भाषा

ENहिગુ
ग्रंथ पाठ

ईश्वरप्रत्यभिज्ञाविमर्शिनी · अध्याय 2.1

2.1.1

अत एव यदप्युक्तं क्रिया नैकस्य सक्रमा ।
एकेत्यादि प्रतिक्षिप्तं तदेकस्य समर्थनात् ॥

2.1.2

सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः ।
घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोर् इव ॥

2.1.3

कालः सूर्यादिसंचारस्तत्तत्पुष्पादिजन्म वा ।
शीतोष्णे वाथ तल्लक्ष्यः क्रम एव स तत्त्वतः ॥

2.1.4

क्रमो भेदाश्रयो भेदो ऽप्य् आभाससदसत्त्वतः ।
आभाससदसत्त्वे तु चित्राभासकृतः प्रभोः ॥

2.1.5

मूर्तिवैचित्र्यतो देश- क्रमम् आभासयत्य् असौ ।
क्रियावैचित्र्यनिर्भासात् कालक्रमम् अपीश्वरः ॥

2.1.6

सर्वत्राभासभेदोऽपि भवेत् कालक्रमाकरः ।
विच्छिन्नभासः शून्यादेर्मातुर्भातस्य नो सकृत् ॥

2.1.7

देशक्रमोऽपि भावेषु भाति मातुर्मितात्मनः ।
स्वात्मेव स्वात्मना पूर्णा भावा भान्त्यमितस्य तु ॥

2.1.8

किन्तु निर्माणशक्तिः साप्य् एवं विदुष ईशितुः ।
तथाविज्ञातृविज्ञेयभेदो यदवभास्यते ॥

मूल पाठ: Īśvarapratyabhijñāvimarśinī · Edition: Īśvara-pratyabhijñā-Vimarśinī of Abhinavagupta : doctrine of devine recognition, Sanskrit Text with the commentary Bhāskarī. vol.1-2 / edited by K.A. Subramania Iyer and K.C.Pandey. Delhi, etc. : Motilal Banarsidass , 1986 (repr.) (First Edition: The Princess of Wales Saraswati Bahvana , 1938(text no. 70) and 1950 (text no. 83). · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc