ईशानशिवगुरुदेवपद्धतिः · अध्याय 1
श्रीः
ईशानशिवगुरुदेवपद्धतिः
श्रीमदीशानशिवगुरुदेवमिश्रविरचिता ।
(प्रथमः सामान्यपादः)
अथ प्रथमः पटल:
वागीश्वरं तं गिरिशं गिरं तां गौरीं गणेशं च मतङ्गजास्यम् ।
दूर्गां च दुर्गार्तिहरां विरिञ्चं लक्ष्मीं च लक्ष्मीशमपि प्रपद्ये ॥ १-
गुरूनलं गौरवतो गरीयसः समाहितः सर्वसमान् महीयसः ।
महामहिम्ना मिहिरानिवोदितांस्तमोमहामोहहरान् नतोऽस्म्यहम् ॥ १-
विस्तृतानि विशिष्टानि तन्त्राणि विविधान्यहम् ।
यावत्सामर्थ्यमालोच्य करिष्ये तन्त्रपद्धतिम् ॥ १-
अनन्यतन्त्रसापेक्षस्वार्थसन्दोहसङ्गतिम् ।
ऋद्धैर्विधानमन्त्रार्थैर्वेद्यां श्रुतिमिवापराम् ॥ १-
प्रसन्नां नातिकुटिलां नातिसंक्षेपविस्तराम् ।
चित्रां बहुगुणां विष्णोः शययां भोगवतीमिव ॥ १-
विविधच्छन्दसं नानावृत्तालङ्कारवर्णकाम् ।
सेव्यां कामिजनस्येष्टां ललितां प्रमदामिव ॥ १-
विषग्रहामयादीनां प्रशमोपायदर्शिनीम् ।
मन्त्रबिम्बौषधिध्यानैर्विद्यां सञ्जीविनीमिव ॥ १-
असुहृन्निग्रहोच्चाटविद्वेषस्तम्भमोहनैः ।
उत्सादमारणोपायैर्दण्डनीतिमिवापराम् ॥ १-
पूतनानरकारिष्टदमनादौ विचक्षणाम् ।
सत्यभामासमाश्लिष्टां यथा मूर्तिं मुरद्विषः ॥ १-
मनुभिर्बहुभिर्युक्तां दैवतैश्चापि तत्समम् ।
कृतत्रेतादिकल्पैश्च शरदं ब्रह्मणो यथा ॥ १-
निजसङ्केतमार्गज्ञैरधिगम्यां पृथग्विधैः ।
यन्त्रैर्दूरीकृतानर्थां दुर्गभूमिमिवापराम् ॥ १-
निर्गतद्वापरां धर्मतनयस्वर्गयोगतः ।
कलिप्रसङ्गकटुकां कालस्येह गतिर्यथा ॥ १-
पादैश्चतुर्भिर्नात्यर्थं भिन्नार्थप्रसवैर्युताम् ।
चतुर्युगक्रमायत्तां वैधसीमिव कल्पनाम् ॥ १-
एकामपि पृथग्लक्ष्यपूर्वार्धापरलक्षणाम् ।
मूर्तिं विनायकस्येव गजवक्त्रां नराकृतिम् ॥ १-
महेन्द्रजालविज्ञानप्रपञ्चजननीं यथा ।
तद्विदां प्रत्ययावेद्यां मुक्तिदां शक्तिमैश्वरीम् ॥ १-
* * * * * क * * * म * विभागतः ।
मोक्षप्रसाधनीं तत्तत्क्रमावेद्यां त्रयीमिव ॥ १-
सप्रयोगा हि मनवः साङ्गदैवपुरस्क्रियाः ।
सच्छन्दोमुनिदिग्बन्धाः सध्यानाः सप्रयोजनाः ॥ १-
सविधानाश्च लक्ष्यन्ते मन्त्रास्ते स्युश्चतुर्विधाः ।
बीजानि बीजमन्त्राश्च मन्त्रा मालाख्यमन्त्रकाः ॥ १-
नानाक्षराणां संयोगाद् बीजं स्याद्वैकमक्षरम् ।
बीजमन्त्रा दशार्णाधो मन्त्राः स्युर्विंशतेरधः ॥ १-
विंशत्यर्णाधिका ये तु मालामन्त्रा भवन्ति ते ।
प्रायेण बाल्ये बीजानि सिद्धिं यच्छन्ति भूयसीम् ॥ १-
बीजमन्त्रास्तु कौमारे मन्त्रा यौवनसिद्धिदाः ।
वार्द्धकेऽपि च सिध्यन्ति मालामन्त्राः सदैव हि ॥ १-
श्रद्धाभक्तिसमभ्यासात् सर्वे सिध्यन्ति सर्वदा ।
मननत्राणधर्मित्वं वाचके दैवतस्य तु ॥ १-
यत्र तन्मन्त्रसंज्ञं स्यान्न तद् बीजेषु वा भवेत् ।
अत्र रत्नत्रये -
मननात् सर्वभूतानां त्राणात् संसारसागरात् ।
मन्त्ररूपा हि तच्छक्तिर्मननत्राणधर्मिणी ॥ इति ॥
वाच्यवाचकयोरैक्यमधिगम्य गुरावपि ॥ १-
तद् दैवतसमां भक्तिं विदधीतात्मसिद्धये ।
लिपिर्वै सर्वमन्त्राणां शब्दानां चैव मातृका ॥ १-
सा तु शक्तेः समुत्पन्ना शक्तिबीजात्मिका मता ।
निर्विकल्पात्मकं ब्र(ह्म) यन्नित्यानन्दविग्रहम् ॥ १-
शिवं तदचलं विश्वस्वभावं भासकं परम् ।
सुसूक्ष्मं चिर्द्धनं व्यापि सर्वगं तदणोरणु ॥ १-
महतोऽपि महच्छुद्धमिच्छाज्ञानक्रियोदयम् ।
आदिसर्गमुखे ज्ञानचिकीर्षायत्नधारणात् ॥ १-
स्वशक्तिव्यक्तिमाधत्ते प्रदीपः स्वप्रभामिव ।
सत्त्वं रजस्तमश्चैतच्छुक्लरक्तासितप्रभम् ॥ १-
शक्तिर्भवत्यजा ह्येका विश्वोद्भवविधायिनी ।
सा शक्तिर्बिन्दुतामेति बिन्दुः सोऽपि त्रिधा भवेत् ॥ १-
बिन्दुर्नादो रवश्चेति स रवोऽव्यक्तमिष्यते ।
अव्यक्तादुदितं तत्त्वं महान्नाम त्रिभेदकम् ॥ १-
महतश्चाप्यहङ्कारस्त्रेधा स च निगद्यते ।
वैकारिकस्तैजसश्च भूतादिरिति चापरः ॥ १-
तस्माच्छाक्तादहङ्काराद्धकारो घोषवानभूत् ।
अत्र श्रीकालोत्तरे -
नादाख्यं यत् परं बीजं सर्वभूतेष्ववस्थितम् ।
मुक्तिदं परमं दिव्यं सर्वसिद्धिप्रदायकम् ॥
सान्तं सर्वगतं शून्यं मात्राद्वादशभिः स्थितम् ।
ह्रस्वा ब्रह्म समाख्याता दीर्घा ह्यङ्गानि षण्मुख ॥ इति ॥
रत्नत्रयेऽपि -
स तु शब्दश्चतुर्धा वाग्वैखर्यादिविभेदतः ।
जायते बिन्दुसंक्षोभादनन्तस्यार्थसिद्धये ॥ इति ।
शक्तिर्नादो महामाया व्योमेति च चतुर्विधम् ॥ १-
बिन्दोरेवास्य तु पुनश्चतस्रो वृत्तयः स्मृताः ।
वैखरी मध्यमा चैव पश्यन्ती चापि सूक्ष्मया ॥ १-
व्युत्क्रमेण भवन्त्येताः कुण्डलिन्यादितः क्रमात् ।
सूक्ष्मा कुण्डलिनीमध्ये ज्योतिर्मात्रात्यणीयसी ॥ १-
अश्रोत्रविषया तस्मादुद्गच्छन्त्यूर्ध्वगामिनी ।
स्वयं प्रकाशा पश्यन्ती सुषुम्नामाश्रिता भवेत् ॥ १-
सैव हृत्पङ्कजं प्राप्य मध्यमा नादरूपिणी ।
अन्तःसञ्जल्पमात्रा स्यादविभक्तोर्ध्वगामिनी ॥ १-
सैवोरःकण्ठतालुस्था शिरोघ्राणद्विजोपगा ।
जिह्वामूलोष्ठनिष्ट्यूता कृतवर्णपरिग्रहा ॥ १-
शब्दप्रपञ्चजननी श्रोत्रग्राह्या तु वैखरी ।
हकारः सविकारोऽथ रेफेण समयुज्यत ॥ १-
ईकारमभजत् तस्माद् बिन्दुनादविभूषितः ।
शक्तिबीजं हि तद्योगात् प्रपञ्चोत्पत्तिकारणम् ॥ १-
हरत्वाच्च हरित्वाच्च पुंप्रकृत्योस्तु युक्तयोः ।
श्लिष्टोच्चारितयोः शाब्दं रूपं तद्बीजमीरितम् ॥ १-
हकारस्तु भवेत् प्राणो रेफो वह्निरुदाहृतः ।
ईकारस्तु भवेन्माया बिन्दुरीश्वर उच्यते ॥ १-
नादः सदाशिवो ज्ञेयो नादान्तस्तु शिवः स्वयम् ।
हकारो व्यक्तिमापन्नो हार्दघोषविवक्षितः ॥ १-
अकारतां गतस्तस्य भेदो ह्यक्षरसङ्गतिः ।
ऊकारान्तान्यकारादीन्यक्षराणि षडस्य तु ॥ १-
विकृतिः स्याद् विशेषेण रेफस्य तु ऋ ॠ ऌ ॡ ।
ईकारभेदतस्त्वासन्नेकाराद्यक्षराणि षट् ॥ १-
इत्थं षोडशधोत्पन्नाः स्वराख्याः शक्तिबीजतः ।
शक्त्यङ्गत्वात् कलास्ते स्युरमृतांशुकलात्मकाः ॥ १-
ह्रस्वाः स्वरा बिन्दुयुताः पुमांसोऽग्न्यर्करूपिणः ।
दीर्घस्वरा विसर्गान्ताः स्त्रीलिङ्गाः सोमरूपिणः ॥ १-
ॠऋऌॡचतुष्कं तु सौम्याग्नेयं नपुंसकम् ।
स्वराणामुदयाद्यं तु पुरस्तादिह लिख्यते ॥ १-
इति स्वराधिकारः ।
हकारः शब्दगुणवानकारमसृजत् पुरः ।
व्योम्नः स्पर्शगुणो वायुः स्पर्शाख्याः कादयोऽभवन् ॥ १-
पञ्चपञ्चाक्षरास्ते स्युः पञ्चवर्गास्त्विनात्मकाः ।
याद्यक्षरचतुष्कं तु वायवग्निक्ष्माम्भसां तनुः ॥ १-
स्पर्शो रूपं तथा गन्धो रसाख्यस्तद्गुणाः क्रमात् ।
शेषास्तु व्यापकाः शाद्याः साग्नीषोमाः स्वरस्पृशः ॥ १-
इत्थं पञ्चाशदुत्पन्ना वर्णाः शक्तिप्रभेदतः ।
कादयः पञ्चविंशार्णा यादयः शादयस्तथा ॥ १-
स्थानप्रयत्नभेदेन जायन्ते खल्वकारतः ।
अकारादिस्वरैर्युक्तहलां योगान्मिथोऽपि च ॥ १-
शब्दप्रपञ्चः सर्वोऽपि विचित्रं जायते स्फुटम् ।
हलामधिकारः ।
सैव शक्तिर्द्विधा भूता तारो वाग्भवमित्यपि ॥ १-
अकारश्चाप्युकारोऽथ मकारो बिन्दुनादवान् ।
ताराख्यः प्रणवो ह्येष शब्दब्रह्मात्मको मतः ॥ १-
अ-ईमबिन्दुनादाढ्यं वाग्भवं बीजमीरितम् ।
विश्ववाग्भूतिदं तत्तु वागीश्वर्यास्तनुर्भवेत् ॥ १-
प्रणवस्तु शिवः साक्षाद् वाग्भवं शक्तिरैश्वरी ।
शक्तिबीजं तथा तारो वाग्भवं च ततः परम् ॥ १-
अकारादीनि पञ्चाशदक्षराण्यनुपूर्वशः ।
तद्भेदजाश्च या वाचो देशभाजा विलक्षणाः ॥ १-
वेदाः साङ्गाः पुराणानि शास्त्राणि विविधानि च ।
आकाशादीनि भूतानि तन्मात्राणीन्द्रियाणि च ॥ १-
मनो बुद्धिरहङ्कारो रागः कालः कलास्तथा ।
बहुना किं प्रलापेन यः शब्दार्थात्मकोऽखिलः ॥ १-
प्रपञ्चः शक्तिजो ह्येष शक्तिस्तस्मात्तु मातृका ।
अस्यां तु मातृकाख्यायां लिपित्वं लिख्यते यतः ॥ १-
अक्षरत्वं क्षराभावाद् वर्णत्वं वर्णसङ्ग्रहात् ।
अर्णत्वममृतात्मत्वादर्णोऽम्भः कथ्यते यतः ॥ १-
खानिलाग्न्यब्धरित्र्याख्या हयरेफा वलावपि ।
उपादानानि विश्वात्ममातृकायास्तु पञ्च वै ॥ १-
अवर्गोऽस्या मुखं साङ्गं कचवर्गौ भुजद्वयम् ।
टतवर्गौ तथा पादौ पार्श्वयुग्मं पफौ मतौ ॥ १-
पृष्ठं बकारो नाभिस्तु भकारो हृन्मकारतः ।
त्वगसृङ्मांसमेदोस्थिमज्जाशुक्लानि यादयः ॥ १-
धातवः सप्त वर्णाः स्युर्हकारः प्राण इष्यते ।
स्फूर्तिः क्षकारः सक्रोधो विश्वलोकमयी तनुः ॥ १-
भूराद्याः सप्त ये लोकाः पातालानि च सप्त वै ।
ब्रह्मादिस्तम्बपर्यन्तं मातृकायां व्यवस्थितम् ॥ १-
सूर्याद्यास्तु ग्रहाः सप्त वर्गेभ्यः पृथगुद्गताः ।
अवर्गादुद्गतः सूर्यः कवर्गादपि भूसुतः ॥ १-
चवर्गाद् भार्गवो ज्ञस्तु टवर्गाद् ता(लि?दि)काद् गुरुः ।
पवर्गाच्च शनिश्चन्द्रो यवर्गादभवद् विभुः ॥ १-
नक्षत्राण्याश्विनादीनि मेषाद्या राशयस्तथा ।
मातृकाक्षरसम्भेदात् कथ्यन्ते परतोऽत्र वै ॥ १-
पञ्चाशदक्षरेभ्यस्तु पञ्चाशद् रुद्रमूर्तयः ।
समुद्गतास्तथा रुद्रशक्तयस्तत्प्रसंख्यया ॥ १-
विष्णुमूर्तिविशेषाश्च तावत्यो विष्णुशक्तयः ।
ओषध्यश्चापि पञ्चाशदष्टत्रिंशत् कलास्तथा ॥ १-
तारात् पञ्चप्रभेदात् तु पञ्चाशदभवन् कलाः ।
एवं हि मातृकोत्पत्तिरागमोक्ता प्रदर्शिता ॥ १-
प्रपञ्चसारकथिता यथावदिह सङ्ग्रहात् ।
अत्रोद्ध्रियन्ते बीजानि बीजमन्त्राः समन्त्रकाः ॥ १-
उद्धारव्यत्ययादि स्यान्मालामन्त्रेषु कल्पना ।
ततः परं यथापाठं विज्ञेया निपुणैः स्फुटम् ॥ १-
हुंफट् वषट् नमो वौषडङ्गानि परिवारकाः ।
यथावदत्र लिख्यन्ते भगवच्छब्दसंयुताः ॥ १-
युक्ताक्षराणि च स्पष्टं स्वाहाकारे च ठद्वयम् ।
दण्डार्धेन्दुर्भवेद् बिन्दुः सर्गो बिन्दुद्वये मतः ॥ १-
मन्त्रास्तु मानवः ख्याताः वकारो ब्रह्मसंज्ञितः ।
विषकालौ मकारः स्याद् धातवो यादयो मताः ॥ १-
त एव मरुदग्नीलाम्भांसि वान्ता भवन्ति हि ।
खः प्राणभुवनेशाख्यो हकारः शिवसंज्ञितः ॥ १-
कचवर्गौ टतौ तद्वद् व्यत्यस्तौ हि परस्परम् ।
पफबाश्च भमक्षाश्च व्यत्ययं ते त्रयस्त्रयः ॥ १-
यशवर्गौ मिथस्तद्वद् वेद्यौ व्यत्यस्तवर्णकौ ।
स्वरेषु व्यत्ययो नेष्टस्तद्वद् युक्ताक्षरेष्वपि ॥ १-
श्रीकण्ठाद्याश्च ये रुद्रा न्यासस्थानानि वा लिपेः ।
तत्तदक्षरविज्ञप्त्यै सङ्केताय भवन्ति हि ॥ १-
संख्यास्तृतगणो देवा भूतानि भुवनानि च ।
यथासङ्ख्यं तथा विद्यात् स्वराः सप्त दिशो दश ॥ १-
बाणास्तु पञ्च वै सप्त समुद्रा मुनयस्तथा ।
वेदाश्चत्वार एव स्युस्त्रयो रामाश्त्रयोऽग्नयः ॥ १-
नन्दास्तु नव चत्वारो युगा वेद्या रसाश्च षट् ।
उक्तात्युक्ता तथा मध्या प्रतिष्ठा सुप्रतिष्ठिता ॥ १-
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ।
तृष्टुप् च जगती तद्वत् ततोऽतिजगती मता ॥ १-
शक्वरी चातिशक्वर्या ह्यष्टिरत्यष्टिरेव च ।
धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः ॥ १-
विकृतिः संकृतिश्चैव प्रोक्ताभिकृतिरुत्कृतिः ।
एतासां छन्दसां संख्या क्वचिदत्र विधीयते ॥ १-
तत्त्वसंख्या भवेद् यत्र ग्राह्यं षट्त्रिंशदेव हि ।
तथा षट्त्रिंशदेव स्युः शैवे तत्त्वानि संख्यया ॥ १-
कटपायचतुर्वर्गा नञसन्धिस्वरैर्मृतैः ।
नवभिर्नवपञ्चाष्टवर्णैः संख्यात्र वा भवेत् ॥ १-
सङ्केताधिकारः ।
इत्ययं वस्तुनिर्देशो ग्रन्थेऽस्मिन् विदितो यथा ।
सुखावबोधो ह्यर्थानां भवत्येवेष्टसिद्धये ॥ १-
शब्दब्रह्म यदेकमक्षरमजं चैतन्यमात्रं यतो
विश्वोत्पत्तिविनाशपालनविधौ नित्योत्थिता मूर्तयः ।
यस्मादक्षरविग्रहा भगवती जाता स्वयं मातृका
तच्छाक्तं प्रणवाख्यबीजमखिलं न्यग्रोधबीजं विदुः ॥ १-
इति श्रीमदीशानशिवगुरुदेवमिश्रविरचिते तन्त्रसारपद्धतौ वस्तुनिर्देशमातृकोपपत्तिनिर्णयो नाम प्रथमः पटलः ॥
अथ द्वितीयः पटलः==
श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः ।
अश्वीशो भारभूतिश्च तिथीशः स्थाणुको हरः ॥ २-
झण्टीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः ।
अक्रूरश्च महासेनः षोडशैते स्वरेश्वराः ॥ २-
अथ क्रोधेशचण्डेशपञ्चान्तकशिवोत्तमाः ।
एकरुद्रश्च कूर्मैकनेत्रौ च चतुराननः ॥ २-
अजेशशर्मसोमेशास्त्रयो लाङ्गलिदारुकौ ।
अर्धनारीश्वरश्चोमाकान्तश्चाषडिडिण्डिनौ ॥ २-
अत्रिमीनौ च मेषश्च लोहितोऽथ शिखी तथा ।
छगलण्डो द्विरण्डश्च महाकालोऽथ पालिना ॥ २-
भुजङ्गश्च पिनाकी च खड्गीशो बक एव च ।
ततः श्वेतो भृगुश्चैव तथैव लकुलीश्वरः ॥ २-
अन्त्यः संवर्तकाख्यः स्याद् रुद्राः पञ्चाशदीरिताः ।
रुद्राधिकारः ।
पूर्णोदरी च विरजा तृतीया शाल्मली भवेत् ॥ २-
लोला च वर्तुलाक्षी च दीर्घघोणा ततो भवेत् ।
सुदीर्घमुखिगोमुख्यौ दीर्घजिह्वा ततो भवेत् ॥ २-
कुण्डोदरी चोर्ध्वकेशी तथैव विकृतानना ।
ततो ज्वालामुखी चोल्कामुखी श्रीमुख्यथो भवेत् ॥ २-
विद्यामुखी च कथिताः षोडश स्वरशक्तयः ।
महाकालीसरस्वत्यौ सर्वसिद्धाद्यगौर्यथा ॥ २-
ततस्त्रैलोक्यविद्या स्याद् मन्त्रशक्त्यात्मशक्तिके ।
भूतमाता भवेत् पश्चात् ख्याता लम्बोदरी ततः ॥ २-
द्राविणी नगरा चैव खेचरी चापि मञ्जरी ।
रूपिणी वीरिणी चैव कोटरी पूतना तथा ॥ २-
भद्रकाली गोमिनी च शङ्खिनी गर्जिनी ततः ।
कालरात्रीकपर्दिन्यौ परतः कर्षणी मता ॥ २-
महाज्ञाना जया चैव सुमुखा रेवती ततः ।
माधवी वारुणी चैव वायवी प्ररतो भवेत् ॥ २-
रक्षोवधारिणी चान्या ततस्तु सहजा भवेत् ।
लक्ष्मीर्माया च पञ्चाशदेता वै रुद्रशक्तयः ॥ २-
रुद्रशक्तयः ।
केशवः प्रथमा मूर्तिस्ततो नारायणाह्वयः ।
माधवस्त्वथ गोविन्दो विष्णुश्च मधुसूदनः ॥ २-
त्रिविक्रमो वामनश्च श्रीधराख्यो हृषिकराट् ।
पद्मनाभो दामोदरो वासुदेवस्ततो भवेत् ॥ २-
सङ्कर्षणश्च प्रद्युम्नोऽनिरुद्धश्च स्वराधिपाः ।
ततश्चक्री गदी शार्ङ्गी खड्गी शङ्खी हली तथा ॥ २-
मुसली शूलिना पाशी तथा स्यादङ्कुशी ततः ।
मुकुन्दो नन्दजो नन्दी नरो नरकजिद्धरिः ॥ २-
कृष्णः सत्त्वः सात्त्वतश्च शौरिः सूरो जनार्दनः ।
भूधरो विश्वमूर्तिश्च वैकुण्ठपुरुषोत्तमौ ॥ २-
बली बलानुजो बालो वृषघ्नश्च वृषस्तथा ।
हंसो वराहो विज्ञेया नृसिंहश्चेति विष्णवः ॥ २-
विष्णुमूर्त्यधिकारः
कीर्त्तिः कान्तिस्तुष्टिपुष्टी धृतिः शान्तिः क्रिया (तथा?दया ) ।
मेधा च हर्षिणी श्रद्धा लज्जा लक्ष्मीः सरस्वती ॥ २-
प्रीतिरत्यौ स्वराणां तु शक्तयः स्युरिमाः क्रमात् ।
जया दुर्गा प्रभा सत्या चण्डा वाणी विलासिनी ॥ २-
विजया विरजा विश्वा विमदा नन्दना स्मृतिः ।
ऋद्धिः समृद्धिः सिद्धिश्च बुद्धिर्भक्तिर्मतिः क्षमा ॥ २-
रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधा परा ।
परा परायणा सूक्ष्मा सन्ध्या प्रज्ञा प्रभा निशा ॥ २-
अमोघा चेति पञ्चाशद्वर्णोक्ता विष्णुशक्तयः ।
विष्णुशक्त्यधिकारः
ओषध्योऽप्यथ चन्दनद्वयलघूकर्पूरकौशीरंरु-
ग्ध्रीबेराणि तकोलजातिसहिता मांसीमुरं चोरकम् ।
ग्रन्थी भास्करवर्तिनी च कथिता ह्यश्वत्थबिल्वौ गुहा -
रक्तश्चापि लवङ्गकुम्भिसहिता वन्दिन्यथोदुम्बरः ॥ २-
कार्ष्मर्यम्बुदशङ्खपुष्पिशिखिनीप्लक्षाग्निमन्थास्तथा
सिंहीदर्भकुशापराजितयुतः स्याद् रोहिणो डुण्डुकः ।
ख्याता स्याद् बृहती च पाटलतरं चैत्रातुलस्यावपा-
मार्गः शक्रलतामधुव्रतहरिक्रान्तामुसल्योऽपि च ॥ २-
स्याद् भीता हरितालिका हरिवधूस्तद्वत् सहा श्रीलता
भद्रा चेति यथाक्रमेण तु लिपेरोषध्य उक्तास्त्विमाः ।
याभिः स्याद् गुलिकाकषायभसितैरालेपनस्नापना-
ल्लक्ष्मीर्वाग्विभवोऽपमृत्युविजयो रक्षाकरं पावनम् ॥ २-
लिप्योषध्यधिकारः ।
अमृता मानदा पूषा तुष्टिपुष्ट्यौ रतिर्धृतिः ॥ २-
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गना ।
पूर्णा पूर्णामृता चेति कलाः स्युः स्वरसम्भवाः ॥ २-
तपनी तापनी धूम्रा मरीचिर्ज्वालिनी रुचिः ।
सुषुम्ना भोगदा विश्वा बोधनी धारणी क्षमा ॥ २-
कादिद्वादशवर्णानां ठान्तानां क्रमशः कलाः ।
धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विष्फुलिङ्गिनी ॥ २-
सुश्रीः सुरूपा कपिला हव्यकव्यवहे तथा ।
याद्यर्णयुक्ताः कथिता दशैतास्तु कलाः क्रमात् ॥ २-
अष्टत्रिंशत्कलाधिकारः ।
पञ्चभेदस्य तारस्य पञ्चाशदभवन् कलाः ।
सृष्टिश्चर्द्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीर्धृतिः स्थिरा ॥ २-
स्थितिः सिद्धिरकारोत्थाः कला दश समीरिताः ।
ऋग्वेदब्रह्मसृष्ट्यर्थाः प्रपञ्चे कथितं यथा ॥ २-
जरा च पालिनी शान्तिरैश्वरी रतिकामिके ।
वरदाह्लादिनी प्रीतिर्दीर्घा चोकारजाः कलाः ॥ २-
यजुर्विष्णुसमायुक्ता जगतः स्थितिहेतवः ।
तीक्ष्णा रौद्रा भया निद्रा तन्द्री क्षुत् क्रोधनी क्रिया ॥ २-
उत्कारिका च मृत्युश्च मकारप्रभवाः कलाः ।
सरुद्रसामवेदास्ताः ख्याताः संहृतये कलाः ॥ २-
पीता श्वेतारुणा गौरी बैन्दवाः सूर्यदेवताः ।
चतस्रं साथर्ववेदाः सेश्वराः सर्वकामदाः ॥ २-
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
इन्धिका दीपिका चैव रेचिका मोचिका ततः ॥ २-
सूक्ष्मासूक्षामृताज्ञाना मृता चाप्यायनी ततः ।
व्यापिनी व्योमरूपा च ननन्ता चापि नादजाः ॥ २-
कलाः षोडश संख्याता भुक्तिमुक्तिप्रदायिकाः ।
सदाशिवात्मिकास्त्वेताः सामान्येन व्यवस्थिताः ॥ २-
इति प्रणवकलाधिकारः ।
केशान्ते मुखवृत्तेऽक्ष्णोः श्रोत्रयोर्घ्राणयोरपि ।
गण्डयोरोष्ठयोर्दन्तपङ्क्त्योर्मूर्धास्ययोः स्वरान् ॥ २-
कवर्गं दक्षिणे हस्ते चवर्गमितरे भुजे ।
टतवर्गौ तथा पद्भ्यां पफौ पार्श्वद्वये न्यसेत् ॥ २-
पृष्ठे नाभौ च हृदये न्यसेद् बभमसंज्ञितान् ।
त्वगसृङ्मांसमेदोस्थिमज्जाशुक्लासुपङ्कजे ॥ २-
हृत्स्थे तत्पत्रगान् यादीनष्टार्णानात्मनि न्यसेत् ।
क्षकारं कर्णिकायां तु सर्वशः संस्मरन् न्यसेत् ॥ २-
लिपिन्यासस्थानाधिकारः ।
स्थानान्युक्तान्यकारादिवर्णानां क्रमशोऽधुना ।
लिपेर्न्यासविशेषास्तु लिख्यन्ते साङ्गदैवतम् ॥ २-
लिप्यर्णैरेव बिन्द्वन्तैर्न्यासः शुद्धलिपेः स्मृतः ।
सञ्जीवनि! ऊर्ध्वकेशिनि! ज्वलितशिखिशिखे! त्रैलोक्यरूपिणि! सहस्रपरिवर्तिनि! ओं ह्रीं सौं नेत्रत्रयाय वौषट् मारुतवारुणि!
काद्यैः षड्वर्गकैर्युक्तान्यादावङ्गानि षड् लिपेः ॥ २-
प्रायः सर्वाङ्गमन्त्राणाः हृदयं स्यान्नमोन्तकम् ।
शिरः स्वाहान्तमुद्दिष्टं वषडन्तं शिखा भवेत् ॥ २-
अन्ते हुं कवचस्य स्यात् फडन्तं चास्त्रमिष्यते ।
वौषडन्तं तथा नेत्रं नेत्रान्तं त्वेवमीरितम् ॥ २-
अस्त्रान्ताङ्गविधिः क्वापि तत्रास्त्रान्तं तु विन्यसेत् ।
षडङ्गस्यैव मन्त्रस्य कथ्यते नेत्रकल्पना ॥ २-
पञ्चाङ्गस्य मनोस्तस्य नेत्रमन्त्रो न विद्यते ।
प्रागङ्गमन्त्रमुच्चार्य ततोऽङ्गं सचतुर्थिकम् ॥ २-
नमःस्वाहादिकं पश्चाद् योजयेदङ्गमुद्रया ।
प्रसारिताङ्गुलिर्हस्ततलं तु हृदये न्यसेत् ॥ २-
कुञ्चिताग्राङ्गुलिर्मुक्ताङ्गुष्ठं शिरसि तत् पुनः ।
बद्धमुष्टिनिसृष्टेन त्वङ्गुष्ठाग्रेण वै शिखाम् ॥ २-
वपुः स्वमस्पृशन्नूर्ध्वमुत्क्षिप्य तु करद्वयम् ।
आकुञ्चिताङ्गुलोत्तानतलं दक्षिणवामयोः ॥ २-
पार्श्वयोरानयेद् रक्षामानाभेः कवचं तु तत् ।
तावेवाकण्ठमुत्क्षिप्य करौ सङ्कुचिताङ्गुली ॥ २-
ज्येष्ठाग्रक्रान्ततर्जाग्राच्छोटिकोत्सर्जनात् पृथक् ।
अस्त्रं स्यान्नेत्रमुद्रा तु दक्षिणान्मुष्टिबन्धनात् ॥ २-
उत्सृष्टानामिकामध्यातर्जाभिः सहसाग्रतः ।
नेत्रत्रयस्पर्शनेन भवेन्नेत्रद्वयं यदि ॥ २-
तत्र तर्जनिकामध्यायोगान्नेत्रद्वयं स्पृशेत् ।
शुक्लं पीतं ज्वलज्ज्योतिर्विद्युद्वर्णम् हुताशभम् ॥ २-
रक्तं चाप्यङ्गषट्कं च सामान्येन पृथक् क्रमात् ।
अङ्काधिकारः ।
मुद्रार्थस्फटिकाक्षसूत्रकलशांश्चाबिभ्रती पुस्तकं
हस्तैर्दक्षिणपूर्वकैस्त्रिणयना शुक्लस्रगालेपना ।
कुन्दाभाक्षरविग्रहा शशिकलां मौलौ प्रसन्नानना
धत्ते या लिपिदेवताम्बुजगता मुक्ताभरालङ्कृता ॥ २-
पञ्चाशद्वर्णमूर्तिं तामेवं ध्यात्वा स्वविग्रहे ॥ २-
स्थानेषु क्रमशो न्यस्य पूर्वोक्तेषु जपेल्लिपिम् ।
पञ्चाशत्संख्यया नित्यं यावल्लक्षं प्रपूर्यते ॥ २-
तिलैस्त्रिमधुराक्तैस्तु हुत्वा शक्त्यनुरूपतः ।
वाग्विशुद्धिमसौ विन्देत् कविता चास्य जायते ॥ २-
ग्रन्थ तत्त्वार्थविद् विद्वान् प्राज्ञो नीरोगविग्रहः ।
संसाध्यैवं लिपि देवीं सिद्धसर्वमनुर्भवेत् ॥ २-
शुद्धलिपिः ।
सरुद्रांस्तु जपेद् वर्णान् प्राग्वद् विन्यस्य तु क्रमात् ।
न्यासः श्रीकण्ठपूर्वोऽसौ क्षुद्ररोगादिशान्तिदः ॥ २-
मं मं अं अं आं आं क व च इं र क्ष
हृल्लेखाव्योमसौपूर्वममून्यङ्गानि षट् क्रमात् ।
श्रीकण्ठादि ।
लिप्यर्णानि सबिन्दूनि रुद्रशक्तिविभक्तिहृत् ॥ २-
युक्तानि विन्यसेदेष श्रीकण्ठादिः सशक्तिकः ।
अङ्गानि प्राक्तनान्येव तुल्यान्यस्यापि कल्पयेत् ॥ २-
न्यासयोरनयोश्छन्दो विराडित्यभिधीयते ।
श्रीब्रह्मा मुनिरुद्दिष्टो वाग्देवी दैवतं भवेत् ॥ २-
द्वितीयस्यार्धनारीशो न्यासस्येत्यपि केचन ।
साक्षस्रक्वलशोर्ध्वबाहुयुगलां चाधः समुद्राभयं
हस्तं दक्षिणमन्यतः सवरदे यस्याः करे पुस्तकम् ।
ध्यायेत् तां शशिखण्डमण्डितजटां देवीं त्रिनेत्रां सितां
श्रीकण्ठाद्यधिदेवतां च धवलैराकल्पकैर्भूषिताम् ॥ २-
सिन्दूरहेमोभयभागवर्णं त्वर्धाम्बिकं साङ्कुशपाशहस्तम् ।
साक्षावलिं स्वेष्टदपाणिमीशं श्रीकण्ठपूर्वं स्मरतु स्वसिद्ध्यै ॥ २-
सशक्तिश्रीकण्ठन्यासः ।
तारं सशक्तिलिप्यर्णैरजपा सोऽहमेव च ॥ २-
प्रपञ्चयागन्यासोऽयं न्यासजप्यादिनेष्टदः ।
लकुली बिन्दुमान् सर्गी भृगुश्चाप्यजपामनुः ॥ २-
ऋषिर्ब्रह्मास्य गायत्री छन्दः स्याद् देवतापि च ।
परमात्मा परं ज्योतिर्ध्येयः स्वहृदयाम्बुजे ॥ २-
सशक्तिठद्वयं हृत् स्याच्छिरः सोऽहमिहोच्यते ।
अजपा तु शिखा ज्ञेया वर्मैव कवचं स्मृतम् ॥ २-
तार एव तु नेत्राणि हरीशार्णाविहास्त्रकम् ।
कर्णस्तु हरिबीजं स्याद् विषमीशाक्षरं विदुः ॥ २-
ध्येया स्यादभयाक्षसूत्रंशुकधृग् या पुस्तकं बिभ्रती
देवी पाण्डुरपुण्डरीकपटलस्वच्छेन्दुकुन्दद्युतिः ।
हृद्याङ्गी मणिकुण्डला त्रिनयना कोटीरभारोज्ज्वला
सार्धेन्दुः सितमाल्यगन्धवसना ब्राह्मी प्रपञ्चेश्वरी ॥ २-
प्रपञ्चयागन्यासः ।
शक्त्याद्यैर्वा लिपेर्वर्णैः शक्तिः श्रीपूर्वकैस्तु वा ।
शक्तिः श्रीमन्मथाद्यैर्वा मोमानङ्गादिकैस्तु वा ॥ २-
न्यासाः समृद्धिकास्त्वृद्ध्यै मुनिरेषां प्रजापतिः ।
छन्दस्तु दैवी गायत्री मोमानङ्गास्तु देवताः ॥ २-
स्वादिबीजैर्यथालिङ्गं षडङ्गानि भवन्ति हि ।
उमादिदेवताः स्मृत्वा न्यासे ध्येया सरस्वती ॥ २-
मन्दारदामकलितेन्दुजटाकिरीटा
सिन्दूररोचिरभिरामवपुस्त्रिनेत्रा ।
कुन्दावदातवसनाङ्कुशपाशविद्या-
सन्दोहपङ्कजकरावतु भारती वः ॥ २-
समृद्धिन्यासः
कलासनस्थो लकुली वामाक्षार्धशशाङ्कवान् ।
लिप्यर्णोभयगो न्यस्तः क्षोभणीन्यास ईरितः ॥ २-
कामारूढस्तु लंकुली प्राग्वद् दीर्घस्वरैर्युतः ।
यथालिङ्गं षडङ्गानि छन्दो गायत्रमेव हि ॥ २-
वामदेवो मुनिः कामो दैवतं चाक्षरेश्वरी ।
सिन्दूरारुणसुन्दराङ्गरुचिरा रक्ताम्बरालेपना
मन्दारावृतकुन्तला स्मितमुखी गण्डोल्लसत्कुण्डला ।
ध्येया स्याद् दधती करैः सरसिजं पाशाङ्कुशे पुस्तकं
बिम्बोष्ठी मणिभूषणा भगवती संक्षोभणी भूतये ॥ २-
क्षोभणीन्यासः ।
पाशश्रीशक्तिमदनैर्लिप्यर्णमदना रमा ॥ २-
लक्ष्म्यङ्कुशकलाहृद्भिर्युक्तो न्यासस्तु मालिनी ।
अनन्तो बिन्दुमान् पाशः श्रीबिन्द्वन्ताः स्वयं मनुः ॥ २-
ब्रह्मा समांसवामाक्षदण्डो बीजं तु मान्मथम् ।
शक्तिः ख्याता तु कः साग्निदन्तबिन्दुस्तथाङ्कुशम् ॥ २-
कलास्त्वक्षरजा ग्राह्याः पञ्चाशत् प्रणवोदिताः ।
वीप्सितानि स्वबीजानि सर्गी संवर्तकश्च षट् ॥ २-
अङ्गान्यमूनि मालिन्याश्छन्दश्चोष्णिगृषिर्गुहः ।
देवतास्य जगन्माता देवी त्रिपुरभैरवी ॥ २-
न्यासश्चानेन होमश्च मधुरैः सर्वसिद्धिदः ।
जपध्यानादिना सद्यः सर्वानाकर्षयेदपि ॥ २-
बन्धूकारुणविग्रहां त्रिनयनां रक्ताम्बरालेपनां
चञ्चत्काञ्चनकुण्डलां सवरदां पाशाङ्कुशे बिभ्रतीम् ।
नीहारामलहारकुङ्कुमरसैराताम्रकम्रस्तनीं
ध्यायेत् तां तु कपर्दचन्द्रशकलां सव्याभयां मालिनीम् ॥ २-
मालिनीन्यासः ।
पाशाङ्कुशाभ्यां पुटितैर्लिप्यर्णैः कर्षणी भवेत् ।
न्यासस्तु कादिषड्वर्गैः पाशाङ्कुशपुटैर्यथा ॥ २-
षडङ्गानि भवन्त्यस्यच्छन्दोऽनुष्टुप् प्रजापतिः ।
ऋषिर्वाग्वादिनी दैवं न्यासाद्यैः सर्वसिद्धिदः ॥ २-
ध्येया स्याद् रोचनाम्भोद्रुतकनकवपुर्वल्लकीपुस्तकाभ्यां
या सा पाशङ्कुशाढ्या मणिगणरुचिरैर्भूषणैर्भूषिताङ्गी ।
कोटीराबद्धमौलौ धृतशशिशकला रक्तगन्धाम्बराद्या
स्वैक्यं वाग्वादिनीयं त्रिभिरपि नयनैर्भ्रूविलासस्मितास्या ॥ २-
वाग्वादिनीन्यासः ।
लिप्यर्णानि सबिन्दूनि केशवाद्याश्च विष्णवः ।
तच्छक्तयश्च क्रमशो न्यस्तव्या स्युर्नमोन्तकम् ॥ २-
केशवाद्यैर्भवेन्न्यासो विष्णुमन्त्रेषु सिद्धिदः ।
अष्टाक्षरतनुर्विष्णुर्देवता तमपि स्मरन् ॥ २-
न्यसेच्छन्दस्तु गायत्री नारदोऽस्य मुनिर्भवेत् ।
देवी कुन्देन्दुगौरी स्फुरदमृतकलाहारिहाराभिरामा
ध्येया मालेयहृद्यं वपुरपि दधती लेखनीं चाक्षसूत्रम् ।
सौधं कुम्भं च विद्यानिधिमपि जलजं जाटजूटाहितेन्दु
र्या सा क्षौमाम्बराढ्या त्रिभुवननमिता षट्भुजा सत्रिणेत्रा ॥ २-
केशवादिन्यासः ।
एवंप्रकारा गदिता लिपेर्न्यासास्तु सिद्धिदाः ॥ २-
एषामेकतरं न्यासमाश्रयेदेव साधकः ।
न्यस्तलिप्यर्णदेहस्तु जपहोमार्चनादिकम् ॥ २-
कुर्यान्मन्त्रात्मरक्षार्थं तथा तत्कर्मसिद्धये ।
न्यस्तां लिपिं ततो ध्यात्वा पूजयेन्मातृकाम्बुजे ॥ २-
सप्तवर्गान्त्ययुग्माष्टदिक्पत्रं सितपङ्कजम् ।
बिन्दौ मदग्निरुद्धान्त्यकर्णिकं स्वरकेसरम् ॥ २-
सप्तार्णवैः परिवृतं पृथ्वीबिम्बेन वेष्टितम् ।
मातृकावर्णपद्माख्यं विषमृत्युजरापहम् ॥ २-
चिन्तितं तच्छिरस्येव मृत्युक्ष्वेलरुजो हरेत् ।
ध्यात्वा दुग्धाब्धिमध्यस्थं दिव्यस्फटिकमण्डपम् ॥ २-
तत्र पीठाम्बुजे ह्यास्मिन् शक्तयोऽष्तौ दलाग्रतः ।
मेधा प्रज्ञा प्रभा विद्या धीर्धृतिस्मृतिबुद्धयः ॥ २-
विद्येश्वरी च मध्यस्था शुक्ला शुक्लाम्बरादिकाः ।
कृताञ्जलीद्वयकरास्तथैवोर्ध्वकरद्वये ॥ २-
दधत्यः पुस्तकं कुम्भं शान्ताः सुन्दरमूर्तयः ।
विदिक्ष्वङ्गानि दिक्ष्वस्त्रं दलेषु नयनं पुरः ॥ २-
ततः स्वराश्च तत्संख्यकलाभिरमृतादिभिः ।
अमृता मानसी तुष्टिः पुष्टिप्रीतिरतिश्रियः ॥ २-
शान्तिः सुधा तथा कान्तिर्ज्योत्स्ना हैमवती ततः ।
छाया च पूरणी वामाप्यमा चेन्दुकलास्त्विमाः ॥ २-
अमृतासारवर्षिण्यो द्वन्द्वशो दलगाः स्मरेत् ।
ततो वर्गाक्षराणि स्युस्ततो ब्राह्म्यादिमातः ॥ २-
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराह्यैन्द्री च चामुण्डी महालक्ष्मीश्च दिक्क्रमात् ॥ २-
ततो दश दिगीशाः स्युरिन्द्रोऽग्निर्यम एव च ।
निरृतिर्वरुणो वायुर्धनदेशानकौ ततः ॥ २-
प्रागादिदिक्षु तेऽष्टौ स्युरथेन्द्रेशानमध्यगः ।
ब्रह्मा स चोर्ध्वलोकेशोऽनन्तो वरुणरक्षसोः ॥ २-
अधोलोकेश्वरस्त्वेतान् षडावरणगान् यजेत् ।
मध्येऽब्जकर्णिकासंस्थां चेतनात्मतया लिपिम् ॥ २-
स्वन्यासोक्ताकृतिं ध्यायेदुपचारैर्यथोदितैः ।
आसनावाहनार्घाणि पाद्यं चाचमनीयकम् ॥ २-
साङ्गोपाङ्गं तथा स्नानं वसनाभरणानि च ।
गन्धपुष्पे तथा धूपो दीपश्चरुनिवेदनम् ॥ २-
अग्निकार्यं नमस्कारो राजपूजासमर्पणम् ।
षोडशोपचारः
एवं स्थण्डिलगामिष्ट्वा मनसा वा समर्चयेत् ॥ २-
ऋष्यादीनपि विघ्नेशं गुरुं चाप्युत्तरे यजेत् ।
ततोऽष्टपुष्पिकां कुर्यात् सा चाहिंसा क्षमा दया ॥ २-
तथेन्द्रियाणां नियमो ज्ञानं भावविशुद्धता ।
अक्रोधो ध्यानमित्यष्टौ भावपुष्पाण्यनुक्रमात् ॥ २-
आसनं चैव तन्मूर्त्तिर्देवता चाङ्गपञ्चकम् ।
इत्यष्टौ पूजयेन्मन्त्रैः स्यादेवं चाष्टपुष्पिका ॥ २-
सिद्धये साधकेन्द्राणां देवतानां प्रसादने ।
प्रचेतव्यानि मन्त्राणां स्फुरणाय विशेषतः ॥ २-
क्षमस्वेति ततो देवीं परिवारैश्च तैः सह ।
निरञ्जने लयं गच्छ शिरोन्तं मनुनामुना ॥ २-
द्वादशान्ताम्बुजस्थेन्दौ योजयेच्चेतनात्मिकाम् ।
लिपिपूजाविधिः ।
पूजाक्रमोदितं चक्रभूर्जहेमादिके लिखेत् ॥ २-
तद्धारणेन सर्वार्थाः सिद्ध्यन्त्यस्याप्ययत्नतः ।
प्रातस्त्रिवारमनया जपित्वाम्भः पिबेत् सुधीः ॥ २-
संवत्सराद् भवेत् प्रज्ञा कविता चास्य जायते ।
अष्टोत्तरसहस्रं तज्जपाद् ब्राह्मीरसं पिबेत् ॥ २-
अहोरात्रमविच्छिन्नमथवाप्युपरागयोः ।
पलं श्वेतवचाचूर्णं कर्षं तुरगगन्धिनी ॥ २-
कृष्णा हरिद्रा सिन्धूत्थं धात्री रुग् विश्वभेषजम् ।
प्रतिनिष्कं तु सञ्चूर्ण्य घृतप्रस्थे विनिक्षिपेत् ॥ २-
ब्राह्मीरसचतुष्प्रस्थे पचेन्मृद्वग्निपाकवित् ।
ब्राह्मीघृतमिदं प्राज्ञमनयायुतमन्त्रितम् ॥ २-
पिबेत् सूर्योपरागे तु सर्वज्ञत्वमवाप्नुयात् ।
दिनादौ वा लिहेन्नित्यं पञ्चाशदभिमन्त्रितम् ॥ २-
संवत्सराद् भवेत् प्राज्ञः कविर्विद्वत्सुसम्मतः ।
मध्ये तु मातृकापद्मे लिप्योषध्यम्बुपूरितम् ॥ २-
कलशं विधिवन्नित्यं जपेद् दशशतं ततः ।
तेनाभिषिक्तो मासेन वागायुःकान्तिकीर्त्तिभिः ॥ २-
अरोगी युज्यते लक्ष्म्या बन्ध्या सूते सुतं शुभम् ।
आधारशक्तिबिन्दूत्थां प्रभां सौषुम्नमार्गगाम् ॥ २-
द्वादशान्तेन्दुगां ध्यात्वा तस्यां क्षाद्यक्षरं लिखेत् ।
बह्निसोमाभिसंप्रोताद् रोगान्मुच्येत पातयन् ॥ २-
लिपिमिति विदितार्थां विन्यसेदेकमार्गां
गुरुमुखसमवाप्तां तां जपेच्चापि लक्षम् ।
सितकुसुमतिलाज्यैस्तद्दशाशेन हुत्वा
वशयति जगदिष्टं प्राप्तवागीश्वरोऽसौ ॥ २-
ग्रहरिपुविषरोगान् वोप्लवान् हन्ति चान्यान्
निजवपुषि परे वा न्यासतः स्वार्णसंख्यम् ।
जगति निखिलमन्त्राः साधिताः स्युर्न नूनं
न हि लिपिरभिराद्धा साधयेत् सर्वकामान् ॥ २-
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे श्रीकण्ठादिपटलो द्वितीयः ।
अथ तृतीयः पटलः
अथ सकलमनूनां मातृकां जन्मभूमि-
स्तदधिकृतविशेषा वर्गवर्गादियुक्त्या ।
पृथगिह परिपाट्या लिख्यते च स्वराणा-
मुदयविहृतिवर्णैश्चाप्तिराश्यात्मलिङ्गैः ॥ ३-
अविदितमनुवर्णप्रक्रियाकार्यरूपः
कथमिह फललिप्सुस्तज्जपादौ प्रवृत्तः ।
गणविषयविभागानौषधानामजानन्
कुभिषगिव चिकित्सालौलुपो बालिशोऽसौ ॥ ३-
अविदितगजशिक्षश्चासृणिर्वाधिरोहे-
दविरलमदधाराः संस्रवन्तं गजेन्द्रम् ।
अगणितपरिशुद्धिर्मन्त्रतत्त्वानभिज्ञः
स पतति खलु मूर्खो देशिकः साधको वा ॥ ३-
इति लिपिमनुचक्रव्याक्रियार्थस्त्वतोऽस्मिन्
प्रकटितबहुमन्त्रो देशिकैर्वेदितव्यः ।
अकचटतपयाख्याः सप्त शाख्यश्च वर्ग-
स्त्विह रविशशिवर्णः स्यादवर्गः स्वरात्मा ॥ ३-
पुरुषयुवतिभेदा रौद्रसौम्याः स्वरास्ते
नहि पृथगुदयाः स्युहस्वदीर्घाः क्रमेण ।
उदयति रविवर्णे ह्रस्वके दक्षिणस्थे
शशिनि च खलु दीर्घे वामनासापुटेऽर्णे ॥ ३-
नसि पुटयुगलेऽस्मिन्नूर्ध्वमग्निस्तु तिर्यङ्
मरुदुदकमघस्तान्मध्यकुण्ड्यं धरित्री ।
सुषिरमिह हि यत् स्वं पञ्च भूतानि चैवं
सवितरि च शशाङ्के ते स्वरास्तूदयन्ते ॥ ३-
उभयमपि च विद्याद् यत्र निश्वासवायुः
प्रसरति समकाये स्वस्थदेहेन्द्रियस्य ।
वदतु च परिपृष्टः कार्यसिद्धिं च हानिं
स्वरमुदितमवेक्ष्य स्वस्य वान्यस्य युक्त्या ॥ ३-
कपिलवकुशरामाः कामनिम्ने निशाज्ञः
पशुरणियमगावः किं वनं संख्यनाड्यः ।
क्रमपठितयुगार्णा राशयो द्वादश स्यु-
र्दिनरजनिविभागस्तैस्तु षड्भिश्च षड्भिः ॥ ३-
अजवृषमिथुनाख्याः कर्किहर्यक्षकन्याः
समतुलमलिचापे नक्रकुम्भाह्वमत्स्याः ।
चरनचरयुगास्ते राशयस्त्रिक्रमाः स्युः
सह खलु लिपिवर्णैः श्वासवेद्योदयाद्याः ॥ ३-
उदयति चरराशिर्दक्षिणघ्राणसूर्ये
मरुति हि शशिसंज्ञे वामके स्थास्नुराशिः ।
उभयपुटनिसृष्टं चोदयेद् युग्मराशिः
सकलभुवनकालज्ञापकः श्वासचारः ॥ ३-
उभयमरुति जीवः सौम्यवायौ जले वा
शशिदहनधरण्यो मारुतो धातुशंसी ।
उभयधरणिसूर्ये चाप्सु मूलं शशाङ्के
पयसि च फलसिद्धिः सूर्यभूम्यप्सु न स्यात् ॥ ३-
कुजमुभयगवह्नौ सूर्यवह्नौ मृतिः स्यात्
सवितृवियति नष्टं स्यान्मृतं वाल्पमायुः ।
वदतु मरुति चन्द्रे दीर्घमायुस्तदद्भिः
सुखमपि शशिभूमौ चाल्पसिद्धिस्तु तत्स्वे ॥ ३-
उभयधरणिरिष्टं साधयेद् दीर्घकाला-
दुभयमरुति किञ्चित्कालपाके स सिद्ध्येत् ।
उभयगगनवह्न्योर्नैव सिद्धिर्न हानि-
र्मरुदुभयजलस्थः क्षिप्रमल्पेष्टदः स्यात् ॥ ३-
शशिजलधरणिस्थे शान्तिकं पौष्टिकं वा
शशिमरुदनवाभ्यां(?) वश्यमाकर्षणं च ।
दिनकरभुवि कुर्यात् स्तम्भनं त्वर्कतोये
रुजमिनमरुता स्वे भ्रामणोच्चाटनाभ्याम् ॥ ३-
दिनकरवियति स्यान्मोहनं चार्कवह्नौ
द्रुततरमरिवर्गान् मारयेत् सादयेच्च ।
इति जपहुतविद्याः साधयन् वै यथावत्
स्वरमुदितमपेक्ष्य त्वारभेताशु सिद्ध्यै ॥ ३-
स्वरोदयाधिकारः ।
कचटतपसमाख्याः पञ्चवर्गास्तु धात्री-
मरुदनलखतोयैः संयुतास्तत्र वेद्याः ।
अनिलदहनपृथ्व्यो वारि चाप्यत्र याद्या-
स्त्रिगुणगगनवर्णाः शादयोऽन्त्यस्तु रागः ॥ ३-
कनकरुगमलस्रग्वस्त्रगन्धोऽष्तबाहु-
स्त्रिशिखवरगदाधृत्क् कूर्मवाहोऽष्टनेत्रः ।
शशधरचतुरास्यो वृत्तपीठे कपर्दी
कुवलयसमगन्धो मन्दराभो ह्यकारः ॥ ३-
धवलरुचिरथाब्जे सूपविष्टा द्विबाहु-
र्गजवरमधिरूढा साङ्कुशा पाशहस्ता ।
तुहिनविमलहारैर्भूषिता षष्टिदीर्घा
त्रिदशविततिराख्या योजनानां पुरन्ध्री ॥ ३-
कुलिशधृगतिपीतं कूर्मवाहं कुबिम्बे
द्विभुजमलसगन्धं योजनद्वन्द्वदीर्घम् ।
स्मरतु विविधमायं विस्तृतं दैर्घ्यतोऽर्धं
रिपुदुरितगदघ्नं स्तम्भनं सूक्ष्मसंज्ञम् ॥ ३-
कनकफलकरा स्त्री पञ्चगब्यूतिवृता
सितरुचिरमृतार्द्रा हारिहाराभिरामा ।
द्विगुणधरणिबिम्बे हंसगा योजनानां
दशपरिणतमूर्तिः पुष्टिदा स्यात् त्रिमूर्तिः ॥ ३-
द्विशतरचितदैर्घ्यं विस्तृतं योजनानां
शतमतिकटुगन्धं काकवाहं द्विहस्तम् ।
अनलभवनसंस्थं ताम्रवर्णं सशूलं
सगदमखिलरक्षां(?)स्यादयुग्मं तु षण्डम् ॥ ३-
द्विभुजमरुणमग्नेर्मण्डलस्थोष्ट्रवाहं
दशशतविततं तद्द्वन्द्वदीर्घं त्रियुग्मम् ।
भुजगभुजगवर्गैर्भूषितं दुष्टगन्धं
स्मरतु विषविघाते षण्डकं शक्तिपाशम् ॥ ३-
कुलिशधरमुदग्रं हंसवाहं सपाशं
द्विलपनमतिपीतं पार्थिवाब्जे सुगन्धम् ।
शतविततिलुयुग्मं त्रिंशदायामि षण्डं
स्मरतु रिपुगणघ्नं स्तम्भनं स्वर्णचूडम् ॥ ३-
रथचरणफलास्यं षण्डकं शङ्खपद्म-
स्फुरितभुजचतुष्कं चन्द्रकीकण्ठनीलम् ।
सुमुखममलहारं पद्मगन्धं कपर्दि
स्मरतु निखिलवश्यं झण्डिनं चक्रवाके ॥ ३-
द्विभुजगरुडवाहां भूषितां वह्निबिम्बे
त्रिशिखकुलिशहस्तां शुक्लवर्णां सुगन्धाम् ।
स्मरतु विमलहारां भौतिकीं वा प्रसूत्यै
प्रविततशतकोटिं योषितं तां तथोच्चाम् ॥ ३-
अखिलभुवनमध्यव्यापकं पीतवर्णं
दशशतभुजयुग्मं द्योतमानं त्रिणेत्रम् ।
द्विगुणदहनबिम्बे गोवृषे भूषिताङ्गं
पुरुषयुवतिदेहं मुक्तिदं ध्येहि सद्यम् ॥ ३-
सितकुसुमसुगन्धिः शुक्लवासाः सुवर्ण-
द्युतिरपि कुसुमाभो वज्रपाशौ च बिभ्रत् ।
धरणिकमलबिम्बे योजनानां सहस्रं
तततनुरिह चिन्त्यः पौष्टिकेऽनुग्रहेशः ॥ ३-
घुसृणरुचिरनेकैर्भूषणैश्चित्रिताङ्गो
युगलयुगलजाड्याः स्वेष्टदः पद्महस्तः ।
सरसिजमधितिष्ठन् श्रीकरोऽक्रूरवर्णः
सकलदुरितमुक्त्यै चिन्तनीयोऽवतान्नः ॥ ३-
दहनपुरगतस्तत्षण्डकं युग्महस्तं
करगतमपि कृष्णैर्वस्त्रगन्धैस्त्रिणेत्रम् ।
त्रिशिखकुलिशहस्तं क्षुद्रविद्वेषदक्षं
दशशतपरिमाणं चिन्तयेच्च स्वरान्त्यम् ॥ ३-
स्वरमूर्त्यधिकारः ।
कुलिशमुसलहस्तो भूमिबिम्बेऽजगन्धः
कनकरुगिभसंस्थो ब्रह्मशक्राधिदेवः ।
द्विभुजपुरुषवेषो वश्यकृत् कः कपर्दी
दशशतपरिवृत्तः पातु नास्तद्द्विरुच्चः ॥ ३-
शतमखमणिनीलः सर्पयज्ञोपवीतो
धवलवदनरौद्रः पातु वः पिङ्गपादः ।
ज्वलनकमलमेषे पावनः स्तम्भनः स्वो
दशशतपरिमाणस्तोमरी शक्तिपाणिः ॥ ३-
फणिनि विकचपद्मे रक्तवर्णे निविष्टः
शतविततिरनुग्रः पुष्टिदस्तावदुच्चः ।
गणपतिधनदेशो हंसवाहः सुगन्धो-
ऽवतु भुजधृतपाशः साङ्कुशो वो गकारः ॥ ३-
दशशतपरिवृत्तं तद्विमानोच्चषण्डं
कुलिशवरगदाढ्यं ध्येयमुष्ट्राधिरूढम् ।
द्विभुजमसितयाम्यद्वेषणोच्चाटकृत्यैः
स्मरतु च घमुदग्रं यन्मुखोलूखलस्थम् ॥ ३-
त्रिशिखमुसलटङ्कैः शक्तिदण्डाहिहस्तं
यमपतिमतिकृष्णं षड्भुजः काकवाहम् ।
स्मरतु भुजगरूढं कोटिदीर्घार्धवृत्तं
श्वयथुचरणगात्रं द्वेषणेष्वेकरुद्रम् ॥ ३-
सितरुचिररिशङ्खौ चाम्बुजं मातुलुङ्गं
दधदरुणसुगन्धस्रग्विभूषः कपर्दी ।
जगति निखिलभूत्यै पातु वो गुह्यकेशो
धरणिकमलसंस्थः कोटिमानस्तु कूर्मः ॥ ३-
मकरकमलरूढः सूर्यकान्तिः स वोऽव्या-
दरिजलजगदाब्जान्यादधद् दिव्यगन्धः ।
धवलवसनगन्धः स्रग्धरः कोटिमानो
विमलमणिविभूषो वश्यदस्त्वेकनेत्रः ॥ ३-
सितकमलशशाङ्कोदुद्गताविन्दुवर्णौ
सफलकुलिशपाशौ सौधकुम्भौ दधानौ ।
दशशतपरिमाणौ वोऽवतां शान्तवर्णौ
पलितमृतिगदघ्नौ क्ष्वेलशान्तिप्रधानौ ॥ ३-
असितमशुभषण्डं दुर्मतिं काकवाहं
यमपुरुषमनेकैरायसैर्भूषिताङ्गम् ।
त्रिशिखपरशुहस्तं द्वेषकृत्येषु विद्याद्
दशशतपरिमाणं शर्मसंज्ञं तु वर्णम् ॥ ३-
जलधिसमनिनादः सद्गदो वज्रपाणि-
र्भुजगभुजगनद्धो युग्मबाहुः सुतीव्रः ।
प्रथमरिपुरुजानां ध्वंसनः क्रौञ्चवाहः
कपिलरुचिरुदारो वः स सोमेश्वरोऽव्यात् ॥ ३-
अमलशशिनिकाशः शङ्खगोक्षीरगौरो
विमलमणिविचित्रैर्भूषितो हारजालैः ।
धरणिपवनपद्मे पद्महस्तो गजोऽव्यात्
सकलविषहरो वो लाङ्गली लक्षमानः ॥ ३-
तुरगकुवलयस्थः पक्वरम्भाद्युतिर्वः
कनकमणिविचित्रस्तुर्यवक्त्रोऽष्टबाहुः ।
दशशतपरिमाणः पद्मपाशाङ्कुशाब्जा-
न्यभयवरदशूलैरादधद् दारुकोऽव्यात् ॥ ३-
अनलपुरगमेषे वह्निदेवः स वोऽव्यात्
कुलिशवरभुसृण्ठीभिण्डिपालेषुपाशान् ।
परशुमपि रथाङ्गं कार्मुकं चादधानो
दशपरिणतिरुच्चैरर्धनारीश्वरार्णः ॥ ३-
त्रिशिखपरशुहस्तं व्याघ्रवाहं सुधूम्रं
त्रिमुखमहितरोगान् ध्वंसयन्तं कुबिम्बे ।
अरिकुलिशभुसृण्ठीपाशदण्डध्वजाढ्यं
स्मरतु दशशतोच्चं चाप्युमाकान्तवर्णम् ॥ ३-
द्विपवरमधिरूढं शङ्खटङ्काब्जपाशान्
दधदलसमगन्धो वः सहस्रप्रमाणः ।
शतमखवरुणेशो वश्यदो भूषिताङ्गः
कटकमकुटनिष्कैराषढीपाटलोऽव्यात् ॥ ३-
वृषगतशितिवर्णस्तुर्यवक्त्रोऽष्टबाहु-
र्मरुदनलपतिर्वः कोटिमानस्त्रिशूली ।
मुसलपरशुशक्तीस्तोमरं भिण्डिपालं
दधदवतु च दण्डं प्रासमप्येष दिण्डी ॥ ३-
असितमथ यमेशं षड्भुजं वस्त्रिवक्त्रं
भुजगवलयहारं शूलटङ्कासिदण्डान् ।
कुलिशमपि भुसृण्ठिं षण्डमव्याद् दधद् य-
न्महिषगतकरोटौ कोटिमानोऽत्रिसंज्ञम्(?) ॥ ३-
मृगवरमधिरूढो यः स सर्पोपवीतो
निरृतिपतिरुदग्रः खड्गपाशो भुसृण्ढीम् ।
दधदतिकपिशोऽव्यान्मुद्गरी बोऽब्जपीठे
प्रतिभयरिपुभेदी यश्चतुर्लक्षमानः ॥ ३-
द्विभुजमसितवर्णं व्याघ्रचर्मोत्तरीयं
डमरुकमपि शूलं बिभ्रदारक्तनेत्रम् ।
चिरमवतु पिशङ्गैरम्बराद्यैर्युतं वो
दशशततति नाख्यं काकवाहं च षण्डम् ॥ ३-
गरुडमधिगतोऽब्जे सर्पयज्ञोपवीती
दशवदनसिताङ्गो विंशतिं यो भुजानाम् ।
दधदपि मणिचित्रः पातु कोटिप्रमाणो
विविधविषहरोऽसौ ब्राह्मणो लोहितार्णः ॥ ३-
परशुरथपदाढ्यः सिंहपद्माधिरूढः
प्रविततदशकोटिर्युग्मबाहुर्द्विजन्मा ।
हरतु भवदरिष्टं मौक्तिकब्रह्मसूत्र-
स्तडिदनलपिशङ्गो यः शिखी रक्षणेष्टः ॥ ३-
कुवलयविनिविष्टो हंसवाह षडास्यो
धनपतिपतिरब्जं शङ्खमप्यादधानः ।
धवलवसनगन्धो बन्धुजीवारुणो वः
प्रविततदशकोटिः श्रीकरोऽव्याद् बकारः ॥ ३-
त्रिमुखनयनरौद्रं पिङ्गकेशं तरक्षो-
रुपरिदहनबिम्बे धूम्रवर्णं त्रिहस्तम् ।
रथचरणगदाढ्यं षण्डकं शूलि वोऽव्यात्
प्रविततदशलक्षं यद्द्विरण्डेशसंज्ञम् ॥ ३-
उदितमिहिरकान्तिः कल्पवह्निप्रकाशो
जटिलशिरसि चन्द्रं मुण्डमालां च बिभ्रत् ।
त्रिशिखपरशुनागांश्चानलं भूतये वो
विषमयवपुरब्जे स्यान्महाकालवर्णः ॥ ३-
मृगगतिरतिध्रूम्रो वायुबिम्बे स पायाद्
ध्वमुसलगदाग्नीनादधद् वायवीयः ।
सकलभुवनमानश्चाटनः क्षुद्रकृत्ये -
ष्वरुणवसनगन्धैर्भूषितो वो यकारः ॥ ३-
ज्वलदनलनिकाशो बह्निबिम्बेऽम्बुजस्थः
सकलभुवनमानो मेषवाहः प्रसन्नः ।
अभयवरदशक्तिस्वस्तिकानादधानः
सितवसनसुगन्धिः पातु युष्मान् भुजङ्गः ॥ ३-
कमलगतकरीन्द्रे योषिदापीतवर्णा
कलमकनकवल्लीवज्रपाशान् दधाना ।
दिशतु धरणिबिम्बे भूषिता सर्वपीता
धरणिविततिरिष्टं धारिणी स्तम्भिनी वः ॥ ३-
अमृतकिरणगौरी नक्रपङ्केरुहो वो
धवलकमलपाशौ बिभ्रती वारिबिम्बे ।
विविधविषरुजार्तिं ध्वंसयन्ती विभूत्यै
भुवनविततिरस्तु क्षीरपीयूषमूर्तिः ॥ ३-
धवलकमलहस्ता पुण्डरीकोपविष्टा
विमलवसनगन्धैर्भूषिता हेमवर्णा ।
दशशतपरिमाणा हारिधम्मिल्लभारा
प्रदिशतु बकवर्णास्याकृतिर्वो विभूतिम् ॥ ३-
शतमखमणिनीलः कूर्मवाहो द्विबाहुः
कपिशवसनगन्धो वज्रपाशौ च बिभ्रत् ।
दशशतपरिमाणः क्षोभणो वोऽस्तु लक्ष्म्यै
प्रहसितवदनेन्दुः श्वेतसंज्ञः प्रमत्तः ॥ ३-
शशधररुचिगौरो वज्रपद्माब्जपाशान्
निधिकलशकरण्डे चक्रमप्यादधानः ।
सरसिजगतहंसे भूषितः कोटिमानो
धनदपतिरभीष्तं यो भृगुर्वस्तनोतु ॥ ३-
धवलवसनगन्धस्रग् जटी चन्द्रमौलि-
र्हर इव लकुलीशो भूरिगौरस्त्रिणेत्रः ।
हरिणपरशुशूलैश्चान्वितो विश्वमानः
शिवगिरितनयेन प्राणस्वात्मावताद्वः ॥ ३-
सुरपतिभवनाब्जे शङ्खवज्रारिपाशान्
सृणिमुसलभुसृण्ठीखड्गघण्टाकपालम् ।
दधदवतु गजस्थः क्षेत्रपालेन्द्रदेवो
भुवनविततपीतस्त्रीक्षणोऽन्त्यो द्विदंष्ट्रः ॥ ३-
धवलरुचिरवर्णा ब्राह्मणास्तेऽथ रक्ताः
क्षितिभुज इह पीता ये विशो येऽपि कृष्णाः ।
वृषलकुलसजाता ह्यक्षराश्च स्वलिङ्गैः
पुरुषयुवतिषण्डास्ते प्रतिश्लोकवेद्याः ॥ ३-
प्रत्यक्षरमूर्त्यधिकारः
गुरव इह हि दीर्घा बिन्दुसर्गाभियुक्ता-
स्तदुपरि विनिविष्टो युक्तवर्णोऽपि यस्य ।
स च गुरुरिति वेद्यः शेषितोऽस्माल्लघुः स्या-
ल्लघुरयुगलमात्रः स्याद् गुरुश्च द्विमात्रः ॥ ३-
मयरसतजभाख्या नस्तथाष्टौ गणास्ते
पृथगिह खलु हल्भिस्ते त्रिभिः स्युस्त्रिभिश्च ।
सकलगुरुमसंज्ञो यो गणः सोऽवनिः स्यात्
प्रथमलघुयसंज्ञः स्याद् गणस्तोयमूर्तिः ॥ ३-
रगणमिति लमध्यं वह्निदैवं तु विद्यात्
सगणमपि च वायुं सोऽन्तगुर्वक्षराढ्यः ।
तगणमपि खमाहुस्तस्य चान्ते लघुस्या-
ज्जगणमपि च मध्ये स्याद् गुरुः सूर्यदैवम् ॥ ३-
प्रथमगुरुभसंज्ञः स्याद् गणः सोमदेवः
सकललघुगणो द्यौर्नाभिधेयोऽष्टमः स्यात् ।
इति गुरुलघुभिन्नैरष्टभिर्व्याप्तविश्वै-
र्लिपिपरिपठितार्णैः स्याद् गणैः शब्दसूतिः ॥ ३-
अनलसलिलवर्णा ये गणाः शत्रवस्ते
पवनदहनखार्णा मित्रमन्योन्यमुक्ताः ।
सलिलधरणिसंज्ञास्तेऽपि मित्रं मिथः स्युः
सलिलपवनखाख्या ये गणास्तेऽत्र मध्याः ॥ ३-
पुरुषयुवतिषण्डाः स्नेहिनः षण्डमध्याः
पुरुषपुर्षयोषिद्योषितोऽन्योन्यदुष्टाः ।
सुहृदि सुहृदमर्णं वा गणं मध्यमं वा
घटयतु स तु मन्त्रो वाचको देवतायाः ॥ ३-
मनुरपि विधिनैकः साधितो येन देवः
स भवति सगणानां सिद्धिभाक् तन्मनूनाम् ।
किमु बहुविधमन्त्रान् वेत्ति यः साधयेद् वा
स भवति शिवतुल्यस्तत्फलानां निधानम् ॥ ३-
प्रियफलकटिरम्या श्रीप्रिया रात्रिरन्या
खगकुलकटकस्त्रीपात्रगर्भार्णसंज्ञा ।
अभिहितलिपिवर्णानश्विनाद्येषु भेषु
स्वरपरिणतियुग्मं पौष्णभे स्यान्नियोज्यम् ॥ ३-
लकारश्च ।
कुरुवृषदधिसंख्याः शोभनास्तारकाः स्यु-
र्भयमृतिगददुःखं गोमिथोऽसंख्यभैः स्यात् ।
कृतमिह खलु यत् स्यान्नाम मातापितृभ्यां
जननभमपि यत् स्यात् तद्द्वयस्यानुकूलम् ॥ ३-
फलगुरुरुरुशाणाः शर्मशर्वास्त्वजाद्या
निगदितलिपिवर्णा राशयः शादयः स्त्र्याम् ।
जननभनिजनाम्नस्त्वादिवर्णाभियोगा-
दभिमतमनुभेनाप्यादिवर्णेन शोध्यम् ॥ ३-
शुद्धायामवनौ सगोमयजलैरालिप्य तत्रालिखे-
च्चक्रं षोडशकोष्ठकं तु परितः पङ्क्त्यैकया राशयः ।
विघ्नक्षेत्रपवास्तुवेशविधयः कोष्ठेषु मध्ये स्थितां-
स्तानिष्ट्वा लिपिवर्णराशिघटनां मन्त्रात्मनाम्नोर्नयेत् ॥ ३-
एको वाप्यथ पञ्चमोऽपि नवमो राशेः स्वकाद् बान्धवो
राशिः स्याद् दशमद्वितीयसहितः षष्ठो भवेत् सेवकः ।
रुद्राग्निस्वरसंख्यया यदि मतस्तन्त्रेष्वयं पोषकः
स्याद् यो द्वादशमोऽष्टमः श्रुतिमितो मन्त्रः स्मृतो घातकः ॥ ३-
यो बन्धुर्भवति मनुः स रक्षतीमं
सर्वार्थानपि वितनोति सेवकाख्यः ।
पुष्टिश्रीविभवयशांसि पोषकात्मा
प्राणार्थानपि च निहन्ति घातकाख्यः ॥ ३-
ईशाद्यं तु चतुश्चतुष्पदलिपौ स्वाख्यादिवर्णे पदे
ये सिद्धाः खलु ते द्वितीयपदगाः साध्याः सुसिद्धाः परे ।
वर्णा येऽप्यरयश्चतुर्थपदगास्ते मृत्युदुःखप्रदाः
शिष्टास्ते त्वचिराच्चिराज्जपहुतैः सिध्यन्ति पाठादपि ॥ ३-
प्राक् साध्याख्यां साधकाख्यां च पश्चाद्
धृत्वाष्टाभिस्तत्र शेषादृणं स्यात् ।
स्वाख्यावर्णैर्वर्धितैः साध्यवर्णैर्-
हृत्वाष्टाभिस्तद्विलोमादृणं वा ॥ ३-
साधकाह्वयवर्णानां सह मन्त्राक्षरैस्तु यत् ।
सिद्धाद्यैर्गणनां कृत्वा ज्ञेयो मन्त्रांशकस्त्वयम् ॥ ३-
पश्चिमात् प्राग्गतं लेख्यं पङ्क्त्योर्दक्षिणवामयोः ।
मन्त्रनाम्नोर्यथा वर्णान् पृथक् तद्व्यञ्जनस्वरैः ॥ ३-
नाम्नोर्मन्त्रस्य वा वर्णा विषमाः स्युर्यदा तदा ।
तत्तदक्षरमालेख्य समं यावत् प्रपूरयेत् ॥ ३-
ततः सिद्धादिभिर्हृत्वा ज्ञेयं प्राग्वत् फलादिकम् ।
पङ्क्तौ लिखेत् साधकसाध्यनाम्नो वर्गान् स्वरव्यञ्जनभेदभिन्नान् ।
हृत्वा त्रिभिः शात्रवमित्रमध्यान् विद्याच्च शत्रुर्यदि तं प्रजंह्यात् ॥ ३-
संहितोच्चारणात् प्राप्तं शोधनेष्वक्षरं त्यजेत् ॥ ३-
अधिकं चाप्यनुस्वारं जिह्वामूलं विसर्गकम् ।
त्यक्त्वैवं सोधयेन्मन्त्रान् यथोक्तं तत्त्वसागरे ॥ ३-
यथैवाद्याक्षरे शुद्धिं तथा सर्वाङ्गशोधनम् ।
कृत्वा कियन्तः सिद्धाद्या मन्त्रेऽस्मिन्निति चाङ्कयेत् ॥ ३-
सिद्धार्णाश्चतुरो यस्मिन् मन्त्रोऽसौ सिद्धनामभाक् ।
सिद्धहीनस्तु साध्याख्यः सुसिद्धो रिपुवर्जितः ॥ ३-
सुसिद्धहीनः शत्रुः स्याच्चतुर्धैवं प्रकल्पयेत् ।
सुसिद्धमन्त्रः स्यादन्ते सिद्धये स हि कामधुक् ॥ ३-
अशत्रुरादिसिद्धो यः सुसिद्धार्णादिको मनुः ।
अरिवर्णविहीनश्च सर्वकामप्रदो ह्यसौ ॥ ३-
यस्याद्यन्तगतः साध्यः कृच्छ्रसाध्यः स वै मनुः ।
आदावन्तेऽथवाद्यन्ते यस्यारिर्न तमभ्यसेत् ॥ ३-
स्वभ्यस्तोऽपि हिनस्त्येवं जन्मान्तरशतैरपि ।
सुसिद्धो यस्य चाद्यन्ते सोऽस्य चिन्तामणिर्मनुः ॥ ३-
एवं विशोधयेन्मन्त्रान् यथोक्तं तत्त्वसागरे ॥ ३-९० १।
प्रत्यक्षरं तु कथितं खलु मातृकायां
रूपादिकं तदभियुक्तजपादिनार्थाः ।
सिध्यन्ति मन्त्रनिकुरुम्बविशिष्टवर्णै-
र्युक्तैस्तु यद् भवति तच्च समस्तमूह्यम् ॥ ३-९१ १।
इत्थं विशोध्य बहुधा प्रथमाक्षरं तन्-
मन्त्रस्य शिष्टमपि वर्णगणं विचार्य ।
शुद्धाक्षरादिकमनुं तलिनेतरार्णं
दद्याद् गुरुस्तदधिकारिविशेषयुक्त्या ॥ ३-९२ १।
इति श्रीमदीशानगुरुदेवपद्धतौ तन्त्रसारे स्वरोदयमातृकाप्रत्यक्षररूपादिकथनं नाम तृतीयः पटलः ॥
अथ चतुर्थः पटलः
मन्त्रास्त्रेधा स्त्रीपुमांसश्च षण्डाः
स्वाहान्ताः स्युर्योषितो ये नमोन्ताः ।
ते षण्डाख्याः शिष्टमन्त्राः पुमांसः
प्रोक्तं मन्त्रव्यापृतौ गौतमेन ॥ ४-
पुंभिः कुर्याच्चाटवश्ये विषघ्नं
स्त्रीभिर्मोहं चान्त्ययोत्सादनाद्यम् ।
शेषं सर्वं कर्मजातं तु षण्डैर्
मन्त्रैः कुर्यादाशु तत्तत्फलाप्त्यै ॥ ४-
ताराकाशावन्त्यवायवग्निवर्णा
ह्याग्नेयाः स्युः सौम्यमन्त्रास्त्वतोऽन्ये ।
आग्नेयोऽपि स्यात् ससौम्यो नमोन्तः
सौम्योऽपि स्यादग्निमन्त्रः फडन्तः ॥ ४-
स्यादाग्नेयैः क्रूरकार्यप्रसिद्धिः
सौम्यैः सौम्यं कर्म कुर्याद् यथावत् ।
सौम्याग्नेयास्तूभयैर्लक्षणैः स्युः
कुर्यात् सर्वं कर्म तैः क्रूरसौम्यम् ॥ ४-
स्वापोद्बोधौ तद्वदभ्यासकालं
विद्यादेषां त्वासनं चारभेदात् ।
सौम्यानां स्यात् सौमयतोऽभ्यासकालस्
त्वाग्नेयानां सौरतोऽभ्यास उक्तः ॥ ४-
सौम्यः स्वापः सूर्यचारेऽथ सौम्ये
त्वाग्नेयानां स्वाप उक्तोऽथ बोधः ।
द्विष्ठश्चारस्तुल्य एवोभयोः स्यात्
सुप्तोऽभ्यासे बुद्धमात्रोऽपि नेष्टः ॥ ४-
जापं कुर्यादुक्तकाले मनूनामुद्बन्धान् वा जप्यहोमक्रियादौ ।
आरभ्यैतान् पूर्वमभ्यासकाले मध्ये स्वापः कर्मणां नैव दुष्येत् ॥ ४-
मन्त्रलिङ्गाधिकारः ।
षडङ्गो यो मन्त्रः स भवति सनेत्रो ह्यनयनो
मनुः पञ्चाङ्गः स्यात् खलु यदुभयोरङ्गमनवः ।
पृथक् ते स्युर्नो चेत् क्वचिदपि च मूले नवदश-
स्वरैः कुर्याद् दीर्घैरनृणयुगलैरङ्गरचनाम् ॥ ४-
स्वैरर्चिर्भिर्यद्वदेवाप्रधृष्यः
सूर्यो वाग्निस्तेजसाग्र्यः समर्थः ।
तद्वत् साङ्गैर्मन्त्रमूर्तिस्तदात्मा
तद्युक्ताङ्गैः स्यात् समर्थोऽप्रधृष्यः ॥ ४-
हृद् बुद्धिगम्यं हृअदयस्थ आत्मा
स्याच्चेतनावान् हृदयेन मन्त्रः ।
यद् बुद्धिपूर्वं क्रियते नमोऽस्मै
मुख्यं हृदङ्गं तत एव वेद्यम् ॥ ४-
शिरस्तु मूर्तस्य मनोः प्रधानमङ्गं हि सर्वेशगुणार्थतुङ्गम् ।
स्वतो हि तस्माद् विषयापहारे स्वाहेति युक्तं शिरसोऽङ्गमुक्तम् ॥ ४-
शिखा तु कर्माङ्गतया मनूनां
यतो वषड्व्युष्टिकरं तदङ्गम् ।
अधृष्यतेजाः शिखया यदग्निर्-
वषट्शिखायां विनियुज्यतेऽतः ॥ ४-
कचग्रहार्थग्रहणात् तु धातोः
सङ्गृह्य देहं कवचं मनूनाम् ।
तेजस्तु हुं सर्वमरिष्टजातं
निवारयेत् तत्कवचाय युक्तम् ॥ ४-
नेत्रेण सर्वं परिपश्यतीह
मन्त्रः स्फुटं यं दृशि दर्शनाय ।
वौषड् भवेदङ्गमतस्तु नेत्रं
नेत्रे तु सिद्ध्यै दृशि वौषडुक्तम् ॥ ४-
असूनदः पालयतीत्यतोऽस्त्रं
धातोरसुक्षेपणवाचकार्थात् ।
अनिष्टमाक्षिप्य तु पाति मन्त्रं
त्रैङ्पालनेऽस्त्रायफडित्यतोऽस्त्रम् ॥ ४-
पूर्वं गुरुर्योऽस्य मनोर्विधानं
विज्ञाय संसाधितवानृषिः स्यात् ।
इच्छाप्रधानार्थकथां तु योगाच्-
छन्दो भवेद् वर्णगतं यथावत् ॥ ४-
ददात्यभीष्टानवतीह दुःखाद्
या देवता दैवतभावदानात् ।
सा देवताख्या मनुवाच्यवस्तु-
स्वरूपिणी यत् कथितं प्रपञ्चे ॥ ४-
मन्त्रात्मिकायास्त्वथ देवताया
मूर्तिर्हि सर्वो मनुवर्णपूगः ।
शक्तिस्तु तत्पूर्तिकरी चितिः स्याद्
बीजाख्यमस्यैव तु जीवभूतम् ॥ ४-
तच्छन्दो मुनिरहितं जपेद् यदासौ
तुच्छं वै दिशति फलं तु बीजशक्त्योः ।
अज्ञानाद् व्रजति मनुर्जडत्वमङ्गैर्-
अन्यस्तैरसुरगणा हरन्ति जप्यम् ॥ ४-
शुद्धो विष्णुर्येन केन स्वरेण स्पृष्टो वह्निर्होमसंवर्तको वा ।
ठोपोवोमा (?) सोऽपि वामाक्षयुक्तो बीजं खड्गी सामरेशोऽपि मन्त्रे ॥ ४-
सानन्तो वा वामपार्श्वं भुजादिर्वामाक्षाढ्यो वाथ मेषोधिसूक्ष्मौ ।
सामान्याः स्युः सर्वमन्त्रेषु बीजान्येतान्येवं यत्र नोक्तं तु बीजम् ॥ ४-
एकाक्षरस्य तु मनोर्न परं तु देवबीजं वदन्ति यदतः परतः पुरोक्तम् ।
शक्तिश्च नादसमबिन्दुरनिश्चिता चेद् बीजादजः परतरः खलु शक्तिरुक्ता ॥ ४-
राशेस्तथा साधकसाध्यनाम्नोर्नक्षत्रयोः सर्वमिहानुकूलम् ।
यो मन्त्र उक्तेन सिध्येत् सिध्येन्न मन्त्रोऽपि चिरेण वान्यः ॥ ४-
नामर्क्षराश्यादिकमानुकूल्यं मन्त्रेषु सप्तस्वनपेक्ष्यमेषु ।
हंसाष्टपञ्चाक्षरवह्नितारैः सावित्रिसञ्जीवनगोपकेषु ॥ ४-
लिप्यर्णानां संविभागेन योक्ता
नक्षत्राणां विंशतिः सप्तयुक्ता ।
तत्संख्याः स्युर्देवताश्चापि वृक्षास्-
तान् न छिन्द्याद् यत् स्वमन्त्रर्क्षवृक्षम् ॥ ४-
स्वायुर्वृद्ध्यै वर्धयेत् तं तु रक्षेद्
वन्देदेनं सिद्धये मन्त्रवृक्षम् ।
मन्त्रर्क्षेशां देवतां चार्चयेत् तां
ये वर्गोत्थास्तान् ग्रहांश्च स्ववारे ॥ ४-
दस्रो यमोऽथ दहनः कथितः प्रजेशः
सोमः शिवादितिसुरेड्यभुजङ्गमाश्च ।
पित्रर्यमाख्यभगभास्करविश्वकर्म-
प्राणा महेन्द्रदहनावथ मित्रसंज्ञाः ॥ ४-
इन्द्रस्तथापि निरृतिः सलिलं च विश्वे
चक्रायुधोऽथ वसवो वरुणोऽप्यजाङ्घ्रिः ।
ख्यातोऽहिपूर्वपदबुन्धिरथोऽत्र पूषा
ख्याता क्रमेण भगणस्य तु देवतामी (?) ॥ ४-
कारस्करामलकपूर्वमुदुम्बराख्या
जम्बूस्तथैव खदिराप्यथ कृष्णवंशौ ।
सास्वत्थनागतरुरोहिणकाः पलाशाः
प्लक्षस्ततस्त्वमितिपूर्वकबष्ठसंज्ञः ॥ ४-
बिल्वार्जुनावपि विकङ्कतकेसराख्या
वृक्षास्तथा शबरसर्जकवञ्जुलाह्नाः ।
उक्ताः क्रमेण पनसार्कशमीकदम्बा
भानां तु चूततरुनिम्बमधूकसंज्ञाः ॥ ४-
एभ्यः सदेवताभ्यस्तु नक्षत्रेभ्यः समुद्गताः ।
तिथयः प्रतिपत्पूर्वाः पक्षयोः शुक्लकृष्णयोः ॥ ४-
सोमवृद्धिक्षयवशाद् द्विधा स्युस्तिथयस्तु ताः ।
तिथीनां क्रमशस्त्वासां देवताः प्रभवन्ति याः ॥ ४-
अग्निर्दस्रावम्बिकाविघ्ननागाः
स्कन्दः सूर्यो मातरश्चापि दुर्गा ।
आशा श्रीदश्चाथ वैकुण्ठधर्मौ
रुद्रश्चन्द्रश्चाथ पित्र्या कुहूः स्यात् ॥ ४-
सराशिताराल्लिप्यर्णतिथिभ्यः शक्तिजृम्भितात् ।
करणान्यभवन् सप्त बवादीनि तु पक्षयोः ॥ ४-
बवं च बालवं चैव कौलवं तैतिलं तथा ।
गरजं वणिजाख्यं च विष्टिश्चैव तु सप्तमी ॥ ४-
पशवः सप्त सिंहाद्या बवादीनां तु योनयः ।
सिंहव्याघ्रवराहाश्च स्वरेभच्छागकुक्कुराः ॥ ४-
देवताः सप्त शक्राजमित्रार्यमधराश्रियः ।
यमश्च करणानां स्युः पूज्यास्तत्करणेषु ते ॥ ४-
एवं हि मातृकावर्णविवृतिः संप्रकीर्तिता ।
गौतमीये यथा प्रोक्तं मन्त्रव्याकरणेषु च ॥ ४-
प्रपञ्चसारे च यथा यथोदग्गार्ग्यभाषितम् ।
मातृकावर्णविततिर्विश्वमेतदिति स्फुटम् ॥ ४-
विन्दोरग्रे रवोऽभूदथ रवजनिताः षोडशादौ स्वराः स्युः
काद्यर्णाः पञ्च वर्गास्त्वथ खलु यमुखा धातुभिः पञ्चभूतैः ।
तन्मात्राभिस्तथाक्षैः प्रकृतिरथ गुणैर्विश्वरूपा नसंज्ञा
शक्तिर्वागीश्वरीयं ननु जगदखिलं यत् प्रपञ्चाभिधेयम् ॥ ४-
इति श्रीमदीशानगुरुदेवपद्धतौ तन्त्रसारे मन्त्रलिङ्गादिकं नाम चतुर्थः पटलः ॥
अथ पञ्चमः पटलः
अथ मन्त्रजपार्चनाहुताद्यैर्विविविधानामपि कर्मणां तु युक्त्या ।
पृथगत्र हिताय साधकानां कथयिष्ये निखिलेन साधनाद्यम् ॥ ५-
कथिताः खलु तत्त्वसागरादौ विधयः पल्लवयोगरोधनाद्याः ।
हरितश्च सदेशकालयुक्त्या विविधद्रव्यदिनासनादिकुण्डैः ॥ ५-
अपि पल्लवयोगरोधनानि ग्रथनं संपुटकं विदर्भणं च ।
इति कर्मसु योजनं हि षोढा मनुवर्णैः सह साधकार्णयुक्त्या ॥ ५-
मनुरन्तनिविष्टसाधकाख्यः कथितः पल्लवमादितस्तु योगः ।
उभयत्र मनोस्तु नामरौधौ ग्रथनेऽर्णान्तरितं द्वयोः क्रमेण ॥ ५-
उभयत्र तु साधकस्य मन्त्रो विनिविष्टो यदि संपुटं तदाहुः ।
मनुवर्णयुगेन साधकार्णं यदि चैकं क्रमशो विदर्भणं स्यात् ॥ ५-
ग्रहभूतपिशाचनिग्रहादौ विषसंहारविनाशमारणेषु ।
अरिचाटनसादनेषु तेषामपि विद्वेषविधौ च पल्लवं स्यात् ॥ ५-
परमोहनकर्मणां तु रोधः परसंस्तम्भनकेषु योगमाहुः ।
जनशीलनकेषु संपुटं स्याद् वशकृच्छान्तिकपुष्टिदो विदर्भः ॥ ५-
पल्लवाद्यधिकारः
वृषशान्तिकपौष्टिकेषु पूर्वा त्वनलाशा खलु चाटने ज्वरे च ।
ननु मारणमोहयोर्यमाशा कथिता द्वेषणकेषु राक्षसाशा ॥ ५-
जलदिग् जलवृष्टिदाहशान्त्यां भ्रमणस्तम्भनयोश्च मारुताशा ।
शिववाग्यजनेषु वश्यकृत्ये धनदाशा कथितेशदिग् विमुक्त्यै ॥ ५-
शिवदक्षिणमूर्तिपश्चिमाशा मुखशर्वालयगोष्ठपुण्यनद्यः ।
परदेवहुताशविप्रगेहैर्वनशैलाः खलु शान्तिकेषु देशाः ॥ ५-
वटपिप्पलबिल्वमूलदेशाः प्रथमोक्ताः शुभपौष्टिकेषु शस्ताः ।
अपि कर्षणवश्यकर्मणोस्ते खलु शस्ताः स्वगृहादिकं च रम्यम् ॥ ५-
परिशोध्य भुवं तु शल्यहीनां गतलोष्टात्ममषीतुषादिदोषाम् ।
सिकतासममृत्स्नयाभिपूर्णां मुकुराभामुदगिन्द्रदिक्प्लवान्ताम् ॥ ५-
अभिपूजितवास्तुपधिदैवां सुरभेः सूतकरोगवर्जितायाः ।
गगनात्तनवेन गोमयेनाप्युपलिप्याम्बरगालितैश्च तोयैः ॥ ५-
प्रकृतानुगुणं तु तत्र कुर्यात् परिशुद्धेष्टकदारुबल्बजाद्यैः ।
अपि यज्ञियसाधनैर्यथेष्टं मठशालादिकमिष्टदण्डमानम् ॥ ५-
परमाणुरजः कचश्च लिक्षाः सहयूकाश्च यवाः क्रमाष्टसंख्याः ।
यवकोटरकोष्ठकं तु तिर्यक् खलु मानाङ्गुलमिष्यते स्म तन्त्रे ॥ ५-
प्रवदन्ति वितस्तिका द्विषट्कैरिति मानाङ्गुलकैर्वितस्तियुग्मम् ।
कथयन्ति हि किष्कुसंज्ञहस्तं निपुणा हस्तचतुष्टयं च दण्डम् ॥ ५-
धनुरित्यपि दण्ड एव तेषां धनुषामष्टकमुच्यते हि रज्जुः ।
मुरतारसुराङुलैः प्रजेशं सधनुर्मुष्टि धनुर्गृहे च विद्यात् ॥ ५-
ऋजुमध्यमपर्वमध्यमायास्त्विह मात्राङ्गुलमिष्यते तदान्यत् ।
भवनादिषु पूर्वमङ्गुलं स्यात् खलुं मात्राङ्गुलमेव साधनेषु ॥ ५-
गृहविस्तृतिदैर्घ्यदण्डपूगं त्रिगुणं तद्वसुभक्तशिष्टदण्डाः ।
क्रमशो ध्वजधूमकेसरिश्ववृषभाः स्युः स्वरहस्तिवायसाख्याः ॥ ५-
ध्वजसिंहवृषेभलक्षणाः प्राग्यमनीरेशधनेशदिक्षु शालाः ।
अपि मध्यगृहे समे च वृत्ते सममेतच्छुभदण्डमेव कुर्यात् ॥ ५-
अपि चाटनमारणादिकानामशुभानामिह कर्मणां प्रयोगे ।
ननु वायसगर्दभश्वधूमैरधिदण्डं भवनदिकां विधेयम् ॥ ५-
विषवृक्षपरेतभूमिकाष्ठैरशुभैः कण्टकिभिश्च तत्र शालाः ।
यमवह्निनिशाटदिक्प्लवा भूर्निखिलक्षुद्रविधौ विशेषरौद्राः ॥ ५-
विपिनानि चिता स्वयंभुवैकं शिवलिङ्गं भवनं करालिकायाः ।
महिषासुरमर्दिनीनिवासोऽप्यभिचारेषु निरालयाश्च शस्ताः ॥ ५-
अचलाश्च विविक्तनिर्जला ये मुसलस्त्रीशिशुशब्दवर्जिताः स्युः ।
अशुभेषु शुभेषु चापि देशाः परिहीणान्त्यजरासभाश्वशूर्पाः ॥ ५-
कृकवाकुविलालजुष्टदेशे जपहोमादि कृतं फलाय न स्यात् ।
विधवा विकलाश्च पापिनो वाप्यृतुमत्यश्च निहन्ति कर्म सर्वम् ॥ ५-
शुभकर्मसु कन्यकाश्च सत्यः शुभलक्ष्मप्रबराङ्गनाश्च विप्राः ।
ध्वनयोऽपि गवाश्वकुञ्जराणां फलदाः स्युः सह शङ्खवाद्यगीतैः ॥ ५-
अभिचारविधौ तु कन्यकाद्या विधवाद्याश्च गवाश्ववेदघोषाः ।
अपहन्युरिमे प्रयोगशक्तिं सुतरां माङ्गलिकानि तत्प्रदेशे ॥ ५-
विजनेषु विशेषतोऽभिगुप्तेऽनतिदूराद् विविधाप्तरक्षिवर्गैः ।
विपिनादिपुरोक्तलक्षणेऽन्यैर्यददृष्टे विदधातु मारणाद्यम् ॥ ५-
ह्रदिनीनदसह्यविन्ध्यशैलास्त्वपि रत्नाकरगा विशिष्टनद्यः ।
उदधेः सलिलं च हन्युरेते यदि मध्ये स्युरलं प्रयोगशक्तिम् ॥ ५-
प्रकृतार्थविशेषकर्मणामप्यभिरूपे सुविचारितप्रदेशे ।
यदसौ विदधाति बीजमुप्तं ननु देशानुगुणं फलाय रोहेत् ॥ ५-
देशाधिकारः ।
विदधीत वशीकरं वसन्त परविद्वेषणकं निदाघकाले ।
वर्षास्वरिचाटनप्रयोगं शिशिरे मारणकर्म चेत् करोतु ॥ ५-
शरदेव हि शान्तिके प्रशस्ता खलु हेमन्तकृतानि पौष्टिकानि ।
ननु शान्तिकपौष्टिके हिमे वा मधुमासेऽपि तथा परे वदन्ति ॥ ५-
उदयात् परतो रवेस्तु यामाविह हेमन्तवसन्तकौ क्रमोक्तौ ।
प्रहरावधि पश्चिमौ निदाघाह्वयमासावुदितौ दिनावसानात् ॥ ५-
मिहिरास्तमयात् तु विंशतिः स्याद् घटिकाः शारदकालसंज्ञितोऽसौ ।
परतो घटिकास्तु शैशिरः स्यादुदयात् प्रागिति तत्त्वसागरोक्तम् ॥ ५-
कालाधिकारः ।
सिततण्डुलभक्तपञ्चगव्यैस्तिलपुष्पाक्षतशुक्लगन्धयोगैः ।
ननु नित्यविधौ पलाशदूर्वायवशालिप्रमुखाश्च धान्यवर्गाः ॥ ५-
अथ शान्तिककर्मणां विशिष्टे हवनादौ च यथोदितं समिद्भिः ।
विदधीत शमीवटाम्रनित्याखदिरोदुम्बरमार्गबोधिबिल्वैः ॥ ५-
दधिमाक्षिकदुग्धपायसाज्यैश्चरवो बिल्वतिलाश्च शालिभेदाः ।
फलमोदकशर्करोक्तपुष्पैः समिधः स्युर्विविधाश्च पौष्टिकेष्टाः ॥ ५-
लवणस्तिलसर्षपौ यथोक्ताः समिधः पुष्पफलानि पुत्तलीकाः ।
मधुराणि सजन्मवृक्षहेमैः स्युरमी चन्दनरोचने च वश्ये ॥ ५-
मधुपेन्द्रलते सहा च भीता हरिपत्नी हरिलङ्घितासुभद्राः ।
मुसली गिरिकर्णिमोहनीकाः सुरताल्युत्पलमादलाब्जदूर्वाः ॥ ५-
गजदानशिले सितार्कमूलं कनकं क्षीरनगाः स्वदेहजानि ।
उदितानि हि वश्यकर्षणार्थं जतुभूर्जादि च तत्र तन्त्रगीतम् ॥ ५-
तुषसर्षपकाककाकवैरिच्छददण्डीविषनिम्बमातुलुङ्गैः ।
महिषाश्च जलेऽप्यलक्तसारं ननु विद्वेषणकर्मवस्तु गीतम् ॥ ५-
फणिसूरणचित्रलोणपिण्डैः कनकाम्भोगृहधूम्रकोषणैर्यत् ।
परिपिष्टमिदं विषं वदन्ति द्विषतां द्वेषणमारणक्रियेष्टम् ॥ ५-
पिचुमन्दतरुस्थकाकनीडं वसनाङ्गारमृदः श्मशानलब्धाः ।
नगदारुकमर्कटीकदण्डीनृकचास्थ्यादि च वस्तु चाटने स्यात् ॥ ५-
भ्रमणे च पिशाचवृक्षनिम्बावसिस्तोन्मत्तकलाङ्गलीशणैश्च ।
रुजिचित्रकदण्डिशाल्मलाद्यैर्विषभल्लातविभीतकैश्च कुर्यात् ॥ ५-
विषवृक्षविषाजसर्पिषोऽहीन् नृकपालास्थि फलानि चैत्यकाष्ठैः ।
वसनान्यसितानि सर्षपाअद्यं नखकेशाङ्घ्रिरजांसि साध्यजानि ॥ ५-
द्विकशात्नवकाकरक्तपीतैः कुसुमैर्लोहितपुष्परक्तगन्धैः ।
अपि जन्मनगादिपुत्तलीभिः कटुकोष्णैरपि मारणं विधेयम् ॥ ५-
बुससर्षपपीतगन्धपुष्पैः कटुकोष्णाम्बुनिशाजमाहिषाणि ।
कुपटच्चरकोकिलाक्षचक्रीमृदिति स्तम्भनकृत्यसाधनानि ॥ ५-
द्रव्याधिकारः ।
तपनाहिनगात्मभाश्विनीनां तिथयोंऽशा दिवसाः शुभग्रहाणाम् ।
हरदस्रहरीन्द्रसूर्यपूषादितिदैवानि च भानि शान्तिकेस्युः ॥ ५-
तिथयो महिषारिविघ्नयाम्याः शशिजीवांशदिनोदयादिकं च ।
गुरुविष्णुशशाङ्कभैर्भगर्क्षं कथितं पौष्टिकसिद्धिदं यथावत् ॥ ५-
नवमी हरिमातृदिग्गुहानां तिथयः शुक्रकुजार्कवासराश्च ।
रवितिष्ययुताश्च सिद्धयोगाः कथिताः संवननेषु कर्षणे च ॥ ५-
नवमी शशिमातृवह्निदैवास्तिथयः शुक्रकुजार्कवासराद्यम् ।
यमवह्निहराहिदैवपूर्वाः खलु विद्वेषणकर्मसिद्धिदाः स्युः ॥ ५-
असिताहनि चासितप्रदोषोऽप्यसिताष्टम्यथ तच्चतुर्दशी च ।
हरवह्नियमाहिवायुतारास्त्वखिलोच्चाटनकर्मसिद्धिदाः स्युः ॥ ५-
असिताथ चतुर्दशी कुहूरप्यसिताष्टम्यसितार्कभौमवारैः ।
कुलिकस्थविरे यमाम्बुभे वा कुजमन्दाभ्युदयाश्च मारणे स्युः ॥ ५-
द्विषतोऽष्टमराशिनैधनर्क्षेष्वथ वैनाशिकमार्गसंख्यमानि ।
कुजमन्ददिनोदयादियोगैरभिचर्यासु भवन्ति सिद्धिदानि ॥ ५-
कुजशुक्रबुधेन्दुसूर्यसौम्या भृगुजारौ गुरुमन्दसौरिजीवाः ।
क्रमशोऽश्वयुजादिभाङ्घ्रिपास्ते खलु मेषादिकराशिपाश्च ते स्युः ॥ ५-
कुजमास्करजीवमन्दशुक्राः बुधशुक्रार्कजसौम्यचन्द्रभौमाः ।
धिषणोऽप्यधिपास्त्वजादि सिंहाद्यपि चापादिषु राशिषु त्रिधैयम् ॥ ५-
गुरुमन्ददिनेऽथ जीवमन्दांशकनक्षत्रतदंशके सरिक्ते ।
स्थविराख्यमुदाहरन्ति शस्तं रिपुरोगार्णविनाशनप्रयोगे ॥ ५-
दिवसं प्रविभज्य चाष्टधान्त्यप्रथमौ मोक्ष्यति तद्दिनग्रहांशौ ।
प्रहरार्धभुजौ ग्रहाः षडन्ये क्रमशोऽसो गुलिकोऽत्र यः शनेः स्यात् ॥ ५-
जननर्क्षकतोंऽशकादशीतेरधिको यस्य तु योऽष्तमोंऽश उक्तः ।
स विनाशकसंज्ञको विनाशी निजभात् सप्तमभं तु नैधनाख्यम् ॥ ५-
निजभाद्रवितोदधिग्रसंख्याः शुभताराः शुभकर्मणां प्रशस्ताः ।
शुभकर्म करोतु रागधामा सधनैकादशसंख्यया स्वराशेः ॥ ५-
दिनाधिकारः ।
न च यानगतो न वाहनस्थो न च यन्त्रस्थलगो न वाशुचिः सन् ।
विषयेष्वभिषक्तमानसो वा जपहोमादिकृतं फलं लभेत् ॥ ५-
अतिनीचमपीह नोच्छ्रितं वा न च शुद्धेतरचर्मकम्बलाढ्यम् ।
अशुभाङ्घ्रिपजं च भिन्नदग्धं नृजलोच्छिष्टमलाक्तमासनं स्यात् ॥ ५-
कुशदर्भकृताः शुभाश्च बृस्यः फलकाः पुण्यरूद्भवा विशालाः ।
सकषायतरक्षुचर्म चैणं त्वपि शस्तानि सुलोहदन्तजानि ॥ ५-
सितशुद्धविधौतवाससा + समवास्तीर्णविशङ्कटासनानि ।
प्रभवन्ति हि सौम्यकर्मसिद्ध्यै विषवृक्षादिकृतान्यसौम्यकृत्ये ॥ ५-
उपविश्य तु विष्टरेऽथ जान्वोर्विवरेऽङ्गुष्ठनिपीडनं विधाय ।
ऋजुमध्यगलेक्षणाग्रकायो भवति स्वस्तिकमासनं निविष्टम् ॥ ५-
चरणाग्रयुगं त्वथोपरिष्टादधिरोप्योरुयुगस्य मूलदेशे ।
उपविश्य पुरेव पद्मसंज्ञं कथितं तद्विपरीततस्तु भद्रम् ॥ ५-
अधिरोप्य तु दक्षिणाङ्घ्रिमूरावथ सव्ये चरणे तु दक्षिणोरुम् ।
अधिरोप्य पुरेव सूपविष्टो यदि योगासनमिष्टदं तदाहुः ॥ ५-
वृषणे तु निगृह्य वामजङ्घापदगुल्फे त्वधिरूढसस्फिगूरुः ।
उपरिस्थितदक्षिणोरुजानुः खलु योगी स तु गोमुखासनस्थः ॥ ५-
विनिवेशितजिह्मदक्षिणाङ्घ्रिः फलकादावुपविश्य वामपादम् ।
अवनौ विनिधाय चोर्ध्वजङ्घं ननु तत् स्वस्तिकमर्धपूर्वमाहुः ॥ ५-
उपविश्य तथासने तु पादौ भुवि संस्थाप्य मिथो निबद्धजङ्घौ ।
समतोरणजानुरूढहस्तो यदि वीरासनयोगपट्टनद्धः ॥ ५-
स्थित एव पदद्वयेन भूमौ फलकाद्यं च विना स चेन्निविष्टः ।
समतोरणवत् स्थितोरुजङ्घो भवतीहोत्पुटिकं च कुक्कुटं तत् ॥ ५-
मरुतां विजये तथेन्द्रियाणां भवमुक्तौ च सुधारणे समाधौ ।
कमलासनमिष्टमत्र भद्रं हितमुक्तं खलु नित्यपौष्टिकादौ ॥ ५-
कथितं खलु शान्तिकेषु कर्मस्वखिलं स्वस्तिकमेव चाभिषेके ।
अपि शान्तिकजप्यहोमपूजास्वथवा स्वस्तिकमर्धपूर्वमिष्टम् ॥ ५-
सकलीकरणे निजैक्यदेवेष्वभिजप्येषु समाधिहंसयोगे ।
परमार्थनिरूपणेषु चेष्टं खलु योगासनमग्रतो गुरुश्चेत् ॥ ५-
पृतनाविजये च तन्निरोधेष्वपि संस्तम्भनभूतनिग्रहादौ ।
अपि संवननेषु कर्षणे वा ननु वीरासनमुक्तमाशुसिद्ध्यै ॥ ५-
कथितं खलु कुक्कुटं रिपूणां रुचिविद्वेषणचाटनभ्रमेषु ।
अथ मारणकेषु पार्ष्णिसंज्ञं विदितं वासनमर्धकुक्कुटं तत् ॥ ५-
विजये मरुतां स्वदोषशान्त्यै पृतनास्तम्भविधौ च गोमुखं वा ।
प्रमदाजनकर्षणेषु चाब्जं विजितं यद् विदितं गुरुपदिष्टम् ॥ ५-
विजयेन यथैवमासनानां फलमेकाग्रतया मनःप्रसादः ।
मन एव हि सर्वकारणं तत् स्ववशं चेद् विजितं हि किं न सर्वम् ॥ ५-
आप्यं मण्डलमुच्यतेऽत्र पुरतो यत् तत्र शान्त्यादिकं
भौमं वाखिलनित्यपौष्टिकविधौ शस्तं त्वथो मारुतम् ।
द्वेषोच्चाटनकेषु संवननकेऽप्याग्नेयमाकर्षणे
संस्तम्भे खलु भौममैन्द्रमथवा स्याच्छान्तिके पौष्टिके ॥ ५-
मारणं तु विदधीत वायुना वेष्टितानि कुलिशाङ्कमण्डले ।
वह्निसंपुटषडश्रकेऽथवा शान्तिकान्यपि वशीकराण्यपि ॥ ५-
आसनाद्यधिकारः ।
विज्ञायैतदशेषमेव बिधिना विद्याविशिष्टाद् गुरो-
स्तत्तत् कर्म समादधीत नियतं संसिद्धमन्त्रात्मवान् ।
यद् यत् स्वार्थपरार्थकारणतया कृत्यं भवेत् साधकः
कृत्वा तत् फलमश्नुते स्म भुवने संजाततत्प्रत्ययः ॥ ५-
इति श्रीमदीशनशिवगुरुदेवपद्धतौ तन्त्रसारे साधनपटलः पञ्चमः ।
अथ षष्ठः पटलः
अत्राग्निकुण्डानि च मण्डलानि प्रत्येकशस्तान्यथ तेषु तेषु ।
तन्त्रेषु यानि प्रथितानि सम्यक् संक्षिप्य वक्ष्यामि यथाप्रधानम् ॥ ६-
वेदाश्रकं शान्तिकपौष्टिकादौ वृत्तं च योनिप्रतिमं हि वश्ये ।
आकृष्टयेऽश्वत्थदलं तु कुण्डं स्तम्भेऽष्टकोणं भमणे षडश्रम् ॥ ६-
वज्राङ्ककोणत्रिषडश्रकुण्डे स्यातां द्विषन्मारणचाटनादौ ।
सर्वाणि कुण्डानि हरित्सु कुर्याल्लिङ्गप्रतिष्ठासु च देवतानाम् ॥ ६-
प्रसादे मण्डपे वापि गृहे वा यत्र कर्म तत् ।
क्रियते तत्र संशुद्धे स्थले गव्योपलेपिते ॥ ६-
मध्येऽत्र सूत्रं वरुणेन्द्रदीर्घं निवेश्य चास्फाल्य तु तस्य मध्ये ।
बिन्दुं विधायापरपूर्वयोस्तदथाङ्कयेत् सूत्रवशात् समानम् ॥ ६-
पुनस्ते सूत्रखण्डे तु समं भित्त्वाङ्कयेदपि ।
बिन्दोस्तु पूर्वापरमध्यमाङ्कैर्मितेन सूत्रेण तदाहितेन ।
बिन्दोः सयाम्योत्तरदिक्समाङ्कभ्रमैः समालिख्य तु मत्स्ययुग्मम् ॥ ६-
तयोर्निधाय सूत्रं स्याद् दक्षिणेनोदगायतम् ॥ ६-
इत्थं ब्रह्माह्वयं सूत्रमुदक्सूत्रं च साधयेत् ।
क्षेत्रार्धमानेन तु बिन्दुसंस्थश्चतुर्दिशं सूत्रवशाद् यथेष्टम् ।
अङ्कान् विधायाथ तदङ्कयुग्मात् सूत्रद्वयात् स्युः खलु कोणमत्स्याः ॥ ६-
तेषु मत्स्येषु परितो दिक्षु सूत्रैर्निपातितैः ॥ ६-
चतुरश्रं भवेत् क्षेत्रं चतुष्कोष्ठं समं शुभम् ।
सर्वमण्डलकुण्डादेः सामान्योत्पत्तिकारणम् ॥ ६-
चतुरश्रसाधनम् ।
कुण्डं प्रशस्तं चतुरश्रमादावश्वत्थपत्रं च तथार्धचन्द्रम् ।
तद्वत् त्रिकोणं त्वपि वर्तुलं स्यात् षट्कोणकं पद्ममथाष्टकोणम् ॥ ६-
रत्निमात्रं शातार्धे स्याच्छतहोमे त्वरत्निकम् ।
सहस्रे हस्तमानं स्याद्युते च द्विहस्तकम् ॥ ६-
लक्षे चतुष्करं कुण्डं दशलक्षे तु षटकरम् ।
कोटिहोमेऽष्टहस्तं स्याद् यथा भोजेन्द्रपद्धतौ ॥ ६-
सर्वाणि कुण्डानि यथोक्तमानादायामविस्तारसमानि तानि ।
स्वातं तु विस्तारसमं विधेयं तिस्रः क्रमाच्चोपरि मेखलाः स्युः ॥ ६-
समं स्यात् सर्वतः खातं खातोपरि चतुर्दिशम् ।
एकाङ्गुलं परित्यज्य कुर्यात् तिस्रोऽथ मेखलाः ॥ ६-
स्त्निप्रमाणे खलु मेखला स्यादाद्याङ्गुलाभ्यामपराङ्गुलेन ।
अर्धाङ्गुलाद्या त्वथवा त्वरत्नौ त्रिद्व्येकमात्राङ्गुलकैर्विधेया ॥ ६-
अत्र भोजराजः -
कुण्डहस्तप्रमाणस्याद्या द्व्यङ्गुला द्वितीयाङ्गुलेनार्धाङ्गुलेन च
तृतीया अरत्निप्रमाणस्य त्र्यङ्गुलद्व्यङ्गुलाङ्गुलमाना इति ।
हस्तकुण्डे मेखलाः स्युश्चतुस्त्रिद्व्यङ्गुलाः क्रमात् ।
षट्चतुस्त्र्यङ्गुलैः कुर्याद् द्विहस्तेऽपि यथाक्रमम् ॥ ६-
चतुष्करे त्वष्टकषट्चतुष्कैः षड्ढस्तके चापि दशाष्टषड्भिः ।
स्युरङ्गुलैरष्टकरेऽपि कुण्डे ताः षोडशद्वादशकाष्टसंख्यैः ॥ ६-
सर्वाः सर्वेषु कुण्डेषु विस्तारोच्छ्रयतः समाः ।
परितः स्वसमायामा निम्नोन्नतविवर्जिताः ॥ ६-
अत्र भोजराजः -
क्रमेण सर्वकुण्डेषु तिस्रो मेखलाः कुण्डानुरूपेण विधातव्याः इति ।
कुण्डस्य पश्चिमे योनिं कुर्याद् दक्षिणतोऽपि वा ।
मध्यतो मेखलानां तु सर्वासामुपरि स्थिताः ॥ ६-
सूर्याङ्गुलायामवती तु योनिरामूलतोऽग्राद् वसुवेददस्रैः ।
विस्तारतः स्यात् क्रमशोऽङ्गुलोच्चा द्राङ्निर्गताग्रापि च रत्निकुण्डे ॥ ६-
अरत्न्यादिषु कुण्डेषु द्व्यङ्गुलं द्व्यङ्गुलं पृथक् ।
क्रमादायामविस्तारवृद्ध्या योनिर्विधीयते ॥ ६-
अत्र भोजराजः -
एवं प्रथमकुण्डस्य । शेषाणां द्व्यङ्गुलवृद्ध्या योनिर्विधातव्ये ति ।
मञ्जर्यां च हस्तमात्रकुण्डस्य -
तालायता जलपतेर्दिशि संस्थिता स्या-
दश्वत्थपत्रसदृशी क्रमशोऽथ निम्ना ।
नाभिर्दशङ्गुलषडङ्गुलतः क्रमेण
विस्तारतश्च चतुरङ्गुलगोलकाग्राः ॥ इति च ।
चतुरश्रं तु वा वृत्तं कुण्डं नित्ये च शान्तिके ।
सार्वकामिकमित्यन्ये चतुरश्रं च वर्तुलम् ॥ ६-
श्रुत्येकांशं तु सीम्नो बहिरपि पुरतोऽथाङ्कयित्वाम्बुनाथे
तन्मानात् सूत्रमन्तर्निहितमुभयतः कोष्ठयोर्भ्रामयित्वा ।
मध्याद्यन्यस्य कर्णान्तिकमपि परतः कोणयोः पूर्वचिह्ने
सूत्रे त्वास्फाल्य योनिप्रतिममपि भवेत् कुण्डमश्वत्थपत्रम् ॥ ६-
चतुरश्रं युगांशांशं कृत्वान्त्यं चोत्तरे त्यजेत् ।
भागं त्वनेन प्राक्प्रत्यग्बहिरङ्कौ निधाय तु ॥ ६-
तद्वद् दक्षिणतो मध्यस्थितसूत्रभ्रमाद् द्वयोः ।
अर्धचन्द्रसमाकारं कुण्डं भवति शोभनम् ॥ ६-
वेदाश्रे चतुरंशके भुजमिते प्रागंशमाप्याद् बहिः
क्षिप्त्वा मध्यमवारुणाङ्कनिहिते सूत्रे द्विधा भ्रामिते ।
स्यातां द्वौ शफरौ तयोश्च पुरतश्चाङ्केऽथ सूत्रत्रयं
क्षिप्त्वा तत्समखाततो भवति तत् कुण्डं त्रिकोणाह्वयम् ॥ ६-
षष्ठांशं पूर्वनिहितं गृहीत्वा नैरृतस्थितम् ।
वायव्यान्ते च सूत्रे द्वे क्षिप्त्वा वा स्यात् त्रिकोणकम् ॥ ६-
मध्यबिन्दुस्थितं सूत्रं प्राग्भुजाद् द्व्यङ्गुलं बहिः ।
परिभ्रम्य भवेत् कुण्डं वर्तुलं तत् सुशोभनम् ॥ ६-
बाह्यस्थं षष्ठमंशं शतमखवरुणाशाश्रितं वेदकोणे
मध्ये संस्थाप्य सूत्रं सममिह तु तयोर्भ्रामयित्वा तु बाह्ये ।
चत्वारस्तत्र मत्स्यास्तदनु धनददिग्दक्षिणस्थे च सूत्रे
तत्रस्थेष्वेषु चिह्नेष्वथ समपतितैः स्यात् षडश्रं हि कुण्डम् ॥ ६-
वृत्तकुण्डेऽब्जपत्राणि कुर्यात् तन्मेखलोपरि ।
कुण्डार्धमायतान्यष्टौ मध्ये तत्कर्णिका भवेत् ॥ ६-
पद्मोक्तलक्षणेनैवं कृत्वा स्यात् पद्मसंस्थितिः ।
आदित्याङ्गांशमन्तर्बहिरिह परितो दिक्षु सम्भ्राम्य ताभ्यां
द्वाभ्यां मत्स्यौ भवेतां दिशि दिशि पतितैस्तेषु सूत्रैर्यथावत् ।
कुण्डं स्यादष्टकोणं सुरुचिरमथवाप्यर्धदिक्सूत्रकोणा-
च्छिष्टाप्यैन्द्राच्छरांशात् कृतशफरयुगाज्जातमीनाष्टकैर्वा ॥ ६-
क्षेत्रे त्रिपञ्चाङ्गुलमात्रवृत्तं त्रिभिस्त्रिभिश्चाङ्गुलकैर्विभज्य ।
रेखांशकान् पञ्चदशात्र कुर्यात् कोणान्तराणि त्रिभिरंशकैः स्युः ॥ ६-
स्थित्वा तु बिन्दावथ पञ्चधास्मिन् सूत्राणि सूर्याङ्गुलमायतानि ।
दत्त्वाश्रिमध्येन समं विभक्तैः सूत्रैर्हि कोणद्वयसन्धयः स्युः ॥ ६-
बिन्दोस्तु कोणान्तगसूत्रमानात् संभ्राम्य तत्क्षेत्रचतुर्थभागात् ।
बिन्दुस्थसूत्रभ्रमणं विधाय स्युः सन्धयः पञ्च तथात्र सूत्रैः ॥ ६-
पञ्चकोणकुण्डाधिकारः ।
चतुरश्रं तु संसाध्य द्व्यष्टधा विभजेत् पुनः ।
षट्पञ्चाशच्च कोष्ठानां द्विशतं चात्र वै भवेत् ॥ ६-
षण्णां षड्भिस्तु कोष्ठैर्लिखतु सरसिजं मध्यदेशेऽस्य बाह्ये
पङ्क्त्या पीठं च पीठाद् बहिरपि परितः पङ्क्तियुग्मेन वीथीम् ।
तद्बाह्ये पङ्क्तियुग्मे दिशि विदिशि तथा द्वारकण्ठोपकण्ठाद्
गण्डांश्चैवोपगण्डान् रजनिचरमरुद्वह्निशर्वेषु कोणान् ॥ ६-
कण्ठोपकण्ठात् कपोलोपकपोलात् शोभोपशोभा इति केचिदाहुः ।
पद्मक्षेत्रस्थदिक्सूत्रे संस्थाप्यान्यद् विमृज्य तु ।
बहिर्द्वादशकं भागं त्यक्त्वान्यत् परिवर्तयेत् ॥ ६-
क्षेत्रं चतुर्धा विभजेत् तु वृत्तं सूत्रं परिभ्राम्य समं क्रमेण ।
तत्कर्णिकाकेसरपत्रसन्धिच्छदावसानानि भवन्ति तानि ॥ ६-
पूर्वं द्वादशकांशं यत् त्यक्तं तद् भ्रमयेद् बहिः ।
पञ्चमं तद् भवेत् क्षेत्रं व्योमाख्यं तद् दलाग्रकम् ॥ ६-
प्रसार्य कोणसूत्रे द्वे कोणदिङ्मध्यमेन तु ।
चत्वारि सूत्राण्यास्फाल्य सूत्रषोडशकं भवेत् ॥ ६-
दलान्तसिद्ध्यै दलसन्धिमध्ये निधाय सूत्रं तु दलान्तमानम् ।
दलान्तरालद्वयसंभ्रमोत्थैः शशाङ्कखण्डैस्तु दलं प्रसिध्येत् ॥ ६-
पद्मषोडशसूत्राणां मध्यं सूत्रैर्विभज्य तु ।
द्वात्रिंशत् खण्डसूत्राणि स्युर्दलाग्रवृतौ समम् ॥ ६-
दलाग्रसूत्रोदयपार्श्वसूत्रयोरंग्रस्थितं सूत्रमथास्य मूलतः ।
दलाग्रसूत्रान्तमुपानयेल्लिखन्नेवं दलाग्रं तु भवेन्मनोहरम् ॥ ६-
स्याच्छालिपिष्टं सितचूर्णमिष्टं हारिद्रमीषत्सितयुक्सुपीतम् ।
कौसुम्भसिन्दूरकधातुरक्तं दग्धैर्यवाद्यैरपि नीलचूर्णम् ॥ ६-
शम्यब्जबिल्वादिदलैर्यज्ञियैः श्यामलं स्मृतम् ।
तत्तद्वर्णैस्तु वा धान्यैः पूरयेन्मण्डलानि वै ॥ ६-
शक्तस्तु वाञ्छेद् यदि सिद्धिमग्र्यां तद्वर्णरत्नैर्हिह मण्डलानि ।
आपूरयेन्मौक्तिकपुष्यरागैर्माणिक्यनीलैर्हरितैश्च रत्नैः ॥ ६-
एवंविधेषु चूर्णेषु सिद्धिकामो मुक्ताविद्रुमादिकैस्तदेवं कुर्याद् इति भोजराजः ।
रेखास्तु सर्वाः सर्वत्र शुक्लाः स्युर्मध्यमामिताः ।
द्विहस्तेऽङ्गुष्टमात्रा वा हस्ते चानामिकासमाः ।
द्विहस्तेऽङ्गुष्ठमात्राः स्युर्हस्ते मध्यमया मिताः ॥
इत्यन्ये ।
मध्ये सुपीता खलु कर्णिका स्यात् तस्यां तु बीजानि नवासितानि ।
द्वे द्वे पृथक् केसरके दलानां मध्येषु लेख्ये कुटिलाग्रमीषत् ॥ ६-
मूले तनून्यापीतानि मध्ये स्थूलारुणान्यपि ।
अन्ते द्राक् तनुपीतानि तदन्तेऽल्पसितानि वै ॥ ६-
मूलमध्याग्रेषु पीतरक्तशुक्लं केसरजालमि ति भोजराजः ।
शुक्लानि तान्यष्टदलानि कुर्यात् समानि तुङ्गाग्रमनोरमाणि ।
भुक्त्यै तथा प्राञ्जलिकानि मुक्त्यै स्मरादियागेषु शिताग्रवन्ति ॥ ६-
अत्राजिते-
दलाग्राण्यपि सर्वाणि रक्तवर्णानि कारयेदि ति ।
गौरीसरस्वत्यादीनां दलान्यश्वत्थपत्रवत् ।
विद्येशानां ग्रहाणां च गोकर्णाग्राणि कारयेत् ॥ ६-
दिक्पालकानामधराग्रकाणि स्युश्चापि नन्द्यादिगणेश्वराणाम् ।
विघ्नेशपद्मोद्भवविष्णुसूर्यस्कन्दादिकानां च यथा शिवस्य ॥ ६-
श्लक्ष्णश्यामेन रजसा दलसन्धीस्तु पूरयेत् ।
पीठान्तरालकोणानि संरक्तान्येव कारयेत् ॥ ६-
पीठं तु शुक्लारुणपीतकृष्णैः पादैस्तथा नीलककीलशोभम् ।
गात्रैश्चतुर्भिस्तु विचित्रवर्णैः कुर्याद् यथेष्टं त्वथवापि वर्णैः ॥ ६-
अत्र तत्त्वसागरे -
पीठं कोष्ठद्वयं दिक्षु लोप्यं, तथा कोणे त्रीणि त्रीणि विलोपयेद् इति ।
वीथीं लतावितानाद्यैः पत्रकैश्चोपशोभयेत् ।
तद्बाह्ये दिक्षु शुक्लेन चतुर्द्वाराणि पूरयेत् ॥ ६-
दिक्सूत्रकाणामुभयत्र कोष्ठे द्वारार्थमभ्यन्तरपङ्क्तिसंस्थे ।
तद्बाह्यपङ्क्तौ द्वितयद्वयं तत् षट्कोष्ठमित्थं विमृशेद् दिशासु ॥ ६-
कोष्ठत्रयं त्रयं चान्तर्द्वाराणां पार्श्वयोर्द्वयोः ।
ऐक्येन शोभासिद्ध्यर्थमेकैकं विमृजेद् बहिः ॥ ६-
एवं पृथक्कोष्ठचतुष्कवन्तः कण्ठोपकण्ठाः प्रभवन्ति चाष्टौ ।
तत्पार्श्वतस्तद्विपरीतवक्त्रास्तद्वत् कपोलोपकपोलकाः स्युः ॥ ६-
ततः कोणेषु शिष्टानि षट्कोष्ठानि पृथक् पृथक् ।
विमुक्त्यै कोणसिद्ध्यर्थं वृषभानेषु वा लिखेत् ॥ ६-
नीलेनाच्छाद्य कोणांस्ताञ्छाखान् शुक्लेन वा लिखेत् ॥ ६-
कण्ठोपकण्ठान् रक्तेन कपोलोपकपोलकान् ।
पीतेनाच्छादयेदभौ(?) यथा भूमिर्न दृश्यते ॥ ६-
बहिर्गुणाद् वै परितः क्रमोक्ताल्लिखेत् ततः सत्त्वरजस्तमांसि ।
रजोभिरङ्गुष्ठमितांस्तु शुक्लारुणासितान् मध्ययवान्तरांस्तान् ॥ ६-
भद्रकाधिकारः ।
चतुरश्रेऽष्टधा भक्ते चतुःषष्टिपदे कृते ।
मध्ये कोष्ठचतुष्केण पद्मं पीठं च संलिखेत् ॥ ६-
तद्बाह्यपङ्क्त्या खलु वीथिका स्यात् तद्बाह्यपङ्क्तिद्वयदिक्चतुष्के ।
द्वाराणि कोष्ठैः खलु वेदसंख्यैः संमृज्य शुक्लानि समानि कुर्यात् ॥ ६-
द्वाराणां पार्श्वयोर्बाह्यपङ्क्तावेकैककोष्ठकम् ।
द्वारेणायोज्य विमृजेत् स्यातां कण्ठोपकण्ठकौ ॥ ६-
संस्थाप्य कोणेष्वथ कोष्ठमेकं शिष्टैः पृथक् कोष्ठकपञ्चकैः स्युः ।
एकीकृतैर्वेदकपोलकास्ते तावन्त एवोपकपोलकाश्च ॥ ६-
अत्राजिते -
कपालं तु भवेत् तेषु पदं पूर्वापरायतम् ।
दक्षिणोत्तरगं चापि भवेदुपकपोलकम् ॥ इति ।
प्रागुक्तमार्गेण तु कर्णिकाद्यं चापूर्य वीथिं च यथोक्तवर्णैः ।
द्वाराणि शुक्लेन कपोलकास्ते रक्तास्तथा पतिरुचोऽध च स्युः ॥ ६-
अत्राजिते बृहत्कालोत्तरे च -
कपोलोपकपोलास्तु वह्निकोणादिषु क्रमात् ।
रक्तं पीतं तथा श्यामं श्वेतं च परिकल्पयेत् ॥ इति
वह्न्यादिकोणकोष्ठानि पीतश्यामासितारुणैः ।
पूरयेद् वाथ सर्वाणि कृष्णेन परिपूरयेत् ॥ ६-
बाह्ये तु शुक्लारुणकृष्णवर्णैः प्राग्वत् समालिख्य गुणत्रयं तत् ।
स्यात् सर्वतोभद्रमिदं तु कोणे षट्कोष्ठकैकीकरणेन भद्रम् ॥ ६-
मण्डलेष्वपि सर्वेषु शुक्लान्यब्जदलानि तु ।
द्वाराणि चाथ वीथी स्याल्लताद्यैरविशेषिते ॥ ६-
सर्वतोभद्राधिकारः ।
द्वात्रिंशदंशे चतुरश्रकेऽस्मिन् सहस्रकं सङ्कृतिसंख्यकं च ।
कोष्ठानि तन्मध्यगतत्त्वसंख्यैः कोष्ठैः सरोजं तु लिखेत् पुरोवत् ॥ ६-
तद्वाह्यपङ्क्त्या पीठं स्यात् तद्बाह्ये सप्तपङ्क्तिभिः ।
लिङ्गाष्टकं तु विलिखेद् दिक्सूत्रोभयपार्श्वयोः ॥ ६-
ऋतुवेदाक्षिवेदर्तुकोष्ठैः स्यात् तिर्यगायतैः ।
पीठं सकण्ठं ब्रह्मादिजलपादान्तक शुभम् ॥ ६-
पीठोपरिष्टात् खलु मध्यपङ्क्त्योर्युग्मस्थतत्कोष्ठचतुष्टयेन ।
लिङ्गं भवेत् तद्गतमध्यसूत्रान्मध्यान्तसंवर्तितमस्तकं वा ॥ ६-
अन्तर्मुखानि लिङ्गानि बुभुक्षूणां समालिखेत् ।
विपरीतं मुमुक्षूणामन्तःपीठानि कारयेत् ॥ ६-
तत्कण्ठपीठोभयपार्श्वसंस्थे भद्रे चतुष्कोष्ठवशाद् भवेताम् ।
लिङ्गान्तरालेष्वपि पञ्चविंशैः कोष्ठैस्तु कोणेषु लता विधेयाः ॥ ६-
गोमूत्रिकावत् संस्पृष्टा रेखास्तत्कोष्ठगा यथा ।
तथान्यरेखालोपेन लताः स्युर्विदिगायताः ॥ ६-
अश्र्यन्तरेषु वल्लीनां पत्राण्यप्यथवा लिखेत् ।
वल्ल्यादौ सक्तमूलानि कुटिलाग्रादिकान्यपि ॥ ६-
तद्बाह्ये पङ्क्तियुग्मेन वीथीं प्राग्वत् तु मार्जयेत् ।
वीथीं तथा कल्पलताविशेषैराभूष्य तद्बाह्यवृतित्रयेऽपि ।
कोष्ठानि वेदर्तुवसुप्रसंख्यं द्वारार्थमन्तः प्रभृतीह लुम्पेत् ॥ ६-
शोभोपशोभेऽपि स्यातां द्विचतुष्षड्विलोपतः ।
त्रिःसप्तकोष्ठानि पृथक् कोणे कोणे तु मार्जयेत् ॥ ६-
पद्मादिकं भद्रकवत् तु सर्वमाभूषयेत् पञ्चविधैस्तु चूर्णैः ।
लिङ्गाष्टकं पञ्चमुखोक्तवर्णैरिच्छानुरूपं परिपूरयेद् वा ॥ ६-
इतीदं पार्वतीकान्तमुक्तं प्रासादमण्डलम् ।
अष्टलिङ्गलतापद्मवीथीप्राकारमण्डितम् ॥ ६-
पार्वतीकान्तप्रासादाधिकारः ।
चतुरश्रं चतुर्हस्तं क्षेत्रं विंशतिभागिकम् ।
स्याच्चतुःशतकोष्ठं तन्मध्येऽब्जं तत्त्वकोष्ठकैः ॥ ६-
पङ्क्त्यैकया पीठमथैकया स्याद् बीथी ततः पङ्क्तिचतुष्टयेन ।
तद्द्वारलिङ्गैः परितो लताः स्युस्तद्बाह्यपङ्क्त्यापि च बाह्यवीथी ॥ ६-
कुर्याद् भद्रकवत् पद्मपीठबीथीर्यथाविधि ।
प्रतिपङ्क्तिद्विकोष्ठाष्टकोष्ठैर्द्वाराणि दिक्ष्वपि ॥ ६-
वीथ्यन्तरा द्वारनिबद्धकोष्ठत्रयेण भूपीठमथैककोष्ठम् ।
स्यात् कण्ठपीठं त्वथ तोयपट्टं कोष्ठैस्त्रिभिर्लिङ्गमथैककोष्ठम् ॥ ६-
अधश्चोर्ध्वं च तत्कोष्ठात् पीठकोष्ठचतुष्टये ।
कोष्ठान्तः कोणगं सूत्रं कोष्ठसूत्रार्धमानतः ॥ ६-
भ्रमयित्वा त्यजेद् बाह्ये खण्डिताश्रिचतुष्टयम् ।
पीठमेवं भवेद् रम्यं द्वादशाश्रैरलङ्कृतम् ॥ ६-
प्राग्वत् समापूर्य तु वर्णचूर्णैः पद्मादिवीथ्यन्तमशेषबिम्बम् ।
ख्यातं लतालिङ्गसमुद्भवाख्यं तन्मण्डलं शङ्करवल्लभं यत् ॥ ६-
लतालिङ्गोद्भवाधिकारः ।
क्षेत्रे षोडशधाभक्तचतुरश्रे चतुर्दिशम् ।
पार्वतीकान्तवत् कोष्ठैः कुर्याल्लिङ्गचतुष्टयम् ॥ ६-
मध्ये विशिष्टैरपि वेदकोष्ठैर्लिङ्गान्तरालेष्वपि तत्प्रसंख्यैः ।
चतुर्दलाब्जं खयमेव तैः स्याल्लिङ्गेषु संवर्तितमस्तकेषु ॥ ६-
भद्राष्टकं स्यात् कण्ठेषु लताः कोणेषु पूर्ववत् ।
लिखित्वा मण्डलं तत् स्यात् पञ्चब्रह्माभिधानकम् ॥ ६-
मध्येऽम्बुजे वर्तुलकर्णिका स्यात् पीता च रक्ता तनुकेसराली ।
ईशस्तु मध्ये पुरुषादयोऽपि खवर्णदिग्लिङ्गगता भवन्ति ॥ ६-
अस्यैव तु लतास्थानेष्वालिख्य स्वस्तिकानि तु ।
कोणार्धपङ्क्त्योर्वीथी स्याद् गौरीतिलकमण्डले ॥ ६-
नाभेः समीपे प्रथमं तु कोष्ठं वक्रायतं द्वेऽथ पुनर्विलुम्पेत् ।
तद्दक्षिणावर्तचतुष्पथाङ्कं स्यात् स्वस्तिकं चान्तरवीथियुक्तम् ॥ ६-
श्यामपीतासितारक्तैर्मार्गानाभूषयेत् क्रमात् ।
खण्डवीथीस्तु शुक्लेन लिङ्गादन्येन भद्रके ॥ ६-
पञ्चब्रह्ममण्डलगौरीतिलकाधिकारः ।
क्षेत्रे तथाष्टादशधा विभक्ते कोष्ठानि चास्मिन् त्रिशतं च वेदैः ।
विंशत्यपि स्यात् खलु तत्त्वसंख्यैर्मध्ये सरोजं विलिखेत् पुरोवत् ॥ ६-
अष्टाशास्वपि षट्त्रिंशत्कोष्ठैः स्युः स्वस्तिकान्यपि ।
एकं त्रीणि ततः पञ्च कोष्ठलोपक्रमः स्मृतः ॥ ६-
एतत् खलु स्वस्तिकमण्डलाब्जं क्षेत्रेऽथवा द्वादशभागितेऽस्मिन् ।
मध्येऽम्बुजं षोडशकोष्ठकैः स्यात् स्युः स्वस्तिकान्यष्टदिशासु तद्वत् ॥ ६-
स्वस्तिकान्यपि पद्मं च प्राग्वदापूर्य वर्णकैः ।
स्वस्त्यर्थं स्वस्तिकं शस्तं सर्वदेवाभिनन्दनम् ॥ ६-
स्वस्तिकाब्जद्वयाधिकारः ।
क्षेत्रे तथाष्टादशभागिकेऽस्मिन् तन्मध्यगः स्वस्तिकनाभिमादौ ।
सङ्कल्प्य लुम्पेत् तु चतुष्पथाभं समन्ततः कोष्ठकपञ्चकानि ॥ ६-
कोष्ठमात्रायता रेखाः कुटिलाः स्वस्तिकाकृतौ ।
परस्परपयोधिन्यः स्थाप्याः स्युः शेषलोपतः ॥ ६-
पञ्चाशदस्मिन् खलु सप्तकं च स्यात् स्वस्तिकानां सह चार्कभद्रैः ।
मध्ये द्विपञ्चाशदपि द्वयं च स्यात् सर्वतोभद्रचतुष्पथानाम् ॥ ६-
कोणेषु चैककोष्ठानि शिष्टान्याभूषयेत् सितैः ।
नीलपीतारुणश्यामैर्भद्राण्यपि चतुष्पथान् ॥ ६-
एतद्धि सर्वतोभद्रस्वस्तिकं नाम मण्डलम् ।
सर्वस्वस्तिकमित्येते प्राहुर्यच्छिवयोः प्रियम् ॥ ६-
क्षेत्रेऽथवा षोडशधा विभक्ते मन्वर्कदृग्वस्वृतुभेदिते वा ।
प्राग्वद् विलोमात् खलु मण्डलानि स्युः सर्वतः स्वस्तिकभद्रवन्ति ॥ ६-
स्वस्तिकसर्वतोभद्राणि ।
चतुरश्रे द्विहस्ते तु चक्राब्जं पीठवर्जितम् ।
स्यादेकनाभं तल्लक्ष्म भवेन्मानाङ्गुलक्रमात् ॥ ६-
निधाय सूत्रं त्वथ मध्यबिन्दौ पद्मार्धमानेन नवाङ्गुलेन ।
त्रिभिश्च वस्वब्धिमितैर्भ्रमैस्तैः सरोरुहं नाभ्यरनेमयः स्युः ॥ ६-
पद्मं पुरोवदालिख्य नाभिं पीतेन पूरयेत् ।
दलतुल्यारके चक्रे दलरेखाः प्रसार्य तु ॥ ६-
लिखेत् ततस्तेष्वरकान् यथावद् दलाद् द्विसंख्येष्वरकेषु तद्वत् ।
दलाग्रसूत्रैर्दलसन्धिसूत्रैः प्रसारितैस्तावदिहारकाः स्युः ॥ ६-
विभज्यारभुवं त्रेधा द्वाभ्यामन्तरथाङ्कयेत् ।
मत्स्यवत् तेष्वथास्फाल्य सूत्राण्येषु लिखेदरान् ॥ ६-
इन्दीवराश्वत्थदलोपमा वा ते मातुलुङ्गाकृतयोऽथवा स्युः ।
अब्जच्छदाभाश्च यवोदरा वा मध्यैः कृशैर्वाथ पिपीलिकाभाः ॥ ६-
अरकास्त्वरुणाः श्यामास्ते स्युरेकान्तराः क्रमात् ।
अन्ते गोरोचनाभाः स्युः पीताः स्युररसन्धयः ॥ ६-
नेमिं त्रिधा संप्रविभज्य कुर्याच्छुक्लेन मध्ये त्वसितेन बाह्ये ।
पीतेन चान्तः परिपूर्य कोणान् कृष्णेन सस्वस्तिकचिह्नरम्यान् ॥ ६-
अरसन्ध्यन्तरालस्थो बहिर्नेमेः परिभ्रमेत् ।
अरसन्धेस्तु मध्यस्थो भ्रमयेदरमूलकम् ॥ ६-
मध्येऽरकाणां स्थित्वा तु भ्रमयेदरमध्यकम् ।
मातुलुङ्गफलाकारा एवं सिध्यन्त्यराः क्रमात् ॥ ६-
अराग्रसंस्थस्त्वरसन्धिमूलात् सूत्रं तथारोभयपार्श्वसंस्थम् ।
पृथक् समास्फाल्य तथारकाः स्युर्विस्तारितेन्दीवरपत्रकल्पाः ॥ ६-
अरमध्यस्थितोऽराग्रं किञ्चित् त्यक्त्वाब्जपत्रवत् ।
अरसन्धेर्भ्रमाच्चाग्रभ्रमादब्जदलारकाः ॥ ६-
शान्ताग्रमूलाः पृथवस्तु मध्ये कार्यास्तृतीयांशतयारसन्धेः ।
अन्तः प्रविष्टास्तु यवोदराख्याः सिध्यन्ति ते स्युः क्रमशः शिताग्राः ॥ ६-
त्रिधा विभज्यारक्षेत्रं द्वितीयप्रथमांशयोः ।
मध्ये स्थित्वा परिभ्रम्य तृतीयांशे दलाग्रवत् ॥ ६-
अर्धचन्द्राभरेखाभ्यां पत्राग्रं च समालिखेत् ।
इत्थमश्वत्थपत्राभास्तत्राराः संभवन्ति हि ॥ ६-
स्थित्वारसन्धेरथ मध्यमांशे तिर्यग्भ्रमाच्चोभयतोऽरकार्घात् ।
रेखाद्वयान्तः कृशमध्यकाः स्युः पिपीलिकाक्रोडसमाह्वयाराः ॥ ६-
अरसन्ध्यन्तरा पुष्पैर्विचित्रैरभिभूष्य तु ।
बिम्बबाह्येऽथवा लिप्ते पुष्पालीभिर्विभूषयेत् ॥ ६-
उक्तं तु चक्राम्बुजमेकनाभं प्रियं शिवार्याहरिभास्कराणाम् ।
अन्यानि च स्युर्नवनाभकान्तान्यूह्यानि चक्राम्बुजमण्डलानि ॥ ६-
चक्राब्जाधिकारः ।
कर्णिकार्धप्रमाणेन प्राक्स्थसूत्रभ्रमक्रमात् ।
तद्रेखापार्श्वयोगेन मत्स्यद्वादशकं भवेत् ॥ ६-
सूत्रेषु तेष्वापतितैर्यथावत् सन्धिस्थसूत्रैर्दिनकृच्छताब्जम् ।
अष्टच्छदाब्जस्य समप्रभेदात् स्यदम्बुजं षोडशपत्रशोभम् ॥ ६-
केसरव्योमरेखान्तसूत्रात् तत्केसराग्रगात् ।
मत्स्यवल्लाञ्छयित्वा स्यात् पञ्चपत्रं तु पङ्कजम् ॥ ६-
कर्णिकादलसन्धिभ्यां प्राग्वत् षट्पत्रसिद्धये ।
व्योमरेखाकर्णिकाभ्यां दलाग्रस्थं तु सप्तके ॥ ६-
दलसन्धिकर्णिकाभ्यां दलसन्धौ न्यस्य मत्स्यचिह्नेन ।
नवदलकं स्यात् सूत्रैः पञ्चभिरास्फाल्य पङ्क्तिपत्रं स्यात् ॥ ६-
केसराकाशयोर्मध्यं व्योम्नि विन्यस्य लाञ्छयेत् ।
एकादशच्छदं त्वेवं पद्मं स्यात् सूत्रपाततः ॥ ६-
पत्राग्रपत्रसन्धिभ्यां पत्राग्रे न्यस्य लाञ्छिते ।
आस्फाल्य तेषु सूत्राणि तत् स्यादभिकृतिच्छदम् ॥ ६-
अतः परं चेद् दलवृद्धिमिच्छेद् दिशानयैवात्र यथाक्रमेण ।
तदूहतो मध्यवशेन सूत्रैर्लिखेत् सरोजानि यथाभिलाषम् ॥ ६-
दलभेदलक्षणम् ।
अर्धचन्द्रादिकुण्डानां लक्ष्मणा सूत्रपाततः ।
अर्धचन्द्रादिबिम्बानि कुर्यात् कामानुसारतः ॥ ६-
वेदाश्रिके दिग्विदिगन्तरे स्युर्द्व्यष्टसूत्रैः पतितैस्तु दीर्घैः ।
द्वात्रिंशदंशाः परितोऽथ तेषु क्षेत्राणि पञ्च भ्रमणाद् भवन्ति ॥ ६-
अष्टाङ्गुलैः स्यात् कमलार्धमादौ त्रिभिस्तु पीठं त्रिभिरेव नाभिः ।
वीथीश्चतुर्भिस्तु षडङ्गुलैः स्युर्द्वाराणि शोभास्त्वपि चोपशोभाः ॥ ६-
प्राग्वत् सरोजं त्विह वृत्तपीठं नाभिर्गुणैर्हंसशराब्जशङ्खैः ।
वीथिर्भवेद् वारचतुष्टयाढ्यं वर्णक्रमाद् भद्रकवद् विधेयम् ॥ ६-
द्वारादिषु विशेषोऽत्र स्यात् तत्क्षेत्रं द्विधा भ्रमात् ।
अन्तर्वेदांशकैर्बाह्यैर्द्वाराणि स्युः षडंशकैः ॥ ६-
प्राग्वच् शोभोपशोभे स्तां कोणलक्ष्मापि कथ्यते ।
अन्तर्मुखास्ते कलशास्तु कोणा वेदांशवक्त्रा द्वितयांशकण्ठाः ।
तत्कोणपार्श्वान्तविवर्तने स्युः पृथूदरावर्तितविष्टरान्ताः ॥ ६-
मायाचक्राह्वयं त्वेवं शक्तीनां मण्डलं स्मृतम् ॥ ६-
मायाचक्राधिकारः ।
वक्ष्येऽथ बिम्बं त्रिपुराभिधानं क्षेत्रं तु कुर्याच्चतुरश्रदीर्घम् ।
युक्त्या पुरोवच्च परैश्च सूत्रैः स्याद् द्वित्रिहस्तायतविस्तृतं तत् ॥ ६-
प्रागायतं त्रयस्त्रिंशत्सूत्राण्यत्र निपातयेत् ।
याम्योदगायतं सप्तचत्वारिंशच्च संख्यया ॥ ६-
कोष्ठानि चास्मिन्नथवर्य(?)संख्यं
मध्येऽस्य कोष्ठैरपि तत्त्वसंख्यैः ।
स्यात् पङ्कजं तत्परितस्तु पङ्क्तिं
त्यक्त्वास्य पूर्वापरतोऽम्बुजे स्ताम् ॥ ६-
परितोऽब्जत्रयस्यात्र पङ्क्तिमेकां विलोपयेत् ।
चतुरश्राकृतिर्दीर्घा सा चान्तर्वीथिसंज्ञिता ॥ ६-
तद्बाह्यपङ्क्त्या परितस्तु पीठं कोष्ठैस्तथा पञ्चभिरस्य कोणात् ।
कुर्याच्च पूर्वापरदक्षिणोदग्गात्राणि वस्वष्टचतुष्कवेदैः ॥ ६-
कोणागात्रकमध्येषु पञ्च कोष्ठानि लोपयेत् ।
पीठमेकं त्रिपद्मानां स्याद् दीर्घचतुरश्रकम् ॥ ६-
तद्वाह्ययाम्योत्तरपूर्वपश्चाल्लिङ्गानि षट्सप्तककोष्ठकैः स्युः ।
तिर्यग्रसैस्तद्दिशि सप्तपाङ्क्तैः कोष्ठैर्यथोक्तं चतुरश्रकेषु ॥ ६-
लिङ्गानां पार्श्वयोर्द्वन्द्वे चतुरश्रे विलोपयेत् ।
पृथक्पृथग्वै षट्त्रिंशत्कोष्ठैस्तानि भवन्ति हि ॥ ६-
तद्वत् कोणचतुष्केषु षट्त्रिंशत्संख्यकोष्ठकैः ।
दीर्घेषु चतुरश्रेषु नृत्यद्धंसान् समालिखेत् ॥ ६-
रक्तानि पद्मच्छदनानि लक्ष्मीजयार्थसौभाग्यकराणि कुर्यात् ।
शुक्लानि विद्याकवितादिसिद्ध्यै शेषं पुरोवत् खलु कर्णिकाद्यम् ॥ ६-
अन्तर्वीथीं तु पीतेन चतुरश्रेष्वथाष्टसु ।
शङ्खौ चक्रे च संलिख्य चत्वार्यब्जानि चालिखेत् ॥ ६-
वीथ्यां लता स्यात् परिशिष्टपङ्क्तित्रयेण दिग्द्वारचतुष्टयाद्यम् ।
लुम्पेत् षडष्टौ दश कोष्ठकानि द्वारद्वये दक्षिणतश्च सौम्ये ॥ ६-
शोभोपशोभासिद्ध्यर्थं कोष्ठान्युत्तरयाम्ययोः ।
चतुःषडष्टौ प्रागाप्ये द्वे चतुःषट् च लोपयेत् ॥ ६-
द्वारे प्राक्पश्चिमे स्यातां वेदर्तुवसुकोष्ठकैः ।
त्रिसप्तकोष्ठैः कोणाः स्युस्तत्पादाश्चर्तुकोष्ठकैः ॥ ६-
त्रिपुरामण्डलाधिकारः ।
क्षेत्रे विंशतिधा द्विधा पुनरिदं निर्भिद्य वेदाश्रकं
कोष्ठानां खलु षट्शतं दशशतं चात्रास्ति तन्मध्यतः ।
षट्त्रिंशत्कचतुष्टयेन तु भवेल्लिङ्गं सपीठं महत्
तत्त्रिंशद्द्वयनागषोडशमितैः कोष्ठैस्तु पीठादिकम् ॥ ६-
पङ्क्तिं तत्परितो विमृज्य तु बहिःपङ्क्त्या च पीठं भवेत्
तद्बाह्ये मुनिपङ्क्तितत्त्वगणनाकोष्ठैः पृथक् पूर्ववत् ।
पद्मानि क्रमशोऽष्टदिक्षु विलिखेल्लिङ्गे च तत्पार्श्वयोः
षड्भिर्विंशतिकोष्ठकैश्च परितः पङ्क्तिद्वयाद् वीथिकाः ॥ ६-
ईशानादिब्रह्मवर्णानि चास्मिन् लिङ्गानि स्युः शिष्टलिङ्गानि पद्मात् ।
व्यस्तैर्वर्णैः शुक्लरक्ताच्छरक्तैः प्रागाद्यब्जे संलिखेदुक्तमार्गान् ॥ ६-
संयुक्तान् क्रमशः प्रदक्षिणमथो वीथ्यां तु शङ्खाल्लिखे-
च्छुक्लाभान् यदि मण्डलं भवति तद्यच्छङ्खमालाह्वयम् ।
हंसाश्चेदिह हंसमालमृतुभिः स्यादष्टदिक्संस्थितै-
र्द्वाराणि त्रिशरांश्च कोष्ठविहिताः शोभाश्च पङ्क्तित्रये ॥ ६-
कोणाः स्युः सप्तविंशत्या कोष्ठानां तत्त्रिपङ्क्तिषु ।
कृष्णेनाच्छाद्य तत्रापि स्वस्तिकाब्जादिकं लिखेत् ॥ ६-
लिङ्गोदरशङ्खमालाद्यधिकारः ।
चक्राब्जादितराणि शक्तिशिवयोः पूजासु दीक्षादिके
शस्तान्यत्र पवित्रकादिषु तथा सस्वस्तिलिङ्गान्यपि ।
चक्राब्जान्यपि भद्रकाणि सवितुर्विष्णोश्च लक्ष्म्या विधेः
शक्तीनां त्रिपुराख्यशङ्खकलशा मायाम्बुजं चोदितम् ॥ ६-
यथोदितस्तु शक्तिनां तथेन्द्रस्मरभोगिनाम् ।
विघ्नेशानलषड्वक्त्राः पूज्याः स्युः स्वस्तिकेष्विह ॥ ६-
सर्वे सर्वेषु वा पूज्यास्तत्तत्कर्मानुसारतः ।
इति कुण्डमण्डलविधिः प्रधानतः कथितः शिवादिसुरपूजनोचितः ।
बहुधा निरूप्य विविधान् शिवागमानिह साधकेन्द्रमानसां प्रियङ्करः ॥ ६-
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे कुण्डमण्डलविधिः षष्ठः पटलः ।
अथ सप्तमः पटलः
वक्ष्ये स्रुक्स्रुवयोश्च लक्षणमथो स्रुग्घस्तमात्रायता
पालाशी खदिरोद्भवापि च तथा स्याच्छामिली शोभना ।
वेदाश्रं तु मुखं स्वराङ्गुलमितं श्रेष्ठं रसैर्वा शरै-
र्मध्यं चाप्यधमं च निम्नमिह तन्मध्ये त्रिभागास्तृतम् ॥ ७-
विस्तारेण समं हि खातमपि तद् वृत्तं बहिर्मेखला -
स्रिस्रः स्युः कमलं तथैव परितस्तासां तु बाह्ये भवेत् ।
कण्ठो गोलकविस्तृताङ्गुलमितो दैर्घ्येण तस्योर्ध्वतः
स्यादग्रं चतुरङ्गुलायतमथो विस्तारतस्तत्समम् ॥ ७-
कण्ठस्याप्यथ मध्यवर्ति सुषिरं तद् वै त्रिकोणायतं
निर्गच्छेद्धि यथायतं तदवटं यावत् कनिष्ठा विशेत् ।
तत्पृष्ठं कमलाङ्कितं खलु मुखं सर्वं गजोष्ठोपमं
शिष्टं वर्तुलदण्डमस्य तु भवेदग्रं सरोजाङ्कितम् ॥ ७-
दण्डाग्रं परिणाहतः सरसिजस्याधो यथर्त्वङ्गुलं
स्थूलोऽसौ क्रमशः प्रकोष्ठमिव तन्मूलं च वस्वङ्गुलम् ।
तत्र स्याद् वृषभोऽथवा सरसिजं श्लक्ष्णाकृतिः सर्वतो
निर्दोषः शुभदेशजान् क्षितिरुहाञ्छित्वा स्रुचं कारयेत् ॥ ७-
स्रुग्जातिस्तु भवेत् स्रुवं सुविहितं तालद्वयायामकं
कुर्याद् वर्तुलमङ्गुलेन वदनं तस्यावटेऽर्धाङ्गुले ।
भित्तिर्मध्यगता स्मृता यवमिता तद्गर्तयोः श्लक्ष्णयोः
कर्षाज्यस्थिति गोष्पदाकृति च तत्पृष्ठे यवाभ्यां स्फिजौ ॥ ७-
स्फिङ्मध्येन यवप्रमाणविहिता रेखा च वक्त्रादधः
कण्ठः पङ्कजलक्षणस्तु तदधो दण्डः सुवृत्तः समः ।
दण्डाग्रं परिणाहतोऽङ्गुलमितं मूलं ततोऽध्यर्धतः
स्याद् गोपुच्छनिभं गलात् प्रभृति तत् स्थूलं हि मूलं यथा ॥ ७-
बाहुमात्रियोऽरत्निमात्रियो वा स्रुच इत्यन्ये ।
स्रुक्स्रुवाधिकारः ।
भित्त्वा शोभनशाखिकां यदि भवेच्छम्युद्गताश्वत्थजा
नो चेत् केवलपिप्पलात् तदरणिर्भान्वङ्गुलैरायता ।
नाहोऽस्यास्तु षडङ्गुलेन तु शिरो मूलेऽङ्घ्रिरग्रे स्मृतो
योनिर्मध्यगताङ्गुलैः श्रुतिमितैर्मन्थानयोग्या भवेत् ॥ ७-
अश्वत्थेन तथोत्तरारणिरपि स्यात् षड्भिरेवाङ्गुलैः
कुर्याद् भ्रामकमस्य खादिरमृजं नेत्रं च रज्जुं दृढाम् ।
तत्राग्निं जनयेत् तथेन्धनमपि त्वग्वर्जितं सारवद्
भिन्नं शस्ततरूद्भवं धमनमप्यग्नेर्धवित्रादिना ॥ ७-
अरण्यादिविधिः ।
वक्राः शीर्णदलाः कृशाः कृमिहता भिन्नास्त्वशस्त्राहृता
ह्रस्वाः स्थूलगतत्वचोऽप्युपहता दीर्घाग्निदग्धादयः ।
वर्ज्याः स्युः समिधः शुचिस्थलभुवः शेषाः समं छेदिता
मध्यानामिअकयोस्तु नाहसदृशाः शस्ताः कनिष्ठाधमाः ॥ ७-
तालायतास्तु समिधः खलु शान्तिकादौ
सप्ताङ्गुला भ्रमणचाटनकेषु शस्ताः ।
विद्वेषसाधनविधौ चतुरङ्गुलास्ता
वक्राः षडङ्गुलमिता अपि मारणेषु ॥ ७-
आकृष्टिवश्यविषयेषु शराङ्गुलाः स्युः
प्रादेशमात्रसमिधोऽप्यविशेषकृत्ये ।
क्षुद्रेषु पृष्ठमनले जुहुयात् तथाग्रं
चाग्नौ जुहोति हि शुभेषु यथोपदेशम् ॥ ७-
इध्मोऽष्टादशभिः समिद्भिरुदितः प्रादेशमात्रोऽथवा
रत्न्यायाममितः क्वचित् परिधयो हस्तायताः स्युस्रयः ।
दीर्घो दक्षिणतस्तु पश्चिमशयः स्थूलस्तनुर्ह्रस्वकः
सौम्ये कौशिकजाश्च पालककुशाः श्रेष्ठा हि दर्भाः क्रमात् ॥ ७-
व्यग्रा हस्तनखाहृताः कृमिहताः कर्मान्तरायोजिताः
याम्या व्याघ्रविलङ्घनाद्युपहता धूम्रोर्ध्वशुष्कादयः ।
वर्ज्याः श्यामलकोमलाः प्रतिनवालूनार्द्रशुष्कास्तथा
दर्भाः स्युर्यदिहाग्निकार्यपटले वेण्यादिकं चोदितम् ॥ ७-
तत्र त्रिंशद्दर्भदलकृता वेणिः । अष्ट्यत्यष्टिधृत्यतिधृतिसंख्या वा दर्भाः परिस्तरणे स्युः । तत्त्वसंख्यादर्भैर्बद्धं कूर्चं ज्ञानखड्गः । दर्भद्वयेन सामान्यम् । दर्भपञ्चकेन विशेषकूर्चमिति संहिताटीकायाम् ।
पञ्चभिः पञ्चभिर्दर्भैः प्रणीताप्रोक्षणीविधौ ।
कूर्चद्वयं भवेत् सप्तदशभिर्ब्रह्मकूर्चकम् ॥ ७-
द्वादशाङ्गुलकं दण्डं ब्रह्मग्रन्थ्येकमङ्गुलम् ।
तदग्रं त्र्यङ्गुलायामं कूर्चानां तु प्रकल्पयेत् ॥ ७-
मध्येन ग्रथितं तु दर्भयुगलं प्रादेशमात्रं भवेत्
संस्कारे तु पवित्रकं स्मृतमथ द्वन्द्वं च विद्योतने ।
स्रुक्सम्मार्जनके त्वतुष्टयमिह स्याद् वै कुशानां घृते
दर्भाग्रद्वयमङ्गुलायतमथात्रार्काङ्गुलं प्रस्तरे ॥ ७-
तालायताभ्यां दर्भाभ्यां ग्रथितं चतुरङ्गुलम् ।
पवित्रं स्याद् द्विजातीनां त्रिभिः क्षुद्रेषु हस्तयोः ॥ ७-
ब्रह्मग्रन्थिर्द्विजातीनां स्मृतो हस्तपवित्रके ।
केवलश्चानुलोमानां दूर्वैव स्त्रीचतुर्थयोः ॥ ७-
दशोत्तरशतं त्वेवं दर्भाः स्युः प्रस्तारं विना ।
इति बौधायनमतम् ।
इध्मवर्हिषां विधिः ।
भूमिः स्थण्डिलसंज्ञिता सपदि या गोगोमयालेपिता
गोकर्णाष्टकमात्रकं षडथ वा गोचर्ममात्रं स्मृतम् ।
नद्यादेः सिकताः शुभास्तु धवलाः प्रस्थैर्मिताः पञ्चभिः
सामान्येन तदाह होमविषये बोधायनः स्थण्डिले ॥ ७-
स्थाल्याज्यस्य भवेच्छरावसदृशी विस्तारतोऽष्टाङ्गुला
विस्तारार्धसमुच्छ्रयापि च भवेन्नालं च वेदाङ्गुलम् ।
विस्तारेण षडङ्गुलोच्छ्रितसमं पात्रं प्रणीताम्भसां
स्यादष्टाङ्गुलविस्तृतोच्छ्रयसमा नालान्विता प्रोक्षणी ॥ ७-
अत्र पौष्करे -
सर्वत्र स्वर्णरजतताम्रमृन्मयानि पात्राणि उत्तममध्यमाधमफलानि भवन्ति इति ।
अष्टाभिः कुडुबैः प्रपूरितचरुः स्थाली स्मृता चाधमा
मध्यार्कैर्वसुयुग्मकैः परिमिता स्यादुत्तमा ताम्रजा ।
श्रेष्ठाद्यास्त्वधमास्त्रिसप्तकमिता दर्व्यङ्गुलानां भवेद्
दैर्घ्यात् सप्तशराङ्गुलैरिह शिरोवृत्तं तु पुच्छं द्वयात् ॥ ७-
शालीनां सिततण्डुलाः सकलमा नीवारजाः षाष्टिकाः
संशुद्धास्तुषशर्करादिरहिताः शुक्लार्जिताः स्युश्चरोः ।
श्रेष्ठं यत् स्वपशोर्नवं घृतमथ क्रीतं नवं मध्यमं
क्रीताज्यं यदनूतनं तदधमं गव्यं भवेद् गालितम् ॥ ७-
क्षौद्रं गन्धरसाद्यदूषितमपि क्रीतं पुनर्गालितं
ग्राह्यं क्रीतसितोपलाद्यभिनवं खण्डं गुलं चैक्षवम् ।
पूर्वं पूर्वमिह प्रशस्तमखिलं शुद्धं च शुक्लार्जितं
होमादेश्च तिलादिधान्यमखिलं संशोध्य तु क्षालितम् ॥ ७-
यच्चान्यत् फलमूलवस्तु सुरसं ग्राह्यं विशुद्धं नवं
तत्राङ्गुष्ठमिताहुतिस्तु कथिता ह्यन्नस्य शाल्यादिषु ।
स्यात् पञ्चाङ्गुलिभिर्धृतं द्रवरसेषूक्तं स्रुवापूरितं
लाजानां खलु मुष्टिरेव कुसुमेष्वेकैकमब्जादिषु ॥ ७-
वल्लीनां चतुरङ्गुलं कणतिले सक्तुष्वपि स्यान्मृगी
साङ्गुष्ठा खलु मध्यमाङ्गुलियुता नाम्ना मृगीसंज्ञिता ।
गन्धानां चणकीमितं तु बदरीबीजोपमं गुग्गुलो-
र्भक्ष्याणां च महाफलादिषु भवेदक्षप्रमाणाहुतिः ॥ ७-
खर्जूरेङ्गुदगोस्तनीबदरिकाजम्बूफलानां तथा
पत्राणां पृथगेकमेकमुदिता पर्वैकमिक्षोरपि ।
नानाभक्ष्यविमिश्रहोमविषये पञ्चाङ्गुलीभिर्धृतं
दूर्वाग्रत्रितयं तथैव समिधामेकैकमेवाहुतिः ॥ ७-
आहुतिप्रमाणम् ।
स्याद् वर्धन्यपि पूर्णभारसलिला कुंभश्च खार्यम्बुभृद्
द्रोणाम्भःपरिपूरितस्तु कलशः पूर्णं शिवात् कर्करी ।
पूर्णा स्याद् घटिकाढकेन कुडुबद्वन्द्वं शरावं भवे-
दापूर्णं कुडुबेन वा प्रसरतः शङ्खश्च दीपस्तथा ॥ ७-
पात्रमानम् ।
वक्ष्ये शुद्धिमपीह पात्रविषयां द्रव्यादिकानां तथा
यावद् गन्धविलेपनाद्यपगमस्तावज्जलैः क्षालयेत् ।
चूर्णैरप्यवघर्षयेत् पुनरपि प्रक्षाल्य चोष्णैर्जलैः
पात्राणां भवतीह शुद्धिरधुना शुद्धिर्विशिष्टोच्यते ॥ ७-
सौवर्णं सलिलेन शुध्यति यथा लेपापनोदो भवेत्
पात्रं शुल्बमयं तथाम्लसलिलैस्तारोद्भवं गोमयात् ।
कांस्यं भस्मजलैस्तथा मणिमयं सूर्यांशुभिर्वाम्भसा
मृत्पात्रं दहनेन चेदभिनवं तत्तक्षणाद् दारवम् ॥ ७-
दाहादायसशुद्धिरेवमुदिता लौहानि तत्कर्तृभिः
स्पर्शाद् वा तुरगाननाभिगमनाच्छुध्यन्त्यनत्याहतौ ।
शुद्धिश्चर्मसु रज्जुवस्त्रविषये चेत् क्षारवारिप्लवात्
स्याच्चालाबुकवैणवेऽम्बुपवनं गोपालकाघर्षणात् ॥ ७-
शुद्धिः सोदकभाजनेष्वपि भवेत् पर्यग्नि कृत्वा तथा
धान्यानां फलदर्भमूलसमिधां संप्रोक्षणाधावनैः ।
कौशेयादिदुकूलपट्टवसनान्यालब्धरङ्गानि या-
न्यम्भःसेकविरागकाणि धवलैः शुध्यन्ति सिद्धार्थकैः ॥ ७-
त्याज्यं दारववैणवादिकमथो भाण्डं तथा मार्त्तिकं
श्लेष्मोच्छिष्टमलादिदुष्टमथवा निर्माल्यसन्दूषितम् ।
स्नेहानामपि शुद्धिरत्युपहतिर्नोचेदभिद्योतना-
च्छुध्येदम्बुजलाशयादिषु निशास्वग्नेः शिखादर्शनात् ॥ ७-
गोभिर्वाध्युषिता निखानिततलाकृष्टाथवा सूद्घृता
भूः शुध्येद् भवनादिकं च सलिलैः सद्गोमयालेपितम् ।
पुण्याहाद् द्विजभोजनैरपि तथा चोल्लेखनाद् वा स्थलं
शुध्येत् पातकीनाभिभाष्य वचसां शुद्धिर्द्विजाभाषणात् ॥ ७-
प्राणायामैः शुध्यति देहः समनस्कः
स्पृष्ट्वास्पृश्यानप्सु निमग्नः सहचेलः ।
जग्ध्वा यत्तद् वा क्षुतनिष्ठीवनजृम्भा-
स्वाचम्याद्भिश्चान्त्यजशूद्राद्यवलोके ॥ ७-
निः सार्याम्भः कूपजलादेर्महदर्णो-
वेगात् स्पृष्टं वांशुभिरंशोरिह शुध्येत् ।
सामान्याग्निः प्रोक्षणतोऽन्यत्र गतो वा
प्रायश्चित्ताद् चाग्निमुखाच्चाहितवह्निः ॥ ७-
गन्धादीनां मन्त्रजलैः प्रोक्षणतः स्याच्-
छुद्धिः क्षीरे चान्धसि वाज्यं त्वभिधार्य ।
दर्भोद्योताच्छुध्यति नातिप्रहतिश्चे-
च्छिष्टानामप्येवमिवोह्या परिशुद्धिः ॥ ७-
सामान्येयं सर्वगुणानामपि हेतुः
कर्मद्रव्यस्वात्मसु सुद्धिर्मनसो या ।
शुद्धिः सा साद्यस्य तु रागाद्यविदुष्टा
चेच्चत्वारोऽप्यस्य करस्थाः पुरुषार्थाः ॥ ७-
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे स्रुक्सुवादिलक्षणं नाम सप्तमः पटलः ।
अथाष्टमः पटलः
अथ मन्त्रात्मभूतानां देवतानां यथोचिता ।
पूजा सिद्धिकरी ज्ञेया दृष्टादृष्टफलप्रदा ॥ ८-
तया स्युर्देवतास्तुष्टाः पुरुषार्थफलप्रदाः ।
पूजा सा त्रिविधा ज्ञेया श्रेष्ठमध्याधमक्रमात् ॥ ८-
पूजोत्तमा भवति षोडशधोपचारैर्या मध्यमा प्रभवतीह दशोपचारा ।
पञ्चोपचारविधिना त्वधमा सपर्येत्यासां यथा विभवमर्चनमाश्रयीत ॥ ८-
कल्पतन्त्रगुरुप्रोक्ता यस्य मन्त्रस्य यादृशी ।
पूजा श्रेष्ठादिभेदेन तयाराध्यैष साधयेत् ॥ ८-
आसनावाहनार्घ्यादि पाद्यमाचमनीयकम् ।
साङ्गोपाङ्ग तथा स्नानं वासनाभरणानि च ॥ ८-
गन्धः पुष्पं तथा धूपो दीपश्चरुनिवेदनम् ।
अग्निकार्यं नमस्कारो जपपूजासमर्पणम् ॥ ८-
इति षोडशधोद्दिष्टा ह्युपचाराः समासतः ।
अर्घ्यं पाद्यं तथाचामः स्नानं गन्धश्च पुष्पकम् ॥ ८-
धूपदीपनिवेद्यानि नमस्कारश्च ते दश ।
मध्यमायां तु पूजायामुपचाराः प्रकीर्तिताः ॥ ८-
गन्धः पूष्पं धूपदीपौ निवेद्यं पञ्चैवं स्युस्तूपचाराः कनिष्ठे ।
अप्येतेषां लक्षणानां प्रभेदाः संलिख्यन्ते साधकानां हिताय ॥ ८-
शक्त्यादिस्वाङ्गशक्त्यन्तं पीठाब्जं वाब्जमेव वा ।
यत् तन्मत्रविधानोक्तमासनं तत् प्रचक्षते ॥ ८-
आधारो वेत्यासनं देवतायाः स्वासीनास्मिन् पूज्यते देवतेष्टा ।
धातोरासेत्यस्य चैवोपवेशः सिद्धं तस्मादासनं प्राक् प्रशस्तम् ॥ ८-
व्योमाम्बुजादथो बिन्दोर्हृदयाद्वार्कमण्डलात् ।
यत् तत्त्वमानयीताअस्मिन् तदावाहनसंज्ञितम् ॥ ८-
स्वत एवाभिपूर्णस्य तत्त्वस्येहार्चनादिषु ।
सादरं संमुखीभावस्तदावाहनमिष्यते ॥ ८-
पुष्पैरञ्जलिमापूर्य हृदयादिस्थितं विभुम् ।
सौषुन्नमार्गेणादाय बिन्दोरभ्युदितं स्मरन् ॥ ८-
तावदुच्चारयेन्मन्त्रं यावन्निष्कलगोचरम् ।
तस्मादादाय विस्रब्धः स्थिरधीः पुरतः स्थिते ॥ ८-
बिम्बे वा स्थण्डिले वापि न्यसेदावाहनं तु तत् ।
आवाहनाङ्गभूतानि स्थापनं सन्निधापनम् ॥ ८-
संन्निरोधामृतीकाराववकुण्ठनमेव च ।
साकारस्येष्टदेवस्य पूजार्थं कल्पितासने ॥ ८-
उपवेशनमुद्दिष्टं स्थापनं नाम भक्तितः ।
आकर्मकाण्डपर्यन्तं सन्निध्यः दैवतस्य तु ॥ ८-
अविच्छेदेन पूजायां सन्निरोधः स कथ्यते ।
अविभिन्नस्वभावानां यदभिन्नं प्रयोजनम् ॥ ८-
अङ्गानामङ्गिना सार्धममृतीकरणं हि तत् ।
आनन्दायतनं तत्त्वं सच्चिदानन्दविग्रहम् ॥ ८-
तदेतन्मूर्तगं ध्येयं यत् तत् स्यादवकुण्ठनम् ।
अवकुण्ठनवत् तेजो रुचिराङ्गप्रवर्धनम् ॥ ८-
लावण्यामृतपूराढ्यं यत्तदुक्तं प्ररोचनम् ।
पूजां प्रयुज्यमानां तु गृहीत्वानुग्रहादिकम् ॥ ८-
कर्तुं सामर्थ्यमस्यास्ति यत् तत् स्यात् संनिधापनम् ।
आसनावहानाधिकारः
अर्घ्यं नामार्हणं प्रोक्तं तदर्हायागताय यत् ॥ ८-
कल्पितं दीयते तत् तद्विधानादर्चनादिषु ।
तच्चास्य त्रिविधं ज्ञेयं शैवं शाक्तं च वैष्णवम् ॥ ८-
शैवमर्घ्यं षडङ्गं चाप्यष्टाङ्गं च द्विधा भवेत् ।
गन्धपुष्पाक्षतकुशा दूवार्ग्रं च तथोदकम् ॥ ८-
भोजेन्द्रब्रह्मशम्भूक्तं षडङ्गार्घ्यमुदाहृदम् ।
कुशाक्षततिला दूर्वा गन्धः पुष्पं यवास्तथा ॥ ८-
क्षीरं चाष्टाङ्गमर्घ्याम्भः शैवं स्याद् विजयोदितम् ।
गन्धपुष्पाक्षतयवाः कुशदूर्वाग्रसर्षपाः ॥ ८-
आपश्चेत्यष्टभिर्द्रव्यैः शाक्तमर्घ्यमुदीरितम् ।
सिद्धार्थाक्षतदर्भाग्रगन्धपुष्पयवाः फलम् ॥ ८-
तिलाश्चेत्यष्टभिर्युक्तमम्भोऽर्घ्यं वैष्णवं स्मृतम् ।
हैरण्यं राजतं ताम्रमलाभे वाथ दारवम् ॥ ८-
पात्रं त्रिकुडुवैः पूर्णमर्घ्ये शङ्खस्तु वा भवेत् ।
आपूर्यार्घ्यं तु मूलाङ्गैरभिमन्त्र्यामृतीकृतम् ॥ ८-
ध्यात्वा तु सकलोपाधिविग्रहं संमुखं विभुम् ।
परमामृतनिःष्यन्दधवलीकृतदिङ्मुखम् ॥ ८-
समुत्क्षिप्य विशेषार्घ्यभाजनं वामपाणिना ।
पश्चान्निवेदयेदर्घ्यं दक्षिणेन करेण तु ॥ ८-
अर्घ्यविधिः ।
पाद्यं तु सर्वसामान्यं दूर्वाश्यामाकपङ्कजैः ।
लक्ष्म्याम्भसा समापूर्य पाद्यं दद्यात् तु पादयोः ॥ ८-
सजातीफलतक्कोललवङ्कं शीतलं जलम् ।
प्रपञ्चादिषु यत् प्रोक्तं सामान्याचमनीयकम् ॥ ८-
दधिमध्वाज्यदुग्धाम्भांस्येकीकृत्य विधाय तु ।
सहेमं कांस्यपात्रेण कूर्चाभ्यां परिगृह्य च ॥ ८-
मधुपर्कं तु तद् दद्यात् सामान्यं तच्च मन्त्रतः ।
न नित्ययजनेष्विष्टं मधुपर्कनिवेदनम् ।
नैमित्तिकेषु तच्छस्तं प्रतिष्ठास्नापनाअदिषु ॥
इति पौष्करे ।
पुनराचमनीये च शस्तमम्भः सुगन्धि च ॥ ८-
नमः स्वधा तथा स्वाहा वषड्जातियुजा हृदा ।
अर्घ्यादिकचतुष्कं तु दद्यादेवं यथाक्रमम् ॥ ८-
अर्घ्यस्य त्रीणि पात्राणि पाद्यस्यापि त्रयं भवेत् ।
षडाचमनपात्राणि तथैकं मधुपर्कके ॥ ८-
अर्घ्यमादौ तथा स्नाने पूजान्ते च प्रदीयते ।
आदौ स्नाने विभूषान्ते पाद्यं कालेषु वै त्रिषु ॥ ८-
पाद्यान्ते मधुपर्कान्ते स्नानाद्यन्ताम्बरादिषु ।
निवेद्यान्ते च षट्स्वेषु दद्यादाचमनीयकम् ॥ ८-
धूपे दीपे च नैवेद्ये ताम्बूलं वा फलादिकम् ।
निवेद्याचमनं दत्त्वा कर्तव्यं कर्म चोत्तरम् ॥ ८-
प्रथमाचमनीयान्ते मधुपर्कं प्रदाय तु ।
सकृदाचमनं दत्त्वा ततो गन्धादिनार्चयेत् ॥ ८-
पाद्याचमनमधुपर्काधिकारः ।
अपनीय तु निर्माल्यं गन्धपुष्पादिनार्चयेत् ।
मूर्ध्नि दूर्वाक्षतान् दत्त्वा ततः स्नानं समारभेत् ॥ ८-
नि(र्मत्स?मज्ज)नं तु देवस्य प्रथमं कारयेत् ततः ।
सुगन्धतैलेनाभ्यज्य तथा तैलापनुत्तये ॥ ८-
यवगोधूममाषादिचूर्णैरुद्वर्तयेदपि ।
ईषदुष्णाम्बुशीताद्भिः सेकाल्लेपापनोदनम् ॥ ८-
समूलाङ्गमनोर्न्यासः पुष्पधूपसमर्पणम् ।
फलापूपादिनैवेद्यं गीतवाद्यादिमङ्गलम् ॥ ८-
पञ्चगव्यामृतस्नानं पुनर्लेपापनोदनम् ।
गन्धामलकहारिद्रकुङ्कुमोद्वर्तनानि च ॥ ८-
मूलाङ्गवैदिकैर्मन्त्रैः सुगन्धाम्भोभिषेचनम् ।
यथोपपत्तिकलशैरभिषेकश्च संभवेत् ॥ ८-
माङ्गल्यपिष्टदीपाद्यैर्नीराजनविधिस्तथा ।
विशुद्धवाससा बिम्बस्थिततोयापमार्जनम् ॥ ८-
हेमपुष्पादिना शश्वदशून्यं मस्तकं यथा ।
इत्थं हि विंशत्यङ्गं तु स्नानं सामान्यमीरितम् ॥ ८-
एतेषां यदलभ्यं स्यान्मनसा तत् प्रकल्पयेत् ।
स्नानाधिकारः
ततो वासांसि शुद्धानि सूक्ष्माण्यभिनवानि तु ॥ ८-
दुकूलपट्टकार्पासदेवाङ्गादीनि यानि ह ।
अन्यत्रानुपयुक्तानि विकेशान्यहतानि च ॥ ८-
भक्त्या यथोपपन्नानि शस्तान्यत्र प्रदापयेत् ।
भूषणानि च हैमानि नानारत्नोज्ज्वलानि तु ॥ ८-
पादाद्याकेशयोग्यानि यथाविभवसारतः ।
अलाभे मनसा वापि तं तु सम्यग् विभूषयेत् ॥ ८-
दर्पणं निर्मलं चात्र स्थापयेत् पुरतः प्रभोः ॥
वस्त्रभूषणविधिः ।
गन्धश्च त्रिविधो ज्ञेयः शैवः शाक्तश्च वैष्णवः ॥ ८-
चन्दनं कुङ्कुमं कुष्ठं दलोशीरं तथागरु ।
कर्पूरं हिरिबेरं च शैवं गन्धं प्रचक्षते ॥ ८-
चन्दनागरुकर्पूरमांसीकुङ्कुमरोचनाः ।
कच्चोरवानराभ्यां च शाक्तो गन्ध उदाहृताः ॥ ८-
चन्दनोशीरतोयाह्वैर्मांसीकुष्ठं मुरागरू ।
कुङ्कुमं चेति वै गन्धमष्टाङ्गं वैष्णवं विदुः ॥ ८-
पुष्पाणि चैव कथ्यन्ते प्राग्वच्छैवादिभेदतः ।
तान्याग्नेयानि सौम्यानि सौम्याग्नेयानि च त्रिधा ॥ ८-
सात्त्विकानीह शुक्लानि राजसान्यरुणानि तु ।
कृष्णानि तामसानि स्युः पीतं राजससात्त्विकम् ॥ ८-
श्यामं तमोरजोमिश्रं पत्रेष्वप्येवमेव हि ।
सात्त्विकाद्यैस्तु कुसुमैः फलं स्यात् सात्त्विकादिकम् ॥ ८-
श्वेतार्कं करवीरकं च कमलं दुर्धूरकार *?धे
राजार्कं च सिताम्बुजं च तुलसीसाशोकसच्चम्पकैः ।
कल्हारं बकपाटले वकुलकं द्वे मल्लिके मालती-
पालाशस्थलपद्मदर्भदम(ने? नै) र्मार्गच्छदं दूर्वया ॥ ८-
तद्वद् ग्रन्थिशमीबृहन्मरुवकैः पुन्नागनागासनै-
र्नन्द्यावर्ततमालकुब्जविजयामन्दारकाश्मीरकैः ।
शस्तान्युत्पलकर्णिकारकुसुमैः कादम्बबैल्वान्यथो
नीलं चोत्पलमित्यमूनि कुसुमान्युक्तानि शैवान्यलम् ॥ ८-
शस्ते द्वे तुलसी सिताम्बुजमथो रक्ताब्जपालाशके
जातीकुब्जकमाधवीदमनकैः पुन्नागनागासनैः ।
नन्द्यावर्तशमीस्थलाब्जविजयासन्मल्लिकाचम्पकै-
र्बिल्वं चोत्पलकेतकाद्यभिनवं कुन्दं तथा पाटलम् ॥ ८-
लक्ष्मीदेविसहाः सभृङ्गमुसलीभीतेन्द्रवल्ल्यस्तथा
भद्रा श्रीपतिलङ्घिता च दशमी दूर्वाथ जम्बूच्छदम् ।
कल्हारं करवीरमेकदलकं पद्मं कुशाः कैरवं
रक्तं चेति विलोमतोऽधिकफलं पुष्पं भवेद् वैष्णवम् ॥ ८-
अम्भोजोत्पलबन्धुजीवविजयाः पुन्नागनागान्यथो
जातीकुन्दकरण्डचम्पकजपायूथीरमापाटलैः ।
बिल्वाशोकहयारिकुब्जदमनैर्मन्दारदूर्वादलै-
र्नन्द्याह्वाप्यपराजितेति कुसुमान्युक्तानि शाक्ताम्यलम् ॥ ८-
निर्गन्धानि तथोग्रगन्धकटुकान्यस्पृश्यदुष्टानि चा-
प्यन्यायोपहृतानि वा नखकृमीचिह्नानि तुन्नानि वा ।
ऊर्णासूत्रशिरोरुहाद्युपगतैर्म्लायत्पुराणानि वा
कालातीतविलङ्घितानि च तथा पुष्पाण्यथो वर्जयेत् ॥ ८-
त्रेधा चोदितपुष्पजातिषु न चेदुक्तानि वर्ज्यानि तान्य-
न्योन्यप्रतिषेधदर्शनमपि स्याद् यत्र चोक्तं विना ।
अन्यस्मै परिकल्पितानि च तथा वर्ज्यानि तद् युक्तितो
यद्यस्यात्र विशेषतस्तु विहितं तद्दैवतं तोषयेत् ॥ ८-
सूर्याग्न्योस्त्रिविधैस्तथैव कुसुमैरिष्टं हि विघ्नेशितुः
शाक्तान्यप्यथ शाम्भवानि च तथा स्कन्दार्यचण्डादिषु ।
शाक्तान्येव मनोजवाग्गिरिसुतादुर्गाष्टमातृप्रिया-
ण्यम्भोजासनदेवराजकमलाः पूज्यास्तथा वैष्णवैः ॥ ८-
नन्द्यावर्तैरर्धरात्रे च काल्ये प्राग् रात्रेः स्यान्मालतीमल्लिकाभिः ।
अह्व्येवाब्जैरुत्पलैः सर्वदा वा हैमैः प्रातः केसरैरर्धरात्रे ॥ ८-
आ वैवर्ण्यात् केसराणां सरोजं बैल्वं पत्रं दामनं च त्रिरात्रम् ।
पूजायोग्यं कार्णिकारं तु पक्षं न स्याज्जीर्णं मासषट्कं बकाख्यम् ॥ ८-
पुष्पाधिकारः
धूपद्रव्येषु सर्वेषु श्रेष्ठः कृष्णागरुर्भवेत् ।
कर्पूरमधिकश्रेष्ठमगरूपहितं तथा ॥ ८-
गुग्गुलुश्च तथोशीरचन्दने मध्यमे स्मृते ।
श्रीवाससर्जावधमौ तद्वल्लाक्षा धृतं मधु ॥ ८-
सर्वैरेतैः सितोपेतैर्धूप उक्तो दशाङ्गिकः ।
निर्धूमस्फुरदङ्गारे निर्ज्वाले च निरिन्धने ॥ ८-
धूपं दद्यादधः किञ्चिद् घण्टां वामेन वादयेत् ।
विशुद्धसितसूत्रेण स्युर्वर्त्त्यो वाथ तूलजाः ॥ ८-
दीपार्थं गोघृतं मुख्यं मध्यान्त्ये तैलमाहिषे ।
सकर्पूरदशो दीपः फलं दद्याच्छताधिकम् ॥ ८-
दीपः केवलकर्पूरः सहस्रगुण उच्यते ।
प्रभूतस्नेहसंपूर्णैर्दशभिर्वा नवाष्टकैः ॥ ८-
दीपैः प्रतिनवैराराद् भ्राम्यमारात्रिकं भवेत् ।
न दग्धशेषवर्त्या तु पुनर्दीपं प्रवर्तयेत् ॥ ८-
नोच्छिष्टाशुचितैलाद्यैर्नान्यतैलघृतादिना ।
धूपदीपविधिः ।
व्रीहेः पञ्चशतं तलं द्विगुणितं ते द्वे प्रकुञ्चं स्मृतं
ते द्वेऽथ प्रसरं तथैव कुडुबं प्रस्थार्धकं तद्द्वयम् ।
प्रस्थं पात्रमथाढकं शिवमथो द्रोणं च खारिः क्रमात्
खारीणां त्रितयं हि भार उदितो मानं यथाशास्त्रतः ॥ ८-
नित्यं नैमित्तिकं चेति नैवेद्यं द्विविधं मतम् ।
तच्चोत्तमोत्तमाद्यं तु नवभेदेन वक्ष्यते ॥ ८-
तण्डुलाः शालिजाः शस्ताः कलमा राजशालिजाः ।
नीवारजास्त्वथो मध्या व्रीहिजा वैणवास्तथा ॥ ८-
प्रियङ्गुयवगोधूमश्यामाकास्त्वधमाः क्रमात् ।
तण्डुलेभ्योऽष्टमांशाः स्युरुपदंशास्तथा दधि ॥ ८-
द्वात्रिंशदंशमाज्यं स्याच्छर्करामधुनी तथा ।
तत्र नित्यविधेरष्टद्रोणशालिजतण्डुलैः ॥ ८-
सार्धरात्रं चतुष्कालं पूजायां विनिवेदयेत् ।
पायसं कृसरं गौलमन्नं तच्च चतुर्विधम् ॥ ८-
यथोचितोपदंशाज्यदध्यपूपरसोत्तरम् ।
सगीतनृत्तवादित्रं सभूतबलिमङ्गलम् ॥ ८-
तत्र पञ्चशतं दीपास्त्वेवं स्यादुत्तमोत्तमम् ।
षड्भिर्द्रोणैश्चतुष्कालमभ्यर्च्य विनिवेदयेत् ॥ ८-
सहोमं द्विशतं दीपाः स्युर्गीतबलिनर्तनैः ।
कुर्यात् पूर्वानुसारेण तत् स्यादुत्तममध्यमम् ॥ ८-
पञ्चद्रोणैश्चतुष्कालं निवेद्यं पूजनं तथा ।
अष्टोत्तरशतं दीपैर्गीतवाद्यबलिक्रियाः ॥ ८-
अग्निकार्यं च कुर्वीत स्यादेवं तूत्तमाधमम् ।
सचतुर्द्रोणनैवेद्यं चतुष्कालोचितार्चनम् ॥ ८-
गीताद्यं बलिहोमौ च प्रदीपाः स्युश्च सप्ततिः ।
मध्यमोत्तममेवं स्यान्मध्यमध्येमथोच्यते ॥ ८-
भारार्धतण्डुलैः प्राग्वन्नैवेद्यं चार्चनादिकम् ।
मध्याह्न एव होमः स्याद् द्विकालं नर्तनादिकम् ॥ ८-
चत्वारिंशत् प्रदीपाः स्युर्मध्यमध्ये बलिस्तथा ।
खारितण्डुलनैवेद्यं चतुष्कालार्चना बलिः ॥ ८-
होमो द्वादश दीपाः स्युर्गीताद्यं मध्यमाधमम् ।
सायंप्रातस्त्वाढकाभ्यां शिवं तन्मध्याह्ने स्यादह्नि वेदप्रदीपाः ।
रात्रावष्टौ स्युस्त्रिकालं च पूजा पञ्चातोद्यैः स्यात् कनिष्ठोत्तमाख्ये ॥ ८-
प्रातः पात्रं सायमप्यत्र पात्रं स्यान्मध्याह्ने त्वाढकं चाह्नि दीपौ ।
तत्वारो वै रात्रिदीपास्त्रिकालं पूजेत्युक्तं मध्यमं यत् कनिष्ठे ॥ ८-
सायंप्रातः प्रतिप्रस्थद्वयनैवेद्यमर्चनम् ॥ ८-
दीपोऽह्नि निशि दीपावित्युक्तं स्यादधमाधमम् ।
नित्यनैवेद्यप्रकरणम् ।
अष्टद्रोणं समारभ्य यावद् द्वादशभारकम् ॥ ८-
नैमित्तिकं स्यानैवेद्यं नवधात्रापि पूर्ववत् ।
उत्तमोत्तमपूर्वं तु पूजां चैवं समूहयेत् ॥ ८-
स्यात् काम्यमपि नैवेद्यं यावद् वा प्रार्थितं भवेत् ।
न कालनियमस्तत्र साङ्गं पूजा प्रशस्यते ॥ ८-
नैमित्तिककाम्यविधिः ।
क्षीरं त्रिभागं भागस्तु तण्डुलाः पायसस्य तु ।
क्षीराज्यतण्डुलतिलाः समाः स्युः कृसरान्नके ॥ ८-
भिन्नमुद्गैः शुभास्तण्डुलाः स्युः समास्तस्य चार्धं घृतं स्याद् घृतार्धं गुलम् ।
तण्डुलेभ्यस्तथा योपयः षड्गुणं स्याद् गुलान्नं तु तद् युक्तरम्भाफलम् ॥ ८-
धौतदन्ता द्विजाः स्नातशुक्लाम्बरा वज्रपूतैर्जलैर्मौनिनस्तण्डुलान् ।
क्षालयेयुस्तथा सप्तकृत्वोऽङ्गकैर्ज्वालयेयुस्तथाग्निं धवित्रादिना ॥ ८-
ध्यात्वा चुल्लिं शक्तिमग्निं च रुद्रं वह्नेर्बीजात् तारकाद् वाभिपूज्य ।
तस्मिन्नग्नौ तद्धविः साधयेयुरोङ्काराज्यं चाभिधार्याहरेयुः ॥ ८-
बृहत्यः कदल्यस्तथा कुण्डहाल्यः सकूश्माण्डमुक्तं भवेत् कर्करी च ।
तथा कारवेल्लं च चूतार्द्रकाख्ये बृहन्मुद्गमुद्गास्तथा नालिकेरम् ॥ ८-
सशिम्बाश्च माषास्तथा चिद्भटाख्यः कुलस्थाश्च शस्ताः प्रकृष्टोपदंशाः ।
कदल्यादिपक्वैः सिताप्योषलोणैर्युतः स्याद् यवानीदधिक्वाथसूपः ॥ ८-
तथा मोदकांश्चोपदंशांश्च कुर्याद् घृतव्योषलोणैर्यवानीष्टपिष्टैः ।
ततः पात्रवर्गं बहिः शोधयित्वा सशङ्खध्वजच्छत्रमुत्थापयेच्च ॥ ८-
हिरण्याद्यमन्त्रं हृदा धौतमद्भिः कदल्यादिपत्राणि वात्राभिघार्य ।
हविस्तत्र दत्त्वा युतं चोपदंशैः कदल्यादिपक्वैः फलैर्मोदकैश्च ॥ ८-
सिताक्षौद्रदुग्धेऽथ दध्ना तु गव्यं घृतं चारुगन्धं नवं रागभागम् ।
निवेद्यात् प्रदेयं तु पुष्पार्पितेऽस्मिंस्ततो धेनुमुद्रामृतैः प्लावयित्वा ॥ ८-
सम्प्रोक्ष्य मूलमन्त्रेण दत्त्वाम्भोऽग्निप्रियान्तिकम् ।
सपुष्पदक्षिणकरो हविः स्पृष्ट्वा निवेदयेत् ॥ ८-
ध्यायेत् तन्मनसा दिव्यमन्नाज्यं तृप्तिकारकम् ।
पानीयं च निवेद्यास्मै हृद्यं शीतं सुगन्धि च ॥ ८-
बहिर्निर्गत्य तच्छेषमन्नं हुत्वानलेऽपि च ।
मूलाङ्गादिविधानेन तत्तन्मन्त्रेण साधकः ॥ ८-
तत्र किञ्चिद् बलिं दत्त्वा वह्निं भक्त्या क्षमापयेत् ।
प्रदक्षिणनमस्कारस्तुतिभिः संप्रसादयेत् ॥ ८-
प्रक्षाल्य चरणौ सम्यगाचान्तोऽन्तः प्रविश्य तु ।
सुतृप्तं दैवतं स्मृत्वा दद्यादाचमनीयकम् ॥ ८-
ततो लवङ्ककर्पूरतक्कोलक्रमुकान्वितम् ।
निवेदयेच्च ताम्बूलं गन्धपुष्पार्चितं ततः ॥ ८-
धूपयित्वा नमस्कृत्य जपेन्मूलं तु शक्तितः ॥
नैवेद्याधिकारः ।
अङ्गानि चैव परिवारगणांश्च सर्वान् पञ्चोपचारविधिना तु यथोपपत्त्या ।
संपूजयेदनुपपन्नमिहार्चनेयं तत्कल्पयेच्च मनसैव समहितात्मा ॥ ८-
अत्रोपचारभेदेन पूजाभेदांस्तथापरे ॥ ८-
वदन्ति तांश्च वक्ष्यामः किञ्चिद्भेदात् पुरोदितात् ।
दशोपचाराः कथिता निवेद्यान्ते तु पूजने ॥ ८-
होमान्तके तु कथिता ह्युपचारास्तु षोडश ।
बल्यन्ते चापि ते ख्याताः पञ्चविंशतिसंख्यया ॥ ८-
नृत्तान्ते चापि षट्त्रिंशदुपचाराः प्रकीर्तिताः ।
उत्तमोत्तमपूजायामुत्तमे वा भवन्त्युत ॥ ८-
आसनावाहनार्घ्याणि पाद्यमाचमनीयकम् ।
साङ्गं स्नानं तथा वस्त्रमुपवीतं च भूषणम् ॥ ८-
अञ्जनं गन्धपुष्पे च धूपो दीपश्च दर्पणम् ।
नीराजनं च नैवेद्यमग्निकार्यं प्रदक्षिणम् ॥ ८-
नमस्कारः स्तुतिर्वाद्यगीते नित्यबलिस्तथा ।
पूजासमर्पणं चेति पञ्चविंशतिचोदिता ॥ ८-
अथासनादयः पञ्च पञ्चगव्याभिषेचनम् ।
दुग्धेन दध्ना चाज्येन मधुनक्षुरसन च ॥ ८-
अभिषेकस्तु तत्स्नानं चक्रवर्त्युपचारतः ।
वस्त्रोपवीताभरणान्यञ्जनं गन्धपुष्पके ॥ ८-
धूपदीपौ च मुकुरं नीराजनविधिस्ततः ।
मुद्राणां दर्शनं तद्वन्नैवेद्यं पुस्तकार्चनम् ॥ ८-
होमकर्म च ताम्बुलं पादुके चामरध्वजौ ।
छत्रं च नित्ययात्रा च बलिदानमतः परम् ॥ ८-
प्रदक्षिणनमस्कारस्तोत्राण्यातोद्यमेव च ।
गीतं नृत्तं च पूजादेः समर्पणमतः परम् ॥ ८-
षट्त्रिंशदुपचाराः स्युरेवमुक्ताः क्रमात् क्वचित् ।
व्यत्यस्तक्रमतो वा स्युस्तत्तत्तन्त्रोदितास्त्वमी ॥ ८-
त्रिविधोपचाराधिकारः ।
बलियात्रोत्सवाः शस्ताः स्थिरलिङ्गादिपूजने ।
न चलस्थण्डिलविधौ मण्डलक्षणिकादिषु ॥ ८-
इति निगदितमार्गास्तूपचाराः प्रदिष्टाः
पृथगिह परिपाट्या तन्त्रभेदेषु दृष्टाः ।
विविधमनुसुराणां ये च सामान्यकल्पाः
स्वभिमतफलसिद्धिः साधकानां यथा स्यात् ॥ ८-
इति श्रीमदीशानगुरुदेवपद्धतौ तन्त्रसारे उपचारपटलोऽष्टमः ॥
अथ नवमः पटलः
अथोच्यते नैत्यकमत्र कर्म सामान्यतः सिद्धिकरं मनूनाम् ।
समस्तवर्णाश्रमलिङ्गभाजामावश्यकं यत् करणीयमेकम् ॥ ९-
प्रभावतीष्वेव हि तारकासु कौलं तु सूर्योदयदर्शनात् प्राक् ।
वदन्ति सन्ध्यां मुनयः प्रभातां तस्यां विनिद्रः शयनं च जह्यात् ॥ ९-
अत्र पितामहः: -
नक्षत्रज्योतिरारभ्य आ सूर्योदयदर्शनात् ।
प्रातःसन्ध्येति तां प्राहुर्मुनयो वेदपारगाः ॥ इति ।
स्मरन् हृदम्भोरुहकोटरस्थं शैवं परं ज्योतिरथात्मसंज्ञम् ।
व्रजेत् समुत्थाय दिशं विशुद्धामम्भः प्रभूतं सुलभं च यस्याम् ॥ ९-
अत्र स्मृतिः: -
निवीतं दक्षिणे कर्णे समासज्याम्बरेण तु ।
अवकुण्ठ्य शिरो मौनी मलोत्सर्गमथाचरेत् ॥ इति ।
विदूरतो मार्गजलाशयादेश्छन्ने तृणैर्भूमितले निवीती ।
उदङ्मुखो याम्यमुखोऽह्नि रात्रौ त्यक्त्वा मलं चाथ गृहीतशिश्नः ॥ ९-
जलान्तिकं प्राप्य मृदं विशुद्धामादय चाष्टाङ्गुलखातलब्धाम् ।
निधाय तां दक्षिणतो धृताभिरद्भिस्तु शौचं विधिवत् प्रकुर्यात् ॥ ९-
एकैव लिङ्गे करयोस्तु तिस्रस्तथा गुदे पञ्च मृदः प्रयोज्याः ।
वामे करे सप्त दशैव पाण्योः कनिष्ठकल्पं खलु शौचमेतत् ॥ ९-
द्वे चापि लिङ्गे करयोश्चतस्रो गुदे दश स्युर्दश वामपाणौ ।
हस्तद्वये द्वादश चेति मृत्स्नाः शौचेष्वयं मध्यविधिः प्रदिष्टः ॥ ९-
तिस्रोऽथ लिङ्गे करयोश्च पञ्च त्रिपञ्चसंख्यास्तु गुदे मृदः स्युः ।
वामे करे द्वादश तत्प्रसंख्याः पाण्योरयं शौचविधिर्हि मुख्यः ॥ ९-
उत्थाय वासः परिधाय सम्यगाजानुसन्धेश्चरणौ करौ च ।
प्रक्षाल्य मृत्स्नासलिलैर्विशुद्धैर्वक्त्रं च गण्डूषजलैर्विशोध्य ॥ ९-
प्लक्षाम्रजम्बूककुभाश्वकर्णमालूरकाशोकलवङ्कजाद्यम् ।
वैकङकतोदुम्बरचम्पकं वा शस्तं बुभुक्षोः खलु दन्तकाष्ठम् ॥ ९-
स्वैरङ्गुलैर्द्वादशभिर्मितं तत्कनिष्ठिकानाहसमं सवल्कम् ।
पूर्वामुखोऽद्यादुपविश्य मौनी प्रदक्षिणं वामरदादधः प्राक् ॥ ९-
मोक्षार्थिनां कण्टकिनस्तु शस्तास्तद्वच्छिरीषार्जुननक्तमालः ।
शस्तो ह्यपामार्ग इतीह तेषामष्टाङ्गुलं दन्तविशोधनं तत् ॥ ९-
प्. ८२) सनिम्बधात्रीधवशेलुशिग्रुवानीरकैरण्डतृणैः कुशैर्वा ।
स्थितः प्रजल्पन् शयितोऽथवाद्यात् तैलावसिक्तोऽपि न दन्तकाष्ठम् ॥ ९-
नोपोषितः पारणपूर्वकालं न जन्मभे पर्वणि नासिताहे ।
नाप्यष्टमीश्राद्धदिनेषु दन्तान् प्रधावयेदङ्गुलिभिर्नखैर्वा ॥ ९-
अपिच सार्धत्रिशतिकायामत्र कालोत्तरे -
प्रतिपत्पर्वषष्ठीषु नवम्यामपि वा गुह! ।
दन्तानां काष्ठसंयोगे महान् दोषोऽभिधीयते ॥ इत् ।
तद्वत् तु जिह्वामपि मार्जयित्वा तद्दन्तकाष्ठादि विसृज्य दूरे ।
गण्डूषकद्वादशकेन पश्चादाचम्य तु स्नानमुपक्रमेत् ॥ ९-
सरित्सु गङ्गादिषु मुख्यमुख्यं तीर्थेषु चान्यासु नदीषु मुख्यम् ।
सरस्तटाकादिषु मध्यमं स्यात् स्नानं तु कूपेषु गृहेषु नीचम् ॥ ९-
स्नायात् तु कूपादिषु शुद्धपात्रैः स्नातैर्द्विजैरेव समाहृताद्भिः ।
स्नायात् तु नोष्णाम्भसि कर्मयोग्यं नैतद् यतो रोगिषु सम्मतं तत् ॥ ९-
भुवमष्टाङ्गुलां खात्वा त्यक्त्वाधो मृदमस्नतः ।
खातां मृदं समादाय तत् खातं परिपूर्य च ॥ ९-
शिरसा पयसस्तीरे धौते संस्थाप्य तां पुनः ।
शिखया शोधयित्वा तु वर्मणा विभजेत् त्रिधा ॥ ९-
लिप्त्वैकभागमा नाभेः प्रक्षाल्याचम्य वाग्यतः ।
द्वितीयेनास्नयुक्तेन दीप्तेनाङ्गानि लेपयेत् ॥ ९-
द्विजश्चेदुद्धृतासीति मन्त्रेण प्रार्थयेद् भुवम् ।
इतरो वक्ष्यमाणेन * * * * * * * * ॥ ९-
धारणं पोषणं त्वत्तो भूतानां देवि! सर्वदा! ॥
तेन सत्येन मां पापं पापान्मोचय धारिणि! ॥ इत् ।
* * * * * * * ततोऽक्षाणि निरुध्य तु ।
प्राणानायम्य सलिले निमज्ज्यास्नमनुस्मरन् ॥ ९-
कालानलप्रतीकाशमथोपतटमम्भसि ।
उपविष्टो ह्यनुदिते सूर्ये सन्ध्यां भजेद् द्विजः ॥ ९-
ब्राह्मीं पूर्वं ततोऽस्त्राख्यां मन्त्रसन्ध्यां तथेतरः ।
उपास्योर्ध्वं जलं क्षिप्त्वा विधिस्नानं समाचरेत् ॥ ९-
स्वमन्त्रसन्नद्धतनुः स्मृत्वात्मानं हृदम्बुजे ।
तृतीयं पूर्वमृद्भागमादायानाभि वारिणि ॥ ९-
स्थित्वा वामकरे कृत्वा त्रिधा तां विभजेत् पुनः ।
दक्षिणं भागमस्त्रेण प्राक् स्वमूलेन तूत्तरम् ॥ ९-
अङ्गमन्त्रेणाभिमन्त्र्य गृहीत्वास्त्रेण दक्षिणम् ।
हुंफडन्तेन रक्षायै दशदिक्षु क्षिपेत् सुधीः ॥ ९-
मूलाभ्यस्तेन पूर्वेण जले दक्षिणपाणिना ।
निक्षिप्य भ्रामयेद् वारि शिवतीर्थमनुस्मरन् ॥ ९-
अङ्गाभ्यस्तार्कदीप्तेन शिष्टभागेन विग्रहम् ।
सर्वमालिप्य तत्तीर्थं स्वनाम्नावाह्य पूजयेत् ॥ ९-
गन्धपुष्पैर्यथालाभं मनसा वा समाहितः ।
मुख्यनद्यब्धितीर्थेषु नान्यतीर्थानि कीर्तयेत् ॥ ९-
कीर्तनान्निष्फलं तत् स्यात् क्रुध्येच्चातो न कीर्तयेत् ।
केवलाम्भस्सु गङ्गादितीर्थानां कीर्तनं स्मृतम् ॥ ९-
तत्तत्फलप्रदं तस्मात् तत्र तीर्थानि कीर्तयेत् ।
ततः प्राणान् समायम्य त्रिर्निमज्ज्य समाहितः ॥ ९-
निमग्न एव साङ्गं स्वं मूलं शक्त्या जपेद्धृदा ।
अपिच द्विजश्चेत् -
हिरण्यशृङ्गं वरुणं प्रपद्य इत्यथादितः सूक्तमुदीरयन् हृदा ।
निमग्न एवाम्भसि शक्तितोऽखिलान् हरत्यघौघानघमर्षणे स्थितः ॥ ९-
यथा जलौघे लवणस्य सञ्चयः प्रयाति सद्यो विलयं महानपि ।
तथा महानप्यघमर्षणेंऽहसां चयोऽपि नाशं व्रजतीति निश्चयः ॥ ९-
ततः स्थितो वारिणि वामदक्षिणौ करौ शशाङ्कार्कशिवद्वयात्मकौ ।
विभाव्य मूलेन च कुम्भमुद्रया शिरस्यथाङ्गैरपि वाभिषेचयेत् ॥ ९-
द्विजस्तु सूक्तैः पवमानपूरुषश्रियां यथाशक्त्यभिषिच्य तज्जलात् ।
तटं गतः स्वे परिधाय वाससी विशुद्धशुक्ले क्षतिदोषवर्जिते ॥ ९-
स्नातो नाङ्गानि निर्मृज्यात् पाणिना वार्द्रवाससा ॥ ९-
तथा नेक्षेत पाषण्डिपातकिश्वान्त्यजाशुचीन् ।
चितिं च चितिकाष्ठं च यूपं चण्डालमेव च ॥ ९-
स्पृष्ट्वा देवलकं चापि सचेलो जलमाविशेत् ।
नैमित्तिकेषु कृत्येषु ग्रहणेन्दुक्षयादिषु ॥ ९-
अयनद्वयतीर्थादौ सचेलः स्नातुमर्हति ।
सन्ध्यासु वमने शुक्लविण्मूत्रोच्छिष्टकुष्ठिनाम् ॥ ९-
संपर्के वपने चाब्धेः स्पर्शने चाप्यपर्वणि ।
वृषलप्रतिलोमानां मार्जारस्पर्शनेऽपि च ॥ ९-
श्मश्रुकर्मणि चोत्तीर्य नदीं वारुणमाचरेत् ।
दानादौ स्नानजप्यादौ तर्पणे हवनेऽपि वा ॥ ९-
सर्वत्र सपवित्रः स्यादन्यथा स्यात् तदासुरम् ।
यद्वा मुक्तशिखो नग्नः प्रलपन् वावकुण्ठितः ॥ ९-
करोति कृत्यं दैवाद्यं सर्वं विद्यात् तदासुरम् ।
पादप्रक्षालने मृत् स्यात् सकृत् पाण्योश्च सर्वदा ॥ ९-
स्नानादिसर्वकृत्यादौ भोजनादौ च संविशेत् ।
मूत्रादिशौचस्यान्ते च हस्तपादौ प्रधावयेत् ॥ ९-
अथाचमनकल्पोऽत्र सामान्यस्मृतिचोदितः ।
कथ्यते वैदिकी सन्ध्या तथास्त्राख्या च तान्त्रिकी ॥ ९-
अङ्गुल्यग्रे दैवमङ्गुष्ठमूले ब्राह्मं तीर्थं पर्वसन्धिष्वथार्षम् ।
प्राजापत्यं स्यात् कनिष्ठामथोऽथ पित्र्यं तर्जामूलदेशे द्विजानाम् ॥ ९-
हस्ते तूक्तं दक्षिणे तत्तले स्यादाग्नेयाख्यं तीर्थमन्यत्र सौम्यम् ।
दैवाद्यं यत् कर्म कुर्यात् स्वतीर्थादाचामेत् तु ब्रह्मतीर्थेन तोयैः ॥ ९-
ज्येष्ठाग्रेऽग्निस्तर्जनीमूर्ध्नि वायुर्मध्याग्रेऽर्कोऽनामिकाग्रे सुरेन्द्रः ।
प्रजापत्या स्यात् कनिष्ठेति देवैरङ्गुल्यः स्युर्दर्क्षिणे विप्रपाणौ ॥ ९-
प्राग्वक्त्रो वोदङ्मुखः सोपवीतो बद्ध्वा चूडां जानुमध्यस्थवाहुः ।
तोयोत्क्षेपी सूपविष्टोऽथ मौनी स्यादाप्रह्वस्त्वेकधीराचमिष्यन् ॥ ९-
अदुष्टरसगन्धाद्यैरकीटाफेनबुद्बुदैः ।
अनुष्णैरम्बुभिः शुद्धैराचामेदभिवीक्षितैः ॥ ९-
हृत्कण्ठास्यगताः पुनन्ति विधिनैवापो द्विजातीन् क्रमात्
त्रिः पीता वृषलस्त्रियावपि तथा कुण्डानुलोमादिकान् ।
आचम्य त्रिरपस्त्रिवेदपुरुषान् प्रीणाति निर्मार्ष्टि यद्
द्विः साथर्वषडङ्गयज्ञपुरुषाः प्रीताः स्युरप्यग्नयः ॥ ९-
प्रीणात्यर्कमनामिकानयनयोः स्पर्शात् तथाङ्गुष्ठयुक्
साङ्गुष्ठा त्वथ तर्जनीसममिता घ्राणद्वये मारुतान् ।
अङ्गुष्ठेन कनिष्ठिकाश्रवणयोराशाश्च नाभेर्वसू-
नात्मानं तु हृदोंऽसयोर्दिवमृषीन् मूर्ध्नः समस्ताङ्गुलैः ॥ ९-
आचम्येत्थं द्विर्विशुध्येत सर्वेषूच्छिष्टेषु क्षालने पादयोश्च ।
कक्ष्यामोक्षे वा शिखाबन्धमोक्षे निष्ठीव्याथो जृम्भिकायां क्षुते च ॥ ९-
आत्मविद्याशिवैस्तत्त्वैरीश्वरायनमोन्तकैः ।
अपः पिबेत् त्रिरभ्यस्तास्तच्छैवाचमनं स्मृतम् ॥ ९-
ओष्ठावस्त्रेण संसृज्य खानि सर्वात्मना स्पृशेत् ।
एवं सन्ध्याप्रसङ्गेन वारुणस्नानमीरितम् ॥ ९-
वारुणस्नानाचमनाधिकारः ।
आग्नेयादीनि चान्यानि कुर्यात् स्नानानि संभवे ॥ ९-
आग्नेयं भस्मना स्नानं निखिलाघनिबहर्णम् ।
स्वतेजः संभवेनैव येन स्नातः स्वयं शिवः ॥ ९-
स्नानं प्राग् वारुणं कृत्वा पश्चादाग्नेयमाचरेत् ।
आपद्यपि तथा शक्तौ देहस्याग्नेयमेव वा ॥ ९-
सन्ध्यात्रये च जप्यादौ चर्या पूर्वावसानयोः ।
भुक्त्वा सुप्त्वाम्बु पीत्वा वा कृत्वाप्यावश्यकादिकम् ॥ ९-
स्त्रियं वाप्यनुलोमादीन् स्पृष्ट्वा वा मूषिकाशुचीन् ।
आचरेत् स्नानमाग्नेयं यथैवाथर्वचोदितम् ॥ ९-
देवाग्निगुरु(विद्या? वृद्धा)नां समीपेऽन्त्यजदर्शने ।
अशुद्धभूमौ मार्गे वा स्थितो नोद्धूलयेद् बुधः ॥ ९-
कल्पानुकल्पोपकल्पभेदात् तद्वदकल्पकम् ।
चतुर्धा भस्म शैवोक्तं पूर्वं पूर्वं गुणाधिकम् ॥ ९-
अरोगायाः सवत्साया भूमावपतितं तु गोः ।
गोमयं पद्मपालाशपत्राद्यन्यतमेन तु ॥ ९-
गृहीत्वा तु विशुद्धात्मा गायत्र्या तु द्विजोऽपरः ।
साङ्गमूलेन शैवाग्नौ कल्पं तद्भस्म कीर्तितम् ॥ ९-
आरण्यगोमयं दूरे ग्रामादेः पूतमाहरेत् ।
प्राग्वच्छिवाग्निना दग्धं यत्तत् स्यादनुकल्पकम् ॥ ९-
अग्निदग्धेष्वरण्येषु गृहीत्वा भस्म तत् पुनः ।
गोमूत्राबद्धपिण्डं तु विशोध्याथ शिवानले ॥ ९-
दग्धं भस्मोपकल्पं स्यादकल्पकमथोच्यते ।
विशिष्टविप्रगोवाटजातं वा देवतालयात् ॥ ९-
गृहीत्वा साधितं प्राग्वत् तद् भस्म स्यादकल्पकम् ।
चतुर्विधं च तद् भस्म जातिसङ्करवर्जितम् ॥ ९-
अपरिग्रहमन्येषां कर्मस्पर्शाद्यदूषितम् ।
श्लक्ष्णं पूतमरोगं च पात्रस्थं भसितं सितम् ॥ ९-
आग्नेयस्नानयोग्यं स्याद् यथोक्तं ब्रह्मशम्भुना ।
तद्भस्म शिवमन्त्रेण शक्त्याभ्यस्तं सुरक्षितम् ॥ ९-
आदाय हस्तेनाधाराद् दक्षिणेनाभिमन्त्र्य तु ।
विशोध्य धारणाभिस्तु भूतशुद्धिविधानतः ॥ ९-
षडङ्गेनाभिमन्त्र्यादौ कृत्वा वामकरे पुनः ।
कृत्वास्त्रेण मलस्नानं मस्तकप्रभृति क्रमात् ॥ ९-
ततस्त्वीशानपुरुषाघोरवामैः ससद्यकैः ।
क्रमान्मूर्धास्यहृद्गुह्यजङ्घान्ताशेषविग्रहम् ॥ ९-
उद्धूलयेद् द्विजोऽन्ये तु ललाटांसहृदादिषु ।
धारयेयुस्त्रिपुण्ड्राणि तथैव ब्राह्मणादयः ॥ ९-
त्रियायुषं धारयेयुर्वेदप्रामाण्यदर्शनात् ।
त्रियायुषं जमदग्नेः कश्यपस्यागस्त्यस्य त्रियायुषमृषीणां त्र्यायुषं यद् देवानां त्रियायुषं तन्मेऽस्तु त्रियायुषं शिवो नामासीऽऽ ति स्रुतेः ॥
आग्नेयस्नानाधिकारः ।
अनभ्रे प्रतपत्यर्के वृष्टिं दृष्ट्वोर्ध्वबाहुना ॥ ९-
माहेन्द्रस्नानमीशानात् कार्यं सप्तपदावधि ।
गवां खुरपुटोत्खातरेणुभिः पवनोपगैः ॥ ९-
गोमध्यगस्तत्पुरुषं गोसूक्तं वा जपन् द्विजः ।
अन्यस्तु गोस्तुतिं गोभ्यो नमो वेत्यभ्युदीरयन् ॥ ९-
वायव्यमाचरेत् स्नानमखिलाघनिबर्हणम् ।
स्नानानामिह सर्वेषां मूलं श्रेष्ठं च वारुणम् ॥ ९-
तस्मात् प्राग् वारुणं कृत्वा ततः स्नानान्तरं व्रजेत् ।
आपोहिष्ठादिभिर्मन्त्रैर्मन्त्रस्नानं हि वैदिकम् ॥ ९-
संप्रोक्षणविधानेन स्वाङ्गमूलैस्तु तान्त्रिकम् ।
इत्थमुत्थानकावश्यशौचदन्तविशोधनैः ॥ ९-
स्नानेन च विशुद्धस्य सन्ध्योपासनमिष्यते ।
द्विजः प्राग् वैदिकीं सन्ध्यामुपासीताथ तान्त्रिकीम् ॥ ९-
क्षत्रवैश्यावपि तथैवान्ये केवलतान्त्रिकीम् ।
उपासीरन्नतः पूर्वं वैदिकी लिख्यतेऽधुना ॥ ९-
पितामहादिस्मृत्युक्ता तान्त्रिकी चागमोदिता ।
स्नातसूक्तप्रकारेण क्षालिताङ्घ्रिकरद्वयः ॥ ९-
स्वाचान्तः सपवित्रस्तन्मन्त्रवत् प्रोक्षयेद् द्विजः ।
मन्त्राणां तदृषिच्छन्दोदेवताविनियोगवत् ॥ ९-
अनुष्ठानं फलाय स्यादन्यथा चेत् तदासुरम् ।
दधिक्राविण्ण इत्यादेर्वामदेवो ह्यृषिः स्मृतः ॥ ९-
छन्दोऽनुष्टुप् तथैवापो विश्वेदेवाश्च दैवतम् ।
अनया प्रोक्षयित्वाथ मन्त्रिताम्भः पिबेद् द्विजः ॥ ९-
सूर्यश्चेत्यादिमन्त्रस्यच्छन्दो गायत्रमेव हि ।
सविता देवतागस्त्यो ह्यृषिरग्निर्भवेदपि ॥ ९-
तेन पीत्वाप आचम्य प्रोक्षयेदाप्यदैवतैः ।
दधिक्राविण्ण- आद्येनाप्यापोहिष्ठादिभिस्तथा ॥ ९-
आपोहिष्ठादिकानां तु सिन्धुद्वीप ऋषिः स्मृतः ।
आपो वै देवता छन्दो गायत्रं प्रोक्षणे विधिः ॥ ९-
ततोऽञ्जलिं समापूर्य तोयैः प्राग्वदनः स्थितः ।
ध्यायेज्ज्योतिः परं ब्रह्म सर्वलोकहृदि स्थितम् ॥ ९-
आदित्यमण्डलान्तस्थं विद्याद् देहात्मकं पुरम् ।
तारव्याहृतिसावित्र्या क्षिपेदूर्ध्वं यथाश्रुति ॥ ९-
ता आपो घ्नन्ति रक्षांसि वज्रीभूताः क्षणेन तु ।
ततः प्रदक्षिणीकृत्य समाचम्य तु तां जपेत् ॥ ९-
शुद्धायां भुवि वाग्यतस्त्वभिमुखः सूर्यं कुशेसु स्थितो
गायत्रीं दशतारकां सशिरसं सव्याहृतिं त्रिः पठन् ।
प्राणायामपरो भवेज्जपविधेरादौ यथाशक्तित-
स्तेन स्यात् परिशुद्धकल्मषतनुर्योग्यश्च जप्यादिषु ॥ ९-
प्रणवस्य मुनिर्ब्रह्मा छन्दो गायत्रमेव च ।
ध्यानकाले परं ब्रह्म होमकाले हुताशनः ॥ ९-
जपकाले त्रयी देवो विश्वेऽन्यत्र तु दैवतम् ।
विनियोगस्तु वेदादौ वाचामुद्घात एव च ॥ ९-
गायत्र्युष्णिगनुष्टुभश्च बृहतीं पङ्क्तिं सत्रिष्टुब्जग-
त्याख्या व्याहृतिसप्तकस्य तु पुनश्छन्दांसि तासामृषीन् ।
अत्रिं चैव भृगुं च कुत्समपरं प्राहुर्वसिष्ठं तत-
स्तद्वद् गौतमकाश्यपावपि पुनस्तत्राङ्गिराः सप्तमः ॥ ९-
अग्निर्वायुः सूर्यवागीश्वराभ्यां यादोनाथो वासवश्चाथ विश्वे ।
सप्त ख्याता देवता व्याहृतीनां स्थानान्याहुः सप्त भूरादिलोकान् ॥ ९-
विश्वामित्रस्त्वृषिर्देवः सविता भगवान् स्वयम् ।
छन्दस्तथैव गायत्रं सावित्र्यास्तत्त्रयं स्मरेत् ॥ ९-
सेयं चतुर्विंशतिवर्णवेद्या त्रिपाज्जपेऽष्टार्णविभागतः स्यात् ।
होमे च पूजाविषये चतुष्पात् स्ववर्णषट्कप्रविभक्तपादा ॥ ९-
ओमापोज्योतिरित्यादेर्गायत्रीशिरसो मुनिः ।
ब्रह्मानुष्टुब् भवेच्छन्दः परमात्माधिदैवतम् ॥ ९-
प्रजापतिस्तथा दैवं शिरसोऽन्तस्य वा भवेत् ।
आयात्वादेर्वामदेवो मुनिः स्याच्छन्दोऽनुष्टुब् दैवतं सैव देवी ।
गायत्रीत्थं सम्यगावाह्य विद्वान् मन्त्रेणातो दर्भपाणिर्जपेत् ताम् ॥ ९-
षट्कुक्षिं त्रिपदां च पञ्चशिरसं शुक्लां सरोजेक्षणां
वह्न्युद्द्योतशिखां च वेदजननीं भूपादपीठामपि ।
शक्रप्रेतपनीरपार्थदहरित्स्वोर्ध्वाधराशोदरां
क्रोडीभूतजगत्त्रयामभिमुखां पौराणनाभिं स्मरेत् ॥ ९-
शीक्षा कल्पो ज्योतिषं शब्दशास्त्रं मूर्धानोऽस्याः स्युर्निरुक्तं च पञ्च ।
वायुः प्राणो विष्णुरात्मा ललाटं ब्रह्मा रुद्रस्तच्छिखा वाक् च जिह्वा ॥ ९-
छन्दसां तु विचितिस्तनयुग्मां धर्मशास्त्रहृदयां घनकेशीम् ।
न्यायविस्तरमुजामनलास्यां चन्द्रसूर्यनयनामुडुहाराम् ॥ ९-
मीमांसा (चा)थर्ववेदश्च चेष्टा वेदान्तः स्यान्मानसं योगसांख्ये ।
श्रोत्रे घ्राणं चापि मन्त्रास्तु यज्ञाः सर्वे चास्याः स्वाङ्गकान्तिप्रकर्षः ॥ ९-
एवंरूपां सर्वदा सर्वसिद्ध्यै ध्यात्वा देवीं साधयेत् तां जपाद्यैः ।
सन्ध्याभेदाद् ध्येयभेदां विशषात् संलिख्यन्ते जप्यसंसिद्धिहेतोः ॥ ९-
हंसारूढां सिताब्जे त्वरुणमणिलसद्भूषणां साष्टनेत्रां
वेदास्यामक्षमालां स्रुचमथ कलशं दण्डमप्यादधानाम् ।
ध्यायेद् दोर्भिश्चतुर्भिस्त्रिभुवनजननीं पूर्वसन्ध्याभिवन्द्यां
सावित्रीमृक्सवित्रीमभिनववयसं मण्डले चण्डरश्मेः ॥ ९-
तार्क्ष्यारूढाम्बुजाक्षी शतमखमणिभा शङ्खचक्रे दधाना ।
दोर्भिर्युक्ता चतुर्भिः स्थितिरिह जगतां या यजूंष्युद्गिरन्ती ।
व्यालोलानेकहारद्युतिरुचिरुचिरा वैष्णवी मध्यमेऽह्नः
सावित्री ध्येयरूपा विलसति सवितुर्मण्डले पीतवस्रा ॥ ९-
पञ्चास्यां पिङ्गविद्युत्ततिरुचिरजटामण्डलां चन्द्रमौलिं
रङ्गद्भूषाभुजङ्गस्फुटमणिकिरणव्यक्तभस्माङ्गरागाम् ।
ध्यायेत् खट्वाङ्गशूले भयहरवरदे व्याघ्रचर्माम्बराढ्यां
सावित्रीं सत्रिनेत्रां परिणतवयसं सामसूतिं दधानाम् ॥ ९-
ऋषभवाहनामपरसन्ध्यायां ध्यायेदिति यावत्
इत्थं सन्ध्यात्रये त्रेधा सावित्री ध्येयविग्रहा ॥ ९-
अथास्याः प्रतिवर्णं तु दैवतानि भवन्ति हि ।
अग्निः प्रजापतिः सोम ईशानः सूर्य एव च ॥ ९-
वृहस्पतिस्तथैवेन्द्रो भगश्चैवार्यमा तथा ।
साविता च ततस्त्वष्टा पूषाथेन्द्रानलौ मरुत् ॥ ९-
ईश्वरो मित्रावरुणौ स्कन्दो विश्वेऽथ चक्रभृत् ।
वसवो मरुतोऽर्थेशश्चाश्विनौ चा पितामहः ॥ ९-
प्. ९१) तत्काराद्यक्षराणां तु देवताः क्रमशो मताः ।
पुरैव सामान्यतयात्र तारकः प्रकाशितो व्याहृतिसप्तकक्रमात् ।
यथार्थसङ्गो विधिवन्निरुच्यते सभूर्भुवःस्वर्महसां जनस्तपः ॥ ९-
तदेव सत्यं सवितुर्हि मण्डले स्थितं तु तेजः खलु भूर्हि सत्तया ।
भुवश्च तत्कारणकार्यसत्तया सुवो जगत्स्वीरितमात्मवत्तया ॥ ९-
महः प्रकाशात्मतया महत्तया जनस्तथा सर्वजनान्तरात्मता ।
तमोहरं यत् तपतीत्यतस्तपः परं हि तत् सत्यमनन्तमुच्यते ॥ ९-
प्रणवेनाथ संबन्धो व्याहृतीनामिहोच्यते ॥ ९-
भुः स्यादकारस्तु भुवो ह्युकारः स्वः स्यान्मकारोऽपि महोऽथ बिन्दुः ।
नादो जनः स्यात् तप एव शक्तिर्नादान्तसंज्ञं पदमत्र सत्यम् ॥ ९-
अथार्थप्रतिपत्त्यर्थं सावित्र्यास्तन्निरुच्यते ।
तदिति स्याद् द्वितीयैकवचनं ब्रह्मवाचकम् ॥ ९-
सूर्यमण्डलगं तेजस्तद् ब्रह्म परमं हि यत् ।
षष्ठ्यन्तः सवितुःशब्दो धातोः प्रसववाचकात् ॥ ९-
वृष्टेश्च प्राणिजातानां साक्षात् प्रसवितुर्विभोः ।
वरेण्यं वरणीयत्वाच्चतुर्वर्गफलार्थिभिः ॥ ९-
प्रथमाष्टाक्षरस्यास्य व्याप्या भूर्व्याहृतिः स्मृता ।
भक्तिगम्यं भवेद् भर्गः पापभञ्जनतोऽपि वा ॥ ९-
देवस्येति च षष्ठ्यन्तं वृष्ट्यादेर्दातुरीशितुः ।
दीव्यमानस्य वा दीप्त्या स्वप्रकाशतयाथवा ॥ ९-
तद् धीमहि ध्यैचिन्तायांघातोः सिद्धं हि यत् पदम् ।
तेजः सूर्यात्मकं ज्ञेयं चिन्तयामः शिवात्मकम् ॥ ९-
द्वितीयाष्टाक्षरस्यास्य व्याप्या स्याद् व्याहृतिर्भुवः ।
धियो बुद्धीर्मनोरस्य च्छान्दसत्वमुदीरितम् ॥ ९-
कृतश्च लिङ्गव्यत्यासः सूत्रात् सुप्तिङ्गुपग्रहात् ।
य इत्यत्र तु यत् तेजो नः षष्ठी युष्मदस्मदोः ॥ ९-
तस्मादस्माकमित्यर्थः प्रार्थनायां प्रचोदयात् ।
तृतीयाष्टाक्षरस्यापि व्याहृतिः स्वरिति स्मृता ॥ ९-
इत्थं जगत्प्रसवितुर्वरणीयमर्थं पापप्रभञ्जनकरं यदभीष्टदस्य ।
तेजस्तदेकममलं प्रविचिन्तयामः प्रज्ञां प्रयच्छतु स नो भगवान् महेशः ॥ ९-
इत्युक्तोऽर्थोऽत्र सावित्र्यास्तच्छिरः कथ्यतेऽधुना ।
आपो ज्योती रस इति सोमाग्न्योस्तेज उच्यते ॥ ९-
तत्तेजो ह्यमृतं ब्रह्म सूर्य आत्मेति चोदना ।
एवं ज्ञात्वार्थतस्त्वेतान् न्यस्येद् देहे यथाक्रमम् ॥ ९-
शिरोभ्रूमध्यनयनवक्त्रकण्ठेष्वथो हृदि ।
नाभौ च गुह्यजान्वङ्घ्रिद्वये चास्याः पदैर्न्यसेत् ॥ ९-
ब्रह्मा विष्णुश्च रुद्रश्चापीश्वरोऽपि सदाशिवः ।
एते सर्वात्मने जातियुक्ताङ्गमनवः क्रमात् ॥ ९-
इत्थं विन्यस्य गायत्रीमृष्यादीनभिवन्द्य च ।
जपेदायम्य तु प्राणाननन्तफलभाग् भवेत् ॥ ९-
प्रणवान्तरितं सप्तव्याहृतिप्रणवं पुनः ।
सावित्रीं शिरसा युक्तां जपेच्छतगुणं फलम् ॥ ९-
अष्टोत्तरसहस्रं तु जपेदेवमनन्यधीः ।
तदशक्तौ शतं वापि दशमात्रमथापि वा ॥ ९-
पूर्वः पूर्वोऽत्र मुख्यः स्याज्जपशक्तिं न हापयेत् ।
अथोद्वासनमन्त्रस्य तूत्तमेशिखरेत्यृचः ॥ ९-
सावित्री देवतानुष्टुब् वामदेव ऋषिर्मतः ।
मित्रस्येत्याद्युपस्थानमन्त्राणां कौशिकस्त्त्वृषिः ॥ ९-
मित्रस्तु देवता छन्दो गायत्रं चाप्यनुष्टुभात् ।
प्रदक्षिणं परिक्रम्य दिशोऽथ सदिगीश्वराः ॥ ९-
अभिवन्द्य ततः पञ्च सन्ध्याद्या देवताः क्रमात् ।
सहस्ररश्मिमुद्यन्तमुपतिष्ठेद् दिवाकरम् ॥ ९-
आत्मानं परमात्मानं ध्यात्वा पादाभिवादनम् ।
कृत्वाथ देवपूजां च होमजप्यं समाचरेत् ॥ ९-
अथातो विनियोगाद्यं सावित्र्याः कथ्यतेऽधुना ।
प्रत्याहारः शस्तदेशे तु लक्षं तिष्ठन् युक्तात्मा सूर्यबिम्बं जपित्वा ।
पश्यन् गव्याक्तैस्तावदग्नौ तिलैः स्याद्धुत्वा भक्तश्चेन्मन्त्रसिद्धो महात्मा ॥ ९-
अयुतं तु जले स्थितो जपित्वा ननु पापानि निहन्ति नाभिमात्रे ।
प्रयुतादुपपातकानि लक्षादखिलान्येव हि पातकानि हन्यात् ॥ ९-
दशलक्षजपेन कण्ठमात्रे सुमहापातकिनोऽप्सु यान्ति शुद्धिम् ।
त्रिसहस्रजपादभोज्यदोषात् परिशुध्येदपि वाङ्मनःकृताघैः ॥ ९-
अपहन्त्यपमृत्युरोगदुःखान्ययुतानां त्रितयं तिलाज्यहोमात् ।
मधुरत्रयसिक्तदौर्वलक्षत्रयहोमादपहन्ति कालमृत्युम् ॥ ९-
पुत्रं शालिहुतेन बिल्वकमलैर्लक्ष्मीं पलाशैः पशू-
नन्नाद्यं सघृतान्नतस्तु कुमुदैर्वासांसि चैवोत्पलैः ।
वृष्टिं वेतसजैः सगोमयशिलामालेयगोरोचना-
कप्तं? लोकवशीकरं तु लिलकं स्पृष्टं सहस्रत्रयम् ॥ ९-
पादपांसुकृतपुत्तलिहोमान्मारयेत् परमतीत्य तु विप्रम् ।
द्वेषयेच्च कलिवृक्षसमिद्भिश्चाटयेत् तदनले कलिपत्रैः ॥ ९-
कुन्दपुष्पहवनेन कुमारीं विन्दतेऽथ करवीरहुतात् स्युः ।
सिद्धयः स खलु कोटिजपात् स्यात् खेचरः सुरमुनीन्द्रसमेतः ॥ ९-
जुहुयात् पायसेनाज्यतिलदूर्वाङ्कुरैरपि ॥ ९-
चतुः क्षीरसमिद्भिश्च प्रत्येकं त्रिसहस्रकम् ।
यत्तदुद्दिश्य तत् सर्वमचिरेणैव सिध्यति ॥ ९-
जुहुयात् पायसाज्याभ्यां तिलदूर्वाङ्कुरैरपि ।
प्रत्यक्षरसहस्रं तु दीर्घमायुरवामुयात् ॥ ९-
मधुरत्रयसिक्तरक्तपद्मैरयुतं यो जुहुयाच्छ्रियं स विन्देत् ।
सघृतान्नहुतादथान्नवान् स्याद् विधिवद्वह्निमुखादिकं च कृत्वा ॥ ९-
आधाय वह्निं विधिवत् सूर्यमावाह्य तन्मुखे ।
तमप्याराध्य विधिवत् सावित्रीं तद्धृतम्बुजे ॥ ९-
समावाह्य तु मन्त्रेण ध्यायेत् सन्ध्योक्तलक्षणाम् ।
सपूज्य गन्धपुष्पाद्यैर्द्वादशान्तामृताप्लुताम् ॥ ९-
स्वकृत्यं चापि सङ्कल्प्य जुह्वन् स लभते फलम् ।
अथ माध्यन्दिनं कर्म स्नानपूर्वं समाचरेत् ॥ ९-
स्नानं प्राग्वद् विशेषोऽत्र वैदिकः कथ्यतेऽधुना ।
प्रातःस्नानमृतेऽन्यत्र स्नास्यन् दन्तान् न धावयेत् ॥ ९-
हिरण्यशृङ्गमित्यादि पुनन्तु पुनरन्ततः ।
जपेन्निमज्ज्याथाचम्य गृहीत्वाञ्जलिना जलम् ॥ ९-
सुमित्राद्येन सन्त्वन्तं जपित्वारिदिशं प्रति ।
दुर्मित्राद्येन द्विष्मोऽन्तं प्रक्षिप्याचम्य वाग्यतः ॥ ९-
यदपांक्रूरमित्यादि गच्छतादन्तमम्भसि ।
त्रिरावर्त्य करेणाथ निमज्ज्याम्भस्तटं गतः ॥ ९-
उपविश्य तथाचम्य पाणिस्थाम्भोऽभिमन्त्र्य तु ।
आपः पुनन्त्वित्याद्येन स्वाहान्तं तत् पिबेत् पुनः ॥ ९-
आचामेदस्य चर्षिः स्याद् ब्रह्मणस्पतिसंज्ञितः ।
देवताप्याप एव स्याच्छन्दोऽनुष्टुप् प्रकीर्तिता ॥ ९-
आपोहिष्ठादितिसृभिः प्रोक्षयेद् दर्भपाणिना ।
हिरण्यवर्णाः शुचयः पवमानः सुवर्जनः ॥ ९-
इत्यादिमन्त्रैः संप्रोक्ष्य ततोऽम्भोमग्नविग्रहः ।
ऋतं च सत्यं चेत्यादिखरित्यन्तमृचां त्रयम् ॥ ९-
प्राणानायम्य मनसा जपेत् त्रिरघमर्षणम् ।
शक्तः स चेदिमाग्।स्तदापोवरुणपूर्वकैः ॥ ९-
सुवानो-इन्दुरित्यन्तमन्त्रैः कृत्वाघमर्षणम् ।
उत्तीर्य वासो निष्पीड्याथाम्बरे शुचिनिर्मले ॥ ९-
परिधायाथ संक्षाल्य पादावाचम्य वाग्यतः ।
सन्तर्प्य पूर्वसन्ध्यावत् सावित्रीं शक्तितो जपेत् ॥ ९-
तिष्ठंश्चेदीक्षमाणोऽर्कमासीनः प्राङ्मुखो जपेत् ।
ततः पुष्पाञ्जलिं दद्याद् भानवे केवलाम्बु वा ॥ ९-
अथोर्ध्वबाहुरादित्यमुपतिष्ठेदिमां जपन् ।
उद्वयादिमुदुत्यादिं चित्रंतच्चक्षुरादितः ॥ ९-
हिरण्ययूपनामा स्यादृषिरासां प्रकीर्तितः ।
उदुत्यादिद्वयेच्छन्दस्त्रिष्टुप् स्याद् दैवतं रविः ॥ ९-
गायत्री स्यात् तृतीयायाश्चतुर्थ्या जगती मता ।
उष्णिक् तच्चक्षुराद्यस्य मन्त्रस्य सविता विधिः ॥ ९-
ब्रह्मयज्ञं ततः कुर्यात् स्वाध्यायः स उदीरितः ।
ब्रह्मयज्ञोत्तरं कालं तर्पणस्याश्वलायनः ॥ ९-
प्राहेतरेषां तु मतं तूपस्थानादनन्तरम् ।
साङ्गमूलादिभिर्मन्त्रैः स्वागमोक्तविधानतः ॥ ९-
देवान् ऋषीन् पितॄंश्चान्यान् तर्पयेयुर्हि दीक्षिताः ।
स्नानकालेऽम्भसः क्षोभं न कुर्याच्चरणादिभिः ॥ ९-
अन्तर्मलापनयनं वस्त्रनिर्णेजनादि वा ।
यदि कुर्यात् प्रमादेन प्रायश्चित्तमिहोच्यते ॥ ९-
नमोऽग्नयेऽप्सुमते नमोद्ब्योन्तं जपेद् द्विजः ।
उअपतिष्ठेद् द्विजातिश्चेदितरोऽद्ब्यो नमो वदेत् ॥ ९-
ततोऽनुज्ञां गृहीत्वाद्ब्यिस्तार्थानुद्वास्य दैवतैः ।
ऋषीन् पितॄनप्युद्वास्य ततो यागगृहं व्रजेत् ॥ ९-
तत्रेष्टां देवतामिष्ट्वा स्वागमाचार्यदर्शनात् ।
तत्तन्मन्त्रं जपेद्धोमवैश्वदेवबलिक्रियाः ॥ ९-
समाप्यातिथिपोष्यादीन् भोजयित्वा स्वशक्तितः ।
स्वयं भुञ्जीत पुत्राद्यैः सहितोऽन्नमकुत्सयन् ॥ ९-
भुक्त्वान्नगन्धलेपाद्यमपनीय च शोधयेत् ।
दन्तानथ समाचम्य मुखवासं भजेदपि ॥ ९-
ततो विद्याविनोदाद्यैर्दिनशेषं सुखं नयेत् ।
अथार्धास्तमिते भानौ सन्ध्यामासाद्य पश्चिमाम् ॥ ९-
उपासीत यथापूर्वं दन्तधावनवर्जितम् ।
स्नात्वाचम्याथ सम्प्रोक्ष्य पीत्वाम्भोऽग्निश्चमन्त्रतः ॥ ९-
ऊर्ध्वं त्वापस्तथा क्षिप्त्वा गायत्रीं शक्तितो जपेत् ।
इमंमेवरुणाद्याभिरुपस्थायाथ पूर्ववत् ॥ ९-
गन्धाद्यैर्देवतामिष्ट्वा यथापूर्वं स्वशक्तितः ।
जपित्वाथ नमस्कृत्य वैश्वदेवबलिक्रियाः ॥ ९-
समाप्यातिथिभूत्याद्यैः सह भुञ्जीत चेद् गृही ।
शयीत शयने शुद्धे स्वास्तीर्णे शुक्लवाससा ॥ ९-
गोविप्रदेववह्नीनां नोपरिष्टान्न सङ्कटे ।
नानुवंशं शयीतासौ नोत्तरापरदिक्शिराः ॥ ९-
न नग्नो नार्द्रपाण्यङ्घ्रिर्न तैलाक्तो न चाशुचिः ।
वितानदीपकलशैः शोभिते विभवे सति ॥ ९-
मन्त्रसन्नद्धदेहस्तु रक्षागन्धाद्यलङ्कृतः ।
स्वपत्नीं साधुशीलाढ्यां स्वनुरक्तां स्वलङ्कृताम् ॥ ९-
अपर्वस्वभिगच्छेत् तु गृही सन्तानकारणात् ।
सन्ध्योपास्तिप्रसङ्गादिति विधिविहितं नैत्यकं कर्मचक्रं
श्रौतस्मार्तेषु तन्त्रोदितमपि कथितं वर्णिनां यत् समासात् ।
दृष्टादृष्टेष्टसिद्धिप्रदमिह मुनिभिः सेवितं चेति सन्तः
स्वीकुर्वन्तु स्वकीयं धनमिव सुहृदः सत्पथे वर्तयन्तः ॥ ९-१८८ १।
इति श्रीमदीशानगुरुदेवपद्धतौ तन्त्रसारे नित्यकर्मविधिर्नाम नवमः पटलः ॥
अथ दशमः पटलः==
प्रणम्य शम्भुं शशिखण्डशेखरं भवं भवच्छेदकरं समासतः ।
सभूतशुद्धिक्रममात्मशोधनं निगद्यते योगजपादिसिद्धये ॥ १०-१०-
स्नातो यथावत् समुपास्य सन्ध्यां यागालयं प्राप्य कृताङ्घ्रिशौचः ।
आचम्य चान्तर्विधिवत् प्रविष्टः शस्तासने वाग्यमवान् निविष्टः ॥ १०-१०-
आमस्तकाङ्घ्रिद्वयमात्मदेहे ध्यायन् सुसूक्ष्मं सुषिरं तदन्तः ।
बाह्ये तु विन्यस्य तु शक्तिमच्छां व्योमत्विषं तामथ देहमध्ये ॥ १०-१०-
हुङ्कारबीजं रुचिमद् विचिन्त्य प्राणान् नियम्याथ निवेश्य चित्तम् ।
तद्रेचकान्तोऽत्र फडन्तमस्त्राद् ग्रन्थिप्रभेदं क्रमशो विदध्यात् ॥ १०-
ये ग्रन्थयः पञ्च तमोमलिष्ठा हृत्कण्ठतालुस्थितयः प्रसिद्धाः ।
भ्रूमध्यतो मूर्धनि चेति तेषां भेदात् तु नाडीसरणिः प्रसिध्येत् ॥ १०-
वायुं निवर्त्यात्मनि पूरकान्तं चैतन्यसान्तात्मकजीवरूपम् ।
तं बिन्दुभूतं च निरामयं स्वे हृत्पङ्कजे कुम्भकतो विभाव्यम् ॥ १०-
तत्रोर्ध्ववायोः प्रसरेण जीवं सौषुम्नमार्गान्निहितं स्वमूर्ध्नि ।
उद्धातमात्रेण तु बीजवृत्त्या तं द्वादशान्तस्थशिवं नयेत् ॥ १०-
कादङ्गुलद्वादशके त्वसौम्यं शुक्लं सहस्रच्छदपुण्डरीकम् ।
व्योमामृतव्याप्तमधोमुखं तन्मध्यं शिवाध्यासितमभ्युपेयम् ॥ १०-
लीनः शिवेऽङ्गैरभिरक्षितात्मा साधोमुखं देहतरुं विभाव्य ।
तत्त्वानि षट्त्रिंशदथो विलोमान्नीत्वा लयं स्वेष्विह कारणेषु ॥ १०-
भूम्यम्बुतेजोमरुदम्बरैः स्याद् गन्धो रसश्चाप्यथ रूपमुक्तम् ।
स्पर्शाख्यशब्दौ कथितावुपस्थं पायवङ्घ्रिपाण्योऽपि च वाक् च नासा ॥ १०-
जिह्वाक्षिचर्मश्रवणैर्मनः स्यात् साहङ्कृतिर्बुद्धिरपि प्रधानम् ।
पुमांश्च रागो नियतिस्त्वशुद्धा विद्या कला कालयुता च माया ॥ १०-
संशुद्धविद्या च तथेश्वराख्यः सादाह्वयः शक्तिरथो शिवः स्यात् ।
षट्त्रिंशदित्थं प्रतिलोमतः स्युस्तत्त्वानि तत्तत्परकारणानि ॥ १०-
पञ्चाथ भूतानि परस्परान्तः शोध्यानि खादीनि विलोममार्गात् ।
ईशानपूर्वैः समधिष्ठितैस्तैरक्षैश्च बिम्बार्णकलाधिदैवैः ॥ १०-
भूमण्डलं यच्चतुरश्रपीतं वज्राङ्कितं गन्धगुणं ससद्यम् ।
घ्राणेन्द्रियं तत्कलया निवृत्त्या युक्तं च दैवेन चतुर्मुखेन ॥ १०-
ह्लांबीजतः पूरककुम्भकाभ्यां व्याप्तं तदा पादतलं शिरस्तः ।
शोध्यं तदुद्धातकपञ्चकात् स्याद् वायौ प्रविष्टं परिभावयेच्च ॥ १०-
अब्बिम्बमर्धेन्दुसिताब्जचिह्नं शुक्लं रसाढ्यं रसनेन्द्रियं च ।
वामास्थितं विष्णुसमन्वितं स्याद् युक्तं प्रतिष्ठाकलया विशोध्यम् ॥ १०-
ह्री।बीजमुद्धातचतुष्टयान्तं तच्चाणिभूतं प्रविशन्त्यपश्चात् ।
वह्नेस्त्रिकोणारुणमण्डलं स्याद् विद्यातलं स्वस्तिकलाञ्छनं च ॥ १०-
दृगिन्द्रियं रूपगुणं सरुद्रं ह्रूंबीजतोऽघोरयुतं विशोध्यम् ।
त्र्युद्धाततस्तत्सलिले प्रविष्टं विचिन्तयेद् व्याप्तसमस्तदेहम् ॥ १०-
षड्बिन्दुचिह्नं त्वथ वायुबिम्बं कृष्णं षडश्रं पुरुषास्थितं तत् ।
त्वक्स्पर्शशान्त्यन्वितमीश्वरेण ह्यैंयुक्तमुद्धातयुगात् कुभूतम् ॥ १०-
वृत्तं स्वबिम्बं स्फटिकावदातं सश्रोत्रशब्दं च सबिन्दुशक्ति ।
ईशानसादेशयुतं त्वतीतं चोद्धातशोध्यं खलु हुंफडन्तात् ॥ १०-
तद्द्वादशान्तःस्थितमूलमन्त्राच्चन्द्रामृतासारजलैः समस्तम् ।
आप्लाव्य निर्वर्तितभूतशुद्धिः संपाद्य तत्त्वानि यथाक्रमेण ॥ १०-
शिवेच्छयोत्पादितशुद्धदेहो हृद्यासनं तु प्रणवेन दत्त्वा ।
तद्व्यापिनीं न्यस्य शिवां तु शक्तिं स्वबीजजीवं निहितं शिवाख्ये ॥ १०-
तद्द्वादशान्तादथ पूरकेण त्वानीय नाड्या हृदयाब्जमध्ये ।
संस्थाप्य मूलामृतवारिपूरैराप्लाव्य पूजादिकमारभेत् ॥ १०-
भूतशुद्ध्यधिकारः
अत्रोच्यतेऽन्या स्फुटमात्मशुद्धिर्या शोषणादिक्रमशोध्यदेहा ।
निश्शेषदोषक्षयशुद्धिदानाद् रोगान् जरां मृत्युमपि क्षिणोति ॥ १०-
प्राग्वत् स्वदेहे सुषिरं तु चिन्त्य तद्व्यापिनीं चान्तरबाह्यशक्तिम् ।
हुङ्कारमध्यस्थितचित्तजीवः प्राणान् नियम्याहृतपूरकेण ॥ १०-२५ ॥ १०-
ग्रन्थीन् विदार्याहृतरेचकान्तं चास्त्रेण वायुं विनिवर्त्य पूरात् ।
चैतन्यमाहृत्य ससान्तजीवं हृत्संपुटं ज्योतिरनामयाख्यम् ॥ १०-
तत्कुम्भकोद्धातवशात् तदूर्ध्वं त्वाकृष्य सौषुम्नपथा स्वकान्तम् ।
तद्द्वादशान्तस्थशिवे नियुज्य तत्त्वानि नीत्वा विलयं विलोमात् ॥ १०-
वर्णान् विलोमात् क्षहसक्रमोक्तं नीत्वा लयं शब्दततिं च शक्तौ ।
शून्यं तु देहं मलपापमात्रं विचिन्त्य कृष्णं त्वथ नाभिचक्रे ॥ १०-
बिम्बे तु वायोरतिधूम्रवर्णं यङ्कारमुद्भाव्य तु चण्डवायुम् ।
ध्यायेदधःशाखमथोर्ध्वमूलं संसारवृक्षात्मकमात्मदेहम् ॥ १०-
अत्र ब्रह्मशम्भुः -
देहात्माधोमुखस्तत्र ध्यातव्यो भवपादपः इति ।
तं शोषयेन्नाभिविनिर्गतेन ध्यात्वानिलेनाघमले च शोष्ये ।
उद्धातकैः पञ्चभिरस्य शोषं वायोर्निरोधेन विधाय पश्चात् ॥ १०-
हृत्पङ्कजेऽन्त्यं विषवह्निवायुं सानुग्रहार्धेन्दुयुतं सनादम् ।
बीजं तु चिन्तामणिसंज्ञमेतद् बिम्बे हुताशस्य तु वह्निरूपम् ॥ १०-
विन्यस्य षट्कोणलसत्त्रिशूलज्वालासहस्रप्रसरैरघौघम् ।
सम्यग् दहन्तं तु कलेबराख्यं तद्भस्मसाद्भूतमपीह चिन्त्यम् ॥ १०-
दहेत् पाशुपतास्त्रेण इति पराख्यपौष्करयोरुक्तत्वात् पाशुपतास्त्रेण वा तद् दहेत् ।
प्रोत्सार्य चण्डानिलवायुबीजात् तद् भस्म सर्वं तु दिशो विकीर्य ।
शून्यं खतुल्यं परिभाव्य देहं शुद्धं तु तत् केवलपुण्यशेषम् ॥ १०-
अत्र ब्रह्मशम्भुः -
कुम्भकेनाग्निना शुष्कं निर्दग्ध च विचिन्तयेत् ।
रेचकेनाथ वायव्याद् भस्मीभूतं दिशो दश ॥
प्रलीनमन्त्यया शुद्धं निर्मलं व्योम भावयेत् ॥ १०-इति
कलेबरं दहेद् धीमन् भस्मकूटव्यवस्थितम् ॥
इति श्रीकालोत्तरे -
व्योमाम्बुजान्तस्थशिवस्य शक्तेरिच्छाक्रियाज्ञानवशात् सिसृक्षोः ।
शक्तेर्यथावल्लिपिवर्णपूगैस्तत्त्वानि चोत्पाद्य तु तैः शरीरम् ॥ १०-
सृष्ट्वा तदण्डात्मकविश्वलोकं संभाव्य शुद्धं गतपाशबन्धम् ।
प्राग्द्वादशान्ताहितबीजजीवं त्वाकृष्य तत्पूरकवायुमिश्रम् ॥ १०-
तद्ब्रह्मरन्ध्रेण निवेश्य मार्गाद्धृदब्जमध्ये शिवमात्मरूपम् ।
व्योमाब्जमध्येन्दुकलास्वराढ्यं द्व्यष्टच्छदाधारसुधाकलाभिः ॥ १०-
सौषुम्नमार्गेण पृथग् यथावदापूरयेद् व्युत्क्रमतः स्वराणाम् ।
सामृता मानसी तुष्टिपुष्टी तथा प्रीतिरुक्ता रतिः श्रीश्च शान्तिः स्वधा ।
कान्त्यथ ज्योत्स्नया हैमवत्या प्रभा पूरणी वामया स्यादमा षोडशी ॥ १०-
दक्षिणाङ्गुष्ठतो गुल्फजानू कटिश्चोदरं पाणिसन्धिर्भुजो दक्षिणः ।
मूर्ध्नि चार्धं क्रमाद् वामभागेऽपि च स्थानमुक्त कलास्तद्विलोमान्न्यसेत् ॥
अः अमायै नमः । अं वामायै नमः । औं पूरण्यै नमः ।
इत्यङ्गुष्ठादिमूर्धान्तं षोडशकला विन्यस्य तदमृतैः क्रमादापूरयेदित्युपदेशः ।
तोयमर्धेन्दुमत्पूर्णचन्द्रप्रभं स्वाम्बुजे भावयेत् तत्कलार्तस्वरम् ।
शङ्खकुन्देन्दुगोक्षीरगौरामृतैर्ब्रह्मनीडापथापूर्य देहं स्वकम् ॥ १०-
अत्र ब्रह्मशम्भुः -
तत्सुधाधवलापूरसिक्तं कृत्वा निरन्तरम् । इति ।
श्रीकालोत्तरे च -
चन्द्रबिम्बं स्मरेत् तत्र श्वेतपद्मोपरि स्थितम् ।
स्रवन्तममृतं दिव्यं शरीरोत्पत्तिकारणम् ॥ १०- इति ।
द्व्यष्टवर्षाकृतिं शुद्धविद्यातनुं तत् सुधापूरणप्लाव्यमानाकृतिम् ।
पुण्यपूगार्जितं शुद्धमित्थं धिया यः स्मरेदेकदाप्येष योगी भवेत् ॥ १०-
इत्थमभ्यासतः शुद्धसत्त्वः स्वयं शक्तिपातं लभेतेश्वरानुग्रहात् ।
जप्यपूजादिभिश्चेष्टसिद्धिं तदा सुप्रसन्ना मुखान्निस्सरेद् भारती ॥ १०-
नहि सलिलविशेषैः केवलं क्षालनाद्यैः प्रभवति परिशुद्धं यन्मलिष्ठं शरीरम् ।
द्विविधमितिह सद्भिः सान्तरङ्गात्मशुद्धिः सविधिकमुपदिष्टां तां भजे नित्यशोऽपि ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे
भूतशुद्ध्यादिपटलो दशमः ॥
अथैकादशः पटलः==
अथोच्यते सिद्धिकरी मनूनां दीक्षा यथा सा च चतुष्प्रकारा ।
तथाहि मन्त्री प्रथमाथ शैवी शाक्तेयिकाख्या त्वथ वैष्णवी च ॥ ११-
ददाति यस्मादिह दिव्यभावं मायामले कर्म च संक्षिणोति ।
फलं चतुर्वर्गमयं च यस्यास्तस्मात् तु दीक्षेत्यभिधानमस्याः ॥ ११-
सामान्यभूता खलु मान्त्रिकी स्याद् दीक्षा स्मृता मन्त्रगणेषु तद्वत् ।
वर्णेषु चापि द्विजपूर्वकेषु स्याच्छैवशाक्तेष्वपि वैष्णवेषु ॥ ११-
कौबेरदिग्भागगते दिनेशे पुण्यर्क्षयोगे सुतिथौ सुलग्ने ।
पक्षे तु पूर्वे विदधीत दीक्षामाचार्यशिष्याभ्युदयप्रदे च ॥ ११-
दीक्षासु देवालयमण्डपानां वेश्मादिकृत्येऽपि च विघ्नशान्तौ ।
वास्त्वीशपूजां प्रथमं विदध्यात् संवर्तयेत् सर्वसमीहितानाम् ॥ ११-
वास्त्वीशनामा ह्यसुरोऽतिकायो देवैः पुरा दत्तवरोऽतिपूज्यः ।
शेते स्म भूम्यां प्रविसार्य पादौ हस्तौ तथाधोवदनः सदैवः ॥ ११-
तद्देहसंस्थाः खलु देवतास्ता द्वात्रिंशदन्ये प्रकृतिप्रसंख्याः ।
पूज्याश्चतुःषष्टिपदेषु विप्रैरेकोत्तराशीतिपदे नृपाद्यैः ॥ ११-
उद्दिष्टदेशे नवगोमयाम्भःसेकोपलिप्ते चतुरश्रमादौ ।
कृत्वाष्टधा तद् विभजेदथैवमुक्तं चतुष्षष्टिपदं तु तत् स्यात् ॥ ११-
तस्मिन् विभक्ते नवधा तु सूत्राण्यास्फाल्य संमिश्रितपिष्टचूर्णम् ।
एकोत्तराशीतिपदं तदुक्तं देवालयानामपि भूमिपानाम् ॥ ११-
कृत्वा चतुष्षष्टिपदं तु तस्मिन् कोणेषु सूत्रेऽपि निवेश्य तत्र ।
मध्ये पदानां हि चतुष्टये स्याद् ब्रह्मादिपूज्यस्तदनन्तरश्च ॥ ११-
पूर्वादिदिक्कोष्ठयुगेषु तद्वच्चार्यो विवस्वानथ मित्रनामा ।
महीधराख्यश्च तदन्तराले कोणार्धयुग्मेषु वदामि देवान् ॥ ११-
सावित्रः सविता च वह्निदिशि तत् स्यातां पदार्धे गता-
विन्द्रश्चेन्द्रजयश्च राक्षसदिशि (ख्या?स्या)तामथो मारुते ।
रुद्रो रुद्रजयस्तथेशदिशि चाप्यापापवत्साह्वयौ
बाह्ये कोणचतुष्टयेऽपि च पुनर्वक्ष्यामि देवाष्टकम् ॥ ११-
शर्वस्कन्दो यमाह्नश्च जम्भकः पिलिपिञ्जकः ।
चरकी च विदारी च पूतना पापराक्षसी ॥ ११-
अथ प्रान्तचतुष्पङ्क्तिद्वात्रिंशत्कोष्ठदेवताः ।
प्रागादिक्रमशो ज्ञेयाश्चतुर्धैव चतुर्दिशम् ॥ ११-
प्राअच्यामीशानपर्जन्यजयन्तेन्द्रार्कसत्यकाः ।
भृशान्तरिक्षावित्यष्टौ देवताः स्युः प्रतिक्षणः ॥ ११-
अग्निः पूषाध वितथो यमश्च गृहरक्षकः ।
गन्धर्वभृङ्गराजौ च मृगाख्योऽपि च दक्षिणे ॥ ११-
निर्-ऋतिर्दौवारिकश्च सुग्रीववरुणावपि ।
पुष्पदन्तासुरौ शोषः पापयक्ष्मा च पश्चिमे ॥ ११-
मारुतो नागमुख्यौ च भल्लाटश्च निशाकरः ।
अर्गलश्च दितिस्तद्वददितिश्चोत्तरस्थिताः ॥ ११-
ईशानस्य शिरो निवेशितमभूद् वास्तोष्पतेर्मारुते
वह्नौ चापि करद्वयं पदयुगं नक्तञ्चरे स्थापितम् ।
पर्जन्यो नयने दितिश्च वदने स्यादापवत्सो गले
कर्णौ चाप्यदितिस्तथार्गलयुतावंसौ जयन्ताश्रितौ ॥ ११-
शक्रश्चाथ निशाकरश्च भुजयोः पृष्ठे तु रुद्रः स्थितः
सावित्रः सविता च रोगसहिताः होषश्च पाण्योः स्थिताः ।
नाभौ स्याच्चतुराननोऽस्य कुचयोर्भूभृत् तथैवार्यमा
मित्रश्चापि विवस्वता तदुदरे गुह्येन्द्रकश्चापरः ॥ ११-
ईशानपूजा तु घृताक्षताद्भिः पर्जन्यकस्योत्पलगन्धतोयैः ।
पीता जयन्तस्य भवेत् पताका रक्तान्नदीपैश्च यजेन्महेन्द्रम् ॥ ११-
सूर्यस्य पीतान्नवितानकाभ्यां सत्यस्य साज्येन तथौदनेन ।
गोधूमकान्नेन भृशस्य पूजा कार्यान्तरिक्षस्य तु माषमांसैः ॥ ११-
अग्निं स्रुचाभ्यर्च्य तथैव लाजैः पूषाणमिष्ट्वा वितथं च हेम्ना ।
मध्वोदनाभ्यां गृहरक्षकं च मांसौदनाभ्यां यममर्चयेच्च ॥ ११-
गन्धर्वमिष्ट्वा कुसुमैः सगन्धैः स्यात् पक्षिजिह्वा त्वथ भृङ्गराजे ।
पूजा मृगस्यापि तिलैर्यवैः स्या पित्र्यं निर्-ऋत्यै कृसरं यथावत् ॥ ११-
दौवारिकं शोभनदन्तकाष्ठैः सुग्रीवमिष्ट्वा तु यवैः सधूपैः ।
स्तम्बैः कुशानामपि पुष्पदन्तं तद्वज्जलेशं सितपुण्डरीकैः ॥ ११-
मध्वक्षताभ्यामसुराय पूजा शोषाय चान्नं घृतमिश्रितं स्यात् ।
नीवारकान्नं त्वथ पापयक्ष्मण्याज्येन वायोरपि मण्डकानि ॥ ११-
नागप्रसूनैरपि नागपूजां कुर्यात् तु मुख्याय तु मोदकैश्च ।
भल्लाटसंज्ञस्य समुद्गमन्नं सोमाय राज्ञे मधुपायसाज्यम् ॥ ११-
शाल्यक्षतैरर्गलमर्चयित्वा संरक्तशाल्यन्नघृतैर्दितिं च ।
माषान्नभक्ष्यैरदितिं यथावद् द्वात्रिंशदित्थं क्रमशोऽर्चयित्वा ॥ ११-
आपस्तु दुग्धेन तथापवत्सः पूज्यस्तु दध्ना घृतलड्डुकैश्च ।
सावित्रमिष्ट्वाथ कुशार्गलान्नैस्तथा सवित्रे यजनं विदध्यात् ॥ ११-
हारिद्रमन्नं सघृतं तथेन्द्रे शुद्धान्नमेवेन्द्रजयाय शस्तम् ।
रुद्राय मांसं विहितं तु पक्वं मांसं तथा रुद्रजये त्वपक्वम् ॥ ११-
अ(त्रा)भिपूज्याः समरीचकाद्यास्ते लड्डुकालोहितशुक्लभक्तैः ।
तथैव भाषैः सघृतैर्यथावत् स्वे स्वे पदे स्युश्चतुरः क्रमेण ॥ ११-
ब्रह्माणमाज्याक्षतपञ्चगव्यैः पुष्पैः सगन्धैश्चरुणा तिलैश्च ।
संपूज्य तु प्राग् घृतपायसेन शर्वाह्वयं स्कन्दमथो यजेत् ॥ ११-
याम्येऽर्यम्णे समांसाज्यं ततः पीतस्रगामिषे ।
जम्भकाय तु वारुण्यां पिलिपिञ्जाय चोत्तरे ॥ ११-
सान्द्रलोहितपुष्पान्नैर्बलिमित्थं प्रदापयेत् ।
मांसौदनघृतापूपैरैशान्यां चरकीबलिः ॥ ११-
बाह्ये पित्तेन मांसेन विदार्यै बह्निदिग्बलिः ।
पूतनायास्तु राक्षस्यां दधिरक्तौदनैर्दिशि ॥ ११-
क्षीरपित्तास्थिरक्तान्नैर्वायव्यां पापराक्षसीम् ।
यजेत् सर्वान् स्वनाम्नैव नमोन्तं सोपचारकम् ॥ ११-
बाह्ये त्वष्टविधेभ्योऽथ भूतेभ्यो बलिमाहरेत् ।
प्रत्येकमुक्तद्रव्याणामलाभे कुसुमाक्षतैः ॥ ११-
सुगन्दधूपदीपैश्च शुद्धान्नेन स्मृतो बलिः ।
स्वैर्नामभिस्तु प्रणवादियुक्तैर्नमोन्तकैरर्चनमेषु कृत्वा ।
पञ्चोपचारैर्निशि शुक्लवासा विशुद्धभावस्तु बलिं विदध्यात् ॥ ११-
इत्थं वास्तुशरीरस्था देवताः सम्यगर्चिताः ।
तत्तत्कर्मसु संसिद्धिं प्रयच्छन्ति च शान्तिकम् ॥ ११-
एकाशीतिपदेषु पूर्ववदमुं विन्यस्य वास्तोष्पतिं
मध्ये तस्य तु वेधसं नवपदेष्वभ्यर्च्य तद्बाह्यतः ।
कोणेष्वत्र पदद्वयेष्वघ्निगताः सावित्रपूर्वाः सुरा-
स्तन्मध्ये समरीचपूर्वकसुराश्चत्वार उक्ताः क्रमात् ॥ ११-
पूर्वाद्यासु दिशासु बाह्यवृतिगा एकैककोष्ठस्थिता
द्वात्रिंशत् पृथगीशपूर्वकसुराः पूज्याः पुरोवत् क्रमात् ।
बाह्येऽन्याः पदवर्जितास्तु चरकी चैशे विदार्यानले
कोणे रक्षसि पूतनाथ पवनस्याशागता राक्षसी ॥ ११-
शर्वस्कन्दादिचत्वारः पदवर्जं बहिः स्थिताः ।
प्राग्याम्यवारुणाशासु कौबेर्यां च क्रमाद् यजेत् ॥ ११-
अनयोर्मार्गयोरेकमाश्रित्यावाह्य वास्तुपम् ।
तदङ्गपदगाश्चापि देवताः क्रमशोऽर्चयेत् ॥ ११-
वास्तुविन्यासपूजाधिकारः
एवं समाराध्य तु वास्तुदेवान् द्विजातयश्चेदथ वास्तुहोमम् ।
कुर्युर्यथा वास्तुपतिः प्रशाम्येद् यथैव बोधायनदृष्टमार्गात् ॥ ११-
नवं गृहाद्यं प्रविविक्षुरग्रे तत् साध्वलङ्कृत्य तु तोरणाद्यैः ।
प्रकल्प्य कर्तुः शयनप्रदेशं तारेण संशोध्य गणेशमिष्ट्वा ॥ ११-
तद्वास्तुमध्यं च विधाय तस्मात् पूर्वोत्तरस्यां दिशि गोमयेन ।
गोचर्ममात्रं चतुरश्रबिम्बं त्वालिप्य चोल्लेखनकादि कृत्वा ॥ ११-
तस्मिन् स्वगृह्योक्तविधानतोऽग्निमाधाय तत्राग्निमुखं विधाय ।
गोक्षीरसिद्धं चरुमाज्यसिक्तं मन्त्रैर्यथावत् क्रमशो जुहोति ॥ ११-
वास्तोष्पते प्रतिजानीह्यस्मानित्यादिमुक्त्वा तु पुरोनुवाक्याम् ।
वास्तोष्पते शं मया संसदा तेत्याद्यां तु याज्यां जुहुयादुदीर्य ॥ ११-
वास्तोष्पते ध्रुवा स्थूणां सत्त्वमित्यादिमन्त्रतः ।
गृह्यं भयं यदित्याद्यमक्षिस्पन्देति चादिना ॥ ११-
दुःस्वप्ने पापस्वप्ने च यत् स्वप्नाशन-आदिना ।
वास्तोष्पते प्रतरणो न एधीत्यादिनापि च ॥ ११-
अमीवहा वास्तोष्पतेत्यादिना च जुहोति वै ।
एभिस्तु वैदिकैर्मन्त्रैर्हुत्वाज्येन स्रुवेण तु ॥ ११-
ततः स्विष्टकृतं कुर्यादाधेनुवरदानतः ।
अथाग्नेः पुरतो दर्भानास्तीर्य हुतशेषितम् ॥ ११-
नमो रुद्राय वास्तोष्पत इत्यादिना निक्षिपेत् ।
अनेनैव तु मन्त्रेण स्थालीं सङ्क्षाल्य तज्जलम् ॥ ११-
पात्रे प्रक्षिप्य कस्मिंश्चिच्छेषाज्यं शेषमम्बु च ।
एकीकृत्य तु मन्त्रेण शाखयोदुम्बरस्य वा ॥ ११-
पालाशशाखया वाथ दर्भमुष्ट्याथवा पुनः ।
प्रासादभवनादौ तत् सर्वत्र त्रिः प्रदक्षिणम् ॥ ११-
पर्युक्षन्नथ पर्येति ततः संपूज्य वै द्विजान् ।
त्वं विप्रस्त्वं क्विरिति मन्त्रेणानेन भोजयेत् ॥ ११-
आशिषो वाचयित्या तु शिवं वास्त्विति वाचयेत् ।
वास्तुहोमाधिकारः ।
प्रसादं भवनं प्रपादिकमथो यद्वापि यागालयं
कृत्वा तक्षकरात् प्रगृह्य तु ततः सूत्रत्रयावेष्टितान् ।
कौश्या चापि च मालया तु परितः संवेष्ट्य धान्याक्षतैः
सर्वत्र प्रविकीर्य पूर्णकलशं दीपं च मध्ये न्यसेत् ॥ ११-
ततः कृणुष्वादिकमत्र सूक्तं त्वर्धर्चशोऽन्ते तु दहाशसाद्यम् ।
ऋचोऽर्धमायोज्य जपेदशेषं रक्षोघ्नमेवं तु जपादिषु स्यात् ॥ ११-
कृत्वा पुनः स्थण्डिलमग्निभागे तत्राग्निमाधाय यथाविधानम् ।
हुत्वा पुरैवाग्निमुखं जुहोतु रक्षोहणं वाजिनमुत्युभाभ्याम् ॥ ११-
पुनः कृणुष्वादिभिरत्र मन्त्रैराज्येन हुत्वा तु यथाक्रमेण ।
तद्वद् विभिन्नैरथ पञ्चभिश्च वेदादिमन्त्रैर्जुहुयाच्चतुर्भिः ॥ ११-
इषे त्वेत्यादिना तद्वदग्निमीले तु चादिना ।
अग्न-आयाहिपूर्वेण शन्नोदेवीरथादिना ॥ ११-
ततस्तु पञ्चदुर्गाभिर्वेदोक्ताभिर्जुहोति च ।
जातवेदस इत्याद्या ऋग् दुर्गा प्रथमा भवेत् ॥ ११-
तामग्निवर्णामित्याद्या द्वितीया ऋगुदीरिता ।
अग्नेत्वंपारयानव्यो-अस्मानाद्यं तृतीयकम् ॥ ११-
विश्वानिनोदुर्गहाद्यश्चतुर्थो मन्त्र ईरितः ।
पृतनाजितमित्यादिः पञ्चमो मन्त्र उच्यते ॥ ११-
एताभिः पञ्चदुर्गाभिराज्येन जुहुयात् पृथक् ।
ततो व्याहृतिभिस्तद्वदघोरास्त्रेण वै पुनः ॥ ११-
पश्चादपामार्गसमिद्घृताभ्यामन्नेन साज्येन शतं जुहोतु ।
अष्टोत्तरं स्विष्टकृतं च पश्चाच्छिष्टाज्यमादाय तथाम्बुशेषम् ॥ ११-
आदाय तद् भस्म च मिश्रयित्वा पात्रे त्वपामार्गरसेन युक्तम् ।
तेनाखिलं तद्भवनं प्रमार्ज्य सम्प्रोक्षयेत् तत्परितस्तु दर्भैः ॥ ११-
तमग्निमादाय तथेशकोणे संस्थाप्य पश्चात् तु चतुष्पथे वा ।
विसर्जयेदुक्तजलान्नपिण्डैर्दत्त्वा बलिं दिक्षु समाप्य चैवम् ॥ ११-
एवं तु रक्षोहणशान्तिरुक्ता रोगापमृत्युग्रहदोषहन्त्री ।
रक्षाकरी श्रीविजयायुषां स्याद् वृद्धिप्रदैषा विधिवत् प्रयुक्ता ॥ ११-
दीक्षाप्रसङ्गादिति वास्तुपूजा बलिश्च होमोऽपि च तन्त्रसिद्धः ।
रक्षोघ्नशान्तिश्च यथावदुक्तो बौधायनाचार्यमतं विदित्वा ॥ ११-
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे वास्तुविद्यापटल एकादशः ॥
अथ द्वादशः पटलः==
उत्सवेषु विविधेष्वपि दीक्षास्थापनादिषु पवित्रविधौ च ।
मङ्गलाङ्कुरविरोपणपूर्वं मङ्गलं भवति कर्म कृतं तत् ॥ १२-
शस्तयागदिवसात् तु पुरस्तात् सप्तमेऽहनि शुभे नवमे वा ।
पञ्चमेऽपि सुदिने सुमुहूर्ते मङ्गलाङ्कुरविधिं विदधीत ॥ १२-
पात्रमत्र विहितं त्रिविधं तत् पालिका च घटिका च शरावम् ।
विष्णुपद्मभवशङ्करदैवं तत्त्रयं पृथगनुक्रमशः स्यात् ॥ १२-
अङ्गुलैः कृतिमितैः स्फुटमुच्चा पालिकावदनविस्तरतोऽपि ।
उत्तमा च यरयाङ्गुलसंख्ये मध्यमाधमविधौ कथिते वै ॥ १२-
पादविस्तृतिरथोर्ध्वमिता स्यात् तत्त्रिभागमितकण्ठबिलं च ।
दण्डवद् भवति शिष्टमशेषं कण्ठतुल्यं परिणाहमनोज्ञम् ॥ १२-
व्याससोच्छ्रयसमा घटिकाख्या तालमात्रमिह पञ्चमुखी स्यात् ।
दिक्षु तन्मुखचतुष्टयमेकं मध्यमं तु समवर्तितभागम् ॥ १२-
तालविस्तृतमुखं तु शरावं तत्समोच्छ्रयमतोऽर्धमिताङ्घ्रि ।
दण्डकस्य चतुरङ्गुलनाहं कण्ठमस्य बिलवर्ज्यमुदग्रम् ॥ १२-
सम्भवे कनकरूप्यकताम्रैर्मार्तिकान्यभिनवान्यथ वा स्युः ।
क्षालितानि सलिलेन निजास्त्रात् सूत्रवेष्टितगलानि निदध्यात् ॥ १२-
शुद्धमृत्सिकतगोमयचूर्णैः पूरितानि कुशकूर्चयुतानि ।
मङ्गलाङ्कुरगृहे सविताने पात्रकाणि निदधातु मनोज्ञे ॥ १२-
गोमयाद्भिरुपलिप्य तु भूमिं स्वाङ्गमूलमनुयुक्तजलास्त्रात् ।
प्रोक्ष्य पिष्टपरिरूषितसूत्रैरुक्तलक्ष्मविहिते चतुरश्रे ॥ १२-
विघ्ननाथमभिपूज्य पुरस्तात् पुण्यकाहमपि वेदविशिष्टैः ।
वाचयेदधिकमेकमशीते स्यात् पदं तु विहितं चतुरश्रे ॥ १२-
मध्यतो नवपदैरथं शुक्लं कर्णिकाष्टदलकेसरशोभि ।
आलिखेत् सरसिजं तु रजोभिः शालिभिः सुविहितोच्छ्रितमध्यम् ॥ १२-
तत्र सूत्रविनिवेष्टितकुम्भं धूपितं तु विनिधाय कुशेषु ।
द्वादशान्तगलितामृततोयैः पूरयेत् सकुशकूर्चहिरण्यम् ॥ १२-
पिप्पलाम्रनवपल्लवगन्धैर्माल्यदामकुसुमाक्षतवस्त्रैः ।
शालितण्डुलफलाढ्यविधानं वस्त्रयुग्मकुसुमैरभिरामम् ॥ १२-
मातृकाम्बुजगतं तु कलाभिः षोडशस्वरयुताभिरुपेतम् ।
तं विभाव्य शिशिरांशुमुदंशुं तारकेशमुडुचक्रसमेतम् ॥ १२-
पूजयेत् तदुपचारविशेषैः पायसं चरुघृतं विनिवेद्य ।
शोभितेषु रजसाथ पदेषु स्थापयेत् तु पृथगङ्कुरपात्रम् ॥ १२-
आदित्ये समरीचे च विवस्वति यमे तथा ।
जलाधिपे च मित्रे च सोमे च पृथिवीधरे ॥ १२-
एषां पदेषु घटिकाः स्थापयेदष्ट वै क्रमात् ।
अग्नौ पूषणि चित्राख्ये दौवारे रोगनागयोः ॥ १२-
अदितावपि चैशाने शरावाण्यष्ट विन्यसेत् ।
एषां मध्यपदेष्वष्टौ दिग्विदिक्क्रमयोगतः ॥ १२-
स्थानानि पालिकानां तु कथितान्यष्ट विन्यसेत् ।
पदान्यादौ विलिख्यैषु शुक्लचूर्णेन पूरयेत् ॥ १२-
पृथक् शाल्याढकं क्षिप्त्वा दर्भविष्टरके पृथक् ।
संस्थाप्य घटिकादीनि तेषु बीजानि वापयेत् ॥ १२-
माषमुद्गकुलस्थानि निष्पावतिलशालयः ।
सर्षपो मार्गगोधूमश्यामाकव्रीहयो यवाः ॥ १२-
प्रियङ्गवस्तथाढक्यो वैणवश्चेत्यनुक्रमात् ।
त्रिपञ्चवर्गबीजानि कथितान्युत्तमाङ्कुरे ॥ १२-
वर्गद्वयं मध्यमे स्यादधमे बीजपञ्चकम् ।
बीजानि क्षालयित्वाद्भिः क्षीरेण तदनन्तरम् ॥ १२-
वस्त्रखण्डे दृढं बद्ध्वा दिनमात्रं जले स्थितम् ।
उद्धृत्य यामद्वितये समतीते तु वापयेत् ॥ १२-
बीजानां दैवतं सोमः स रात्रौ कान्तिमान् यतः ।
तस्माद् बुभुक्षुर्बीजानि निशायामेव वापयेत् ॥ १२-
अभिमन्त्र्य हृदा पूर्वं मन्त्रेणानेन वापयेत् ।
ओं त्र्यम्बकाय शर्वाय शङ्कराय शिवाय च ॥ १२-
सर्वलोकप्रधानाय शाश्वताय नमो नमः ।
अनेनैव तु मन्त्रेण सिञ्चेद् हारिद्रवारिणा ॥ १२-
पञ्चोपचारैरभ्यर्च्य चाच्छाद्य वसनैः सितैः ।
सप्तरात्रं बलिं दद्याद् वक्ष्यमाणक्रमेण तु ॥ १२-
ब्रह्मभूतेन्द्रगन्धर्वयक्षरक्षः पिशाचकाः ।
गणा बलिभुजः सप्त क्रमात् तन्नामलक्षिताः ॥ १२-
सान्नपुष्पकुशं ब्रह्मरात्रे तु प्रथमे बलिः ।
अन्नं दधि निशाचूर्णं लाजाः सक्तुतिलास्तथा ॥ १२-
भूतक्रूरमिति ख्यातं भूतरात्रे प्रदापयेत् ।
इन्द्रवल्लीरसोन्मिश्रमन्नं सक्तुपयोदधि ॥ १२-
इन्द्ररात्रे तृतीये तु बलिं दद्यात् तु देशिकः ।
वैणवान्नं पयोयुक्तं गान्धर्वे स्याच्चतुर्थके ॥ १२-
पञ्चमे यक्षरात्राख्ये पुष्पान्नाज्याम्बुभिर्बलिः ।
रक्तान्नं सतुषं मृत्स्नायुक्तं षष्ठे तु राक्षसे ॥ १२-
सप्तमे त्वथ पैशाचे माषान्नं कृसरं मधु ।
हारिद्रचूर्णं तैलाढ्यं सामिषं तु प्रदापयेत् ॥ १२-
अन्यथा केचिदाचार्याः प्राहुर्वै गुणसप्तकम् ।
तच्चात्र कथ्यते भूताः पितरोऽपि च गुह्यकाः ॥ १२-
नागा ब्रह्मा शिवो विष्णुर्देवताः सर्वरात्रिषु ।
प्रणवादिनमोन्तैः स्वैर्नामभिर्दापयेद् बलिम् ॥ १२-
प्रथमे भूतरात्रे तु भूतक्रूरेण दापयेत् ।
तिलैस्तण्डुलमिश्रैस्तु पितृरात्रे द्वितीयके ॥ १२-
तृतीये नालिकेराम्भः शाल्यन्नैर्यक्षरात्रके ।
सक्षीरपिष्टसक्त्वद्भिर्नागरात्रे चतुर्थके ॥ १२-
सपद्माक्षान्नमाज्यं च ब्रह्मरात्रे तु पञ्चमे ।
सापूपान्नेन साज्येन षष्ठे शैवे तु दापयेत् ॥ १२-
शुद्धौदनेन साज्येन सप्तमे वैष्णवे बलिः ।
यदा नव स्युर्दिवसाः पायसं कृसरं क्रमात् ॥ १२-
उद्दिष्टदैवतगणमुद्दिष्टबलिनार्चयेत् ।
न कश्चिदङ्कुराण्यन्यो निरीक्षेत कदाचन ॥ १२-
आचार्य एव प्रविशेत् तच्छिष्यो वा तदाज्ञया ।
प्ररूढैरङ्कुरैः कर्तुर्निर्दिशेत् तु शुभाशुभम् ॥ १२-
श्यामैः कृष्णैरङ्कुरैरर्थहानिं तिर्यग्रूढैर्व्याधिमालोहितैश्च ।
कुब्जैर्दुःखं च प्ररूढैर्मृतिं च ब्रूयाद् भग्नैः स्थानदेशेष्टहानिम् ॥ १२-
शुक्लैः पीतैः संप्ररूढैश्च पूर्णैः शीघ्रोत्पन्नैश्चारुभिर्व्यायतैश्च ।
लक्ष्मीं पुष्टिं चेष्टसिद्धिं समग्रां कर्ता विन्देताङ्कुरैर्मङ्गलं च ॥ १२-
आचार्यस्तत्राङ्कुरेष्वप्रशस्तेष्वालक्ष्यास्मिंश्छान्तिकं कर्मं कुर्यात् ।
मूलेनाङ्गैर्ब्रह्मभिश्चाथ हुत्वा व्याहृत्यन्तं स्यात् तिलैराज्यमिश्रैः ॥ १२-
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे अङ्कुरार्पणविधिर्नाम द्वादशः पटलः ॥
अथ त्रयोदशः पटलः
अथो यागगेहं चतुर्द्वारकोणं चतुस्तोरणाङ्कं वितानध्वजाढ्यम् ।
सगोगोमयाद्भिर्विलिप्तं समन्तात् स्रगालम्बितं तत्सुगन्धं च धूपैः ॥ १३-
प्रदीपाङ्कुराढ्यैस्तथा पूर्णकुम्भैरलङ्कृत्य कुण्डं च कृत्वेन्द्रभागे ।
यथालक्षणाढ्यं चतुष्कोणमस्मिन् निधायाग्निमग्नेर्मुखं चात्र हुत्वा ॥ १३-
ततो दक्षिणस्यां यजेद् विघ्नराजं समभ्यर्च्य गन्धैश्च भक्ष्यैश्च भोज्यैः ।
गृहे मध्यतस्तत् स्थलं शोधयित्वा चतुष्कोणमस्मिन् विधायोक्तसूत्रैः ॥ १३-
पुनर्द्व्यष्टधा तद् विभज्यात्र च स्युः पदानां शते द्वे च पञ्चाशता षट् ।
लिखेन्मध्यतोऽब्जं पदैर्द्व्यष्टसंख्यैर्बहिर्वर्तुलानां त्रयं दर्भसंख्यैः ॥ १३-
अशीत्या पदानां भवेद् राशिचक्रं प्रियायज्ञसंख्यैः पदैरत्र शिष्टैः ।
लिखेद् द्वारशोभाः प्रशोभाः सकोणाः पदैः षट्चतुर्भिश्च वेदर्तुसंख्यैः ॥ १३-
लिखेद् वर्तुलं तत्तु वीथ्योस्तु मध्ये भवेत् सूत्रकाणां चतुष्कं दिशासु ।
अरा द्वादशैवं तु ते राशयः स्युः समा मातुलुङ्गैस्तु चेन्दीवराभाः ॥ १३-
बहिर्वीथिकायां तु कल्पद्रुमाः स्युर्लताजालपत्रैः फलैः पक्षिभिश्च ।
यथास्थानशोभं तु पद्मोत्पलाद्यैः समं कोरकैश्चाथ पुष्पैश्च गुच्छैः ॥ १३-
चतुर्धा तु पद्मस्थलं भ्रामयित्वा समं कर्णिकार्थं च तत्केसराणाम् ।
तथा सन्धयः स्युर्दलाग्राणि चैवं समान्यष्टपत्राण्यथो वर्तयेत ॥ १३-
सितं शालिपिष्टं तु चूर्णं सुपीतं हरिद्रोद्भवं चाथ रक्तं कुसुम्भम् ।
भवेच्छ्यामवर्णैः पलाशैस्तु तादृक् सुनीलं विदग्धैस्तथा व्रीहिभिः स्यात् ॥ १३-
भवेत् कर्णिका तस्य पीताथ सूक्ष्मा तथा केसराश्चादितः स्थूलमध्याः ।
पिशङ्गास्तदग्रे तु पीतास्तदन्ते सिताः स्युर्दलेष्वेषु ते युग्मशः स्युः ॥ १३-
सिताः सर्वरेखास्त्वनामासमानाश्छदान्यच्छचूर्णैश्च रक्तानि च स्युः ।
दलानां तु सन्धिर्भवेच्छ्यामवर्णस्त्रिवृत्तानि शुक्लारुणानीलभाञ्जि ॥ १३-
तथा श्यामला वारुणा राशयः स्युः सुपीताश्च वीथ्यां तु तत्सन्धयः स्युः ।
यथाशोभवर्णं तु कल्पद्रुमाः स्युर्विचित्राश्च चक्षुर्मनोज्ञा विधेयाः ॥ १३-
लिखेद् द्वारदेशांश्च शुक्लांस्तु शोभाः कुसुम्भारुणाः स्युश्च पीतोपशोभाः ।
सुनीलेषु शङ्खास्तु कोणेषु शुक्लान् लिखेत् स्वस्तिकान् वा यथेष्टं मनोज्ञान् ॥ १३-
सशिष्यो गुरुः प्रागुपोष्यैकरात्रं कृतस्नाननित्यक्रियः क्षालिताङ्घ्रिः ।
समाचम्य शुक्लोत्तरासङ्गवासाः कृतद्वारपूजाविधिः प्रेरितास्त्रः ॥ १३-
पदा पार्ष्णिघातत्रयं चात्र दत्त्वा पदा देहलीं चास्पृशन् दक्षिणेन ।
प्रविश्योत्तरां त्वन्तराश्रित्य शाखां ततो वास्तुनाथं विधिं चार्चयित्वा ॥ १३-
विधायास्त्रवप्रं तु रक्षां समन्ताद् यथोक्तासने तूपविष्टोऽथ मौनी ।
चरेद् भूतशुद्धिं मरुत्संयमोत्थां गजास्यं तु याम्ये गुरुं चैश इष्ट्वा ॥ १३-
ततो मन्त्रनद्धस्वदेहः शिवात्मा हृदम्भोरुहस्थं शिवं ज्योतिरेकम् ।
मनःसाधितैस्तूपचारैस्तथेष्ट्वा यजेन्नाभिकुण्डेऽनलं मानसेन ॥ १३-
समापूर्य चार्घ्यं समूलाङ्गमिष्ट्वा शिरः स्वं समुक्षेच्च कूर्चार्घ्यतोयैः ।
तथा तैरथोक्ष्यार्चनद्रव्यजातं तथा यागभूमिं च तैः प्रोक्षयित्वा ॥ १३-
ततः स्थानशुद्धिं तु तालत्रयास्त्रात् प्लुतान्तं पठन् निष्कलान्तं च मन्त्रम् ।
समुच्चार्य स्वाब्जादथेन्दोः स्रुताद्भिः समाप्लाव्य बेरं तथास्त्राम्बु शोध्यम् ॥ १३-
न्यसेद् वर्धनीं चोत्तरेणाम्बुपूर्णां तथा गन्धपुष्पाक्षतं दक्षिणस्याम् ।
तदर्घ्याम्बुबिन्दुं सगन्धं च पुष्पं क्षिपेन्मूलमन्त्रं जपेद् द्रव्यचक्रे ॥ १३-
यथाशक्ति दीपानपि ज्वालयित्वा मनोज्ञान् विशुद्धान् यथोक्तप्रकारान् ।
सुगन्धाक्षताद्यैर्यथोक्तैः पृथग् वा यजेद् वक्ष्यमाणक्रमान्मण्डलं तत् ॥ १३-
तथाधारशक्तिं न्यसेल्लोकधात्रीं मृणालाङ्कुराभां भुवोऽधो यजेत् ताम् ।
ततोऽनन्तमुर्वीमनन्तासनाख्यं चतुष्कोणपीठं तु तद्योगसंज्ञम् ॥ १३-
वृषाकाररक्तं तु धर्माख्यमग्नौ यजेद् ज्ञानसिंहं तु कृष्णाक्षपादे ।
सुपीतं विरागं तथैश्वर्यमच्छं यजेन्मारुतैशस्थभूतद्विपाभौ ॥ १३-
रजः कन्दमुक्तं तमस्तत्र नालं भवेत् सात्त्विकाख्यं सुशुक्लं सरोजम् ।
ततः सूर्यसोमाग्निबिम्बानि वेधोहरीशात्मयुक्तच्छदादीनि विद्यात् ॥ १३-
तथैवात्मविद्या शिवाख्यानि तत्त्वान्यथो मातृकाब्जं यजेत् तद् यथावत् ।
समभ्यर्च्य कुम्भं तु हैमादिकं तं सुधौतं त्रिसूत्र्या समं वेष्टयित्वा ॥ १३-
अवाग् धूपगर्भं न्यसेत् कर्णिकायां सधान्यं सदर्भं सबोधिच्छदायाम् ।
निधायाधरास्यां कलासंख्यगर्भैर्निदध्यात् तु कूर्चं ततः कुम्भपृष्ठे ॥ १३-
निरूप्याथ तस्मिन् स्फुरच्छक्तिमाद्यां प्रपञ्चप्रसूतिं च तत्त्वैरशेषैः ।
तमुत्तानयित्वा घटं तत्र कूर्चं तदाधाय शक्तिं जपेन् तारगर्भाम् ॥ १३-
विलोमेन तूक्तैस्ततो मातृकार्णैः स्वपद्मेन्दुबिम्बामृतासारमिश्रैः ।
समं तीर्थतोयैः समापूर्य पूर्वं सवर्णौषधीनां जलेनापि गन्धैः ॥ १३-
अलाभे त्वथासां तु सर्वौषधीनां चतुःक्षीरवृक्षत्वचामम्बुभिर्वा ।
क्षिपेदष्टगन्धान् सुपिष्टान् यथावत् सुगन्धीनि तद्वत् सुपुष्पाणि चैवम् ॥ १३-
शुभं पद्मरागं प्रवालं च वज्रं हरिद्रत्नमुक्तास्तथा पुष्यरागम् ।
विडूरोद्भवं चेन्द्रनीलं विशुद्धं क्षिपेच्चन्द्रकान्तं च कुम्भाधिराजे ॥ १३-
नवैर्माल्यपुष्पैरलङ्कृत्य चौतैस्तथाश्वत्थबिल्वैर्दलैः पानसैश्च ।
विशुद्धैर्नवैश्चोन्मुखैः शक्रवल्ल्यां निबध्य स्मरेत् तं तरुं पारिजातम् ॥ १३-
सुपूर्णं तु पात्रं सितैस्तण्डुलैस्तत्सताम्बूलपूगं निधायास्य वक्त्रे ।
सुसूक्ष्माब्मराभ्यां सिताभ्यां नवाभ्यामलङ्कृत्य माल्यैश्च गन्धाक्षताभ्याम् ॥ १३-
समावाह्य शक्तिं प्रपञ्चप्रसूतिं विशुद्धां च विद्यां चितिं सूक्ष्मरूपाम् ।
पृथङ् मातृकार्णैस्तु तारान्तरस्थैः शतार्धं कलाश्चापि तारप्रसूताः ॥ १३-
कलास्त्रिंशदष्टौ च पूर्वोदिता याः क्रमात् सन्नियुज्यात् तु शक्तौ घटेऽस्मिन् ।
तथेच्छाक्रियाख्ये पुनर्ज्ञानशक्तिं स्वतन्त्रप्रबोधावभिव्यञ्जयेच्च ॥ १३-
तथा शक्तिशान्तौ च हंसाख्यजीवं नियुञ्जीत तस्मिन् निजाङ्गैश्च मूलम् ।
प्रतिष्ठां च जीवस्य मन्त्रेण कृत्वा समस्तेन्द्रियाणां स्मरेत् सन्निधानम् ॥ १३-
ऋचः पञ्च याश्च द्विजस्तारकोक्ता नियुञ्जीत हंसः शुचीत्यादिरेका ।
प्रतद्विष्णुरन्या त्वनुष्टुप् तथा तत्पदाद्या च विष्णोर्नुकं चेति पूर्वा ॥ १३-
तथैवाङ्गमन्त्रैश्च मूलेन युक्त्या नियुञ्जीत तस्मिंस्तु साकारभावम् ।
यथोक्तोपचारैः समभ्यर्च्य सम्यक् स्मरेच्छक्तिमिष्टप्रदां चारुरूपाम् ।
जपापाटलाभां तु दृष्टार्थसिद्ध्यै सपाशाङ्कुशां चेष्टदाभीतिहस्ताम् ।
विचित्राम्बरस्रक्पिशङ्गानुलेपां लसच्चञ्चलीकप्रभाकेशपाशाम् ॥ १३-
स्फुटद्रत्नभूषाकिरीटप्रभाभिः पृथक् छत्रचापश्रियं बिभ्रतीं खे ।
प्रपञ्चप्रसूतिं प्रपञ्चात्मिकां तां विचिन्त्यार्चयित्वा हृदम्भोरुहे स्यात् ॥ १३-
समावाह्य शिष्.येष्टमन्त्रानुकूलां स्मरन् देवतां चेष्टरूपादिवर्णाम् ।
विदिक्ष्वङ्गमन्त्रैश्चतुर्भिस्तदस्रं न्यसेद् दिक्षु नेत्रं तु मध्येऽर्चयीत ॥ १३-
तदब्जच्छदाग्रस्थशक्तिस्तदुक्ता यजेल्लोकपालांश्च दिक्ष्वस्त्रदेवान् ।
क्रमात् पिङ्गपीता सिता धूम्रशुक्ला मधुच्छायपाण्डुच्छवी शुक्लरक्तौ ॥ १३-
सरोजप्रभश्चेति लोकाधिपाः स्युर्दशेन्द्रादयश्चाब्जभूशेषयुक्ताः ।
सुपीतं च वज्रं तु शक्तिः सुरक्ता सिताभस्तु दण्डः खड्गवर्णस्तु खड्गः ॥ १३-
तडित्कल्प उक्तश्च पाशाङ्कुशः स्यात् सिताभा गदाप्यग्निकल्पं त्रिशूलम् ।
दिनेशाभमब्जं तु चक्रं च तद्वत् क्रमादित्थमुक्तं यथास्त्राग्निवर्णैः ॥ १३-
गणं वीरभद्रं तथा सप्तमातॄर्भजेद् दक्षिणस्यां पिशङ्गं गजास्यम् ।
सुनीलं तु भद्रं तथा सप्त मातॄः स्वदेवोपमास्ताः सवाहायुधाद्यैः ॥ १३-
कुबेरात् तु पूर्वप्रदेशे तु चण्डं तथा क्षेत्रपालं स्ववाहं च पूर्वे ।
सतारस्वनाम्ना नमोन्तं यथावत् क्रमेणोपपत्त्योपचारैरिमेऽर्च्याः ॥ १३-
ततो मण्डलाग्रे न्यसेत् पालिकाद्याः प्ररूढाङ्कुराढ्या यजेद् दिक्षु चैताः ।
नवं गव्यमाज्यं चरु चाथ कृष्णांस्तिलाञ् शालिसक्तूंश्च सिद्धार्थयुक्तान् ॥ १३-
सतारान् लिपेश्चाक्षराञ्छक्तिहंसौ ठयुग्मान्तमुक्त्वा तु तत्तज्जुहोति ।
स्वमन्त्रेण चाङ्गैरभीष्टेन हुत्वा महाव्याहृतीश्चेद् द्विजो व्याहृतीश्च ॥ १३-
चतुष्कर्मबन्धप्रहाणाय मन्त्रं पठन् वक्ष्यमाणं तिलाज्यं जुहोति ।
बकोक्तिः सवामाक्षिरग्निः सझण्टीणकारस्तृतीयायुतः प्राणशब्दः ॥ १३-
जाटटा स्वप्नेण लुप्तेण मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत् स्मृतं यदुक्तं यत् कृतं तत् सर्वं ब्रह्मार्पणं भवतु ठ ठ ॥
अनेनाष्टयुक्तं शतं तत्र हुत्वा बलिं चोत्तरेणाथ पूर्णाहुतिं च ।
तिथीनामुडूनां च राशिग्रहाणां स्वनाम्ना नमोन्तं बलिं तत्र दत्त्वा ॥ १३-
ततस्तत्र शिष्यं विधिस्नानशुद्धं समाचान्तमस्मिन् निवेश्याथ पीठे ।
शिरस्यस्य दूर्वाश्च कूर्चाक्षताद्यं निधायैनमिष्ट्वा सुगन्धैश्च पुष्पैः ॥ १३-
पशोरस्य बन्धच्युतिं चेष्टसिद्धिं प्रसीदेति नत्वाथ तद्देवतायाः ।
अवाप्याभ्यनुज्ञां तु बिम्बस्थदेवान् समायोज्य कुम्भे स्वयं देशिकस्तम् ॥ १३-
कराभ्यां तु बिभ्रत् तमुद्धृत्य तिष्ठन् कुशाग्रेषु शिष्यं निषिञ्चेत् तदद्भिः ।
सुषुम्नापथा तत्क्रमाच्छिष्यदेहे स्रवद्वारिधारासुधामिश्रमन्त्रैः ॥ १३-
स्फुरच्छक्तिदीप्त्याथ तद्देवतायाः प्रवेशो हृदब्जेऽथ तस्याभिचिन्त्यः ।
त्रिवाश्यालिमोक्षं तथास्त्रेण कुर्याच्छिवत्वं च नाड्या समापाद्य तस्मिन् ॥ १३-
समुत्थाय शिष्यस्तु शुक्लं विशुद्धं दधद् वस्त्रयुग्मं पुनः क्षालिताङ्घ्रिः ।
समाचम्य दत्त्वा तु सूर्याय चार्घ्यं नमस्कृत्य गत्वाथ तद्द्वारदेशम् ॥ १३-
कुशेषूपविष्टो निबद्धाञ्जलिः सन् गुरोराज्ञया तूत्तराशामुखः स्यात् । गुरुः प्राङ्मुखस्तूपविश्यार्घ्यतोयैः शिरः प्रोक्षयेच्चास्त्रतस्तस्य दर्भैः ॥ १३-
शिरस्यस्य भूत्या त्रिराराध्य देहं ततः शोषणाद्यैस्त्रिधा शोधयित्वा ।
पुनर्भूतशुद्धिं च शिष्यस्य देहे स्वयं चित्तवृत्त्या समापाअद्य पात्रे ॥ १३-
विशेषार्घ्यमिष्ट्वाथ तत्कूर्चतोयैः पुनः प्रोक्ष्य तस्मिन् न्यसेन्मातृकार्णान् ।
ततः साध्यमन्त्रं च तस्याङ्गमन्त्रान् न्यसेन्मूर्तिमत्तां समापाद्य तस्मिन् ॥ १३-
पुनश्चावकुण्ठ्याथ तं वर्मणाथो स्वमूलाङ्गयुक्तं नवं श्क्लवस्त्रम् ।
समादाय नेत्रेऽस्य वद्ध्वाथ बिम्बे पुरैवेष्टदेवे समभ्यर्च्य तस्मिन् ॥ १३-
ततः क्षेपयेत् तस्य पुष्पाञ्जलिं तं स यस्यां तु मूर्तौ पतेद् बाङ्गमन्त्रे ।
तदुक्तं हि नाम्नास्य मन्त्रं च तस्मै प्रदद्यात् त्रिवारं पठेत् सोऽपि मन्त्रम् ॥ १३-
ततस्तारपीठे तु दर्भासनस्थः समालोक्य शिष्यं तु मूलाङ्गजापी ।
स्वहस्तं शिरस्यस्य विन्यस्य मन्त्रं निधायाङ्गमूलैः स्पृशेत् सर्वमङ्गम् ॥ १३-
ततो दर्भमूलं तु शिष्यस्य हस्ते प्रदायोपविष्टः पुराग्नेस्तदग्रम् ।
स्वजङ्घान्तरस्थं निपीड्यात्मनोऽस्मिन् क्रमाज्जीवनाड्योश्च सन्धिं विदध्यात् ॥ १३-
इडापिङ्गलाख्यस्वनाड्योः स्वनस्तः सुषुम्नापथा(चा?च्चा)पि मूर्ध्नः प्रसूतम् ।
त्रिधा युत्तु तेजस्तथा शिष्यदेहेऽप्यविच्छिन्नसन्धिं तु जीवं विभाव्यात् ॥ १३-
समानीय शिष्यात्मनोरेकभावं घृतेन त्रिवारं तु मूलेन हुत्वा ।
तथा शिष्यजीवं तथात्मप्रविष्टं पुनर्निर्गतं चास्य देहं प्रविष्टम् ॥ १३-
भवेदात्मजन्मैवमुद्भाव्य शिष्यः स्फुटं शक्तिपातात् स्वतुल्यः शिवः स्यात् ।
हरित्कीटकं यन्मृदावेष्ट्य नादं बिकुर्वन् षड्ङ्घ्रिः स्वजातिं करोति ॥ १३-
तथा प्राकृतं शिष्यमाचार्यवर्यः क्रियादीक्षया मन्त्रमूर्तिं करोति ।
ततोऽष्टौ शतं चापि मूलेन हुत्वा दशांशेन चाङ्गैर्घृतेनैव पञ्च ॥ १३-
द्विजश्चेज्जयादिं जुहोतीह पूर्णां समूलाङ्गमन्त्रैः समस्तैर्जुहोतु ।
समित्क्षीरलाजैश्च सिद्धार्थगव्यैस्तिलैः सर्पिषाङ्गैश्च मूलेन हुत्वा ॥ १३-
द्विजः श्रौतमन्त्रैः स्वसूत्रोक्तमार्गाज्जुहोतीह सर्पिर्यथा निष्कृतिः स्यात् ।
प्रायश्चित्तं मूलतस्त्वद्विजानां हुत्वा चाष्टौ विंशतिं चापि मन्त्री ॥ १३-
जातिं तस्याथोद्धरेद् वक्ष्यमाणैर्मन्त्रैराज्यस्याहुतीनां त्रयेण ।
तारः शक्तिं मूलमन्त्रो निजायां
भवन्नस्यात्मनो योनिर्बीजाहारभावदेशशुद्धौ द्विजो भवतु मन्त्रदेहः ठ ठ ।
तस्मादूर्ध्वं व्याहृतीभिश्च हुत्वा ॥ १३-
भगवन्नस्यात्मा मन्त्रात्मको भवतु ठ ठ ।
हुत्वानेनाप्याहुतीस्तत्र तिस्रो भूयो हुत्वा व्याहृतीरत्र पश्चात् ।
अस्त्रेणैनं प्रोक्ष्य सन्ताड्य सद्यो रेचादन्तः संप्रविश्यास्य पाशान् ॥ १३-
विश्लेष्यास्माच्छेदयेदप्यथास्त्रान् मुद्रां बद्ध्वा त्वङ्कुशाख्यां पुनश्च ।
यच्चैतन्यं शिष्यदेहस्थमस्मादाकृष्येन्दौ द्वादशान्ते नियोज्य ॥ १३-
इष्टेऽम्भोजे हृद्गते पूरके तु स्वात्मन्येतद् योजयेत् कुम्भकेन ।
समरसं तु नयेदथ रेचकान्मनुजभावमपास्य शिवात्मकम् ॥ १३-
स्मरतु हंसजपादभिपूज्य तत् पुनरुदस्य तु शिष्यहृदं नयेत् ।
नाडीमार्गाच्छिष्यहृत्पङ्कजे तच्चैतन्यं तु स्थापयित्वा स्वपद्मात् ॥ १३-
सूतैरिन्दोः सौधधाराम्बुपूरैराप्लाव्यैनं मन्त्रदेहं विभाव्य ।
अनामयं शिष्यमलुप्तशक्तिं विचिन्त्य विन्यस्य तु मातृकार्णान् ॥ १३-
तदिष्टमूलाङ्गनिविष्टदेहं विधाय तं बालतनुं तनूजम् ।
जातकर्मादिकं तस्य कुर्यात् ततो मूलतस्तत् क्रमात् स्यात् त्रिवारं पृथक् ।
साङ्गमूलं जपंश्चोपवीतेन तं योजयेत् तद्व्रतैश्चोदितैर्मूलतः ॥ १३-
मूलतस्तर्पयेत् पावकं शक्तितस्तत्र पूर्णां पुनश्चापि हुत्वा गुरुः ।
सामयाचारिकान् धर्मसेतूनमुं श्रावयेत् तान् यथा पालयेत् साधकः ॥ १३-७५ ॥ १३-
इत्थमाचार्यतो मन्त्रदीक्षामसौ सप्तजन्मांहसां शोधनीमिष्टदाम् ।
जप्यहोमार्चनामन्त्रसिद्धिप्रदां प्राप्य सद्यः सुधीः स्यात् कृतार्थश्चिरम् ॥ १३-
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रदीक्षापटलस्त्रयोदशः ॥
अथ चतुर्दशः पटलः
अथाग्नेयास्तु कथ्यन्ते कल्पाः सङ्कल्पितार्थदाः ।
वैदिकः प्रथमः कल्पः शैवो वैष्णव एव च ॥ १४-
काम्यश्चेति चतुर्धाग्नेः कल्पाः स्युस्तन्त्रचोदिताः ।
नित्यं नैमित्तिकं काम्यं साध्यं यत् कर्म वैदिकैः ॥ १४-
द्विजैस्तु वैदिकैर्मन्त्रैस्तत् सिध्येद् वैदिकाग्निना ।
शैवागमोदितं कर्मं शैवैर्मन्त्रैरथापि यत् ॥ १४-
कृतं पाशुपताद्यैश्च शैवोऽग्निस्तत् प्रसाधयेत् ।
वैष्णवं कर्म तन्मन्त्रैः साधयेद् वैष्णवाग्निना ॥ १४-
पुरुषार्थचतुष्कं यत् काम्यकर्माणि यानि षट् ।
तानि संसाधयेदग्निर्मन्त्रैर्वैदिकतान्त्रिकैः ॥ १४-
द्वात्रिंशद्भेदभिन्नोऽग्निर्द्वात्रिंशत्कर्मभेदितः ।
इत्थमाथर्वणविदां ख्यातमङ्गिरसां मतम् ॥ १४-
लौकिकः पावकोऽग्निः स्यान्मरुत्तो गर्भधारणे ।
पवमानः पुंसवने सीमन्ते मङ्गलाह्वयः ॥ १४-
तुङ्गे तु शोभनो नाम प्रबलो जातकर्मणि ।
पार्थिवो नामकरणे भद्रो निष्क्रमणे मतः ॥ १४-
शुचिरन्नाशने प्रोक्तः सभ्यश्चौले समीरितः ।
जातवेदा ह्युपनये संभवः स्याद् व्रतत्रये ॥ १४-
गोदाने नामतः सूर्यः सौम्यो व्रतसमर्पणे ।
आवसथ्यो विवाहे स्यादन्वाहार्ये महेश्वरः ॥ १४-
विष्णुराहवनीये तु ब्रह्मा स्याद् गार्हपत्यके ।
प्रायश्चित्ते वीतिहोत्रः पूर्णाहुत्यां मृडाह्वयः ॥ १४-
क्रव्यादः शवदाहे तु समुद्रे वडवामुखः ।
वर्धनो वनदाहे तु क्षये संवर्तको मतः ॥ १४-
वरदः शान्तिके प्रोक्तः पौष्टिके बलवर्धनः ।
उत्सादोच्चाटयोर्धूम्रः कृष्णो विद्वेषणे मतः ॥ १४-
वश्ये तु कामदो नाम मारणे शोषणाह्वयः ।
पिङ्गलः स्तम्भने नाम्ना जठरे जाठरो मतः ॥ १४-
द्वात्रिंशदग्निभेदाधिकारः
शुचौ देशे तु कुण्डे वा स्थण्डिले वा यथोदिते ।
गोमयालेपिते हेमरूप्यताम्रमयादिना ॥ १४-
शकलेनोद्धृतां भूमिं प्रोक्षयित्वाथ वालुकाः ।
प्राक्षिप्यारत्निमात्रं तु चतुरश्रं विधाय तु ॥ १४-
उल्लिखेत् त्रिरथो रेखाः प्राचीनास्त्रिरुदङ्मुखाः ।
न शर्करातृणः काष्ठैर्न लोष्टेन नखेन वा ॥ १४-
नाङ्गारेणापि वा तूष्णीं तत्र ब्रह्माधिदैवतम् ।
ब्रह्मजज्ञानमन्त्रेण प्राचीनं मध्यतो लिखेत् ॥ १४-
नाकेसुपर्णात् प्राचीनं दक्षिणे तूत्तरे पुनः ।
आप्यायस्वेति पूर्वाग्रं यो रुद्रेत्युदगायतम् ॥ १४-
इदं विष्णुस्तथा पश्चादिन्द्रं वो विश्वतस्परि ।
इति प्राच्यामुदीचीनभवोक्ष्य शकलं त्यजेत् ॥ १४-
स्पृष्ट्वाम्भः पात्रगं वह्निं व्याहृतीभिर्निरूप्य तु ।
मध्ये प्रणवतः क्षिप्त्वा समाच्छाद्य सदिन्धनैः ॥ १४-
ज्वालयित्वा तु तारेण सदर्भारचिताञ्जलिः ।
जुष्टो दमूना इत्यादि पठन् परिसमूह्य तु ॥ १४-
परिषिच्याम्भसा दर्भैः परिस्तीर्य यथोदितैः ।
देवस्य त्वेति वै प्राच्यां व्याहृतीभिस्तु दक्षिणे ॥ १४-
उद्वयं तमसः पश्चादग्न आयाहि चोत्तरे ।
दक्षिणानुत्तरान् कुर्यादुत्तरानधरानपि ॥ १४-
उत्तरेणाग्निमास्तीर्य दर्भान् पात्राणि सादयेत् ।
द्वन्द्वशस्त्वाज्यपात्रं च स्रुवं च प्रोक्षणीः स्रुचम् ॥ १४-
प्रणीतापात्रमिध्मं च चरुस्थालीं च मेक्षणम् ।
बर्हिषः सह कूर्चैरप्यन्यद्धोमोपयोगि यत् ॥ १४-
ब्रीहिनिर्वापपक्षे तु मुसलोलूखले तथा ।
शूर्पं कृष्णाजिनं चापि स्यात् सर्वं तदधोमुखम् ॥ १४-
तिर्यक् पवित्रं प्रोक्षण्यामादायापूर्य चाम्भसा ।
अङ्गुष्ठानामिकाभ्यां तत् पाणिभ्यां परिगृह्य तु ॥ १४-
विच्छिद्य तिः समुत्पूय पात्राण्यद्भिरवोक्ष्य तु ।
उत्तानयित्वा त्रिः प्रोक्ष्य विस्रस्येध्मादिकं पुनः ॥ १४-
प्रादेशसंमितैर्दर्भैरविच्छिन्नाग्रकैरपि ।
ब्रह्मासनं दक्षिणतः प्रणीतासनमुत्तरे ॥ १४-
आज्यस्थाल्यासनं पश्चात् सङ्कल्प्य ब्राह्मणं शुचिम् ।
ब्रह्मार्थमुपवेश्यास्मिन् कूर्चं वा ब्राह्मणो न चेत् ॥ १४-
तारव्याहृतिभिर्ब्रह्मन्नादिनावाह्य चार्चयेत् ।
प्रोक्षणीवत् प्रणीतार्थं पात्रमापूर्य चाम्भसा ॥ १४-
दर्भस्थं दर्भसञ्छन्नमुद्धत्य घ्राणसम्मितम् ।
ब्रह्मणा समनुज्ञातः स्थापयेत् तत्तदासने ॥ १४-
वरुणोऽसीत्यथाराध्य व्रीहीन् वा तण्डुलानपि ।
स्रुचा स्थाल्याथवा तृष्णीमन्तर्धायाथ याज्यया ॥ १४-
अमुष्या इति निर्दिश्य देवतायै तु निर्वपेत् ।
ब्रीहीश्चेदवहन्त्येष प्रोक्ष्य त्रिः क्षालयेच्च तान् ॥ १४-
पात्रेषु पातयेत् पश्चादस्मिन्नग्नौ चरुं पुनः ।
श्रपयित्वा यथोद्दिष्टमभिधार्यावतार्य तु ॥ १४-
उत्तरेणाग्निमासाद्य स्थाल्यामाज्यं विनिक्षिपेत् ।
निरूह्योत्तरतोऽङ्गारानधिश्रित्याज्यमासने ॥ १४-
दर्भाभ्यां तदभिद्योत्य चरुं चाम्भः स्पृशेत् पुनः ।
त्रिरभिद्योत्य चाज्येऽथ दर्भाग्रे तु विनिक्षिपेत् ॥ १४-
सह पर्यग्निकृत्वाग्नौ दर्भाङ्गारान् विनिक्षिपेत् ।
मध्यग्रन्थिपवित्रेण त्रिरुत्पूयाज्यबिन्दुभिः ॥ १४-
अग्नौ प्रहृत्य प्रक्षाल्य विस्रस्य क्षालितं क्षिपेत् ।
अग्नावथ चतुर्दर्भान् स्रुक्स्रुवौ चोच्छ्रिताननौ ॥ १४-
गृहीत्वाग्नौ विनिष्टप्य त्रिस्तैः संमार्जयेत् पुनः ।
आवेष्ट्य चाङ्गुलीस्तैस्तु पृथक् स्रुक्स्रुवयोः पुनः ॥ १४-
अग्रं दर्भाग्रतो मध्यं मध्यतो मूलमादितः ।
परिमृज्यानले दर्भान् क्षिपेत् प्रक्षाल्य तौ पुनः ॥ १४-
दर्भासने दक्षिणतो निधायाधोमुखौ यजेत् ।
आधाय परिधिं स्थूलं पश्चिमेऽथ कृशं पुनः ॥ १४-
दीर्घे दक्षिणतो न्यस्य ह्रस्वं सूक्ष्मं तथोत्तरे ।
तथोर्ध्वसमिधौ न्यस्य दक्षिणोत्तरपूर्वयोः ॥ १४-
रक्षसामपहत्यै स्यादिति सञ्चिन्त्य वै द्विजः ।
अदितेत्यादिना याम्ये प्राचीनं परिषिच्य तु ॥ १४-
पश्चिमेऽनुमतेऽप्येवमुदीचीनमथोत्तरे ।
सरस्वतेत्यादिनाथ समन्ताद् देवपूर्वकम् ॥ १४-
सवितः प्रसवेत्युक्त्वा परिषिच्य विचक्षणः ।
ध्यायेदथानलं देवं शक्तिस्वस्तिकपाणिनम् ॥ १४-
त्रिणेत्रं कुङ्कमाभासं दिव्याभरणवाससम् ।
प्रसन्नवदनं चारुजटामकुटधारिणम् ॥ १४-
हेममालापरिक्षिप्तं वरदाभयसंयुतम् ।
काली कराली च मनोजवा चैव सुलोहिता ॥ १४-
सुधूम्राविष्फुलिङ्गिन्यौ जिह्वा विश्वरुचिस्ततः ।
दिक्सप्तकस्थिता ह्येताः क्रमात् पूर्वादितः पुनः ॥ १४-
ऐशान्यां वसुधाराख्या ह्युपजिह्वा हविर्भुजः ।
काल्यां शुद्रस्य कृत्यानि कराल्यामाभिचारकम् ॥ १४-
भूतग्रहादिरोगाणां शान्तिं कुर्यान्मनोजवा ।
सुलोहितायामपि च शान्तिं कुर्याद् विचक्षणः ॥ १४-
अम्भोवृष्ट्यादि धूम्रायां द्वेषोच्चाटे स्फुलिङ्गिनी ।
सर्वार्थसाधनी देवी जिह्वा विश्वरुचिर्मता ॥ १४-
जुहोतु वसुधारायां श्रीकामः पौष्टिकाय वा ।
एवं तु सप्त जिह्वाः स्युर्वसुधारा तथाष्टमी ॥ १४-
जिह्वाभेदमविज्ञाय होमः स्यान्निष्फलो यतः ।
ज्ञात्वा हविर्भुजो जिह्वाः स्यात् फलाप्तिर्हुतादिह ॥ १४-
ततः सिद्त्वा घृतेनेष्मं स्वाहेत् जुहुयात् समम् ।
स्रुवेणाज्यमुपादाय परिध्योः सन्धिमुत्तरम् ॥ १४-
स्पृष्ट्वा चापातयेद् वह्नावृजुधारां प्रजापतेः ।
तथा दक्षिणसन्धिं तु स्पृष्ट्वेन्द्रायेति मन्त्रतः ॥ १४-
अथाज्यभागौ जुहुयाद् याम्योदक्पूर्वभागयोः ।
अग्नये चैव सोमाय स्यातामस्याक्षिणी तु ते ॥ १४-
यथोपदेशं तु समं पूर्वेणाग्नेर्मुखे ततः ।
युक्तो वहान्दिनाज्येन चतस्रस्त्वादिना तथा ॥ १४-
आनो भद्राद् विरूपाक्षाद् विरूपाक्षादिना पुनः ।
यातिरश्चीनिपूर्वेण संराधन्यादिना पुनः ॥ १४-
प्रसाधन्या व्याहृतिभिर्हुत्वेत्यग्निमुखं भवेत् ।
चरुं तमभिघार्याथ पूर्वार्धाच्चापरार्धतः ॥ १४-
अवदानद्वयं कृत्वा त्वभिधार्य स्रुचं न्यसेत् ।
अथाभिधार्य जुहुयाद् यथाम्नायं पृथक् पृथक् ॥ १४-
अथाग्नये स्विष्टकृतेत्युत्तरार्धात् सकृच्चरोः ।
अवदानं जुहोत्यग्नावभिधार्य स्रुचैव तु ॥ १४-
पूर्वोत्तरार्धे तद्धुत्वा हविरुत्क्षिप्य मेक्षणम् ।
संस्रावेणाभिहुत्वाथ दर्व्यामानीय तज्जलम् ॥ १४-
अन्तःपरिधि साध्यांस्तानाम्नातांस्तु पितॄन् स्रुचा ।
निनीयान्तःपरिधि वै निर्णिज्याग्नौ प्रताप्य तु ॥ १४-
पूरयित्वाद्भिरेनां तु बहिःपरिधि सेचयेत् ।
प्रहृत्य समिधं तां च या पूर्वं परिशेषिता ॥ १४-
तथैव चेध्मसंनाहं प्रहरेदुक्षितं ततः ।
जयादिं जुहुयात् पश्चात् चित्तंचादित्रयोदश ॥ १४-
मन्त्रास्ततोऽग्निर्भूतानां मादयोऽष्टादश क्रमात् ।
क्वचित् समावत्वन्तं तु जुहुयादविशेषिते ॥ १४-
विशेषितेषु कृत्येषु जुहोत्यधिपतिः समाः ।
अवत्वस्मिनदाद् ब्रह्मन्नस्मिन्क्षत्रेत्युदीर्य तु ॥ १४-
अस्यामान्ते तु शिष्यस्यांपुरोधायांपदं ततः ।
अस्मिन्कर्मन्वदस्यान्ते देवहूत्यां (च) ठद्वयम् ॥ १४-
समासीकृत्य जुहुयात् क्रमादष्टादशाहुतीः ।
ऋताषाडादिभिर्मन्त्रैर्हुत्वा द्वादशभिस्ततः ॥ १४-
तथामात्याहुतीर्गुत्वा यद्देवा देवहेडनम् ।
इत्यादिभिस्त्वमग्नेन्तं जुहुयान्मन्त्रविंशतिम् ॥ १४-
प्रजापते न त्वदाज्यादिध्मं प्रव्रश्चनं क्षिपेत् ।
मनोज्योतिरयाश्चाग्नेर्यदस्मिन् कर्मणीति च ॥ १४-
स्वस्ति नस्त्वादिकेनाथ यन्म आत्मन इत्यपि ।
पुनरन्यादिना हुत्वा व्याहृतीभिस्तथा पुनः ॥ १४-
आभिर्गीर्भिरनाज्ञातं तद्वत् पुरुषसंमितः ।
प्रत् पाकत्रा यदस्यति हुत्वा स्विष्टकृतं ततः ॥ १४-
संमृज्य परिधीन् दर्भान् प्रस्तरेभ्योऽवलुम्पतु ।
अग्रमध्यममूलानि त्वाज्यस्थाल्यां निमज्ज्य तु ॥ १४-
अग्रादारभ्य चोर्ध्वाग्रमामूलमथ दाहयेत् ।
नधूनयेन्न बाह्येऽग्नेः प्रक्षिपेद् विकिरेत् वा ॥ १४-
प्. १२४) एकीकृत्य शनैः प्रास्येत् पृथक्कृततृणं तथा ।
शम्याश्चेन्न परित्याज्याः परिधिं मध्यमं क्षिपेत् ॥ १४-
इतरौ युगपत् प्रास्येद्धुत्वोर्ध्वसमिधावपि ।
संस्रावमपि हुत्वाग्नौ परिषेकं विसृज्य तु ॥ १४-
प्रणीताम्भः प्रतिदिशं तूष्णीं संसेचयेत् तथा ।
प्राच्यां दिश्यादिभिर्मन्त्रैः सेचयेद् वा यथाक्रमम् ॥ १४-
भूमौ शिष्टाः परासिञ्चेद् ब्रह्मणे गां च दक्षिणाम् ।
सत्यां दद्यान्नचेद् विप्रान् भोजयेद् वापि शक्तितः ॥ १४-
प्राश्नीयाद्धुतशेषं वोदरमायुरिति स्पृशेत् ।
आचम्य यत् इन्द्रादिमुत्तरां च जपेत् ततः ॥ १४-
शेषं दद्याच्छ्रोत्रियायेत्याह बोधायनो विभुः ।
वैदिकाग्निकल्पाधिकारः ।
अथ शैवोऽग्निकल्पोअत्र कथ्यते प्रोक्तलक्षणम् ॥ १४-
कुण्डं वा स्थण्डिलं वापि समाक्रामन् प्रदक्षिणम् ।
शिवमन्त्रं जपन् होमद्रव्याण्यालोकथन् दृशा ॥ १४-
गत्वा कुण्डान्तिकं कुण्डयोनिं वीक्ष्योत्तरामुखः ।
आसीत हौं शिवायेति प्रणवादिनमोन्तकम् ॥ १४-
जपन् निरीक्ष्य तत् कुण्डं खात्वास्त्रेण तु देशिकः ।
शिवाङ्गान्यत्र दृश्यन्ते वक्ष्यमाणक्रियाप्तये ॥ १४-
ओं हां शिवाय नमो हृदयाय नमः ।
ओं हीं शिवाय नमः शिरसे स्वाहा ।
ओं हूं शिवाय नमः शिखायै वषट् ।
ओं हैं शिवाय नमः कवचाय हुम् ।
ओं हौं शिवाय नमो नेत्रत्रयाय वौषट् ।
ओं हः शिवाय नमः अस्त्राय फट् ।
अस्त्रेण खातमुद्धृत्य हृदयेनाभिपूर्य तु ।
तेनैव तु समीकृत्य चाभ्युक्ष्य कवचेन तु ॥ १४-
शराणुना कोट्टयित्वा संमार्ज्यालिप्य तेन तु ।
ओं हौं शान्त्यतीतायै नमः ।
ओं हैं शान्त्यै नमः ।
ओं हूं विद्यायै नमः ।
ओं हीं प्रतिष्ठायै नमः ।
ओं हां निवृत्त्यै नमः ।
इति मध्येन्द्रयाम्याप्यकौबेर्यासु यजेत् कलाः ॥ १४-
ओं हां कलामयाय कुण्डाय नमः ।
साकल्येन कलात्मानं कुण्डं ध्यात्वाभिपूज्य तु ।
त्रिसूत्र्यावेष्ट्य तत् कुण्डं ततोऽस्त्रेण कुशेन तु ॥ १४-
आत्मविद्याशिवैस्तत्त्वैः प्राचीनं त्रिः समुल्लिखेत् ।
उदीचीनं सकृन्मध्ये समिदग्रेण मूलतः ॥ १४-
ब्रह्मा विष्णुश्च रुद्रश्च शिवस्त्वासां तु दैवतम् ।
त्रिभिर्दर्भैरथास्त्रेण वज्रीकृत्य पुनर्हृदा ॥ १४-
पूर्वोत्तराग्रदर्भाभ्यां कुण्डे कृत्वा चतुष्पथम् ।
इत्यष्टादशसंस्कारैः शुद्धे कुण्डे कुशैः पुनः ॥ १४-
पटं कुण्डस्य सङ्कल्प्य
ओं हां वागीश्वरीवागीश्वरासनायः नम ।
इति दर्भासनं न्यसेत् ।
ओं हां वागीश्वरीमावाहयामि ।
श्यामामलङ्कृतां देवी सर्वाभरणभूषिताम् ॥ १४-
ध्यात्वावाह्य त्वनेनैनामृतुस्नातां समर्चयेत् ।
ततो वागीश्वरं त्वनेनैनामृतुस्नातां रागिणम् ॥ १४-
संपूज्याग्निं यथोद्दिष्टज्वालाधूमेन्धनैर्विना ।
शरावादिस्थमानीय क्रव्यादांशं त्यजेत् ततः ॥ १४-
मूलेनावोक्ष्य चास्त्रेण प्रेक्ष्यास्त्रेणाथ वर्मणा ।
अवकुण्ठ्याभिरक्ष्यास्त्राज्ज्योतिराकारवत् स्मरन् ॥ १४-
ओं हों रौं हां
इत्यादाय ललाटाक्षान्नेत्राग्निं तेन योजयेत् ।
पतत्पतङ्गसङ्काशं नाभिकुण्डोत्थितानलम् ॥ १४-
रेचकात् पिङ्गलामार्गान्निस्सार्याग्नौ नियोजयेत् ।
भौतिकं दैवतं चेत्थं जाठरं चानलत्रयम् ॥ १४-
एकीकृत्य षडङ्गेन
ओं रां हृदयाय नमः । ओं रीं शिरसे स्वाहा ।
ओं रूं शिखायै वषट् । ओं रं नेत्रत्रयाय नमः ।
ओं रः अस्त्राय फट् ।
तारं हौं शक्तये वषट् ।
इति धेन्वामृतीकृत्य कवचेनावकुण्ठ्य तु ॥ १४-
संरक्ष्यास्त्राद्धृदाभ्यर्च्य तमुद्यम्य करद्वयात् ।
स्थित्वा जानुद्वयेनाथ कुण्डस्योपरि देशिकः ॥ १४-
क्षोभार्थे त्रिः परिभ्राम्य देवी देवौ निरम्बरौ ।
ध्यात्वेशानशिरस्कौ तौ
ओं हां शिवबीजाय नमः ।
शिवबीजमिति स्मरन् ॥ १४-
आत्माभिमुखमग्निं तं देव्या गर्भपथा क्षिपेत् ।
विकीर्णमेकीकृत्यास्त्रान्नाभौ तत्संपुटं नयेत् ॥ १४-
ओं हां वागीश्वर्यै नमः ।
परिधाप्येति वस्त्रे तु शौचाचमनकेऽपि च ।
क्वचेनेन्धनैश्छन्नं धवित्राज्ज्वालयेदमुम् ॥ १४-
ओं हां हां गर्भाग्नये नमः ।
इत्यभ्यर्च्याथ संशुद्धं कुशकङ्कणकं करे ।
दक्षिणे तु निबध्नीयाद् वागीश्वर्यास्तु कौतुकम् ॥ १४-
ओं सद्योजाताय नमः ।
इति सद्यं समावाह्य स्वाहान्तं हृदयेन तु ।
पञ्चाहुतीस्तिलैर्हुत्वा गर्भाधानं समापयेत् ॥ १४-
ओं हीं वामदेवाय नमः ।
तमावाह्येति शिरसा हुत्वा पुंसवनं भवेत् ।
ओं हुं अघोराय नमः ।
ओं हां पुर्यष्टकदेहाय नमः ।
जलबिन्दुं कुशास्त्रेण देहप्राणकृते क्षिपेत् ।
शिखयार्घ्यादिति यावत् ।
सद्यादिभिस्तिलैर्हुत्वा वक्त्राङ्गानि च कल्पयेत् ॥ १४-
वक्त्रनिष्कृतिनिष्पत्त्यै पुनः पञ्चाहुतीस्तथा ।
हुत्वा प्रसूतां वागीशीं शिशुमग्निं च संस्मरेत् ॥ १४-
ओं हें तत्पुरुषाय नमः ।
आवाह्य पुरुषं त्वेवं वर्मणाहुतिपञ्चकम् ।
हुत्वास्त्रेणार्घ्यतोयेन बहिरन्तरवोक्ष्य तु ॥ १४-
दर्भकङ्कणकं त्यक्त्वा सूतकस्य निवृत्तये ।
स्नातां विभूषितां देवीं देवं चास्त्राम्बुसेकतः ॥ १४-
वस्त्रभूषणगन्धाद्यैरलङ्कृत्याथ तौ धिया ।
ततः शूलापनोदाय जुहोत्यस्त्रात् पलाशजाः ॥ १४-
वितस्तिमात्राः पञ्चाग्रसमिधो घृतसेचिताः ।
उत्तरेण तु दर्भेषु पात्रद्रव्याणि सादयेत् ॥ १४-
परिस्तरणमप्यत्र कृत्वा वेण्या कुशैरपि ।
दर्भासनानि विन्यस्य प्रोक्षण्यै ब्रह्मणे तथा ॥ १४-
प्रणीतानां च परिधीन् विन्यस्य परिषेचयेत् ।
तिरः पवित्रेणापूर्य प्रोक्षणीं सलिलेन तु ॥ १४-
निवृत्त्यादिकलाभिस्तु परिषिच्य यथाक्रमम् ।
दर्भेण शिवगायत्र्या तथा परिसमुह्य तु ॥ १४-
ओं हां ब्रह्मणे यज्ञध्यक्षाय नमः ।
इति ब्रह्माणमावाह्य द्विजं वा कूर्चमर्चयेत् ।
पवित्रेण प्रणीतार्थमापूर्याद्भिर्जलेश्वरम् ॥ १४-
विभाव्यानासमुद्धृत्य तस्याभ्यर्च्य स्वविष्टरे ।
ओं हां विष्णवे यज्ञारिसूदनाय नमः ।
इति कूर्चाहितं विष्णुं प्रणीतायां प्रपूजयेत् ॥ १४-
ततः परिधिदर्भस्थान् ब्रह्माणं शङ्करं हरिम् ।
अनन्तं च चतुर्दिक्षु तारं हांनामतोऽर्चयेत् ॥ १४-
लोकेशानपि रक्षार्थं स्वदिक्ष्वाराध्य तु क्रमात् ।
तदस्त्राणि च तद्दिक्षु शिवाज्ञां श्रावयेत् ततः ॥ १४-
भो भो ब्रह्मेन्द्रविष्ण्वाद्या देवाः सास्त्राः शिवाज्ञया ।
स्वस्यां स्वस्यां दिशि स्थित्वा रक्षध्वं वह्निबासकम् ॥ १४-
स्रुक्स्रुवावपि चादाय निरीक्ष्य सुकुशौ हृदा ।
प्रताप्यास्त्रेण संक्षाल्य शिरसोर्ध्वमुखौ हृदा ॥ १४-
प्रताप्य क्षालयित्वाथ मूलमध्याग्रतः कुशैः ।
ओं हां आत्मतत्त्वाधिपतये ब्रह्मणे नमः ।
ओं हीं विद्यातत्त्वाधिपतये विष्णवे नमः ।
ओं हुं शिवतत्त्वाधिपतये रुद्राय नमः ।
इति क्रमेण स्ंमृज्य संक्षाल्याभ्यर्च्य तत्त्रयम् ॥ १४-
ओं हौं शक्तये नमः ।
इति स्रुचं समाराध्य
ओं हां शिवाय नमः ।
स्रुवं चानेन पूजयेत् ।
त्रिसूत्र्यावेष्टितग्रीवो नो चेद् दर्भेण दक्षिणे ॥ १४-
कुशासने तौ संस्थाप्य ततो गव्यं नवं शुभम् ।
आज्यं निरीक्षणाद्युक्तचतुस्संस्कारसंस्कृतम् ॥ १४-
ब्राह्मीं स्वमूर्तिं सञ्चिन्त्य कुण्डोर्ध्वानलकोणके ।
प्रताप्यानेन जुहुयात्
ओं हां ब्रह्मणे स्वाहा ।
पुनरैशे प्रप्ताप्य तु ॥ १४-
जुहुयाद् विष्णवे चेति विष्णुमूर्तिः स्वयं ततः ।
इति हुत्वा कुशाग्रेण घृतबिन्दुं प्रताप्य च ॥ १४-
ततो रुद्रतनुर्वह्निं त्रिः परिभ्राम्य तद् घृतम् ।
ओं हां रुद्राय ठठ ।
हुत्वानेन कुशाग्रेण योन्यां दर्भेषु विन्यसेत् ॥ १४-
कुशद्वयाग्रं प्रज्वाल्य घृते प्रक्षिप्य तं हृदा ।
पुनरग्नौ क्षिपेद् दर्भं पवित्रीकरणं तु तत् ॥ १४-
कवचेन घृतं वीक्ष्य शिष्टं दर्भोल्मुकं क्षिपेत् ।
अग्नौ तद्रञ्जनं हस्तौ प्रक्षाल्यादाय वै कुशम् ॥ १४-
प्रज्वाल्यज्ये समावर्त्य क्षिप्त्वाभिद्योतनं भवेत् ।
स्वदक्षिणोत्तरौ हस्तौ पक्षौ शुक्लेतरौ स्मरन् ॥ १४-
स्वाङ्गुष्ठानामिकाभ्यां तु प्रोत्तानाभ्यां पवित्रकम् ।
प्राचीनमाज्ये प्रक्षिप्य दक्षिणोत्तरभागयोः ॥ १४-
आज्ये पूर्वापरौ पक्षौ सोमाप्यापचयान् स्मरन् (?) ।
पिङ्गलां भावयेच्चेडां सुषुम्नां मध्यतस्तथा ॥ १४-
ओं हां अग्नये ठठ ।
अनेन दक्षिणाज्यांशात् स्रुवेणाक्षिणि दक्षिणे ।
हुत्वा चामन्त्र्य भगेन
ओं हां सोमाय ठठ ।
वह्नेर्वामविलोचने ॥ १४-
ओं हां अग्नीषोमाभ्यां ठठ ।
इति मध्वाज्यभागेन हुत्वा लालाटनेत्रके ।
ओं हां अग्नये स्विष्टकृते ठठ ।
इत्याज्यभागत्रितयाद्धुत्वाग्नेर्मुखकल्पना ॥ १४-
क्रमोऽयं पूर्वपक्षे स्याद् विशेषोऽस्त्यसिते यथा ।
ओं हां अग्नये ठठ । ओं हां सूर्याय ठठ । ओं हां अग्नीषोमाभ्यां ठठ । ओं ओं हां अग्नये स्विष्टकृते ठठ ।
एवं नेत्रत्रयं चाग्नेः स्याद् वक्त्रोद्धाटनं तथा ॥ १४-
आज्ये नाडित्रयाधानं पक्षयोरपि कल्पना ।
अथाङ्गैरभिमन्त्र्याज्यम्
ओं हौं शक्तये वौषट् ।
अनेनाप्यभिमन्त्र्य तु ॥ १४-
अमृतीकृत्य तद्धेनुमुद्रया वर्मणा पुनः ।
अवकुण्ठ्यास्त्रतो रक्षेदित्युक्ताज्यस्य संस्कृतिः ॥ १४-
संस्कृताज्यस्य यद् बिन्दुं क्षिपेदन्यघृतादिषु ।
संस्कृतान्येव तानि स्युर्हृदयेनाभिमन्त्रणात् ॥ १४-
अथ सद्यादिपञ्चास्यं प्रतिवक्त्रं त्रिलोचनम् ।
शिवाग्निं संस्मरेत् सौम्यं सप्तजिह्वान्विताननम् ॥ १४-
अत्र पौष्करे -
चतुर्मुखेषु चतस्रो जिह्वास्तिस्रो मध्यमे । ताश्च दीक्षाप्रतिष्ठादिषु सात्त्विक्यः क्षुद्रेषु तामस्यः काम्येषु राजस्यः । (इति ।) ताः पूर्वमेवोक्ताः ।
अभयं स्वस्तिकं शक्तिं वरदं दधतं भुजैः ।
शुक्लमाल्याम्बरालेपं दिव्याभरणभूषितम् ॥ १४-
इष्ट्वार्घ्यं गन्धपुष्पाद्यैरुपचारैर्यथाविधि ।
ओं हां सद्योजातमूर्तये ठठ । ओं हां वामदेवगुह्याय ठठ । ओं हां अघोरहृदयाय ठठ । ओं हां तत्पुषवक्त्राय ठठ । ओं हां ईशानमूर्धाय ठठ ।
एवं वक्त्राभिधारः स्याद्धुत्वा तत्तन्मुखे पृथक् ॥ १४-
ओं हां सद्योजातमूर्तये वामदेवगुह्याय ठठ । ओं हां वामदेवगुह्यायाघोरहृदयाय ठठ । ओं हां अघोराय हृदयाय तत्पुरुषवक्त्राय ठठ । ओं हां तत्पुरुषवक्त्रायेशानमूर्धाय ठठ ।
इति वक्त्राणि सन्धाय जुहुयाद् द्वन्द्वशो घृतम् ।
ओं हौं हें हुं हिं हं ईशानतत्पुरुषाघोरवामदेवसद्योजातेभ्यः ठठ ।
इत्यग्निकोणाद् वायवन्तं वायोर्नक्तञ्चरान्तकम् ॥ १४-
राक्षसादीशकोणान्तं स्रुवेणाज्यैकधारय ॥
हुत्वा नित्येषु मुख्यत्वात् सद्यस्य वदनस्य तु ॥ १४-
कुण्डप्रमाणं तद्वक्त्रं ध्यात्वान्येषां तु सद्यके ।
अनुप्रवेशाद् वक्त्राणां वक्त्रैकीकरणं स्मरेत् ॥ १४-
तथाचोक्तं संहितायां नित्यकर्मणि सद्यके ।
मुख्यमूर्ध्वं स्मृतं वक्त्रं गुणत्वमितरस्य तु ॥ १४-१४५ ॥ इति ।
अपि च-
नैमित्तिके च काम्ये च यस्य वक्त्रस्य मुख्यता ।
यत्र यत्र समुद्दिष्टं तस्यैकीकरणं परैः ॥ १४-
तथा मुमुक्षोर्दीक्षाया मुख्यं ह्यूर्ध्वमुखं स्मृतम् ।
दृष्टसिद्ध्याप्तये पूर्वं दक्षिणं क्षुद्रकर्मसु ॥ १४-
उत्तरं वामदेवाख्यं शान्तिके पौष्टिकेष्टदम् ।
नित्यकर्मसु सद्याख्यं संहितायामितीरितम् ॥ १४-
एतत्पर्यन्तमुद्दिष्टं जातकर्मसमापनम् ।
ओं हां ईशानाय नमः ।
इतीशानं समावाह्य तिलास्त्राहुतिपञ्चकम् ॥ १४-
हुत्वा नामास्य कुर्वीत
ओं हां शिवाग्निगुताशस्त्वम् ।
इयुक्त्वाराध्य चानलम् ।
ओं हां वागीश्वरीवागीश्वराभ्यां ठठ ।
अनेनोद्वास्य पितरौ ।
ओं हौं शिवाय वौषट् ।
पूर्णे हुत्वा त्वनेन तु ॥ १४-
अनाहितशिवे वह्नौ पञ्चसंस्कारसंस्कृते ।
पात्याश्चरुपुरोडाशा धूपाद्यर्थं च रक्षिते ॥ १४-
यथोक्तं संहितायां -
पात्याश्चरुपुरोडाशाः पञ्चसंस्कारसंस्कृते ।
अनावाहितदैवेऽग्नौ होमस्त्वावाहिते भवेत् ॥ इति ।
अथैकादशसंस्कारानुपनिष्क्रामणादिकान् ।
मूलेन वौषडन्ते कुत्यात् त्रिस्त्रिर्घृताद्धुतात् ॥ १४-
तद्यथा - उपनिष्क्रामणान्नप्राशनचौलोपनयनोपाकर्मव्रतसंग्रहणव्रतोत्-
सर्जनगोदानसमावर्तनविवाहाग्न्याधानानीति यावत् ।
स्रुच्याज्यपूर्णायां चाथ विन्यस्याधोमुखं स्रुवम् ।
स्रुगग्रे पुष्पमाधाय पाणिभ्यां शङ्खमुद्रया ॥ १४-
श्लिष्टदण्डौ तौ गृहीत्वा समपादतथा स्थितः ।
स्रुगग्रे दत्तदृष्टिः सन् मूलेन हृदयादिना ॥ १४-
बौषडन्तेनाज्यधारां यवमात्रामखण्डिताम् ।
मन्त्रान्ते पातयेदग्नावित्थं पूर्णाहुतिर्भवेत् ॥ १४-
अनन्तरं भोः शिवाग्रे! त्वदीये हृदयाम्बुजे ।
यागेऽस्मिन् शिवमावाह्य स्वनुज्ञाता यजामहे ॥ १४-
इति लब्धाभ्यनुज्ञोऽथ स्वासनाङ्गस्वमूर्तिभिः ।
वह्नौ शिवं समावाह्य शिवसन्धानमाचरेत् ॥ १४-
बह्निस्थशिवनासाग्रनिष्ठ्यूताच्छिन्नतेजसा ।
लिङ्गस्थशिवनासाग्रनिर्गतज्योतिषा सह ॥ १४-
सन्धानं पिङ्गलानाड्या त्वायागान्तं विभावयेत् ।
अभ्यर्च्याज्यादिभिः प्रोक्तैर्हविर्भिस्तर्पयेछिवम् ॥ १४-
विध्युक्तानलजिह्वायां हूयमानं तु यद्धविः ।
अग्नेः सौषुम्नमार्गेण शिवमूर्ध्नि सुषुम्नया ॥ १४-
सन्धायामृतधाराभिर्गवीरूपाभिरीश्वरम् ।
तर्पयेत् यथा स स्यात् प्रसन्नः स्वेष्टदः शिवः ॥ १४-
नाडीसन्धानाधिकारः ।
अथाज्यं च तिलाश्चान्नं साज्यं नित्ये हुतं स्मृतम् ।
वैशेषिकेषु कृत्येषु द्रव्यैरुक्तैर्जुहोतु च ॥ १४-
शिवाद् दशांशमूर्तीनामङ्गानां हविषा हुतम् ।
पर्वसु द्विगुणं नित्याद्धोमतुल्योऽस्तु वा जपः ॥ १४-
ओं हौं शिवाय स्वाहेति स्ववदानत्रयं चरोः ।
अभिघार्य स्रुचा हुत्वा मूर्त्यङ्गानां सकृत् सकृत् ॥ १४-
आचामं प्रोक्षणीतोयैर्दत्त्वार्घ्यं चास्त्रमन्त्रतः ।
गन्धैः पुष्पैर्धूपदीपैस्ताम्बूलेनापि तं यजेत् ॥ १४-
कृत्वाग्निं भस्म चालभ्य नाडीसन्धिं विसृज्य तु ।
बीजादिभिर्व्याहृतीभिर्मूर्त्याङ्गैश्च सकृत् सकृत् ॥ १४-
हुत्वाज्यमुद्धृत्यास्त्रेण मूर्त्याङ्गानि यथास्थिति ।
शिवे नियोज्य वह्निस्थं शिवं चाग्नेर्हृदम्बुजे ॥ १४-
सन्निरुध्याथवा रक्षेत् प्रत्यहं विसृजेत् तु वा ।
ओं हौं हैं हूं हीं हां शिवमूर्तये नमः ।
इत्यग्नेः शिवमूर्तिं तां सङ्गृह्य कुसुमाञ्जलौ ॥ १४-
ओं हौं, ओं हों, ओं हें, ओं हुं, ओं हिं शिवाय नमः ।
अनेन लिङ्गस्थशिवे योजयेद् वा हृदम्बुजे ।
प्रागेव नाडीसन्धानं सति लिङ्गे तु तच्छिवे ॥ १४-
अलिङे स्वहृदम्भोजे शिवात् तन्नासिकाग्रतः ।
सन्धानमाचरेत् तद्वदूह्योद्वासनकल्पना ॥ १४-
नैमित्तिकेषु कृत्येषु द्विजातिश्चेज्जयादिभिः ।
अमात्यनिष्कृतीश्चैव हुत्वा स्विष्टकृतं तथा ॥ १४-
ओं हां अग्नये ठठ । ओं हां सोमाय ठठ । ओं हां अग्नीषोमाभ्यां ठठ । ओं हां अग्नये स्विष्टकृते ठठ ।
मन्त्रैरेभिश्च जुहुयादेभिरेवाद्विजातिषु ।
आग्नये वा पुरो वाग्नेः कृत्वा मण्डलकद्वयम् ॥ १४-
बलिं क्षिपेन्नमोन्तैः स्वैस्तारहृत्पूर्वनामभिः ।
चरुशेषेण गन्धाद्यैर्दिग्विदिक्क्रमयोगतः ॥ १४-
रुद्रमातृगणानां च यक्षग्रहसुरद्विषाम् ।
रक्षसामपि नागानां प्रागीशानादिकं क्रमात् ॥ १४-
नक्षत्राणां च तन्मध्ये चैतेषां मध्यतः पुनः ।
राशिभ्यं पुनरीशान्ते वह्नौ विश्वेभ्य इत्यपि ॥ १४-
नैरृत्यां क्षेत्रपाया दुर्गायै वायुगोचरे ।
एवमन्तर्बलिं क्षिप्त्वा द्वितीये मण्डले पुनः ॥ १४-
इन्द्रादिभो यथापूर्वं दशदिक्षु बलिं क्षिपेत् ।
विसृज्यैतान् पुनर्बाह्ये मण्डलादेवलिं क्षिपेत् ॥ १४-
सर्वतो विकिरन् दिक्षु
वायसादिभ्यः समयभेदिभ्यः ठठ ।
बलिमन्त्रानथो हरेत् ।
पुनः प्राङ्कणभागान्ते मण्डले तु बलिं क्षिपेत् ॥ १४-
ये रुद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः ।
सौमयाश्चैव तु ये केचित् सौम्यस्थाननिवासिनः ॥ १४-
मातरो रौद्ररूपाश्च गणानामधिपाश्च ये ।
सर्वे सुप्रीतमनसः प्रतिहृह्णन्त्विमं बलिम् ॥ १४-
सिद्धिं यच्छन्तु मे क्षिप्रं भयेभ्यः पान्तु मां सदा ।
सर्वेभ्यो भूतेभ्यो नम इति बलिं क्षिप्त्वा पुनश्च
योगिन्यो भीषणा रौद्रा वेताला ब्रह्मराक्षसाः ॥ १४-
आगत्य प्रतिगृह्णन्तु शिवेच्छानुविधायिनः ।
मया दत्तं बलिं क्षिप्रं भयेभ्यः पान्तु मां सदा ॥ १४-
ओं हां हः हुं फट् । अनेन च बलिं क्षिपेत् ।
दत्त्वा बलिं ततः पादौ प्रक्षाल्याचम्य वाग्यतः ।
नमस्कृत्य महादेवं कर्म कुर्याद् यथोत्तरम् ॥ १४-
शैवाग्निकल्पाधिकारः ।
अथ वैष्णवकल्पोऽग्निः कथ्यते तन्त्रचोदितः ।
स्नातो धौताङ्घ्रिराचान्तः प्राणानायम्य वाग्यतः ॥ १४-
रेखास्तिस्रोऽथ पूर्वाग्रास्तिस्रश्चोदङ्मुखा लिखेत् ।
द्वादशाक्षरविद्यां तु जपित्वा तु यथाक्रमम् ॥ १४-
निरस्य शकलं धौतपाणिः सम्प्रोक्ष्य विद्यया ।
करदेहाङ्गविन्यासान् कृत्वा तारमनुस्मरन् ॥ १४-
तत्रावाह्य परां शक्तिं लक्ष्मीमृतुमतीं स्मरन् ।
स्नातामलङ्कृतां विष्णुं तथैवावाह्य तौ यजेत् ॥ १४-
आरणेयाग्न्यन्यतमं शरावादिस्थितानलम् ।
अनीतं तारतोऽवोक्ष्य विष्णोर्बीजमनुस्मरन् ॥ १४-
देव्या योनौ विनिक्षिप्य गर्भं ध्यात्वेन्धनैरमुम् ।
उद्दीप्यविद्यया प्राग्वदद्भिः परिसमूह्य तम् ॥ १४-
दर्भेषु पात्राण्यासाद्य परिस्तीर्य यथाक्रमम् ।
प्रोक्षणीमद्भिरापूर्य द्वादशाक्षरविद्यया ॥ १४-
तस्यामावाह्य तु हरिं तज्जलैः प्रोक्ष्य तान्यथ ।
उत्तानयित्वा पात्राणि विस्रस्येध्मं च वेधसम् ॥ १४-
दक्षिणे प्राग्वदावाह्य संपूज्योत्तरतः पुनः ।
प्रणीताः पूरयित्वाद्भिः प्राग्वद् विन्यस्य तत्र तु ॥ १४-
साङ्गं विष्णुं समावाह्य संपूयाज्यं निरूप्य तु ।
श्रपयित्वोत्तरेऽङ्गारे त्रिरभिद्योत्य तं कुशैः ॥ १४-
त्रिरुत्पूय निधायाग्रे सदर्भौ स्रुक्स्रुवौ पुनः ।
प्रताप्य क्षालयेत् तारात् परिमृज्याग्रमग्रतः ॥ १४-
मध्यं मध्येन मूलं तु मूलेनाग्नौ क्षिपेत् कुशान् ।
परिधीनूर्ध्वसमिधौ प्राग्वद् विन्यस्य विद्यया ॥ १४-
परिषिच्येध्ममादाय घृतेनावोक्ष्य तारतः ।
सकृद्धुत्वा तथाअघारौ हुत्वा तु द्वादशाक्षरात् ॥ १४-
गर्भाधानादिकर्माणि तिलैः प्रत्याहुतित्रयम् ।
हुत्वा प्रणवतस्तस्य पितरौ तौ विसृज्य तु ॥ १४-
हेमपीठाम्बुजे वह्नेर्मूर्तिं ध्यायेच्च वैष्णवीम् ।
पञ्चवक्त्रं चतुर्बाहुं हेमवर्णं त्रिलोचनम् ॥ १४-
तस्य पृथ्वी भवेत् पादौ द्यौः शिरस्त्वसवोऽनिलः ।
चक्षूंषि सूर्यः खं क्रोडं जिह्वाः सप्त जगन्ति ताः ॥ १४-
हृदये गार्हपत्यः स्यान्मुखेष्वाहवनीयकः ।
अन्वाहार्यो भवेत् कुक्षौ वेदा वक्त्राण्यनुक्रमात् ॥ १४-
ऋङ्मयं प्राङ्मुखं हेमवर्णं दैविकसाधनम् ।
भिन्नाञ्जननिभं याम्यं याजुषं क्षुद्रकर्मकृत् ॥ १४-
पश्चिमं तूदयार्काभमाथर्वं शान्तिके मतम् ।
उत्तरं साम चन्द्राभं काम्यकर्मप्रसाधनम् ॥ १४-
सर्ववेदमयं ह्यूर्ध्वं स्फटिकाभं विमुक्तिदम् ।
एवं ध्यात्वाभिपूज्यैनं तदीये हृदयाम्बुजे ॥ १४-
वासुदेवं चतुर्बाहुं शङ्खचक्रगदाधरम् ।
यथोक्तरूपमावाह्य संपूज्योक्तैर्जुहोति च ॥ १४-
जयादिभिर्द्विजातिश्चेद्धुत्वा स्विष्टकृतं तथा ।
समापयेच्च तत् कर्म दत्त्वा तद्ब्रह्मदक्षिणाम् ॥ १४-
उत्सृज्याथ प्रणीताश्च तद्वत् परिधिविष्टरान् ।
बेरे वा स्वहृदब्जे वा प्रवाह्याग्निस्थमच्युतम् ॥ १४-
अग्निं चापि यथापूर्वं साङ्गोपाङ्गं प्रवाहयेत् ।
वैष्णवाग्निकल्पाधिकारः
कल्पोऽथ मान्त्रिको वह्नेरशेषार्थप्रसाधकः ॥ १४-
कथ्यते स्थण्डिलं वापि कुण्डं वा प्रोक्तलक्षणम् ।
गोमयालेपितं तारादुद्धृत्य शकलेन तु ॥ १४-
समीकृत्योपलिप्याथ हैमादिशकलेन तु ।
मध्ययाम्योत्तरा रेखास्तिस्रः प्राचीनमुल्लिखेत् ॥ १४-
मध्यापरैन्द्रगा रेखास्ततोदीचीनमुल्लिखेत् ।
अवोक्ष्य शकलं त्यक्त्वा सर्वत्र प्रणवं जपन् ॥ १४-
अरणेर्वा मणेर्वाग्निं श्रोत्रियागारतोऽपि वा ।
शरावादौ समानीतं निरीक्ष्याभ्युक्ष्य तारतः ॥ १४-
क्रव्यादांशं परित्यज्य प्राङ्मुखो वाग्यतः शुचिः ।
जाठरं चैन्दवं चाग्निं भौतिकेऽस्मिन् नियोज्य तु ॥ १४-
स्नातामृतुमतीं शक्तिमीश्वरं च सिसृक्षया ।
सङ्गतावभिपूज्यैतौ शक्तिबीजेन साधकः ॥ १४-
ईशबीजं विचिन्त्याग्निं शक्तेर्गर्भे विनिक्षिपेत् ।
इन्धनाभ्यां तमुत्थाप्य समाच्छाद्येन्धनैस्ततः ॥ १४-
ओं चित्पिङ्गल हन दह पच सर्वज्ञ आज्ञापयति ठठ ।
अनेन तु धवित्रेण ज्वालयित्वा हुताशनम् ।
ओं अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ॥ १४-
सुवर्णवर्णमनलं समिद्धं सर्वतोमुखम् ।
उपस्थानमनेनाथ कुर्यात् पुष्पं च निक्षिपेत् ॥ १४-
एकैकशस्तु प्रागादिदर्भैरास्तीर्य देशिकः ।
परिषिच्य जलैस्तूष्णीमभ्यर्च्याग्निं षडङ्गतः ॥ १४-
जलबिन्दुं जीवभूतं क्षिप्त्वा प्रणवतोऽनले ।
गर्भाधानादिकर्माणि षडङ्गैः स्वैरनुक्रमात् ॥ १४-
प्रत्याहुतित्रयं हुत्वा परिषिच्याथ तारतः ।
दर्भेषूत्तरतो वह्नेः पात्राण्यासाद्य पूर्ववत् ॥ १४-
तोयसेकदयाधेयसंख्यैर्दर्भैर्यथाक्रमम् ।
परिस्तीर्य यथापूर्वं प्रोक्षणीं वेधसं तथा ॥ १४-
प्रणीतां चाभिपूज्याग्निं परिषिच्यादितः क्रमात् ।
ध्यात्वा हेमासनाम्भोजधवलं केसरोज्ज्वलम् ॥ १४-
तदष्टपत्राग्रगता मूर्तयोऽष्टौ हविर्भुजः ।
अग्निः स्यात् प्रथमा मूर्तिर्वैश्वानरहुताशनौ ॥ १४-
जातवेदा हुतवहो हुतवर्मा ततः परम् ।
तथा देवमुखः सप्तजिह्वश्चेत्यष्टमूर्तयः ॥ १४-
जातवेदाः सप्तजिह्वो हव्यवाहस्तथापरः ।
अश्वोदरस्तथैवाजस्ततो वैश्वानराह्वयः ॥ १४-
तद्वत् कौमारतेजाश्च विश्वेदेवमुखस्तथा ।
अग्नयेपदपूर्वाः स्युर्मूर्तयोष्ऽटौ परे जगुः ॥ १४-
शक्तिस्वस्तिकसाभयं सवरदं काश्मीररक्तद्युतिं
शुक्लालेपनमाल्यदामवसनं भास्वज्जटामण्डलम् ।
व्यालोलामलहाररत्नमकुटं तं हेममालोज्ज्वलं
ध्यायेत् सौम्यमभीष्टदं हुतवहं त्र्यक्षं प्रसन्नाननम् ॥ १४-
हिरण्या गगना रक्ता कृष्णाख्या त्वथ सुप्रभा ।
बहुरूपातिरक्ता च सात्त्विक्यः सप्त कीर्तिताः ॥ १४-
पद्मरागा सुवर्णी च भद्रलोहितलोहिते ।
श्वेता च धूमिनी चैव करालीति रजोन्विताः ॥ १४-
विश्वमूर्तिस्फुलिङ्गिन्यौ धूम्रवर्णा मनोजवा ।
विलोहिता कराली च काली चेति तमोन्विताः ॥ १४-
धातुबीजैर्विलोमोक्तैर्वह्निवायू मभूषितैः ।
पूर्वादिदिक्षु जिह्वाः स्युर्वसुधारेशकोणगाः ॥ १४-
दैवेष्वपि च नित्येषु सात्त्विक्यः शान्तिकेष्वपि ।
शस्ताः काम्येषु राजस्यस्तामस्यः क्रूरकर्मसु ॥ १४-
देवताः पितृगन्धर्वा यक्षनागाः पिशाचकाः ।
क्रमेण जिह्वाधीशाः स्युस्तथैव ब्रह्मराक्षसाः ॥ १४-
सर्वदेवमयी ख्याता वसुधारोपजिह्विका ।
तस्यां काम्यानि शस्तानि शेषाः स्युर्वैदिकोदिताः ॥ १४-
प्रणवादिनमोन्तं तु मूर्तीर्जिह्वास्तथार्चयेत् ।
सहस्रार्चिः स्वस्तिपूर्णाश्चोत्तिष्ठपुरुषस्ततः ॥ १४-
धूमव्यापीसप्तजिह्वस्तथा षष्ठो धनुर्धरः ।
षडेवमङ्गमन्त्राः स्युर्वह्नेर्जातियुताः पृथक् ॥ १४-
अङ्गानि मूर्तयश्चैव प्रसन्नाः स्युश्चतुर्भुजाः ।
शक्तिस्वस्तिकदोर्द्वन्द्वरुक्माभरणभूषणाः ॥ १४-
तथेन्द्राद्यांश्च लोकेशानस्त्राणि च बहिर्यजेत् ।
स्वमूर्तिमपि चाग्नेयी न्यस्ताङ्गां परिभाव्य तु ॥ १४-
इष्ट्वा गन्धादिभिर्वह्निमाज्यं संस्कृत्य पूर्ववत् ।
स्रुक्स्रुवावपि संमृज्य वैदिकाग्न्युक्तमार्गतः ॥ १४-
प्राजापत्यादिभिर्मन्त्रैर्विअदिकाग्निमुखं ततः ।
हुत्वाङ्गमूर्तीर्जिह्वानामेकैकाज्याहितिक्रमात् ॥ १४-
हुत्वा त्वनेन मन्त्रेण जुहोत्येकाहुतिं पुनः ।
तार व्याहृतयस्तिस्रो वैश्वानरपदं ततः ॥ १४-
सोऽपि भाव जातवेद इहावह सर्वकर्माणि साधय ठठ ।
व्याहृत्यादिमिमं मन्त्रं मूलमग्नेर्विदुर्बुधाः ।
ऋषिः स्यात् सविता छन्दो दैवीगायत्रसंज्ञितम् ॥ १४-
देवता जातवेदोऽग्निः समृद्ध्यादौ नियुज्यते ।
महासमृद्धिदो ह्येष जप्यः स्यादयुतं परः ॥ १४-
ब्रीहिं न्यग्रोधसमिधस्तिलराज्याज्यपायसैः ।
पूर्वादिदिक्षु हुत्वादौ क्रमात् प्रतिपदादिषु ॥ १४-
साष्टोत्तरसहस्रं वा शतं वाज्यं जुहोतु च ।
एकादश्यां यथाशक्ति भोजयित्वा शुचीन् द्विजान् ॥ १४-
रक्तां गां दक्षिणां दत्त्वा सिध्येत् सामृद्धिको मनुः ।
उक्तैर्द्रव्यैः प्रतिपदि पृथक् साष्टकं वा स्हस्रं
हुत्वा व्रीहिं जरदमथवा प्रत्यहं रुद्रसंख्यम् ।
व्याघातीयैर्धृतविलुलितैर्वा त्रिपक्षं तथेध्मैः
पालाशैर्वा मधुरमिलितैः स्यात् समृद्धिस्तु पुष्पैः ॥ १४-
साज्यं गव्यं पायसं वा जुहोतुनित्यं क्षीरं कापिलं गोघृतं वा ।
बन्दूकैर्वा क्षौद्रसिक्तैश्च पुष्पैर्लक्ष्मीकामो मासमष्टौ सहस्रम् ॥ १४-
क्षीराहारः शोणगोक्षीरहोमी लक्ष्मीं विन्देताक्षयां मासमात्रात् ।
मेधाकामः पौर्णमासीषु लक्षं स्पृष्टं (?) ब्राह्मं वा घृतं प्राश्य विन्देत् ॥ १४-
लक्षं हुत्वा साज्यदूर्वाङ्कुराणां मृत्युं जित्वा दीर्घमायुश्च विन्देत् ।
हुत्वा चैकामाहुतिं सन्निधत्ते मन्तेणादौ चाखिलेष्वध्वरेषु ॥ १४-
आहवन्त्यादिना प्रातरग्नेस्तिथौ पायसं सर्पिषा साष्टसाहस्रकम् ।
यज्जुहोत्यक्षयामाहवत्येव तद्वस्रहेमान्नगास्त्वावहन्ती श्रियम् ॥ १४-
अस्यात्यनुष्टुप्च्छन्दः स्यादृषिरुक्तस्तु काश्यपः ।
भद्राग्निर्देवता प्राग्वदङ्गान्यपि च साधनम् ॥ १४-
प्राजापत्यं पङ्क्तिसहस्रं तु जपित्वा साज्यं दध्ना चौदनहोमादपि लक्ष्मीः ।
आज्या(भ्य)क्तैः शालिहुताद् वा प्रतिपत्सु प्रोक्तैर्द्रव्यैर्व्याहृतिभिर्वा हवनं स्यात् ॥ १४-
त्रिष्टुबस्य भवेच्छन्दो मरीचिर्भगवानृषिः ।
प्रजापतिर्दैवतं च साधनाङ्गानि पूर्ववत् ॥ १४-
उद्धृत्योत्तिष्ठशब्दः पुरुषहरिपदे सार्धचन्द्राक्षिपार्श्वे
स्वान्तं मांसं च देहिद्वयमपि च ततो वामपादस्य मध्यम् ।
दीर्घोऽत्रिः पार्श्वमन्ते मरुदिति गदितो वह्निजायान्त एषो
वह्नेस्तारद्वयान्तो मनुरखिलजगत्काम्यकल्पद्रुमोऽसौ ॥ १४-
अस्यच्छन्दस्तु गायत्री मुनिरप्यङ्गिरा भवेत् ।
भृगुरिति केचन ।
देवता स्वयमेवाग्निरश्वरूपी हिरण्यदः ॥ १४-
नित्यं वा प्रतिपदि वा सकृत्तिकायां शाल्यन्नैर्घृतमिलितैर्जुहोतु लक्ष्म्यै ।
दध्यन्नं घृतमथवा शमीसमिद्भिर्हुत्वेष्टां खलु लभते महासमृद्धिम् ॥ १४-
हुत्वाज्यं यत् स्वेष्टां लक्षार्धं तां विन्देत् । सरोजैर्हुतैः स्यात् सुलभ्यं पुराद्यम् । पैप्पलैरिध्मकैः कन्यकां प्राप्नुयात् । घृतवच्चरुणा विजयं लभते । ज्योतिष्कतैलेन राष्ट्राणि विन्देत् । जपेन जलानि रुजोऽपि हन्ति । यत् खलु सिध्यति तज्जप संपदि यदिह जगति जपतु भवति ।
हैरण्याश्वत्थकल्पद्रुमकुहरगृहान्निष्पतद्वाजिरूपं
रोम्णा कूपोद्गतार्चिष्कपिशितगगनं रन्ध्रदेशैर्धनौघम् ।
ध्यायन् वर्षन्तमग्निं प्रतिपदि जुहुयात् पायसैकाहुतिं स्या-
दर्धप्रस्थाज्यपूर्णाम्बरचषकगतां सोऽचिरादार्थनाथः ॥ १४-
इति निगदितमग्नेरिष्टदं यद्विधानं
तदभिनियतकाले त्वाहुतीनां समानम् ।
अनुजपतु च मन्त्रं तत्फलाप्त्यै द्विजेन्द्रान्
रसवदिह समग्रं भोजयेन्नित्यशोऽन्ते ॥ १४-
दशांशविप्रभोजनं तु मुख्यमाहुतिक्रमात्
तथैव पञ्चविंशदंशभोजनं तु मध्यमम् ।
शतांशमप्यथाधमं तु शक्तितस्तदूहयेत्
समाप्तिदानभोजनं च देवताभिपूजनम् ॥ १४-
तथैव दक्षिणापि मानहेम चाहुतेः स्मृतं
स दैविके तु पौष्टिके वशीकरे च कर्मणि ।
विरञ्जने प्रचाटने निरोधने द्विमानकं
रुजि भ्रमे च सादने त्रिमानकं विनिर्दिशेत् ॥ १४-
तथैव कृष्णलामितं हिरण्यमेव मारणे
तथाहि तत्त्वसागरे प्रपञ्चके च दर्शितम् ।
दहेद् विहीनदक्षिणाप्रयोगकारिणं नरं
त्वतो न हीनदक्षिणां प्रयोजयेच्च बुद्धिमान् ॥ १४-
इयं हि दक्षिणोत्तमा तु मध्यमाप्यतोऽर्धत-
स्तदर्धतोऽधमा भवेत् तु शक्तितः प्रकल्पिता ।
किमस्य दक्षिणोच्यते यदस्य कर्मणः फलं
प्रदर्श्यतेऽनुभूयते ततः प्रदेयमीप्सितम् ॥ १४-
अथाभिचारकेषु वह्निकुण्डसाधानादिकं
समुत्सृजेदरेः पुरे तथाम्बुधौ सरित्सु वि ।
करोतु तत्र शान्तिकं सदानधर्मपूजनं
यथा स्वदेहदेशवंशरक्षणं कृतं भवेत् ॥ १४-
तथैव शान्तिकादिकानि दक्षिणावसानिकं
सामाप्यं वैदिकाग्निकल्पदर्शितक्रमेण वा ।
निरुध्य दैवतं च वह्निमम्बरेन्दुपङ्कजे
नियोजयेत् चामृताम्बुशीकरप्रवर्षिणि ॥ १४-
इतीह तत्त्वसागरादितन्त्रचोदितो विधि-
स्तथैव वैदिकप्रयोगवृत्तिगृह्यदर्शितः
शिवागमोदितश्च यो निरूप्य संप्रदर्शितः
प्रयोगतस्तु साधकैरलं निषेव्यतां सुखम् ॥ १४-२६४ १।
इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे अग्निकल्पविधिर्नाम चतुर्दशः पटलः ॥
इति सामान्यपादः प्रथमः समाप्तः ।
शुभं भूयात्
मूल पाठ: īśānaśivagurudevapaddhatiḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0