ईश्वरप्रत्यभिज्ञाविमर्शिनी · अध्याय 1.2
ननु स्वलक्षणाभासं ज्ञानमेकं परं पुनः ।
साभिलापं विकल्पाख्यं बहुधा नापि तद् द्वयम् ॥
नित्यस्य कस्यचिद् द्रष्टुस्तस्यात्रानवभासतः ।
अहंप्रतीतिरप्येषा शरीराद्यवसायिनी ॥
अथानुभवविध्वंसे स्मृतिस्तदनुरोधिनी ।
कथं भवेन्न नित्यः स्यादात्मा यद्यनुभावकः ॥
सत्याप्यात्मनि दृङ्नाशात्तद्द्वारा दृष्टवस्तुषु ।
स्मृतिः केनाथ यत्रैवानुभवस्तत्पदैव सा ॥
यतो हि पूर्वानुभवसंस्कारात्स्मृतिसंभवः ।
यद्येवमन्तर्गडुना कोऽर्थः स्यात्स्थायिनात्मना ॥
ततो भिन्नेषु धर्मेषु तत्स्वरूपाविशेषतह् ।
संस्कारात्स्मृइतिसिद्धौ स्यात्स्मर्ता द्रष्टेव कल्पितः ॥
ज्ञानं च चित्स्वरूपं चेत् तद् अनित्यं किमात्मवत् ।
अथापि जडमेतस्य कथमर्थप्रकाशता ॥
क्रियाप्यर्थस्य कायादेस्तत्तद्देशादिजातता ।
नान्यादृष्टेः ............................................. ॥
तत्र तत्र स्थिते तत्तद्भवतीत्येव दृश्यते ।
नान्यन्नान्योऽस्ति संबन्धः कार्यकारणभावतः ॥
द्विष्ठस्यानेकरूपत्वात् सिद्धस्यान्यानपेक्षणात् ।
पारतन्त्र्याद्ययोगाच्च तेन कर्तापि कल्पितः ॥
मूल पाठ: Īśvarapratyabhijñāvimarśinī · Edition: Īśvara-pratyabhijñā-Vimarśinī of Abhinavagupta : doctrine of devine recognition, Sanskrit Text with the commentary Bhāskarī. vol.1-2 / edited by K.A. Subramania Iyer and K.C.Pandey. Delhi, etc. : Motilal Banarsidass , 1986 (repr.) (First Edition: The Princess of Wales Saraswati Bahvana , 1938(text no. 70) and 1950 (text no. 83). · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0