भाषा

ENहिગુ
ग्रंथ पाठ

ईश्वरसिद्धि · श्लोक 1-18

1

तत्र कस्यचिद् एकस्य वशे विश्वं प्रवर्तते ।
इति साधयितुं पूर्वं पूर्वपक्षं प्रचक्ष्महे ॥

2

व्यवस्थितमितस्वार्थं न तावद् इह लौकिकम् ।
साधनं तेन सर्वार्थतज्ज्ञानादेर् असिद्धितः ॥

3

प्रत्यक्षत्वे तद् अप्य् एवं विद्यमानैकगोचरम् ।
भूतादिगोचरं नैव प्रत्यक्षं प्रतिभादिवत् ॥

4

नन्व् एकचेतनाधीनं विवादाध्यासितं जगत् ।
अचेतनेनानारब्धत्वाद् अरोगस्वशरीरवत् ॥

5

तथा सर्वार्थनिर्माणसाक्षात्करणकौशलम् ।
कार्यत्वाद् एव जगतस् तत्कर्तुर् अनुमीयताम् ॥

6

किम् अस्य तस्मिन्न् आयत्तं किं नु जन्माथ वा स्थितिः ।
प्रवृत्तिर् वाद्ययोस् तावत् साध्यहीनं निदर्शनम् ॥

7

चेतनाधीनतामात्रसाह्दने सिद्धसाध्यता ।
चेतनैर् भोक्तृभिर् भोग्यः कर्मभिर् जन्यते हि नः ॥

8

उपादानं पृथिव्यादि यागदानादि साधनम् ।
साक्षात्कर्तुं क्षमन्ते यत् सर्व एव च चेतनाः ॥

9

कर्मणः शक्तिरूपं यद्पूर्वादिपदास्पदम् ।
मा भूत् प्रत्यक्षता तस्य शक्तिमद् ध्य् अक्षगोचरः ॥

10

आगमाद् अवगम्यन्ते विचित्राः कर्मशक्तयः ।
तेन कर्मभिर् आत्मानः सर्वं निर्मिमतां पृथक् ॥

11

स्वार्थकारुण्यभावेन व्याप्ताः प्रेक्षावतः क्रियाः ।
ईश्वरस्योभयाभावाज् जगत्सर्गो न युज्यते ॥

12

सुखैकतानं जनयेज् जगत्करुणया सृजन् ।
तत्कर्मानुविधायित्वे हीयेतास्य स्वतन्त्रता ॥

13

असिद्धत्वाद् विरुद्धत्वाद् अनैकान्त्याच् च वर्णितात् ।
कार्यत्वहेतोर् जगतो न यथोदितकर्तृता ॥

14

अत्र ब्रूमो न कार्यत्वं क्षित्यादौ शक्यनिह्नवम् ।
सभागत्वात् क्रियावत्त्वान् महत्त्वेन विशेषितात् ॥

15

तादृशाद् एव मूर्तत्वाद् बाह्यप्रत्यक्षतान्वितात् ।
ससामान्यविशेषत्वाद् इत्यादिभ्यो घटादिवत् ॥

16

प्रत्यक्षं तत् प्रमेयत्वात् पदार्थत्वाद् घटादिवत्।
एकेच्छानुविधायीदम् अचैतन्यात् स्वदेहवत् ॥

17

एकेनाभिष्ठिताः कार्यं कुर्वते सर्वचेतनाः ।
देहसम्बन्धसापेक्षकार्यकृत्त्वात् त्वगादिवत् ॥

18

एकप्रधानपुरुषं विवादाध्यासितं जगत् ।
चेतनाचेतनात्मत्वाद् एकराजकदेशवत् ॥

मूल पाठ: Īśvarasiddhi · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc