मीमांसासूत्र · भाग 6169
कर्मणो ऽश्रुतित्वाच् च । जैम्_11,2.7 ।
अङ्गानि तु विधानत्वात् प्रधानेनोपदिश्येरंस् तस्मात् स्याद् एकदेशत्वम् । जैम्_11,2.8 ।
द्रव्यदेवतं तथेति चेत् । जैम्_11,2.9 ।
न चोदनाविधिशेषत्वान् नियमार्थो विशेषः । जैम्_11,2.10 ।
तेषु समवेतानां समवायात् तन्त्रम् अङ्गानि भेदस् तु तद्भेदात् कर्मभेदः प्रयोगे स्यात् तेषां प्रधानशब्दत्वात् तथा चान्यार्थदर्शनम् । जैम्_11,2.11 ।
इष्टिराजसूयचातुर्मास्येष्व् ऐककर्म्याद् अङ्गानां तन्त्रभावः स्यात् । जैम्_11,2.12 ।
कालभेदान् नेति चेत् । जैम्_11,2.13 ।
नैकदेशत्वात् पशुवत् । जैम्_11,2.14 ।
अपि वा कर्मपृथक्त्वात् तेषां तन्त्रविधानात् साङ्गानाम् उपदेशः स्यात् । जैम्_11,2.15 ।
तथा चान्यार्थदर्शनम् । जैम्_11,2.16 ।
तथा तदवयवेषु स्यात् । जैम्_11,2.17 ।
पशौ तु चोदनैकत्वात् तन्त्रस्य विप्रकर्षः स्यात् । जैम्_11,2.18 ।
तथा स्याद् अध्वरकल्पेष्टौ विशेषस्यैककालत्वात् । जैम्_11,2.19 ।
इष्टिर् इति चैकवच्छ्रुतिः । जैम्_11,2.20 ।
अपि वा कर्मपृथकत्वात् तेषां च तन्त्रविधानात् साङ्गानाम् उपदेशः स्यात् । जैम्_11,2.21 ।
प्रथमस्य वा कालवचनम् । जैम्_11,2.22 ।
फलैकत्वाद् इष्टिशब्दो यथान्यत्र । जैम्_11,2.23 ।
वसाहोमस् तन्त्रम् एकदेवतेषु स्यात् प्रदानस्यैककालत्वात् । जैम्_11,2.24 ।
कालभेदात् त्व् आवृत्तिर् देवताभेदे । जैम्_11,2.25 ।
अन्ते यूपाहुतिस् तद्वत् । जैम्_11,2.26 ।
इतरप्रतिषेधो वा । जैम्_11,2.27 ।
अशास्त्रत्वाच् च देशानाम् । जैम्_11,2.28 ।
अवभृथे प्रधाने ऽग्निविकारः स्यान् न हि तद्धेतुर् अग्निसंयोगः । जैम्_11,2.29 ।
साङ्गो वा प्रयोदवचनैकत्वात् । जैम्_11,2.30 ।
लिङ्गदर्शनाच् च । जैम्_11,2.31 ।
शब्दविभागाच् च देवतानपनयः । जैम्_11,2.32 ।
दक्षिणे ऽग्नौ वरुणप्रधासेषु देशभेदात् सर्वं क्रियते । जैम्_11,2.33 ।
अचोदनेति चेत् । जैम्_11,2.34 ।
स्यात् पौर्णमासीवत् । जैम्_11,2.35 ।
प्रयोगचेदनेति चेत् । जैम्_11,2.36 ।
इहापि मारुत्याः प्रयोगश् चोद्यते । जैम्_11,2.37 ।
आसादानम् इति चेत् । जैम्_11,2.38 ।
नोत्तरेणैकवाक्यत्वात् । जैम्_11,2.39 ।
अवाच्यत्वात् । जैम्_11,2.40 ।
आम्नायवचनं तद्वत् । जैम्_11,2.41 ।
कर्तृभेदस् तथेति चेत् । जैम्_11,2.42 ।
न समवायात् । जैम्_11,2.43 ।
लिङ्गदर्शनाच् च । जैम्_11,2.44 ।
वेदिसंयोगाद् इति चेत् । जैम्_11,2.45 ।
न देशमात्रत्वात् । जैम्_11,2.46 ।
एकवाक्यत्वात् । जैम्_11,2.47 ।
एकाग्नित्वाद् अपरेषु तन्त्रं स्यात् । जैम्_11,2.48 ।
नाना वा कर्तृभेदात् । जैम्_11,2.49 ।
पर्यग्निकृतानाम् उत्सर्गे प्राजापत्यानां कर्मोत्सर्गः श्रुतिसामानयाद् आरण्यवत् तस्माद् ब्रह्मसाम्नि चोदनापृथक्तवं स्यात् । जैम्_11,2.50 ।
संस्कारप्रतिषेधो वा वाक्यैकत्वो क्रतुसामान्यात् । जैम्_11,2.51 ।
वाक्यैकत्वे क्रतुसामान्यात् । जैम्_11,2.52 ।
वपानां चानभिघारणस्य दर्शनात् । जैम्_11,2.53 ।
पञ्चशारदीयास् तथेति चेत् । जैम्_11,2.54 ।
न चोदनैकवाक्यत्वात् । जैम्_11,2.55 ।
यातयामत्वाच् च । जैम्_11,2.56 ।
संस्कारणां च तद्दर्शनात् । जैम्_11,2.57 ।
दशपेये क्रयप्रतिकर्षात् प्रतिकर्षस् ततः प्राचां तत्समानं तन्त्रं स्यात् । जैम्_11,2.58 ।
समानवचनं तद्वत् । जैम्_11,2.59 ।
अतिकर्षो वार्थहेतुत्वात् । जैम्_11,2.60 ।
पूर्वस्मिंश् चावभृथस्य दर्शनात् । जैम्_11,2.61 ।
समानः कालसामान्यात् । जैम्_11,2.62 ।
निष्कासस्यावभृथे तदेकदेशत्वात् पशुवत् प्रदानविप्रकर्षः स्यात् । जैम्_11,2.63 ।
अपनयो वा प्रसिद्धेनाभिसंयोगात् । जैम्_11,2.64 ।
प्रतिपत्तिर् इति चेन्न कर्मसंयोगात् । जैम्_11,2.65 ।
उदयनीये च तद्वत् । जैम्_11,2.66 ।
प्रतिपत्तिर् वाकर्मसंयोगात् । जैम्_11,2.67 ।
अर्थकर्म वा शेषत्वाच् छ्रयणवत् तदर्थेन विधानात् । जैम्_11,2.68 ।
अङ्गानां मुख्यकालत्वाद् वचनाद् अन्यकालत्वम् । जैम्_11,3.1 ।
द्रव्यस्य कर्मकालनिष्पत्तेः प्रयोगः सर्वार्थः स्यात् स्वकालत्वात् । जैम्_11,3.2 ।
यूपश् चाकर्मकालत्वात् । जैम्_11,3.3 ।
एकयूपं च दर्षयति । जैम्_11,3.4 ।
संस्कारास् त्व् आवर्तेरन्न् अर्थकालत्वात् । जैम्_11,3.5 ।
तत्कालस् तु यूपकर्मत्वात् तस्य धर्मविधानात् सर्वार्थानां च वचनाद् अन्यकालत्वम् । जैम्_11,3.6 ।
सकृन्मानं च दर्शयति । जैम्_11,3.7 ।
स्वरुस् तन्त्रापवर्गः स्याद् अस्वकालत्वात् । जैम्_11,3.8 ।
साधारणे वानुनिष्पत्तिस् तस्य साधारणत्वात् । जैम्_11,3.9 ।
सोमान्ते च प्रतिपत्तिदर्शनात् । जैम्_11,3.10 ।
न चोत्पत्तिवाक्यत्वात् प्रदेशात् प्रस्तरे तथा । जैम्_11,3.11 ।
अहर्गणे विषाणाप्रासनं धर्मविप्रतिषेधाद् अन्ते प्रथमे वाहनि विकल्पः स्यात् । जैम्_11,3.12 ।
पाणेस् त्व् अश्रुतिभूतत्वाद् विषाणानियमः स्यात् प्रातः सवनमध्यत्वाच् छिष्टे चाभिप्रवृत्तत्वात् । जैम्_11,3.13 ।
शिष्ठे चाभिप्रवृत्तत्वात् । जैम्_11,3.14 ।
वाग्विसर्गो हविष्कृता वीजभेदे तथा स्यात् । जैम्_11,3.15 ।
यथाह्वानम् अपीति चेत् । जैम्_11,3.16 ।
पशौ च पुरोडाशे समानतन्त्रं भवेत् । जैम्_11,3.17 ।
अङ्गप्रधानार्थो योगः सर्वापवर्गे विमोकः स्यात् । जैम्_11,3.18 ।
प्रधानापवर्गे वा तदर्थत्वात् । जैम्_11,3.19 ।
अवभृथे च तद्वत् प्रधानार्थस्य प्रतिषेधो ऽपवृक्तार्थत्वात् । जैम्_11,3.20 ।
अहर्गणे च प्रत्यहं स्यात् तदर्थत्वात् । जैम्_11,3.21 ।
सुब्रह्मण्या तु तन्त्रं दीक्षावदन्यकालत्वात् । जैम्_11,3.22 ।
तत्कालात् त्व् आदावर्तेत प्रयागतो विशेषसम्बन्धात् । जैम्_11,3.23 ।
अप्रयोगाङ्गम् इति चेत् । जैम्_11,3.24 ।
प्रयोगनिर्देशात् कर्सृभेदवत् । जैम्_11,3.25 ।
तद्भूतस्थानाद् अग्निवद् इति चेत् तदपवर्गस् तदर्थत्वात् । जैम्_11,3.26 ।
अग्निवद् इति चेत् । जैम्_11,3.27 ।
न प्रयोगसाधारण्यात् । जैम्_11,3.28 ।
लिङ्गदर्शनाच् च । जैम्_11,3.29 ।
तद् धि तथेति चेत् । जैम्_11,3.30 ।
नाशिष्टत्वाद् इतरन्यायत्वाच् च । जैम्_11,3.31 ।
विध्येकत्वाद् इति चेत् । जैम्_11,3.32 ।
न कृत्स्नस्य पुनः प्रयोगात् प्रधानवत् । जैम्_11,3.33 ।
लौकिकेतु यथाकामी संस्कारानर्थलोपात् । जैम्_11,3.34 ।
यज्ञायुधानि धार्येरन् प्रतिपत्तिविधानाद् ऋजीषवत् । जैम्_11,3.35 ।
यजमानसंस्कारो वा तदर्थः श्रूयते तत्र यथाकामी तदर्थत्वात् । जैम्_11,3.36 ।
मुख्यधारणं वा मरणस्यानियतत्वात् । जैम्_11,3.37 ।
यो वा यजनीये ऽहनि म्रियेत सो ऽधिकृतः स्याद् उपवेषवत् । जैम्_11,3.38 ।
न शास्त्रलक्षणत्वात् । जैम्_11,3.39 ।
उत्पत्तिर् वा प्रयोजकत्वाद् आशिरवत् । जैम्_11,3.40 ।
शब्दासामज्जस्यम् इति चेत् । जैम्_11,3.41 ।
तथाशिरे ऽपि । जैम्_11,3.42 ।
शास्त्रात् तु विप्रयोगस् तत्रैकद्रव्यचिकीर्षा प्रकृताव् अथेहापूर्वार्थवद् भूतोपदेशः । जैम्_11,3.43 ।
प्रकृत्यर्थत्वात् पौर्णमास्याः क्रियेरन् । जैम्_11,3.44 ।
अग्न्याधेये वाविप्रतिषेधात् तानि धारयेन् मरणस्यानिमित्तवात् । जैम्_11,3.45 ।
प्रतिपत्तिर् वा यथान्येषाम् । जैम्_11,3.46 ।
उपरिष्टात् सोमानां प्राजापत्यैश् चरन्तीति । जैम्_11,3.47 ।
अङ्गविपर्यासो विनावचनाद् इति चेत् । जैम्_11,3.48 ।
उत्कर्षः संयोगात् कालमात्रम् इतरत्र । जैम्_11,3.49 ।
प्रकृतिकालासत्तेः शस्त्रवताम् इति चेत् । जैम्_11,3.50 ।
न श्रुतिप्रतिषेधात् । जैम्_11,3.51 ।
विकारस्थाने इति चेत् । जैम्_11,3.52 ।
न चोदनापृथक्त्वात् । जैम्_11,3.53 ।
उत्कर्षे सूक्तवाकस्य न सोमदेवतानाम् उत्कर्षः पश्वनङ्गत्वाद् यथा निष्कर्षेनान्वयः । जैम्_11,3.54 ।
वाक्यसंयोगाद् वोत्कर्षः समानतन्त्रत्वाद् अर्थलोपाद् अनन्वयः । जैम्_11,3.55 ।
चोदनैकत्वाद् राजसूये ऽनुक्तदेशकालानां समवायात् तन्त्रम् अङ्गानि । जैम्_11,4.1 ।
प्रतिदक्षिणं वा कर्तृसम्बन्धाद् इष्टिवद् अङ्गभूतत्वात् समुदायो हि तन्निर्वृत्त्यातदेकत्वाद् एकत्वाद् एकशब्दोपदेशः स्यात् । जैम्_11,4.2 ।
तथा चान्यार्थदर्शनम् । जैम्_11,4.3 ।
अनियमः स्याद् इति चेत् । जैम्_11,4.4 ।
नोपदिष्टत्वात् । जैम्_11,4.5 ।
प्रयोजनैकत्वात् । जैम्_11,4.6 ।
अविशेषार्था पुनः श्रुतिः । जैम्_11,4.7 ।
अवेष्टौ चैकतन्त्र्यं स्याल् लिङ्गदर्शनाद् वचनात् कामसंयोगेन । जैम्_11,4.8 ।
क्रत्वर्थायाम् इति चेन् न वर्णसंयोगात् । जैम्_11,4.9 ।
पवमानहविःष्वैकतन्त्र्य प्रयोगवचनैकत्वात् । जैम्_11,4.10 ।
लिङ्गदर्शनाच् च । जैम्_11,4.11 ।
वर्तमानापदेशाद् वचनात् तु तन्त्रभेदः स्यात् । जैम्_11,4.12 ।
सहत्वे नित्यानुवादः स्यात् । जैम्_11,4.13 ।
द्वादशाहे तु प्रकृतित्वाद् एकैकम् अहर् अपवृज्येत कर्मपृथक्त्वात् । जैम्_11,4.14 ।
अह्रां वा श्रुतिभूतत्वात् तत्र साङ्गं क्रियेत यथा माध्यन्दिने । जैम्_11,4.15 ।
अपि वा फलकर्तृसम्बन्धात् सह प्रयोगः स्याद् आग्नेयाग्नीषोमीयवत् । जैम्_11,4.16 ।
साङ्गकालश्रुतित्वाद् वा स्वस्थानानां विकारः स्यात् । जैम्_11,4.17 ।
दीक्षोपसदां च संख्या पृथक्पृथक् प्रत्यक्षसंयोगात् । जैम्_11,4.18 ।
वसतीवरीपर्यन्तानि पूर्वाणि तन्त्रम् अन्यकालत्वाद् अवभृथादीन्य् उत्तराणि दीक्षाविसर्गार्थत्वात् । जैम्_11,4.19 ।
तथा चान्यार्थदर्शनम् । जैम्_11,4.20 ।
चोदनापृथक्त्वे त्व् ऐकतन्त्र्यं समवेतानां कालसंयोगात् । जैम्_11,4.21 ।
भेदस् तु तद्भेदात् करमभेदः प्रयोगे स्यात् तेषां प्रधानशब्दत्वात् । जैम्_11,4.22 ।
तथा चान्यार्थदर्शनम् । जैम्_11,4.23 ।
श्वासुत्यावचनं तद्वत् । जैम्_11,4.24 ।
पश्वतिरेकश् च । जैम्_11,4.25 ।
सुत्याविवृद्धौ सुब्रह्मण्यायां सर्वेषाम् उपलक्षणं प्रकृत्यन्वयाद् आवाहनवत् । जैम्_11,4.26 ।
अपि वेन्द्राभिधानत्वात् सकृत् स्याद् उपलक्षणं कालस्य लक्षणार्थत्वात् । जैम्_11,4.27 ।
अविभागाच् च । जैम्_11,4.28 ।
पशुगणे कुम्भीशूलवपाश्रपणीनां प्रभुत्वात् तन्त्रभावः स्यात् । जैम्_11,4.29 ।
भेदस् तु सन्देहाद् देवतान्तरे स्यात् । जैम्_11,4.30 ।
अर्थाद् वा लिङ्गकर्म स्यात् । जैम्_11,4.31 ।
प्रतिपाद्यत्वाद् वसानां भेदः स्यात् स्वयाज्याप्रदानत्वात् । जैम्_11,4.32 ।
अपि वा प्रतिपत्तित्वात् तन्त्रं स्यात् स्वत्वस्याश्रुतिभूतत्वात् । जैम्_11,4.33 ।
सकृद् इति चेत् । जैम्_11,4.34 ।
न कालभेदात् । जैम्_11,4.35 ।
पक्तिभेदात् कुम्भीशूलवपाश्ररणीनां भेदः स्यात् । जैम्_11,4.36 ।
जात्यन्तरेषु भेदः पक्तिवैषम्यात् । जैम्_11,4.37 ।
वृद्धिदर्शनाच् च । जैम्_11,4.38 ।
कपालानि च कुम्भीवत् तुल्यसंख्यानाम् । जैम्_11,4.39 ।
प्रतिप्रधानं वा प्रकृतिवत् । जैम्_11,4.40 ।
सर्वेषां वाभिप्रथमं स्यात् । जैम्_11,4.41 ।
एकद्रव्ये संस्काराणां व्याख्यातम् एककर्मत्वात् । जैम्_11,4.42 ।
द्रव्यान्तरे कृतार्थत्वात् तस्य पुनः प्रयोगान् मन्त्रस्य च तद्गुणत्वात् पुनः प्रयोगः स्यात् तदर्थेन विधानात् । जैम्_11,4.43 ।
निर्वपणलवनस्तरणाज्यग्रहणेषु चैकद्रव्यवत् प्रयोजनैकत्वात् । जैम्_11,4.44 ।
द्रव्यान्तरवद् वा स्यात् तत्संस्कारात् । जैम्_11,4.45 ।
वेदिप्रोक्षणे मन्त्राभ्यासः कर्मणः पुनः प्रयोगात् । जैम्_11,4.46 ।
एकस्य वा गुणविधिर् द्रव्यैकत्वात् तस्मात् सकृत् प्रयोगः स्यात् । जैम्_11,4.47 ।
कण्डूयने प्रत्यङ्गं कर्मभेदात् स्यात् । जैम्_11,4.48 ।
अपि वा चोदनैककालम् ऐककर्म्यं स्यात् । जैम्_11,4.49 ।
स्वप्ननदीतरणाभिवर्षणामेध्यप्रतिमन्त्रणेषु चैवम् । जैम्_11,4.50 ।
प्रयाणे त्व् आर्थनिर्वृत्तेः । जैम्_11,4.51 ।
उपरवमन्त्रस् तन्त्रं स्याल् लोकवद् बहुवचनात् । जैम्_11,4.52 ।
न सन्निपातित्वाद् असन्निपातिकर्मणां विशेषग्रहणे कालैकत्वात् सकृद् वचनम् । जैम्_11,4.53 ।
हविष्कृदध्रिगुपुरो ऽनुवाक्यामनोतस्यावृत्तिः कालभेदात् स्यात् । जैम्_11,4.54 ।
अध्रिगोश् च विपर्यासात् । जैम्_11,4.55 ।
करिष्यद्वचनात् । जैम्_11,4.56 ।
तन्त्रिसमवाये चोदनातः समानानाम् एकतन्त्र्यम् अतुल्येषु तु भेदः स्याद् विधिप्रक्रमताद् अर्थ्यात् श्रुतिकालनिर्देशात् । जैम्_12,1.1 ।
गुणकालविकाराच् च तन्त्रभेदः स्यात् । जैम्_12,1.2 ।
तन्त्रमध्ये विधानाद् वा मुख्यतन्त्रेण सिद्धिः स्यात् तन्त्रार्थस्याविशिष्टत्वात् । जैम्_12,1.3 ।
विकाराच् च न भेदः स्याद् अर्थस्याविकृतत्वात् । जैम्_12,1.4 ।
एकेषां वाशक्यत्वात् । जैम्_12,1.5 ।
आहोपुरीषकं स्यात् । जैम्_12,1.6 ।
एकाग्निवच् च दर्शनम् । जैम्_12,1.7 ।
जैमिनेः परतन्त्रत्वापत्तेः स्वतन्त्रप्रतिषेधः स्यात् । जैम्_12,1.8 ।
नानार्थत्वात् सोमे दर्शपूर्णमासप्रकृतीनां वेदिकर्म स्यात् । जैम्_12,1.9 ।
अकर्म वा कृतदूषा स्यात् । जैम्_12,1.10 ।
पात्रेषु च प्रसङ्गः स्याद् धोमार्थत्वात् । जैम्_12,1.11 ।
न्याय्यानि वा प्रयुक्तत्वाद् अप्रयुक्ते प्रसङ्गः स्यात् । जैम्_12,1.12 ।
शामित्रे च पशुपुरोडाशो न स्याद् इतरस्य प्रयुक्तत्वात् । जैम्_12,1.13 ।
श्रपणं वाग्निहोत्रस्य शालामुखीये न स्यात् प्राजहितस्य विद्यमानत्वात् । जैम्_12,1.14 ।
हविर्धाने निर्वपणार्थं साधयेतां प्रयुक्तत्वात् । जैम्_12,1.15 ।
असिद्धिर् वान्यदेशत्वात् प्रधानवैगुण्याद् अवैगुण्ये प्रसङ्गः स्यात् । जैम्_12,1.16 ।
अनसाञ् च दर्शनात् । जैम्_12,1.17 ।
तद्युक्तत्वं च कालभेदात् । जैम्_12,1.18 ।
मन्त्राश् च सन्निपातित्वात् । जैम्_12,1.19 ।
धारणार्थत्वात् सोमे ऽग्न्यन्वाधानं न विद्यते । जैम्_12,1.20 ।
तथा व्रतम् अपेतत्वात् । जैम्_12,1.21 ।
विप्रतिषेधाच् च । जैम्_12,1.22 ।
सत्यवद् इति चेत् । जैम्_12,1.23 ।
न संयोगपृथक्त्वात् । जैम्_12,1.24 ।
ग्रहार्थं च पूर्वम् इष्टेस् तदर्थत्वात् । जैम्_12,1.25 ।
शेषवद् इति चेन् न वैश्वदेवो हि स्याद् व्यपदेशात् । जैम्_12,1.26 ।
न गुणार्थत्वात् । जैम्_12,1.27 ।
सन्नहनञ् च वृत्तत्वात् । जैम्_12,1.28 ।
अन्यविधानाद् आरण्यभोजनं न स्याद् उभयं हि वृत्त्यर्थम् । जैम्_12,1.29 ।
शेषभक्षास् तथेति चेन् नान्यार्थत्वात् । जैम्_12,1.30 ।
भृतत्वाच् च परिक्रयः । जैम्_12,1.31 ।
शेषभक्षास् तथेति चेत् । जैम्_12,1.32 ।
न कर्मसंयोगात् । जैम्_12,1.33 ।
प्रवृत्तवरणात् प्रति तन्त्रवरणात् प्रतितन्त्रवरणं होतुः क्रियेत । जैम्_12,1.34 ।
ब्रह्मापीति चेत् । जैम्_12,1.35 ।
न प्राङ्नियमात् तदर्थं हि । जैम्_12,1.36 ।
निर्दिष्टस्येति चेत् । जैम्_12,1.37 ।
न श्रुतत्वात् । जैम्_12,1.38 ।
होतुस् तथेति चेत् । जैम्_12,1.39 ।
न कर्मसंयोगात् । जैम्_12,1.40 ।
यज्ञोत्पत्त्युपदेशे निष्ठितकर्मप्रयोगभेदात् प्रतितन्त्रं क्रियेत । जैम्_12,1.41 ।
देशपृथक्त्वान् मन्त्रो व्यावर्तते । जैम्_12,1.42 ।
सन्नहनहरणे तथेति चेत् । जैम्_12,1.43 ।
नान्यार्थत्वात् । जैम्_12,1.44 ।
विहारो लौकिकानाम् अर्थं साधयेत् प्रभुत्वात् । जैम्_12,2.1 ।
मांसपाकप्रतिषेधश् च तद्वत् । जैम्_12,2.2 ।
निर्देशाद् वा वैदिकानां स्यात् । जैम्_12,2.3 ।
सति चोपासनस्य दर्शनात् । जैम्_12,2.4 ।
अभावदर्शनाच् च । जैम्_12,2.5 ।
मांसपाको विहितप्रतिषेधः स्याद् आहुतिसंयोगात् । जैम्_12,2.6 ।
वाक्यशेषो वा दक्षिणस्मिन्न् अनारभ्यविधानस्य । जैम्_12,2.7 ।
सवनीये छिद्रापिधानार्थत्वात् पशुपुरोडाशो न स्याद् अन्येषाम् एवम् अर्थत्वात् । जैम्_12,2.8 ।
क्रिया वा देवतार्थत्वात् । जैम्_12,2.9 ।
लिङ्गदर्शनात् । जैम्_12,2.10 ।
हविष्कृत् सवनीयेषु न स्यात् प्रकृतौ यदि सर्वार्था पशुं प्रत्याहूता सा कुर्याद् विद्यमानत्वात् । जैम्_12,2.11 ।
पशौ तु संस्कृते विधानात् । जैम्_12,2.12 ।
योगाद् वा यज्ञाय तद्विमोके विसर्गः स्यात् । जैम्_12,2.13 ।
निशि यज्ञे प्राकृतस्याप्रवृत्तिः स्यात् प्रत्यक्षशिष्टत्वात् । जैम्_12,2.14 ।
कालवाक्यभेदाच् च तन्त्रभेदः स्यात् । जैम्_12,2.15 ।
वेद्युद्धननव्रतं विप्रतिषेधात् तद् एव स्यात् । जैम्_12,2.16 ।
तन्त्रमध्ये विधानाद् वा तत्तन्त्रा सवनीयवत् । जैम्_12,2.17 ।
वैगुण्याद् इध्मबर्हिर् न साधयेद् अग्न्यन्वाधानं च यदि देवतार्थम् । जैम्_12,2.18 ।
अग्न्यन्वाधानं च यदि देवतार्थम् । जैम्_12,2.19 ।
आरम्भणीया विकृतौ न स्यात् प्रकृतिकालमध्यत्वात् कृता पुनस् तदर्थेन । जैम्_12,2.20 ।
सकृद् आरम्भसंयोगात् । जैम्_12,2.21 ।
स्याद् वा कालस्याशेषभूतत्वात् । जैम्_12,2.22 ।
आरंभविभागाच् च । जैम्_12,2.23 ।
विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात् सधर्मकत्वम् । जैम्_12,2.24 ।
मुख्यं वा पूर्वचोदनाल् लोकवत् । जैम्_12,2.25 ।
तथा चान्यार्थदर्शनम् । जैम्_12,2.26 ।
अङ्गगुणविरोधे च तादर्थ्यात् । जैम्_12,2.27 ।
परिधेर् द्व्यर्थत्वाद् उभयधर्मा स्यात् । जैम्_12,2.28 ।
यौप्यस् तु विरोधे स्यान् मुख्यानन्तर्यात् । जैम्_12,2.29 ।
इतरो वा तस्य तत्र विधानाद् उभयोश् चाङ्गसंयोगः । जैम्_12,2.30 ।
पशुसवनीयेषु विकल्पः स्याद् वैकृतश् चेद् उभयोर् अश्रुतिभूतत्वात् । जैम्_12,2.31 ।
पाशुकं वा तस्य वैशेषिकाम्नानात् तदनर्थकं विकल्पे स्यात् । जैम्_12,2.32 ।
पशोश् च विप्रकर्षस् तन्त्रमध्ये विधानात् । जैम्_12,2.33 ।
अपूर्वं च प्रकृतौ समानतन्त्रा चेद् अनित्यत्वाद् अनर्थकं हि स्यात् । जैम्_12,2.34 ।
अधिकश् च गुणः साधारणे ऽविरोधात् कांस्यभोजिवद् अमुख्ये ऽपि । जैम्_12,2.35 ।
तत्प्रवृत्त्या तु तन्त्रस्य नियमः स्याद् यथा पाशुकं सूक्तपाकेन । जैम्_12,2.36 ।
न वाविरोधात् । जैम्_12,2.37 ।
अशास्त्रलक्षणत्वाच् च । जैम्_12,2.38 ।
विश्वजिति वत्सत्वङ्नामधेयाद् इतरथा तन्त्रभूयस्त्वाद् अहतं स्यात् । जैम्_12,3.1 ।
अविरोधी वा उपरिवासो हि वत्सत्वक् । जैम्_12,3.2 ।
अनुनिर्वाप्येषु भूयस्त्वेन तन्त्रनियमः स्याच् छ्विष्ठकृद्दर्शनाच् च । जैम्_12,3.3 ।
आगन्तुकत्वाद् वा स्वधर्मा स्याच् छ्रुतिविशेषाद् इतरस्य च मुख्यत्वात् । जैम्_12,3.4 ।
स्वस्थानत्वाच् च । जैम्_12,3.5 ।
स्विष्टकृच्छ्रपणान् नेति चेद् विकारः पवमानवत् । जैम्_12,3.6 ।
अविकारो वा प्रकृतिवच् चोदनां प्रति भावाच् च । जैम्_12,3.7 ।
एक कर्मणि शिष्टत्वाद् गुणानां सर्वकर्म स्यात् । जैम्_12,3.8 ।
एकार्थास् तु विकल्पेरन् समुच्चये ह्य् आवृत्तिः स्यात् प्रधानस्य । जैम्_12,3.9 ।
अभ्यस्येतार्थवत्त्वाद् इति चेत् । जैम्_12,3.10 ।
नाश्रुतत्वाद् धि विकल्पवच् च दर्शयति कालान्तरे ऽर्थवत्त्वं स्यात् । जैम्_12,3.11 ।
प्रायश्चित्तेषु चैकार्थ्यान् निष्पन्नेनाभिसंयोगस् तस्मात् सर्वस्य निर्घातः । जैम्_12,3.12 ।
समुच्चयस् तु दोषार्थः । जैम्_12,3.13 ।
मन्त्राणां कर्मसंयोगः स्वधर्मेण प्रयोगः स्याद् धर्मस्य तन्निमित्तत्वात् । जैम्_12,3.14 ।
विद्यांप्रतिविधिनाद् वा सर्वकारणं प्रयोगः स्यात् कर्मार्थत्वात् प्रयोगस्य । जैम्_12,3.15 ।
भाषास्वरोपदेशादैरवत् प्रायवचनप्रतिषेधः । जैम्_12,3.16 ।
मन्त्रोपदेशो वा न भाषिकस्य प्रायोपपत्तेर् भाषिकश्रुतिः । जैम्_12,3.17 ।
विकारः कारणाग्रहणे तन्न्यायत्वाद् दृष्टे ऽप्य् एवम् । जैम्_12,3.18 ।
तदुत्पत्तेर् वा प्रवचनलक्षणत्वात् । जैम्_12,3.19 ।
मन्त्राणां करणार्थत्वान् मन्त्रान्तेन कर्मादिसन्निपातः स्यात् सर्वस्य वचनार्थत्वात् । जैम्_12,3.20 ।
संततवचनाद् धारायाम् आदिसंयोगः । जैम्_12,3.21 ।
करमसंतानो वा नानाकर्मत्वाद् इतरस्याशक्चत्वात् । जैम्_12,3.22 ।
आघारे च दीर्घधारत्वात् । जैम्_12,3.23 ।
मन्त्राणां संनिपातित्वाद् एकार्थानां विकल्पः स्यात् । जैम्_12,3.24 ।
संख्याविहितेषु समुच्चयो ऽसंनिपातित्वात् । जैम्_12,3.25 ।
ब्राह्मणविहितेषु च संख्यावत् सर्वेषाम् उपदिष्ठत्वात् । जैम्_12,3.26 ।
याज्यावषट्कारयोश् च समुच्चयदर्शनं तद्वत् । जैम्_12,3.27 ।
विकल्पो वा समुच्चयस्याश्रुतित्वात् । जैम्_12,3.28 ।
गुणार्थत्वाद् उपदेशस्य । जैम्_12,3.29 ।
वषट्कारे नानार्थत्वात् समुच्चयो हौत्रास् तु विकल्पेरन्न् एकार्थत्वात् । जैम्_12,3.30 ।
क्रियमाणानुवादित्वात् समुच्चयो वा हौत्राणाम् । जैम्_12,3.31 ।
समुच्चयं च दर्शयति । जैम्_12,3.32 ।
जपाश् चाकर्मसंयुक्ताः स्तुत्याशीरभिधानाश् च याजमानेषु समुच्चयः स्याद् आशीःपृथक्त्वात् । जैम्_12,4.1 ।
समुच्चयं च दर्शयति । जैम्_12,4.2 ।
याज्यानुवाक्यासु तु विकल्पः स्याद् देवतोपलक्षणार्थत्वात् । जैम्_12,4.3 ।
लिङ्गदर्शनाच् च । जैम्_12,4.4 ।
क्रयेषु ति विकल्पः स्याद् एकार्थत्वात् । जैम्_12,4.5 ।
समुच्चयो वा प्रयोगद्रव्यसमवायात् । जैम्_12,4.6 ।
समुच्चयञ् च दर्शयति । जैम्_12,4.7 ।
संस्कारे च तत्प्रधानत्वात् । जैम्_12,4.8 ।
संख्यासु तु विकल्पः स्याच् छ्रुतिप्रतिषेधात् । जैम्_12,4.9 ।
द्रव्यविकारात् तु पूर्ववद् अर्थकर्म स्यात् तया विकल्पेन नियमप्रधानत्वात् । जैम्_12,4.10 ।
द्रव्यत्वे ऽपि समुच्चयो द्रव्यस्य कर्मनिष्पत्तेः प्रतिपशुकर्मभेदाद् एवं सति यथाप्रकृति । जैम्_12,4.11 ।
कपाले ऽपि तथेति चेत् । जैम्_12,4.12 ।
न कर्मणः परार्थत्वात् । जैम्_12,4.13 ।
प्रतिपत्तिस् तु शेषत्वात् । जैम्_12,4.14 ।
शृते ऽपि पूर्ववत् स्यात् । जैम्_12,4.15 ।
विकल्प्यो ऽन्वर्थकर्मनियमप्रधानत्वाच् छेसे च कर्मकार्यसमवायात् तसमात् तेनार्थकर्म स्यात् । जैम्_12,4.16 ।
उखायां काम्यनित्यसमुच्चयो नियोगे कामदर्शनात् । जैम्_12,4.17 ।
असति चासंस्कृतेषु कर्म स्यात् । जैम्_12,4.17* ।
तस्य च देवतार्थत्वात् । जैम्_12,4.18 ।
विकारो वा नित्यस्याग्नेः काम्येन तदुक्तहेतुः । जैम्_12,4.19 ।
वचनाद् असंस्कृतेषु कर्म स्यात् । जैम्_12,4.20 ।
संसर्गे चापि दोषः स्यात् । जैम्_12,4.21 ।
वचनाद् इति चेद् अथेतरस्मिन्न् उत्सर्गापरिग्रहः कर्मणः कृतत्वात् । जैम्_12,4.22 ।
स आहवनीयः स्याद् आहुतिसंयोगात् । जैम्_12,4.23 ।
अन्यो वोद्धृत्याहरणात् तस्मिन्त्संस्कारकर्म शिष्टत्वात् । जैम्_12,4.24 ।
स्थानात् तु परिलुप्येरन् । जैम्_12,4.25 ।
नित्याधारणे विकल्पो न ह्य् अकस्मात् प्रतिषेधः स्यात् । जैम्_12,4.26 ।
नित्यधारणाद् वा प्रतिषेधो गतश्रियः । जैम्_12,4.27 ।
परार्थान्य् एकः प्रतियन्तिवत् सत्राहीनयो यजमानगणे ऽनियमो ऽविशेषात् । जैम्_12,4.28 ।
मुख्यो वाविप्रतिषेधात् । जैम्_12,4.29 ।
सत्रे गृहपतिर् असंयोगाद् धौत्रवद् आम्नायवचनाच् च । जैम्_12,4.30 ।
सर्वैः वा तदर्थत्वात् । जैम्_12,4.31 ।
विप्रतिषेधे परम् । जैम्_12,4.32 ।
हौत्रे परार्थत्वात् । जैम्_12,4.33 ।
वचनं परम् । जैम्_12,4.34 ।
प्रभुत्वाद् आर्त्विज्यं सर्ववर्णानां स्यात् । जैम्_12,4.35 ।
स्मृतेर् वा स्याद् ब्राह्मणानाम् । जैम्_12,4.36 ।
फलचमसविधानाच् चेतरेषाम् । जैम्_12,4.37 ।
सान्नाय्ये ऽप्य् एवं प्रतिषेधः सौमपीयहेतुत्वात् । जैम्_12,4.38 ।
चतुर्धाकरणे च निर्देशात् । जैम्_12,4.39 ।
अन्वाहार्ये च दर्शनात् । जैम्_12,4.40 ।
मूल पाठ: Mīmāṃsāsūtra · Edition: B.D. Basu, Allahabad 1923-1925 (Sacred Books of the Hindus, 27) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0