भाषा

ENहिગુ
ग्रंथ पाठ

ईश्वरप्रत्यभिज्ञाविमर्शिनी · अध्याय 4

4.1

स्वात्मैव सर्वजन्तूनामेक एव महेश्वरः ।
विश्वरूपोऽहमिदमित्यखण्डामर्शबृंहितः ॥

4.2

तत्र स्वसृष्टेदंभागे बुद्ध्यादि ग्राहकात्मना ।
अहंकारपरामर्शपदम् नीतमनेन तत् ॥

4.3

स स्वरूपापरिज्ञानमयोऽनेकः पुमान् मतः ।
तत्र सृष्टौ क्रियानन्दौ भोगो दुःखसुखात्मकः ॥

4.4

स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या ।
मायातृतीये ते एव पशोः सत्त्वं रजस्तमः ॥

4.5

भेदस्थितः शाक्तिमतः शक्तित्वं नापदिश्यते ।
एषां गुणानां करणकार्यत्वपरिणामिनाम् ॥

4.6

सत्तानन्दः क्रिया पत्युस्तदभावोऽपि सा पशोह् ।
द्वयात्मा तद्रजो दुःखं श्लेषि सत्त्वतमोमयम् ॥

4.7

येऽप्यसामयिकेदन्तापरामर्शभुवः प्रभोः ।
ते विमिश्रा विभिन्नाश्च तथा चित्रावभासिनः ॥

4.8

ते तु भिन्नावभासार्थाः प्रकल्प्याः प्रत्यगात्मनः ।
तत्तद्विभिन्नसंज्ञाभिः स्मृत्युत्प्रेक्षादिगोचरे ॥

4.9

तस्यासाधारणी सृष्टिर् ईशसृष्ट्युपजीविनी ।
सैषाप्यज्ञतया सत्यैवेशशाक्त्या तदात्मनः ॥

4.10

स्वविश्रान्त्युपरोधायाचलया प्राणरूपया ।
विकल्पक्रियया तत्तद्वर्णवैचित्र्यरूपया ॥

4.11

साधारणोऽन्यथा चैशः सर्गः स्पष्टावभासनात् ।
विकल्पहानैकाग्र्यात् क्रमेणेश्वरतापदम् ॥

4.12

सर्वो ममायं विभव इत्येवं परिजानतः ।
विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता ॥

4.13

मेयं साधारणं मुक्तः स्वात्माभेदेन मन्यते ।
महेश्वरो यथा बद्धः पुनरत्यन्तभेदवत् ॥

4.14

सर्वथा त्वन्तरालीनानन्ततत्त्वौघनिर्भरः ।
शिवः चिदानन्दघनः परमाक्षरविग्रहः ॥

4.15

एवमात्मानमेतस्य सम्यग्ज्ञानक्रिये तथा ।
जानन्यथेप्सितान्पश्यञ्जानाति च करोति च ॥

4.16

इति प्रकटितो मया सुघट एष मार्गो नवो महागुरुभिरुच्यतेस्म शिवदृष्टिशास्त्रे यथा ।
तदत्र निदधत्पदं भुवनकर्तृतामात्मनो विभाव्य शिवतामयीमनिशमाविशन्सिद्ध्यति ॥

4.17

तैस्तैरप्युपयाचितैरुपनतस्तन्व्याः स्थितोऽप्यन्तिके कान्तो लोकसमान एवमपरिज्ञातो न रन्तुं यथा ।
लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवालं निजवैभवाय तदियं तत्प्रत्यभिज्ञोदिता ॥

4.18

जनस्यायत्नसिद्ध्यर्थमुदयाकरसूनुना ।
ईश्वरप्रत्यभिज्ञेयमुत्पलेनोपपादिता ॥

मूल पाठ: Īśvarapratyabhijñāvimarśinī · Edition: Īśvara-pratyabhijñā-Vimarśinī of Abhinavagupta : doctrine of devine recognition, Sanskrit Text with the commentary Bhāskarī. vol.1-2 / edited by K.A. Subramania Iyer and K.C.Pandey. Delhi, etc. : Motilal Banarsidass , 1986 (repr.) (First Edition: The Princess of Wales Saraswati Bahvana , 1938(text no. 70) and 1950 (text no. 83). · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc