
एकस्या वा श्रुतिसामर्थ्यात् प्रकृतेश् चाविकारात् । जैम्_10,4.19 ।
स्तोमविबृद्धौ त्व् अधिकं स्याद् अविबृद्धौ द्रव्यविकारः स्याद् इतरस्याश्रुतित्वाच् च । जैम्_10,4.20 ।
पवमाने स्यातां तस्मिन्न् आवापोद्वापदर्शनात् । जैम्_10,4.21 ।
वचनानि त्व् अपूर्वत्वात् । जैम्_10,4.22 ।
विधिशब्दस्य मन्त्रत्वे भावः स्यात् तेन चोदना । जैम्_10,4.23 ।
शेषाणां वा चोदनैकत्वात् तस्मात् सर्वत्र श्रूयते । जैम्_10,4.24 ।
तथोत्तरस्यां ततौ तत्प्रकृतित्वात् । जैम्_10,4.25 ।
प्राकृतस्य गुणश्रुतौ सगुणेनाभिधानं स्यात् । जैम्_10,4.26 ।
अविकारो वार्थशब्दानपायात् स्याद् द्रव्यवत् । जैम्_10,4.27 ।
तथारम्भासमवायाद् वा चोदितेनाभिधानं स्याद् अर्थस्य श्रुतिसमवायित्वाद् अवचने च गुणशास्त्रम् अनर्थकं स्यात् । जैम्_10,4.28 ।
द्रव्येष्व् आरम्भगामित्वाद् अर्थे विकारः सामर्थ्यात् । जैम्_10,4.29 ।
बुधन्वान् पवमानवद् विशेषनिर्देशात् । जैम्_10,4.30 ।
मन्त्रनिशेषनिर्देशान् न देवताविकारः स्यात् । जैम्_10,4.31 ।
विधिनिगमभेदात् प्रकृतौ तत्प्रकृतित्वाद् विकृताव् अपि भेदः स्यात् । जैम्_10,4.32 ।
यथोक्तं वा विप्रतिपत्तेर् न चोदना । जैम्_10,4.33 ।
स्विष्टकृद्देवतान्यत्वे तच्छब्दत्वान् निवर्तेत । जैम्_10,4.34 ।
संयोगो वार्थापत्तेर् अभिधानस्य कर्मजत्वात् । जैम्_10,4.35 ।
सगुणस्य गुणलोपे निगमेषु यावदुक्तं स्यात् । जैम्_10,4.36 ।
सर्वस्य वैककर्म्यात् । जैम्_10,4.37 ।
स्विष्टकृद् आवापिको ऽनुयाजे स्यात् प्रयोजनवद् अङ्गानाम् अर्थसंयोगात् । जैम्_10,4.38 ।
अन्वाहेति च शस्त्रवत्कर्म स्याच् चोदनान्तरात् । जैम्_10,4.39 ।
संस्कारो वा चोदितस्य शब्दस्य वचनार्थत्वात् । जैम्_10,4.40 ।
स्याद् गुणार्थत्वात् । जैम्_10,4.41 ।
मनोतायां तु वचनाद् अविकारः स्यात् । जैम्_10,4.42 ।
पृष्ठार्थे ऽन्यद् रथन्तरात् तद्योनिपूर्वत्वाद् ऋचां प्रविभक्तत्वात् । जैम्_10,4.43 ।
स्वयोनौ वा सर्वाख्यत्वात् । जैम्_10,4.44 ।
यूपवद् इति चेत् । जैम्_10,4.45 ।
न कर्मसंयोगात् । जैम्_10,4.46 ।
कार्यत्वाद् उत्तरयोर् यथाप्रकृति । जैम्_10,4.47 ।
समानदेवते वा तृचस्याविभागात् । जैम्_10,4.48 ।
ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः कर्मत्वाद् अविकारः स्यात् । जैम्_10,4.49 ।
उभयपानात् पृषदाज्ये दध्नः स्याद् उपलक्षणं निगमेषु पातव्यस्योपलक्षणात् । जैम्_10,4.50 ।
न वा परार्थत्वाद् यज्ञपतिवत् । जैम्_10,4.51 ।
स्याद् वा आवाहनस्य तादर्थ्यात् । जैम्_10,4.52 ।
न वा संस्कारशब्दत्वात् । जैम्_10,4.53 ।
स्याद् वा द्रव्याभिधानात् । जैम्_10,4.54 ।
दध्नस् तु गुणभूतत्वाद् आज्यपानिगमाः स्युर् गुणत्वं श्रुतेर् आज्यप्रधानत्वात् । जैम्_10,4.55 ।
दधि वा स्यात् प्रधानम् आज्ये प्रथमान्त्यसंयोगात् । जैम्_10,4.56 ।
अपि वाज्यप्रधानत्वाद् गुणार्थे व्यपदेशे भक्त्या संस्कारशब्दः स्यात् । जैम्_10,4.57 ।
अपि वाख्याविकारत्वात् तेन स्याद् उपलक्षणम् । जैम्_10,4.58 ।
न वा स्याद् गुणशास्त्रत्वात् । जैम्_10,4.59 ।
आनुपूर्व्यवताम् एकदेशग्रहणेष्व् आगमवद् अन्त्यलोपः स्यात् । जैम्_10,5.1 ।
लिङ्गदर्शनाच् च । जैम्_10,5.2 ।
विकल्पो वा समत्वात् । जैम्_10,5.3 ।
क्रमाद् उपजनो ऽन्तेस्यात् । जैम्_10,5.4 ।
लिङ्गम् अविशिष्टं सङ्ख्याया हि तद्वचनम् । जैम्_10,5.5 ।
आदितो वा प्रवृत्तिः स्याद् आरम्भस्य तदादित्वाद् वचनाद् अन्त्यविधिः स्यात् । जैम्_10,5.6 ।
एकत्रिके तृचादिषु माध्यन्दिनेछन्दसां श्रुतिभूतत्वात् । जैम्_10,5.7 ।
आदितो वा तन्न्यायत्वाद् इतरस्यानुमानिकत्वात् । जैम्_10,5.8 ।
यथानिवेशञ् च प्रकृतिवत् सङ्ख्यामात्रविकारत्वात् । जैम्_10,5.9 ।
त्रिकस् तृचे धुर्ये स्यात् । जैम्_10,5.10 ।
एकस्यां वा स्तोमस्यावृत्तिधर्मत्वात् । जैम्_10,5.11 ।
चोदनासु त्व् अपूर्वत्वाल् लिङ्गेन धर्मनियमः स्यात् । जैम्_10,5.12 ।
प्राप्तिस् तु रात्रिशब्दसम्बन्धात् । जैम्_10,5.13 ।
अपूर्वासु तु सङ्ख्यासु विकल्पः स्यात् सर्वासाम् अर्थवत्त्वात् । जैम्_10,5.14 ।
स्तोमविवृद्धौ प्राकृतानाम् अभ्यासेन सङ्ख्यापूरणम् अविकारात् सङ्ख्यायां गुणशब्दत्वाद् अन्यस्य चाश्रुतित्वात् । जैम्_10,5.15 ।
आगमेन वाभ्यासस्याश्रुतित्वात् । जैम्_10,5.16 ।
सङ्ख्यायाश् च पृथक्त्वनिवेशात् । जैम्_10,5.17 ।
पराक्शब्दत्वात् । जैम्_10,5.18 ।
उक्ताविकाराच् च । जैम्_10,5.19 ।
अश्रुतित्वान् नेति चेत् । जैम्_10,5.20 ।
स्याद् अर्थचोदितानां परिमाणशास्त्रम् । जैम्_10,5.21 ।
आवापवचनं चाभ्यासे नोपपद्यते । जैम्_10,5.22 ।
साम्नां चोत्पत्तिसामर्थ्यात् । जैम्_10,5.23 ।
धूर्येष्व् अपीति चेत् । जैम्_10,5.24 ।
नावृत्तिधर्मत्वात् । जैम्_10,5.25 ।
वहिष्पवमाने न ऋगागमः सामैकत्वात् । जैम्_10,5.26 ।
अभ्यासेन तु संख्यापूरणं सामिधेनीष्व् अभ्यासप्रकृतित्वात् । जैम्_10,5.27 ।
अविशेषान् नेति चेत् । जैम्_10,5.28 ।
स्यात् तद्धर्मत्वात् प्रकृतिवद् अभ्यस्येतासङ्ख्यापूरणात् । जैम्_10,5.29 ।
यावद् उक्तं वा कृतपरिमाणत्वात् । जैम्_10,5.30 ।
अधिकानाञ् च दर्शनात् । जैम्_10,5.31 ।
कर्मस्व् अपीति चेत् । जैम्_10,5.32 ।
न चोदितत्वात् । जैम्_10,5.33 ।
षोडशिनो वैकृतत्वं तत्र कृत्स्नविधानात् । जैम्_10,5.34 ।
प्रकृतौ चाभावदर्शनात् । जैम्_10,5.35 ।
अयज्ञवचनाच् च । जैम्_10,5.36 ।
प्रकृतौ वा शिष्टत्वात् । जैम्_10,5.37 ।
प्रकृतिदर्शनाच् च । जैम्_10,5.38 ।
आम्नातं परिसङ्ख्यार्थम् । जैम्_10,5.39 ।
उक्तम् अभावदर्शनम् । जैम्_10,5.40 ।
गुणाद् अयज्ञत्वम् । जैम्_10,5.41 ।
तस्याग्रयणाद् ग्रहणम् । जैम्_10,5.42 ।
उक्थ्याच् च वचनात् । जैम्_10,5.43 ।
तृतीयसवने वचनात् स्यात् । जैम्_10,5.44 ।
अनभ्यासे पराक्शब्दस्य तादर्थ्यात् । जैम्_10,5.45 ।
उक्थ्यविच्छेदवचनत्वाच् च । जैम्_10,5.46 ।
आग्रयणाद् वा पराक्शब्दस्य देशवाचित्वात् पुनराधेयवत् । जैम्_10,5.47 ।
विच्छेदः स्तोमसामान्यात् । जैम्_10,5.48 ।
उक्थ्याग्निष्टोमसंयोगाद् अस्तुतशस्त्रः स्यात् सति हि संस्थान्यत्वम् । जैम्_10,5.49 ।
संस्तुतशस्त्रो वा तदङ्गत्वात् । जैम्_10,5.50 ।
लिङ्गदर्शनाच् च । जैम्_10,5.51 ।
वचनात् संस्थान्यत्वम् । जैम्_10,5.52 ।
अभावाद् अतिरात्रेषु गृह्यते । जैम्_10,5.53 ।
अन्वयो वानारभ्य विधानात् । जैम्_10,5.54 ।
चतुर्थेचतुर्थे ऽहन्य् अहीनस्य गृह्यत इत्य् अभ्यासेन प्रतीयेत भोजनवत् । जैम्_10,5.55 ।
अपि वा सङ्ख्यावत्त्वान् नानाहीनेषु गृह्यते पक्षवद् एकस्मिन् संख्यार्थभावात् । जैम्_10,5.56 ।
भोजने तत्सङ्ख्यं स्यात् । जैम्_10,5.57 ।
जगत्साम्नि सामाभावाद् ऋक्तः सामतदाख्यं स्यात् । जैम्_10,5.58 ।
उभयसाम्नि नैमित्तिकं विकल्पेन समत्वात् स्यात् । जैम्_10,5.59 ।
मुख्येन वा नियम्येत । जैम्_10,5.60 ।
निमित्तविघाताद् वा क्रतुयुक्तस्य कर्म स्यात् । जैम्_10,5.61 ।
ऐन्द्रवायवस्याग्रवचनाद् आदितः प्रतिकर्षः स्यात् । जैम्_10,5.62 ।
अपि वा धर्माविशेषात् तद्धर्माणां स्वस्थाने प्रकरणाद् अग्रत्वम् उच्यते । जैम्_10,5.63 ।
धारासंयोगाच् च । जैम्_10,5.64 ।
कामसंयोगे तु वचनाद् आदितः प्रतिकर्षः स्यात् । जैम्_10,5.65 ।
तद्देशानां वाग्रसंयोगात् तद्युक्तं कामशास्त्रं स्यान् नित्यसंयोगात् । जैम्_10,5.66 ।
परेषु चाग्रशब्दः पूर्ववत् स्यात् तदादिषु । जैम्_10,5.67 ।
प्रतिकर्षो वा नित्यार्थेनाग्रस्य तदसंयोगात् । जैम्_10,5.68 ।
प्रतिकर्षञ् च दर्शयति । जैम्_10,5.69 ।
पुरस्ताद् ऐन्द्रवायवस्याग्रस्य कृतदेशत्वात् । जैम्_10,5.70 ।
तुल्यधर्मत्वाच् च । जैम्_10,5.71 ।
तथा च लिङ्गदर्शनम् । जैम्_10,5.72 ।
सादनं चापि शेषत्वात् । जैम्_10,5.73 ।
लिङ्गदर्शनाच् च । जैम्_10,5.74 ।
प्रदानं चापि सादनवत् । जैम्_10,5.75 ।
न वा प्रधानत्वाच् छेषत्वात् सादनं तथा । जैम्_10,5.76 ।
त्र्यनीकायां न्यायोक्तेष्व् आम्नानं गुणार्थं स्यात् । जैम्_10,5.77 ।
अपि वाहर्गणेष्व् अग्निवत् समानविधानं स्यात् । जैम्_10,5.78 ।
द्वादशाहस्य व्यूढसमूढत्वं पृष्ठवत् समानविधानं स्यात् । जैम्_10,5.79 ।
व्यूढो वा लिङ्गदर्शनात् समूढविकारः स्यात् । जैम्_10,5.80 ।
कामसंयोगात् । जैम्_10,5.81 ।
तस्योभयथा प्रवृत्तिर् ऐककर्म्यात् । जैम्_10,5.82 ।
एकादशिनीवत् त्र्यनीका परिवृत्तिः स्यात् । जैम्_10,5.83 ।
स्वस्थानविवृद्धिर् वाह्नाम् अप्रत्यक्षसङ्ख्यत्वात् । जैम्_10,5.84 ।
पृष्ठ्यावृत्तौ चाग्रयणस्य दर्शनात् त्रयस्त्रिंशे परिवृत्तौ पुनरैन्द्रवायवः स्यात् । जैम्_10,5.85 ।
वचनात् परिवृत्तिर् ऐकादशिनेषु । जैम्_10,5.86 ।
लिङ्गदर्शनाच् च । जैम्_10,5.87 ।
छन्दोव्यतिक्रमाद् व्यूढे भक्षपवमानपरिधिकपालस्यम न्त्राणां यथोत्पत्तिवचनम् ऊहवत् स्यात् । जैम्_10,5.88 ।
एकर्च स्थानि यज्ञे स्युः स्वाध्यायवत् । जैम्_10,6.1 ।
तृचे वा लिङ्गदर्शनात् । जैम्_10,6.2 ।
स्वर्दृशं प्रतिवीक्षणं कालमात्रं परार्थत्वात् । जैम्_10,6.3 ।
पृष्ठ्यस्य युगपद्विधेर् एकाहवद् द्विसामत्वम् । जैम्_10,6.4 ।
विभक्ते वा समस्तविधानात् तद्विभागे विप्रतिषिद्धम् । जैम्_10,6.5 ।
समासस् त्व् एकादशिनेषु तत्प्रकृतित्वात् । जैम्_10,6.6 ।
विहारप्रतिषेधाच् च । जैम्_10,6.7 ।
श्रुतितो वा लोकवद् विभागः स्यात् । जैम्_10,6.8 ।
विहारप्रकृतित्वाच् च । जैम्_10,6.9 ।
विशये च तदासत्तेः । जैम्_10,6.10 ।
त्रयस् तथेति चेत् । जैम्_10,6.11 ।
न समत्वात् प्रयाजवत् । जैम्_10,6.12 ।
सर्वपृष्ठे पृष्ठशब्दात् तेषां स्याद् एकदेशत्वं पृष्ठस्य कृतदेशत्वात् । जैम्_10,6.13 ।
विधेस् तु विप्रकर्षः स्यात् । जैम्_10,6.14 ।
वैरूपसामा क्रतुसंयोगात् त्रिवृद्वद् एकसामा स्यात् । जैम्_10,6.15 ।
पृष्ठार्थे वा प्रकृतिलिङ्गसंयोगात् । जैम्_10,6.16 ।
त्रिवृद्वद् इति चेत् । जैम्_10,6.17 ।
न प्रकृताव् अकृत्स्नसंयोगात् । जैम्_10,6.18 ।
विधित्वान् नेति चेत् । जैम्_10,6.19 ।
स्याद् विशये तन्न्यायत्वात् कर्माविभागात् । जैम्_10,6.20 ।
प्रकृतेश् चाविकारात् । जैम्_10,6.21 ।
त्रिवृति सङ्ख्यात्वेन सर्वसंख्याविकारः स्यात् । जैम्_10,6.22 ।
स्तोमस्य वा तल्लिङ्गत्वात् । जैम्_10,6.23 ।
उभयसाम्नि विश्वजिद्वद्विभागः स्यात् । जैम्_10,6.24 ।
पृष्टार्थे वातदर्थत्वात् । जैम्_10,6.25 ।
लिङ्गदर्शनाच् च । जैम्_10,6.26 ।
पृष्ठे रसभोजनम् आवृत्ते संस्थिते त्रयस्त्रिंशे ऽहनि स्यात् तदानन्तर्यात् प्रकृतिवत् । जैम्_10,6.27 ।
अन्ते वा कृतकालत्वात् । जैम्_10,6.28 ।
अभ्यासे च तदभ्यासः कर्मणः पुनः प्रयोगात् । जैम्_10,6.29 ।
अन्ते वा कृतकालत्वात् । जैम्_10,6.30 ।
आवृत्तिस् तु व्यवाये कालभेदात् स्यात् । जैम्_10,6.31 ।
मधु न दीक्षिता ब्रह्मचारित्वात् । जैम्_10,6.32 ।
प्राश्येत यज्ञार्थत्वात् । जैम्_10,6.33 ।
मानसम् अहर् अन्तरं स्याद् भेदव्यपदेशात् । जैम्_10,6.34 ।
तेन च संस्तवात् । जैम्_10,6.35 ।
अहर् अन्ताच् च परेण चोदना । जैम्_10,6.36 ।
पक्षे सङ्ख्या सहस्रवत् । जैम्_10,6.37 ।
अहरङ्गं वांशुवच् चोदनाभावात् । जैम्_10,6.38 ।
दशमविसर्गवचनाच् च । जैम्_10,6.39 ।
दशमे ऽहनीति च तद्गुणशास्त्रात् । जैम्_10,6.40 ।
सङ्ख्यासामञ्जस्यात् । जैम्_10,6.41 ।
पश्वतिरेके चैकस्य भावात् । जैम्_10,6.42 ।
स्तुतिव्यपदेशम् अङ्गेन विप्रतिषिद्धं व्रतवत् । जैम्_10,6.43 ।
वचनाद् अतदन्तत्वम् । जैम्_10,6.44 ।
सत्रम् एकः प्रकृतिवत् । जैम्_10,6.45 ।
वचनात् तु बहूनां स्यात् । जैम्_10,6.46 ।
अपदेशः स्याद् इति चेत् । जैम्_10,6.47 ।
नैकव्यपदेशात् । जैम्_10,6.48 ।
सन्निवापञ् च दर्शयति । जैम्_10,6.49 ।
बहूनाम् इति चैकस्मिन् विशेषवचनं व्यर्थम् । जैम्_10,6.50 ।
अन्ये स्युर् ऋत्विजः प्रकृतिवत् । जैम्_10,6.51 ।
अपि वा यजमानाः स्युर् ऋत्विजाम् अभिधानसंयोगात् तेषां स्याद् यजमानत्वम् । जैम्_10,6.52 ।
कर्तृसंस्कारो वचनाद् आधातृवद् इति चेत् । जैम्_10,6.53 ।
स्याद् विशये तन्न्यायत्वात् प्रकृतिवत् । जैम्_10,6.54 ।
स्वाम्याख्याः स्युर् गृहपतिवद् इति चेत् । जैम्_10,6.55 ।
न प्रसिद्धग्रहणत्वाद् असंयुक्तस्य तद्धर्मेण । जैम्_10,6.56 ।
दीक्षितादीक्षितव्यपदेशश् च नोपपद्यते ऽर्थयोर् नित्यभावित्वात् । जैम्_10,6.57 ।
अदक्षिणत्वाच् च । जैम्_10,6.58 ।
द्वादशाहस्य सत्रत्वम् आसनोपायिचोदनेन यजमानबहुत्वेन च सत्रशब्दाभिसंयोगात् । जैम्_10,6.59 ।
यजतिचोदनाद् अहीनत्वं स्वामिनां चास्थितपरिमाणत्वात् । जैम्_10,6.60 ।
अहीने दक्षिणाशास्त्रं गुणत्वात् प्रत्यह कर्मभेदः स्यात् । जैम्_10,6.61 ।
सर्वस्य वैककर्म्यात् । जैम्_10,6.62 ।
पृषदाज्यवद् वाह्नां गुणशास्त्रं स्यात् । जैम्_10,6.63 ।
ज्यौतिष्टोम्यस् तु दक्षिणाः सर्वासाम् एककर्मत्वात् प्रकृतिवत् तस्मान् नासां विकारः स्यात् । जैम्_10,6.64 ।
द्वादशाहे तु वचनात् प्रत्यहं दक्षिणाभेदस् तत्प्रकृतित्वात् परेषु तासां संख्याविकारः स्यात् । जैम्_10,6.65 ।
परिक्रयाविभागाद् वा समस्तस्य विकारः स्यात् । जैम्_10,6.66 ।
भेदस् तु गुणसंयोगात् । जैम्_10,6.67 ।
प्रत्यहं सर्वसंस्कारः प्रकृतिवत् सर्वासां सर्वशेषत्वात् । जैम्_10,6.68 ।
एकार्थत्वान् नेति चेत् । जैम्_10,6.69 ।
स्याद् उत्पत्तौ कालभेदात् । जैम्_10,6.70 ।
विभज्य तु संस्कारवचनाद् द्वादशाहवत् । जैम्_10,6.71 ।
लिङ्गेन द्रव्यनिर्देशे सर्वत्र प्रत्ययः स्याल् लिङ्गस्य सर्वगामित्वाद् आग्नेयवत् । जैम्_10,6.72 ।
यावद् अर्थं वार्थशेषत्वाद् अल्पेन परिमाणं स्यात् तस्मिंश् च लिङ्गसामर्थ्यम् । जैम्_10,6.73 ।
आग्नेये कृत्स्नविधिः । जैम्_10,6.74 ।
ऋजीषस्य प्रधानत्वाद् अहर्गणे सर्वस्य प्रतिपत्तिः स्यात् । जैम्_10,6.75 ।
वाससि मानोपावहरणे प्रकृतौ सोमस्य वचनात् । जैम्_10,6.76 ।
तत्राहर्गणे ऽर्थाद् वासः प्रकृतिः स्यात् । जैम्_10,6.77 ।
मानं प्रत्युत्पादयेत् प्रकृतौ तेन दर्शनाद् उपावहरणस्य । जैम्_10,6.78 ।
हरणे वा श्रुत्यसंयोगाद् अर्थाद् विकृतौ तेन । जैम्_10,6.79 ।
पशोर् एकहविष्ट्वं समस्तचोदितत्वात् । जैम्_10,7.1 ।
प्रत्यङ्गं वा ग्रहवद् अङ्गानां पृथक्कल्पनत्वात् । जैम्_10,7.2 ।
हविर् भेदात् कर्मणे ऽभ्यासस् तस्मात् तेभ्यो ऽवदानं स्यात् । जैम्_10,7.3 ।
आज्यभागवद् वा निर्देशात् परिसंख्या स्यात् । जैम्_10,7.4 ।
तेषां वा द्व्यवदानत्वं विवक्षन्न् अभिनिर्दिशेत् पशोः पञ्चावदानत्वात् । जैम्_10,7.5 ।
अंसशिरोऽनूकसक्थिप्रतिषेधश् च तदन्यपरिसङ्ख्याने ऽनर्थकः स्यात् प्रदानत्वात् तेषां निरवदानप्रतिषेधः स्यात् । जैम्_10,7.6 ।
अपि वा परिसङ्ख्या स्याद् अनवदानीयशब्दत्वात् । जैम्_10,7.7 ।
अब्राह्मणे च दर्शनात् । जैम्_10,7.8 ।
शृताशृतोपदेशाच् च तेषाम् उत्सर्गवद् अयज्ञशेषत्वं । जैम्_10,7.9 ।
इज्याशेषात् स्विष्टकृद् इज्येत प्रकृतिवत् । जैम्_10,7.10 ।
त्र्यङ्गैर् वा शरवद् विकारः स्यात् । जैम्_10,7.11 ।
अध्यूध्नी होतुस् त्र्यङ्गवद् इडाभक्षविकारः स्यात् । जैम्_10,7.12 ।
शेषे वा समवैति तस्माद् रथवन् नियमः स्यात् । जैम्_10,7.13 ।
अशास्त्रत्वात् तु नैवं स्यात् । जैम्_10,7.14 ।
अपि वा दानमात्रं स्याद् भक्षशब्दानभिसम्बन्धात् । जैम्_10,7.15 ।
दातुस् त्व् अविद्यमानत्वाद् इडाभक्षविकारः स्याच् छेषं प्रत्यविशिष्टत्वात् । जैम्_10,7.16 ।
अग्नीधश् च वनिष्ठुर् अध्यूध्नीवत् । जैम्_10,7.17 ।
अप्राकृतत्वान् मैत्रावरुणस्याभक्षत्वम् । जैम्_10,7.18 ।
स्याद् वा होत्रध्वर्युविकारत्वात् तयो कर्माभिसम्बन्धात् । जैम्_10,7.19 ।
द्विभागः स्याद् द्विकर्मत्वात् । जैम्_10,7.20 ।
एकत्वाद् वैकभागः स्याद् भागस्याश्रुतिभूतत्वात् । जैम्_10,7.21 ।
प्रतिप्रस्थातुश् च वपाश्रपणात् । जैम्_10,7.22 ।
अभक्षो वा कर्मभेदात् तस्याः सर्वप्रदानत्वात् । जैम्_10,7.23 ।
विकृतौ प्राकृतस्य विधेर् ग्रहणात् पुनः श्रुतिर् अनर्थिका स्यात् । जैम्_10,7.24 ।
अपि वाग्नेयवद् द्विशब्दत्वं स्यात् । जैम्_10,7.25 ।
न वा शब्दपृथक्त्वात् । जैम्_10,7.26 ।
अधिकं वार्थवत्त्वात् स्याद् अर्थवादगुणाभावे वचनाद् अविकारे तेषु हि तादर्थ्यं स्याद् अपूर्वत्वात् । जैम्_10,7.27 ।
प्रतिषेधः स्याद् इति चेत् । जैम्_10,7.28 ।
नाश्रुतत्वात् । जैम्_10,7.29 ।
अग्रहणाद् इति चेत् । जैम्_10,7.30 ।
न तुल्यत्वात् । जैम्_10,7.31 ।
तथा तद्ग्रहणे स्यात् । जैम्_10,7.32 ।
अपूर्वतां तु दर्शयेद् ग्रहणस्यार्थवत्त्वात् । जैम्_10,7.33 ।
ततो ऽपि यावदुक्तं स्यात् । जैम्_10,7.34 ।
स्विष्टकृद्भक्षप्रतिषेधः स्यात् तुल्यकारणत्वात् । जैम्_10,7.35 ।
अतिषेधो वा दर्शनाद् इडायां स्यात् । जैम्_10,7.36 ।
प्रतिषेधो वा विधिपूर्वस्य दर्शनात् । जैम्_10,7.37 ।
शंय्विडान्तत्वे विकल्पः स्यात् परेषु पत्न्यनुयाजप्रतिषेधो ऽनर्थकः स्यात् । जैम्_10,7.38 ।
नित्यानुवादो वा कर्मणः स्याद् अशब्दत्वात् । जैम्_10,7.39 ।
प्रतिषेधार्थवत्त्वाच् चोत्तरस्य परस्तात् प्रतिषेधः स्यात् । जैम्_10,7.40 ।
प्राप्तेर् वा पूर्वस्य वचनाद् अतिक्रमः स्यात् । जैम्_10,7.41 ।
प्रतिषेधस्य त्वरायुक्तत्वात् तस्य च नान्यदेशत्वम् । जैम्_10,7.42 ।
उपसत्सु यावदुक्तम् अकर्म स्यात् । जैम्_10,7.43 ।
स्त्रोवेण वागुणत्वाच् छेषप्रतिषेधः स्यात् । जैम्_10,7.44 ।
अप्रतिषेधं वा प्रतिषिध्यप्रतिप्रसवात् । जैम्_10,7.45 ।
अनिज्या वा शेषस्य मुख्यदेवतान् अभीज्यत्वात् । जैम्_10,7.46 ।
अवभृथे बर्हिषः प्रतिषेधाच् छेषकर्म स्यात् । जैम्_10,7.47 ।
आज्यभागयोर् वा गुणत्वाच् छेषप्रतिषेधः स्यात् । जैम्_10,7.48 ।
प्रयाजानां त्व् एकदेशप्रतिषेधाद् वाक्यशेषत्वं तस्मान् नित्यानुवादः स्यात् । जैम्_10,7.49 ।
आज्यभागयोर् ग्रहणं वित्यानुवादो वा गृहमेधीयवत् स्यात् । जैम्_10,7.50 ।
विरोधिनाम् एकश्रुतौ नियमः स्याद् ग्रहणस्यार्थवत्त्वाच् छरवच् च श्रुतितो विशिष्टत्वात् । जैम्_10,7.51 ।
उभयप्रदेशान् नेति चेत् । जैम्_10,7.52 ।
शरेष्व् अपीति चेत् । जैम्_10,7.53 ।
विरोध्यग्रहणात् तथा शरेष्व् इति चेत् । जैम्_10,7.54 ।
तथेतरास्मिन् । जैम्_10,7.55 ।
श्रुत्यानर्थक्यम् इति चेत् । जैम्_10,7.56 ।
ग्रहणस्यार्थवत्त्वाद् ग्रहणम् अप्रवृत्ते स्यात् । जैम्_10,7.57 ।
सर्वासां च गुणानाम् अर्थवत्त्वाद् ग्रहणम् अप्रवृत्ते स्यात् । जैम्_10,7.58 ।
अधिकं स्याद् इति चेत् । जैम्_10,7.59 ।
नार्थाभावात् । जैम्_10,7.60 ।
तथैकार्थविकारे प्राकृतस्याप्रवृत्तिः प्रवृत्तौ हि विकल्पः स्यात् । जैम्_10,7.61 ।
यावच्छ्रुतीति चेत् । जैम्_10,7.62 ।
न प्रकृताव् अशब्दत्वात् । जैम्_10,7.63 ।
विकृतौ त्व् अनियमः स्यात् प्रषदाज्यवद् ग्रहणस्य गुणार्थत्वाद् उभयोश् च प्रदिष्टत्वाद् गुणशास्त्रं यदेति स्यात् । जैम्_10,7.64 ।
ऐकार्थ्याद् वा नियम्येत श्रुतितो विशिष्टत्वात् । जैम्_10,7.65 ।
विरोधित्वाच् च लोकवत् । जैम्_10,7.66 ।
क्रतोश् च तद्गुणत्वात् । जैम्_10,7.67 ।
विरोधिनाञ् च तच्छ्रुताव् अशब्दत्वाद् विकल्पः स्यात् । जैम्_10,7.68 ।
पृषदाज्ये समुच्चयाद् ग्रहणस्य गुणार्थत्वम् । जैम्_10,7.69 ।
यद्य् अपि चतुरवत्तीति तु नियमे नोपपद्यते । जैम्_10,7.70 ।
क्रत्वन्तरे वा तन्न्यायत्वात् कर्मभेदात् । जैम्_10,7.71 ।
यथाश्रुतीति चेत् । जैम्_10,7.72 ।
न चोदनैकत्वात् । जैम्_10,7.73 ।
प्रतिषेधः प्रदेशे ऽनारभ्यविधाने च प्राप्तप्रतिषिद्धत्वाद् विकल्पः स्यात् । जैम्_10,8.1 ।
अर्थप्राप्तवद् इति चेत् । जैम्_10,8.2 ।
न तुल्यहेतुत्वाद् उभयं शब्दलक्षणम् । जैम्_10,8.3 ।
अपि तु वाक्यशेषः स्याद् अन्याय्यत्वाद् विकल्पस्य विधीनाम् एकदेशः स्यात् । जैम्_10,8.4 ।
अपूर्वे चार्थवादः स्यात् । जैम्_10,8.5 ।
शिष्ट्वा तु प्रतिषेधः स्यात् । जैम्_10,8.6 ।
न चेद् अन्यं प्रकल्पयेत् प्रकॢप्ताव् अर्थवादः स्याद् आनर्थक्यात् परसामर्थ्याच् च । जैम्_10,8.7 ।
पूर्वैश् च तुल्यकालत्वात् । जैम्_10,8.8 ।
उपवादश् च तद्वत् । जैम्_10,8.9 ।
प्रतिषेधाद् अकर्मेति चेत् । जैम्_10,8.10 ।
न शब्दपूर्वत्वात् । जैम्_10,8.11 ।
दीक्षितस्य दानहोमपाकप्रतिषेधो ऽविशेषात् सर्वदानहोमपाकप्रतिषेधः स्यात् । जैम्_10,8.12 ।
अक्रतुयुक्तानां वा धर्मः स्यात् क्रतोः प्रत्यक्षशिष्टत्वात् । जैम्_10,8.13 ।
तस्य वाप्य् आनुमानिकम् अविशेषात् । जैम्_10,8.14 ।
अपि तु वाक्यशेषत्वाद् इतरपर्युदासः स्यात् प्रतिषेधे विकल्पः स्यात् । जैम्_10,8.15 ।
अविशेषेण यच् छास्त्रम् अन्याय्यत्वाद् विकल्पस्य तत् सन्दिग्धम् आराद् विशेषशिष्टं स्यात् । जैम्_10,8.16 ।
अप्रकरणे तु यच् छास्त्रं विशेषे श्रुयमाणम् अविकृतम् आज्यभागवत् प्राकृतप्रतिषेधार्थम् । जैम्_10,8.17 ।
विकारे तु तदर्थं स्यात् । जैम्_10,8.18 ।
वाक्यशेषो वा क्रतुना ग्रहणात् स्याद् अनारभ्यविधानस्य । जैम्_10,8.19 ।
मन्त्रेष्व् अवाक्यशेषत्वं गुणोपदेशात् स्यात् । जैम्_10,8.20 ।
अनाम्नाते च दर्शनात् । जैम्_10,8.21 ।
प्रतिषेधाच् च । जैम्_10,8.22 ।
अग्न्यतिग्राह्यस्य विकृताव् उपदेशाद् अप्रवृत्तिः स्यात् । जैम्_10,8.23 ।
मासि ग्रहणञ् च तद्वात् । जैम्_10,8.24 ।
ग्रहणं वा तुल्यत्वात् । जैम्_10,8.25 ।
लिङ्गदर्शनाच् च । जैम्_10,8.26 ।
ग्रहणं समानविधानं स्यात् । जैम्_10,8.27 ।
मासिग्रहणम् अभ्यासप्रतिषेधार्थम् । जैम्_10,8.28 ।
उत्पत्तितादर्थ्याच् चतुरवत्तम प्रधानस्य होमसंयोगाद् अधिकम् आज्यम् अतुल्यत्वाल् लोकवद् उत्पत्तेर् गुणभूतत्वात् । जैम्_10,8.29 ।
तत्संस्कारश्रुतेश् च । जैम्_10,8.30 ।
ताभ्यां वा सह स्विष्टकृतः सकृत्त्वे द्विपभिघारणेन तदाप्तिवचनात् । जैम्_10,8.31 ।
तुल्यवच् चाभिधाय सर्वेषु भक्त्यनुक्रमणात् । जैम्_10,8.32 ।
साप्तदश्यवन् नियम्येत । जैम्_10,8.33 ।
हविषो वा गुणभूतत्वात् तथाभूतविवक्षा स्यात् । जैम्_10,8.34 ।
पुरोडाशाभ्याम् इत्य धिकृतानां पुरोडाशयोर् उपदेशस् तच्छ्रुतित्वाद् वैश्यस्तोमवत् । जैम्_10,8.35 ।
न त्व् अनित्याधिकारो ऽस्ति विधौ नित्येन सम्बन्धस् तस्माद् अवाक्यशेषत्वम् । जैम्_10,8.36 ।
सति च नैकदेशेन कर्तुः प्रधानभूतत्वात् । जैम्_10,8.37 ।
कृत्स्नत्वात् तु तथा स्तोमे । जैम्_10,8.38 ।
कर्तुः स्याद् इति चेत् । जैम्_10,8.39 ।
न गुणार्थत्वात् प्राप्ते न चोपदेशार्थः । जैम्_10,8.40 ।
कर्मणोस् तु प्रकरणे तन्न्यायत्वाद् गुणानां लिङ्गेन कालशास्त्रं स्यात् । जैम्_10,8.41 ।
यदि तु सान्नाय्यं सोमयाजिनो न ताभ्यां समवायो ऽस्ति विभक्तकालत्वात् । जैम्_10,8.42 ।
अपि वा विहितत्वाद् गुणार्थायां पुनः श्रुतौ सन्देहे श्रुतिर् द्विदेवतार्था स्याद् यथानभिप्रेतस् तथाग्नेयो दर्शनाद् एकदेवते । जैम्_10,8.43 ।
विधिं तु बादरायणः । जैम्_10,8.44 ।
प्रतिषिद्धविज्ञानाद् वा । जैम्_10,8.45 ।
तथा चान्यार्थदर्शनम् । जैम्_10,8.46 ।
उपांशुयाजम् अन्तरा यजतीति हविर्लिङ्गाश्रुतित्वाद् यथाकामी प्रतीयेत । जैम्_10,8.47 ।
ध्रौवाद् वा सर्वसंयोगात् । जैम्_10,8.48 ।
तद्वच् च देवतायां स्यात् । जैम्_10,8.49 ।
तान्द्रीणां प्रकरणात् । जैम्_10,8.50 ।
धर्माद् वा स्यात् प्रजापतिः । जैम्_10,8.51 ।
देवतायास् त्व् अनिर्वचनं तत्र शब्दस्येह मृदुत्वं तस्माद् इहाधिकारेण । जैम्_10,8.52 ।
विष्णुर् वा स्याद् धौत्राम्नानाद् अमावास्याहविश् च स्याद् धौत्रस्य तत्र दर्शनात् । जैम्_10,8.53 ।
अपि वा पौर्णमास्यां स्यात् प्रधानशब्दसंयोगाद् गुणत्वान् मन्त्रो यथा प्रधानं स्यात् । जैम्_10,8.54 ।
आनन्तर्यञ् च सान्नाय्यस्य पुरोडाशेन दर्शयत्य् अमावास्याविकारे । जैम्_10,8.55 ।
अग्नीषोमविधानात् तु पौर्णमास्याम् उभयत्र विधीयते । जैम्_10,8.56 ।
प्रतिषिद्ध्यविधानाद् वा विष्णुः समानदेशः स्यात् । जैम्_10,8.57 ।
तथा चान्यार्थदर्शनम् । जैम्_10,8.58 ।
न चानङ्ग सकृच् छ्रुताव् उभयत्र विधीयोतासम्बन्धात् । जैम्_10,8.59 ।
गुणानां च परार्थत्वात् प्रवृत्तौ विधिलिङ्गानि दर्शयति । जैम्_10,8.60 ।
विकारे चाश्रुतित्वात् । जैम्_10,8.61 ।
द्विपुरोडाशायां स्याद् अन्तरार्थत्वात् । जैम्_10,8.62 ।
अजामिकरणार्थत्वाच् च । जैम्_10,8.63 ।
तदर्थम् इति चेन् न तत्प्रधानत्वात् । जैम्_10,8.64 ।
अशिष्ठेन च सम्बन्धात् । जैम्_10,8.65 ।
उत्पत्तेस् तु निवेशः स्याद् गुणस्यानुपरोधेनार्थस्य विद्यमानत्वाद् विधानाद् अन्तरार्थस्य नैमित्तिकत्वात् तदभावे ऽश्रुतौ स्यात् । जैम्_10,8.66 ।
उभयोस् तु विधानात् । जैम्_10,8.67 ।
गुणानाञ् च परार्थत्वाद् उपवेषवद् यदेति स्यात् । जैम्_10,8.68 ।
अनपायश् च कालस्य लक्षणं हि पुरोडाशौ । जैम्_10,8.69 ।
प्रशंसार्थम् अजामित्वम् । जैम्_10,8.70 ।
प्रयोजनाभिसम्बन्धात् पृथक् सतां ततः स्याद् ऐककर्म्यम् एकशब्दाभिसंयोगात् । जैम्_11,1.1 ।
शेषवद् वा प्रयोजनं प्रतिजनं प्रतिकर्म विभज्येत । जैम्_11,1.2 ।
अविधानात् तु नैवं स्यात् । जैम्_11,1.3 ।
शेषस्य हि परार्थत्वाद् विधानात् प्रतिप्रधानभावः स्यात् । जैम्_11,1.4 ।
अङ्गानां तु शब्दभेदात् क्रतुवत् स्यात् फलानयत्वम् । जैम्_11,1.5 ।
अर्थभेदस् तु तत्राथेहैकार्थ्याद् ऐककर्म्यम् । जैम्_11,1.6 ।
शब्दभेदान् नेति चेत् । जैम्_11,1.7 ।
कर्मार्थत्वात् प्रयोगे ताच्छब्द्यं स्यात् तदर्थत्वात् । जैम्_11,1.8 ।
कर्तृविधेर् नानार्थत्वाद् गुणप्रधानेषु । जैम्_11,1.9 ।
आरम्भस्य शब्दपूर्वत्वात् । जैम्_11,1.10 ।
एकेनापि समाप्येत कृतार्थत्वाद् यथा क्रत्वन्तरेषु प्राप्तेषु चोत्तरावत् स्यात् । जैम्_11,1.11 ।
फलाभावान् नेति चेत् । जैम्_11,1.12 ।
न कर्मसंयोगात् प्रयोजनबशब्ददोषं स्यात् । जैम्_11,1.13 ।
एकशब्द्याद् इति चेत् । जैम्_11,1.14 ।
नार्थपृथक्त्वात् समत्वाद् अगुणत्वम् । जैम्_11,1.15 ।
विधेस् त्व् एकश्रुतित्वाद् अपर्यायविधानान् नित्यवच् छ्रुतभूताभिसंयोगाद् अर्थेन युगपत्प्राप्तेर् यथाप्राप्तं स्वशब्दो निवीतवत् सर्वप्रयोगे प्रवृत्तिः स्यात् । जैम्_11,1.16 ।
तथा कर्मोपदेशत्वात् । जैम्_11,1.17 ।
क्रत्वन्तरेषु पुनर्वचनम् । जैम्_11,1.18 ।
उत्तरास्वश्रुतित्वाद् विशेषाणां कृतार्थत्वात् संदोहे यथाकामी प्रतीयेत । जैम्_11,1.19 ।
कर्मण्य् आरम्भभाव्यत्वात् कृषिवत् प्रत्यारम्भं फलानि स्युः । जैम्_11,1.20 ।
अधिकारश् च सर्वेषां कार्यत्वाद् उपपद्यते विशेषः । जैम्_11,1.21 ।
सकृत् तु स्यात् कृतार्थत्वाद् अङ्गवत् । जैम्_11,1.22 ।
शब्दार्थश् च तथा लोके । जैम्_11,1.23 ।
अपि वा संप्रयोगे यथाकामी प्रतीयेताश्रुतित्वाद् विधिषु वचनानि स्युः । जैम्_11,1.24 ।
एकशब्द्यात् तथाङ्गेषु । जैम्_11,1.25 ।
लोके कर्मार्थलक्षणम् । जैम्_11,1.26 ।
क्रियाणाम् अर्थशेषत्वात् प्रत्यक्षतस् तन्निर्वृत्त्यापवर्गः स्यात् । जैम्_11,1.27 ।
धर्ममात्रे त्व् अदर्शनाच् छब्दार्थेनापवर्गः स्यात् । जैम्_11,1.28 ।
क्रतुवच् चानुमानेनाभ्यासे फलभूमा स्यात् । जैम्_11,1.29 ।
सकृद् वा कारणैकत्वात् । जैम्_11,1.30 ।
परिमाणं चानियमेन स्यात् । जैम्_11,1.31 ।
फलस्यारम्भनिर्वृत्तेः क्रतुषु स्यात् फलान्यत्वम् । जैम्_11,1.32 ।
अर्थवांस् तु नैकत्वाद् अभ्यासः स्याद् अनर्थको यथा भोजनम् एकस्मिन्न् अर्थस्यापरिमाणत्वात् प्रधाने च क्रियार्थत्वाद् अनियमः स्यात् । जैम्_11,1.33 ।
पृथक्त्वाद् विधितः परिमाणं स्यात् । जैम्_11,1.34 ।
अनभ्यासो वा प्रयोगवचनैकत्वात् सर्वस्य युगपच्छास्त्राद् अफलत्वाच् च कर्मणः स्यात् क्रियार्थत्वात् । जैम्_11,1.35 ।
अभ्यासो वा छेदनसंमार्गावदानेषु वचनात् सकृत्त्वस्य । जैम्_11,1.36 ।
अनभ्यासस् तु वाच्यत्वात् । जैम्_11,1.37 ।
बहुवचनेन सर्वप्राप्तेर् विकल्पः स्यात् । जैम्_11,1.38 ।
दृष्टः प्रयोग इति चेत् । जैम्_11,1.39 ।
भक्त्येति चेत् । जैम्_11,1.40 ।
तथेतरस्मिन् । जैम्_11,1.41 ।
प्रथमं वा नियम्येत कारणाद् अतिक्रमः स्यात् । जैम्_11,1.42 ।
श्रुत्यर्थाविशेषात् । जैम्_11,1.43 ।
तथा चान्यार्थदर्शनम् । जैम्_11,1.44 ।
प्रकृत्या च पूर्ववत् तदासत्तेः । जैम्_11,1.45 ।
उत्तरासु यावत्स्वम् अपूर्वत्वात् । जैम्_11,1.46 ।
यावत्स्वं वान्यविधानेनानुवादः स्यात् । जैम्_11,1.47 ।
साकल्यविधानात् । जैम्_11,1.48 ।
बह्वर्थत्वाच् च । जैम्_11,1.49 ।
अग्निहोत्रे चाशेषवद्यवागूनियमः प्रतिषेधः कुमाराणाम् । जैम्_11,1.50 ।
सर्वप्रायिणापि लिङ्गेन संयुज्यते देवताभिसंयोगात् । जैम्_11,1.51 ।
प्रधानकर्मार्थत्वाद् अङ्गानां तद्भेदात् कर्मभेदः प्रयोगे स्यात् । जैम्_11,1.52 ।
क्रमकोपश् च यौगपद्यात् स्यात् । जैम्_11,1.53 ।
तुल्यानां तु यौगपद्यम् एकशब्दोपदेशात् स्याद् विशेषाग्रहणात् । जैम्_11,1.54 ।
एकार्थ्याद् अव्यवायः स्यात् । जैम्_11,1.55 ।
तथा चान्यार्थदर्शनं कामुकायनः । जैम्_11,1.56 ।
तन्न्यायत्वाद् अशक्तेर् आनुपूर्व्यं स्यात् संस्कारस्य तदर्थत्वात् । जैम्_11,1.57 ।
असंसृष्टो ऽपि तादर्थ्यात् । जैम्_11,1.58 ।
विभवाद् वा प्रदीपवत् । जैम्_11,1.59 ।
अर्थात् तु लोके विधितः प्रतिप्रधानं स्यात् । जैम्_11,1.60 ।
सकृद् इज्यां कामुकायनः परिमाणविरोधात् । जैम्_11,1.61 ।
विधेस् त्व् इतरार्थत्वात् सकृद् इज्याश्रुतिव्यतिक्रमः स्यात् । जैम्_11,1.62 ।
विधिवत् प्रकरणाविभागे प्रयोगं बादरायणः । जैम्_11,1.63 ।
अपि चैकेन सन्निधानम् अविशेषको हेतुः । जैम्_11,1.64 ।
क्वचिद् विधानान् नेति चेत् । जैम्_11,1.65 ।
न विधेश् चोदितत्वात् । जैम्_11,1.66 ।
व्याख्यातं तुल्यानां यौगपद्यम् अगृह्यमाणविशेषाणाम् । जैम्_11,1.67 ।
भेदस् तु कालभेदाच् चोदनाव्यवायात् स्याद् विशिष्टानां विधिः प्रधानकालत्वात् । जैम्_11,1.68 ।
तथा चान्यार्थदर्शनम् । जैम्_11,1.69 ।
विधिर् इति चेन् न वर्तमानापदेशात् । जैम्_11,1.70 ।
एकदेशकालकर्तृत्व मुख्यानाम् एकशब्दोपदेशात् । जैम्_11,2.1 ।
अविधिश् चेत् कर्मणाम् अभिसम्बन्धः प्रतीयेत तल्लक्षणार्थाभिसंयोगाद् विधित्वाच् चेतरेषां प्रतिप्रधानभावः स्यात् । जैम्_11,2.2 ।
अङ्गेषु च तदभावः प्रधानं प्रतिनिर्देशात् । जैम्_11,2.3 ।
यदि तु कर्मणो विधिसम्बन्धः स्याद् ऐकशब्द्यात् प्रधानार्थाभिधासंयोगात् । जैम्_11,2.4 ।
तथा तान्यार्थदर्शनम् । जैम्_11,2.5 ।
श्रुतिश् चैषां प्रधानवत् कर्मश्रुतेः परार्थत्वात् । जैम्_11,2.6 ।
मूल पाठ: Mīmāṃsāsūtra · Edition: B.D. Basu, Allahabad 1923-1925 (Sacred Books of the Hindus, 27) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0