ईश्वरप्रत्यभिज्ञाविमर्शिनी · अध्याय 1.8
तात्कालिकाक्षसामक्ष्यसापेक्षाः केवलं क्वचित् ।
आभासा अन्यथान्यत्र त्वन्धान्धतमसादिषु ॥
विशेषोऽर्थावभासस्य सत्तायां न पुनः क्वचित् ।
विकल्पेषु भवेद् भाविभवद्भूतार्थगामिषु ॥
सुखादिषु च सौख्यादिहेतुष्वपि च वस्तुषु ।
अवभासस्य सद्भावेऽप्यतीतत्वात्तथा स्थितिः ॥
गाढमुल्लिख्यमाने तु विकल्पेन सुखादिके ।
तथा स्थितिस्तथैव स्यात्स्फुटमस्योपलक्षणात् ॥
भावाभावावभासानां बाह्यतोपाधिरिष्यते ।
नात्मा सत्ता ततस्तेषामान्तराणां सतां सदा ॥
आन्तरत्वात्प्रमात्रैक्ये नैषां भेदनिबन्धना ।
अर्थक्रियापि बाह्यत्वे सा भिन्नाभासभेदतः ॥
चिन्मयत्वेऽवभासानामन्तरेव स्थितिः सदा ।
मायया भासमानानां बाह्यत्वाद्बहिरप्यसौ ॥
विकल्पे योऽयमुल्लेखः सोऽपि बाह्यः पृथक्प्रथः ।
प्रमात्रैकात्म्यमान्तर्यं ततो भेदो हि बाह्यता ॥
उल्लेखस्य सुखादेश्च प्रकाशो बहिरात्मना ।
इच्छातो भर्तुरध्यक्षरूपोऽक्षादिभुवां यथा ॥
तदैक्येन विना न स्यात्संविदां लोकपद्धतिः ।
प्रकाशैक्यात्तदेकत्वं मातैकः स इति स्थितम् ॥
स एव विमृशत्त्वेन नियतेन महेश्वरः ।
विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः ॥
मूल पाठ: Īśvarapratyabhijñāvimarśinī · Edition: Īśvara-pratyabhijñā-Vimarśinī of Abhinavagupta : doctrine of devine recognition, Sanskrit Text with the commentary Bhāskarī. vol.1-2 / edited by K.A. Subramania Iyer and K.C.Pandey. Delhi, etc. : Motilal Banarsidass , 1986 (repr.) (First Edition: The Princess of Wales Saraswati Bahvana , 1938(text no. 70) and 1950 (text no. 83). · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0