भाषा

ENहिગુ
ग्रंथ पाठ

हेतुबिन्दुटीका · अध्याय 3

3.2

"
इत्यलं बहुभाषितया । तदेवं मृत्संस्थानयोरेकस्वभावत्वे न कथञ्चिद्भेदसम्भव इति सहकारिणामनेकत्वे ऽपि न कार्यस्यानेकत्वमित्यत्र भवत्येतदुदाहरणमिति ।
[30. द्रव्यगुनयोरभेदे वैशेषिककृतपूर्वपक्षस्योल्लेखः ।]
अत्र वैशेषिकमतमाशङ्कयाह- "अन्यदेव" इत्यादि । "संस्थानं" ह्यवयवसन्निवेश उच्यते । स च संयोगलक्षणत्वाद् गुणरूपः । "ततो" मृद्द्रव्यादस्यान्यत्वं द्रव्यगुणयोरसंकीर्णस्वभावत्वात् । तेन यदि मृत्पिण्डस्य मृदात्मतायां व्यापारः कुलालस्य तत्संस्थानविशेषे कथ्यते, तदा तयोत्यन्तभेदात् कारणानेकत्वात् कार्यानेकत्वं प्राप्तमिति । सिद्धान्तवाद्याह- "उक्तमत्र" इति । मृत्संस्थानयोः स्वभावभेदे दूषणमुक्तम् "मृत्संस्थानयोरपरस्परात्मतया" ( ह्ब्ट् 108 ) इत्यादिकमिति न संस्थानस्य मृद्द्रव्यादन्यत्वम् । ततो मृत्पिण्डोपादानाहितातिशयेन तत्कार्यक्षणसहकारिणा कुलालेन तदुपादानोपकृतात्मना तत्कार्यक्षणसहकारिणा मृत्पिण्डेन च प्रत्येकं सकलमेव मृत्संस्थानात्मकं कार्यं क्रियत इति न कारणानेकत्वे ऽप्यनेकत्वमस्य । अत्रैवोपचयहेतुमाह- "अपि च" इत्यादि । यत् तद् घटगतं संस्थानं "यदि तत" मृदो "भिन्नं स्यात्" तदा कुलालः पृथगेव किमिति न करोति? । नहि भिन्नानामावश्यकमपृथक्करणम्, कुलालश्चान्वयव्यतिरेकाभ्यां तस्य संस्थानस्य गुणात्मनः कारणतया गम्यत इति "स पृथगपि" तत् "कुर्यात्" । पर आह- "गुनस्येत्यादि । "द्रव्याश्रय्यऽगुणवान् संयोगविभागेष्वकारणमनपेक्ष" इति गुणलक्षणात् सर्वदा गुणो द्रव्यपरतन्त्रः, स कथं कदाचित् पृथक् क्रियेत? । वैशेषिक एव बौद्धीयं चोद्यमाशङ्कयाह- "तत्संस्थान" इत्यादि । यदि स्वभावेनैव तस्य गुणात्मनः संस्थानस्य "क्रियावद् गुणवद्" इत्यादिवचनादाधारस्वभावं तत् मृद्द्रव्यं, संस्थानं वा तथाविधं कपालाधेयात्मकं तदा किमिति कुलालव्यापारमपेक्षते? । स्वत एव किं न भवति? इति चोदकाभिप्रायः ।
एवं चोद्यमाशङ्कय वैशेषिकः परिहारमाह- "न, ततः" इत्यादि । यत् तत् मृद्द्रव्यं पृथुबुध्नोदराद्याकारं च संस्थानं तयोर्यः सम्बन्ध आधाराधेयलक्षणः तत्र या "योग्यता" तां "द्वयमप्येतत् कुलालाद्" यतः प्रतिलभते तस्मात् "कुलालमपेक्षते" कुलालानपेक्षायां दोषमाह- "अन्यथा" यदि तयोः परस्परसम्बन्धयोग्यतायां कुलालापेक्षा न स्यात् तदा स्वभावत एव मृत्पिण्डस्य तथविधसंस्थानसम्बन्धयोग्यत्वं भवेत् । तस्मिंश्च सति वस्तुन एव तत्संस्थानसम्बन्धयोग्यतालक्षणा धर्मतास्तीति कुलालसन्निधेः प्रागपि संस्थानविशेषेण सम्बन्धः स्यादिति वैशेषिकीयश्चोद्यपरिहारः ।
[31. द्रव्यगुणयोरभेदस्योपपादनम् ।]
सिद्धान्तवाद्याह- "एवम्" इत्यादि । यदि परस्परसम्बन्धयोग्यतायां कुलालमपेक्षते "एवं तर्हि सा योग्यता मृद्द्रव्यस्य कुलालाद् भवति इति" आपन्नम् । न च "अनयोः" मृद्द्रव्ययोग्यतयोः स्वभावस्य "भेदः" नानात्वम् । यदि हि स्यात् तदा योग्यतायाः द्रव्यात् पृथक्करणं "प्राग्वत् प्रसज्येत" । अथ योग्यताया अपि योग्यपारतन्त्र्यादपृथक्सिद्धिं ब्रूयात् तदा तस्या अपि वस्तुधर्मतयैव प्रागपि समावेशो मा भूदिति द्रव्येण सह सम्बन्धयोग्यताया अन्य योग्यता कुलालाद् भवतीत्येष्टव्या । सापि पृथक्करणप्रसङ्गा[त्] द्रव्याद् भिन्नस्वभावा नोपगन्तव्या । पृथक्करणप्रसङ्गे वा पुनः स एव परिहारः तदीयः, पुनस्तदेवोत्तरम्, इत्यनवस्थाप्रसङ्गादवश्यामभिन्नस्वभावता कपालात्मकमृद्द्रव्ययोग्यतयोरभ्युपगन्तव्या । किमेवं सति सिद्धं भवति? इत्यत आह- "अस्ति तावत्" इत्यादि । मृत्पिण्डकुलालभ्यां कपालद्रव्यस्य संयोगविशेषसम्बन्धयोग्यस्यारम्भात् यदैकस्वभावत्वे ऽप्येकस्यानेकप्रत्ययोपाधेयविशेषता तदा सिद्धः आस्माकीनः पक्षः । ततश्च किमस्माकं मृत्संस्थानयोरेकस्वभावत्वसाधनाय अतिनिर्ब्बन्धनेन? । यदि योग्यतामप्याश्रित्यानेकप्रत्ययजन्यत्वे ऽप्येकत्वात् नानात्वप्रसङ्गाभावः सिध्यति कार्यस्य, न किञ्चिद् द्रव्यगुनवादनिराकरणेनेह प्रयोजनम्, अन्यत्रैव तन्निराकरणस्य कृतत्वादित्यभिप्रायः । निर्बन्धग्रहणेन च मृत्संस्थानयोरपरस्परात्मतया संस्थानमृत्स्वभावविशेषाभ्यां तयोरप्रतिभासनप्रसङ्गात् इत्यनयोपपत्त्या साधितमेवानयोरेकत्वम्, युक्त्यन्तराणां सम्भवे ऽपि तदभिधानलक्षणो निर्ब्बन्धो न क्रियते, प्रकृतसिद्धेरन्यथापि भावादित्याचष्टे ।
[32. सामग्रीभेदे कार्यभेदस्य कारणभेदे ऽपि च कार्यस्यैक्यस्योपसंहारः ।]
तदेवं सामग्रीभेदात् सामग्र्यन्तरजन्येभ्यो भेदः सहकारिणामनेकत्वे ऽपि च कार्यस्यैकत्वमविरुद्धमिति प्रतिपाद्य ( ह्ब्ट् 110 ) उपसंहरन्नाह- "तेन सहकारिण" इत्यादि । येन- प्रत्ययान्तरप्रचये तद्विकलसामग्र्याः सामग्र्यन्तरं सम्पद्यते, तच्च पूर्वसामग्रीजन्याद् भिन्नं कार्यान्तरमेव जनयति ; एकसामग्रीव्यपदेशविषयाणां च सहकारिणामनेकत्वे ऽप्यनेकस्यैकक्रियविरोधाभावात् तदन्वयव्यतिरेकानुविधायिनश्च कार्यस्यैकस्य दर्शनात् स्वभावत एकत्वं साधितम्- तेन कारणेन सहकरणशीला एकसामग्र्यन्तर्गताः प्रत्ययाः सामग्र्यन्तरैः सह "नैकोपयोगविषयाः" एक उपयोगस्य विषयो येषां ते न भवन्ति, सामग्र्यन्तरैरेव सह भिन्नोपयोगविषयत्वस्य न्यायबलात् प्रतीतेः । अनेन यत् प्राग् विकल्पितं ‘यदि कारणशब्देन सामग्री भण्यते तदा तद्भेदादस्त्येवातत्सामग्रीजन्येभ्यः कार्यस्य भेद इउति किमुच्यते- न कारणभेदाद् भेदः स्यात्ऽ; इति एतदुदा हरणोपदर्शितं निगमितम् । अथ कारणशब्देन सामग्रीव्यपदेशविषयाः सहकारिण उच्यन्ते तदा तद्भेदादनेकत्वलक्षणात् कार्यस्यानेकत्वलक्षणो भेदो नेष्यत एव, अनेकस्यैकक्रियाविरोधाभावात्, एकस्यानेकत उत्पत्तिदर्शनाच्चेति मृत्संस्थानयोरेकात्मकतोपदर्शितं निगमयति- ‘कार्यस्वभावस्यऽ; मृत्संस्थानात्मन ‘एकत्वे ऽपिऽ; नानात्वाभावे ऽपि ‘वस्तुतःऽ; परमार्थतः कल्पनाबुद्धौ मृत्संस्थानयोर्भिन्नयोरिव प्रतिभासने ऽपीति ।
एवम् उदाहरणे सामग्रीभेदात् कार्याणां भेदो नैकसामग्रीविषयप्रत्ययभेदादनेकत्वं कार्यस्येति प्रतिपाद्य प्रकृते चक्षुरादौ योजयन्नाह- "यथा इहो" दाहरणे "कारणभेदः" सामग्रीभेदः कुलालविकलमृत्पिण्डतत्सहितसूत्राधिकसामग्रीत्रितयलक्षणो ‘भिन्नेषुऽ; नानास्वभावेषु ‘विशेषेषुऽ; इष्टकादिचक्राविभक्तघटतद्विभक्तघटलक्षणेषूपयोगा "न्नैककार्यः" किन्तु भिन्नकार्य एव, "तथा" तेनैव प्रकारेण चक्षुरादिभ्यो विज्ञानस्योत्पत्तौ सामग्र्यन्तरात् सामग्रीलक्षणकारणभेदो ऽनेककार्य इत्युन्नेयः ।

एतदेव विभजन्नाह- "तथाहि" इत्यादि । या चक्षूरूपरहिता समनन्तरप्रत्ययाख्याविज्ञानलक्षणा प्रत्ययान्तरसापेक्षा सामग्री, ततो विज्ञानस्य विकल्पकस्येतरस्य वा तदुपादेयत्वेन या बोधरूपतोपलब्धा सा चक्षुर्विज्ञानस्यापि भवति । "तस्यैव" चक्षुर्विज्ञानस्य । कीदृशस्य? । "उपलम्भात्मनः सतो भवतः" जायमानस्य तदैव तदेककार्यप्रतिनियतस्य चक्षुरिन्द्रियस्य सन्निधानात् समनन्तरप्रत्ययोपादानोपकृतात् ततो "रूपग्रहणप्रतिनियमो" रूपाकारताप्रतिनियमः, शब्दाद्याकारविवेकवत एवं (व) कार्यस्य चक्षुःसहितसमनन्तरप्रत्ययसामग्र्याः जनकत्वाद् । "विषयाद्" विषयाधिकात् समनन्तरप्रत्ययादिन्द्रियाच्च "तेन" विषयेण "तुल्यरूपता" न केवलैव रूपप्रतिभासिता भ्रान्तविज्ञानस्येवेति विषयेन्द्रियमनस्कारलक्षणसामग्रीकार्यमेवं प्रदर्शितम् । तदन्यदेकद्वयजन्यं तु कार्यं स्वयम्भूह्यम् । अत्राभिन्नत्वे ऽपि वस्तुतः "कार्यस्य" चक्षुर्विज्ञानलक्षणस्य "कारणानां" विषायेन्द्रियमनस्काराणां भिन्नेभ्यः स्वभावेभ्यः केवलानामेषां यः स्वभावस्ततो भिन्ना एवातज्जन्येभ्यो विधिशे (न्येभ्यो ऽपि विशे)षा बोधरूपतादिलक्षणा "भवन्ति" । अतज्जन्यापेक्षया चैकात्मका अपि बहुत्वेन निर्दिष्टाः । यत एवम् "इति" तस्मात् न कारणभेदे ऽपि । यथैकसामग्र्यन्तर्गतप्रत्ययभेदे ऽप्यभेदो नैवं सामग्रीलक्षणकारणभेदे ऽप्यभेदः सामग्र्यन्तरजन्येभ्यः "कार्यविशेषस्य" विशिष्टस्य कार्यस्येति ।
तेन यदुच्यते- ‘यदि सहकारिणां भेदे ऽप्यभिन्नं कार्यं भवति सामग्रीभेदे ऽप्यभिन्नमस्तु, अथ सामग्रीभेदाद् भिन्नं भवति सहकारिभेदादपि किमिति भिन्नं न भवति विशेषाभावात्?ऽ; इति तदपास्तं भवति । तथा हि- परस्परोपसर्पणाद्याश्रयात् प्रत्ययविशेषादेककार्योद्देशेनेतरेतरसन्तानोपकाराच्च सहकारिणां प्रतिनियतशक्तिनामुदयादेकं कार्यं समाजायते । सामग्र्यन्तरस्य ( ह्ब्ट् 112 ) तु कार्यान्तरप्रभवशक्तिनिबन्धनेभ्यो हेत्वन्तरेभ्यः स्वभावभेदवतो भावाद् भिन्नकार्यप्रसूतिरिति कुतो विशेषाभावः? ।
[33. जनकत्वमेवाधारत्वं न तु स्थापकत्वम् ।]
ननु च सर्वं कार्यं साधारं यथा उपादायरूपम् । तद्धि भूतेभ्यो जायमानं तान्येवाश्रयत इति भवद्भिरिष्यते । तथान्यदपि विज्ञानादिकं कार्यम् । अतो ऽनेनापि किञ्चित् कारणमाश्रयणीयम् । तस्य च कारणस्य पूर्वं जनकत्वं पश्चात् कार्यं प्रत्याधारभाव एव, न जननम्, ततस्तत्स्वभावस्य जननादित्यनेकान्तः तदवस्थ एवेत्यत आह- "त एवैते" ये ऽनन्तरमुक्ताः "कारणशक्तिभेदाः" कारणानां शक्तिविशेषाः । कीदृशाः? "यथास्वं" येषां कारणशक्तिभेदानां सहकारिलक्षणानां यदात्मीयं सामग्र्यन्तरजन्यात् प्रतिविशिष्टं कार्यं तस्य जनने ऽव्यवधेया व्यवधातुं प्रतिबन्धुमशक्या शक्तिर्येषां तद्भावस्तया " अव्यवधेयशक्तितया" अवश्यं कार्यकारिशक्तितया "प्रत्युपस्थिताः" उद्युक्ताः सन्तः "सामग्रीकार्यस्य" एकप्रत्ययजनितस्य कस्यचिदभावात् सर्वं सामग्र्या एव कार्यमिति कृत्वा सामग्रीकार्यस्य स्वभावस्थित्याश्रय इत्युच्यन्ते । कस्मात् पुनरव्यवधेयशक्तिता? "क्षणिकत्वात्" । नहि क्षणिकस्य शक्तिः प्रतिबन्द्धुं शक्यते, स्वभावान्तरोत्पादने यावत्प्रतिबन्धको व्याप्रियते तावत् क्षणिकस्य स्वकार्यं कृत्वैव निरोधात् ।
कथं पुनरसमानकालं कारणमाधारो युज्यते?, इत्यत आह- "तथा हि" इत्यादि । यस्मात् "तत्" विज्ञानलक्षण कार्यं "तेभ्यः" चक्षुरादिभ्य "समस्तभ्यो" बोधरूपतया तदन्यस्मात् तदजन्यात् "प्रतिविशिष्टस्वभावमेकं" खण्डशः कार्यस्यानुत्पादादेकैकस्मात् सकलस्यैव भावादेकं जातम्, तस्मात् ते आधारा उच्यन्ते । नहि जनकादन्य एवोपकारकः । न चानुपकारक आधारः, ( ह्ब्ट् 113 ) अतिप्रसङ्गात् । ततो भिन्नकालस्याधारभावो न विरुध्यते । यदपि भूतानामुपादायरूपं प्रत्याश्रयत्वमुच्यते तदपि स्वदेशस्यास्य जनकत्वमेवेति न किञ्चित् प्राग्जनकं भूत्वा पश्चात् स्थापकतामुपैति, यतो ऽनेकान्तः स्यादिति ।
[34. अतिशयोत्पादनं न सहकारित्वं किन्तु एकार्थकारित्वम् ।]
पुनरन्यथा तत्स्वभावस्य जननादित्यनेकान्तोद्भावनं परस्याशङ्क्याह- "अप्रतिरोधशक्तिकेषु" अविद्यमानः प्रतिरोधःप्रतिबन्धो यस्याः शक्तेः सा येषाम् । अप्रतिरोधशक्तिकत्वं चानन्तरकार्यत्वात् । ये ह्युत्पन्नाः कालक्षेपेण कार्यं कुर्वन्ति तेषां स्यादपि शक्तिप्रतिबन्धो, न तु य उदयानन्तरमेव कार्यं कुर्वन्ति । अनेन क्षणक्षयिणामुपघातकाभावमाह । अनुग्राहकविरहमप्याह- "अनाधेयविशेषेषु" । तच्चानाधेयविशेषत्वं "क्षणिकेषु" इत्यनेनाह । नहि क्षनिकानां विशेष आधातुं शक्यते, विशेषाधायकेन तत्सहभाविना तदनन्तरं तदुत्पादनात् । तदा च तस्य निरोधात् । तेष्वेवंविधेषु "प्रत्ययेषु परस्परं कः सहकारार्थः" येन सहकारिण उच्यन्ते? । नन्वनाधेयविशेषत्वेनैव सहकारित्वाभावः प्रतिपादित इति किमर्थमिदमप्रतिरोधशक्तिकेष्विति? । नहि शक्तिप्रतिरोधकः सहकारि भण्यते । सत्यम् । सर्वथा तु तत्राकिञ्चित्करत्वज्ञापनार्थमेतदुक्तम् । शक्तिप्रतिबन्धकापनयनेन चोपकारित्वकल्पनां सहकारिणां निरस्यति । तस्मादतिशयाधायिनः सहकारिणो ऽसम्भवात् क्षणिकानां स्वहेतुमात्रप्रतिबद्धमेव जनकत्वम् । तच्चैवंविधं सर्वदास्ति । न च केवला जनयन्तीति तत्स्वभावस्य जननादित्यनेकान्त एवेति मन्यते ।
एतत् परिहरति- "न वै" नैव अतिशयोत्पादनं सहक्रिया यतस्तदभावात् सहकारिणो न स्युः । क्व पुनरतिशयोत्पादनं सहक्रिया प्रत्ययानां न भवति? । "सर्वत्र" । नहि क्वचिदपि सहभाविनामतिश्योत्पादनलक्षणा सहक्रिया सम्भवति । ( ह्ब्ट् 114 ) का तर्हि सहक्रिया? इत्याह- "एकार्थकरणम्" एककार्यनिष्पादनं यद् "बहूनाम्" । "अपिः" सम्भावनायाम् । न्यायबलादेवंविधामेव सर्वत्र सहक्रियां सम्भावयामः, नान्यमिति । अत्रोदाहरणम्- "यथा अन्त्यस्य" अनन्तराङ्कुरादिकार्यस्य "कारणकलापस्य" प्रत्ययसामग्र्या इति ।
[35. एककार्यकारित्वमेव मुख्यं सहकारित्वमितरत्तु गौणम् ।]

स्यादेतत्- औपचारिकमेतत् सहकारित्वम्, अतिशयोत्पादनमेव तु मुख्यम् इत्यत् आह- "तदेव" एककार्यकरणलक्षणं "मुख्यं सहकारित्वम्" नातिशयोत्पादनलक्षणम्, तस्यैव गौणत्वात् । एतच्चोत्तरत्र वक्ष्यते । कुत एतत्? इत्याह- "तस्यैव अन्त्यस्य" विवक्षितकार्यं प्रति "कारणत्वात्" । कारणस्य च सहकारिव्यपदेशः नाकारणस्य । यतः सह- युगपत् कुर्वन्तः सहकारिण उच्यन्ते, अन्त्यश्च कारणकलाप एवंविध इति । यथा चान्त्यस्यैकार्थकरणं सहकारित्वम् एवं पूर्वस्यापि कारणकलापस्योत्तरोत्तरविशिष्टक्षणान्तरारम्भिण इत्यवसेयम्, अन्त्यस्योदाहरणतया निर्द्देशात् । तस्मात् सर्वं कार्यमङ्कुरादिकं विशेषलक्षणं वानेकप्रत्ययजन्यमिति । सर्वत्रैकार्थक्रियैव चोपचीयमानापचीयमानकार्यकारिणः कारणकलापस्य सहकारित्वम्, न विशेषोत्पादनमिति ।
स्यादेतत्- एकार्थकरणमपि तत्र सहकारित्वमस्तु अतिशयोत्पादनलक्षणमपीत्यत आह- "तत्र च" क्षणे ऽन्त्ये "विशेषस्य कर्तुमशक्यत्वात्" नातिशयोत्पादनमपि सहकारित्वम् । कुतो विशेषस्य कर्तुमशक्यत्वम्? इत्यत आह- "एकस्य" अनंशस्य "स्वभावस्याविवेकात् । न हि तत्र ‘अयमनाहितातिशयो भागः स्वहेतुभ्यो जातः, अयं तु सहकारिभिराहितातिशयःऽ; इति विवेको ऽस्ति । यदि नामविवेकः, विशेषस्तु किमिति न क्रियते? इत्यत आह- "स्वभावान्तरोत्पत्तिलक्षणत्वाद् विशेषोत्पत्तेः", निर्भागे च कुतः स्वभावान्तरस्य व्यवस्था? ।
स्यान्मतम्- भिन्नस्वभाव एवान्त्यस्य विशेषो ऽस्तु इत्यत आह- "भवान्तर"- इत्यादि । यदि भावान्तरलक्षणो विशेषो ( ह्ब्ट् 115 ) भवेत् तदा तस्यान्त्यत्वमेव हीयेत । हीयेनां (हीयतां) को दोषः? इति चेत्; "ततश्च" अनन्त्यत्वात् "न साक्षात् कारणं स्यात्" । यत एवं "तस्मान्न कारणस्य" मुख्यस्य "सहकारिभ्यः" सकाशाद् "विशेषस्योत्पत्तिः" इत्येकार्थक्रियैव सहकारित्वमिति ।
नन्वसत्यां सहकारिभ्यो विशेषोत्पत्तौ कार्यजनने सामर्थ्यमेषां न युज्यत इत्यत आह- "ते समर्थाः" इत्यादि । यदि हि ते स्वभावेनासमर्था उत्पद्येरन् तदैषां सहकारिभ्यः सामर्थ्योत्पत्तिरभ्युपगम्येत । यावता "ते ऽन्त्याः स्वभावेनैव समर्थाः प्रत्ययाः सहिता जायन्ते" क्षणमात्रविलम्बिनो । "येषा"मेकक्षणनियतत्वात् ततः "प्राक्पश्चात्पृथक्त्वभावो नास्ति । येभ्यश्चानन्तरमेव कार्यमुत्पद्यते" न कालान्तरेण "तत्र" तेष्वेवंविधेषु "एकार्थक्रियैव सहकारित्वम्" नातिशयोत्पादनलक्षणम् ।
स्वभावतः सामर्थ्यस्य भावविरोधात्, परस्परतश्चानभ्युपगमात् समर्थस्य जन्मैवायुक्तमिति मन्वानः परः आह- "समर्थः कुतः" इत्यादि । सिद्धान्तवाद्याह- "स्वकारणेभ्यः" इति । परमतापेक्षया तु स्वभावत इत्युक्तम् । परो ह्यत्यन्तस्य (ह्युत्पन्नस्य) कारणस्य सहकारिभ्यः सामर्थ्यमिच्छतीति तन्निषेधपरं स्वभावत इति वचनम् । न तु स्वभावतः किञ्चिज्जायते, तस्याहेतुकत्वप्रसङ्गात् ।
[36. क्षणिकेष्वेकार्थक्रियानियमस्य व्यवस्थापनम् ।]
एकार्थक्रियानियम एव क्षणिकानामयुक्तः, केवलानामप्यंत्यक्षणसरूपाणां दर्शनात् । तथाहि- ‘इदमेवंरूपं नैव चऽ; इति दर्शनादर्शनाभ्यां विभज्यते । तत्र यादृशः क्षित्यादयस्तदन्यप्रत्ययसन्निधावुपलभ्यन्ते तादृशा एव केवला अपि । ततस्तदन्यसहिता इव केवला अपि समर्थमङ्कुरजनने स्वं स्वं क्षणान्तरमारभेरन् । ततः केवलस्याप्यङ्कुरादिजननस्वाभाव्यादजननाच्च ‘तत्स्वभावस्य जननात्ऽइत्यनेकान्त एवेति मन्यमानः पर ( ह्ब्ट् 116 ) आह- "तानि" स्वकारणानि क्षितिबीजादीनि "एनं" समर्थम् "अपरस्य" अन्यस्य प्रत्ययस्य "सन्निधान एव किं" कस्मात् "जनयन्ति"? न केवलानि?, सहितानामेव सर्वदा सम्भवात् इति चेत् आह- "कदाचित्" कस्मिंश्चित् काले "अन्यथापि" केवला अपि "स्युः" भवेयुः । तथा हि- दृश्यन्त एवाध्यात्मिकबाह्याः क्वचित् कार्ये यादृशा यत्सहिताः तादृशा एव तद्रहिता अपीति । जनयन्तु केवला अपि सम्भवन्तः समर्थम्, को दोषः? इति चेदाह- "ततश्च" केवलानामपि समर्थजनकानां सम्भवात् "एको ऽपि" न केवलमनेकः "क्वचि" द्देशादौ समर्थः उत्पन्नः क्षितिबीजादोइरङ्कुरादिकार्यं "जनयेत्" यदि तत्स्वभावस्यावश्यं जनकत्वम् । न च केवलो जनयति तत्स्वभावसम्भवे ऽपि ततो ऽनेकान्तः इति परः ।
एतत् परिहरन्नाह- "अपरापर- " इत्यादि । अपरैश्चापरैश्च कुशूलतदपनेतृपुरुषप्रयत्नपिटकादिप्रक्षेपक्षेत्रनयनप्रकिरणादिभिः "प्रत्ययै"र्यो "योगः" तेन कारणेन "प्रतिक्षणं भिन्नशक्तयो" न कदाचित् पूर्वापरकालभाविन एकशक्तयः अपरापरप्रत्यययोगलक्षणहेतुभेदे ऽप्यभिन्नशक्तितायामहेतुकत्वप्रसङ्गात् । अन्यत्रापि च शालियवबीजादौ शक्तिभेदस्य हेतुभेदनिबन्धनत्वात् ।
"संस्काराः" समेत्य सम्भूय च प्रत्ययैः क्रियमाणाः "सन्तन्वन्तः" सन्तानेन भवन्तो "यद्यपि कुतश्चित् साम्याद्" वर्णेन संस्थानेन अन्येन वा केनचित्प्रकारेण सादृश्यादेकाकरपरामर्शप्रत्ययजननलक्षणात् समानं रूपमेषामिति "सरूपाः" सदृशाः "प्रतीयन्ते" प्रत्यभिज्ञायन्ते "तथापि" कृत्रिमाकृत्रिमाणामिव मणिमुक्तादीनामपरापरप्रत्ययोगलक्षणसामग्रीभेदाद् "भिन्न एव" विसदृश एव न प्रत्यभिज्ञानवशादभिन्नः तुल्यरूप "एषां" बीजादीनां "स्वभावः" यत एवं "तेन" भिन्नस्वभावत्वेन भिन्नशक्तितया वापरापरसामग्रीजन्यत्वेन क्षणानां सिद्ध्या "किञ्चिदेव" क्षितिबीजादिकं "कस्यचि"देव कार्यस्याङ्कुरादेस्तज्जननसमर्थस्य ( ह्ब्ट् 117 ) वा "कारणम्" । न सर्वं सर्वस्य । तथा च व्यग्राणां क्षितिबीजादीनामङ्कुरजननस्वभावता समर्थक्षणजाननस्वभावता वा नास्त्येवेति तत्स्वभावस्य जननादजनकस्य चातत्स्वभावत्वादित्यत्र नानेकान्तः यतो यो यत्स्वभावः स स्वहेतोरेवोत्पद्यमानः तादृशो भवति न पुनस्तद्भावे हेत्वन्तरमपेक्षत इत्यत्रानेकान्तः स्यादिति । प्रत्यभिज्ञानस्य च सरूपताविषयस्य सामग्रीभेदादनुमितभिन्नशक्तिस्वभावत्वेन बाध्यमानतया प्रामाण्याभावात् न ततः सरूपतासिद्धिः क्षणक्षयिणामिति ।
पूर्वं च ‘अत एवान(एव त)योरवस्थयोर्वस्तुभेदो निश्चेयः इत्यादिना एकत्वविषयं प्रत्यभिज्ञानं निरस्तम् । अधुना तु तुल्यस्वभावताविषयमिति भेदः । एतदपि तत्र ‘अपरापरोत्पत्तेःऽ; इत्यनेनोक्तमेव । विपञ्चनार्थं तु पुनः इह उपन्यस्तम् ।
[37. क्षणिकेषु हेतुफलभावव्यवस्थायाः कथनम् ।]

किञ्चिदेव कस्यचित् कारणम् इत्युक्तम् तत्र किं कस्य कारणमिति शक्यपरिच्छेदमप्याध्यात्मिकेषु तावद् दर्शयन्नाह- "तत्र" इत्यादि । "तत्र" तेषु प्रतिक्षणं शक्तिस्वभावेषु क्षणिकेषु भावेषु । व्यवधानं- व्यवधीयते यन, तदादिर्येषां अतिदूरात्यासन्नत्वादीनां ते ऽविद्यमाना यस्मिन् देशे सो ऽव्यवधानादिः देशो यस्य सो ऽव्यवधानादिदेशः, रूपमिन्द्रियं चादी यस्य मनस्कारादेः स रूपेन्द्रियादिः स चासौ करणकलापश्च सामग्रीलक्षणस्तथोक्तः, अव्यवधानादिदेशश्चासौ रूपेन्द्रियदिकारणकलापश्च स"विज्ञानजनने समर्थो हेतुः" नान्यः, तद्भाव एव तस्य भावात्, अन्यभावे ऽपि चाभावात्, एतन्मात्रनिबन्धनत्वाच्च समर्थासमर्थव्यवस्थायाः । "यस्तेषा" मिन्द्रियादीनां "परस्परोपसर्पणस्य" अन्योन्यढौकनस्य । "आदि" ग्रहणाद् व्यवधानापनयना.................................................................................................................... [सा]मग्र्यधीनत्वेनासंवादिति ।
इममेवंविधं हेतुफलभावप्रतिनियमं निरवद्यमाध्यात्मिकेषु दर्शितम् अन्यत्राप्यतिदिशन्नाह- "अनेन न्यायेन" इत्यादि । यो ऽयमनन्तरं हेतुफलभावप्रतिनियमे न्याय उक्तः सो ऽन्यत्रापि "सर्वत्र" द्रष्टव्यः । सर्वत्रेति वचनात् अक्षणिकेष्वपि प्रतीतिर्मा भूत् इत्याह- "प्रतिक्षणम्" इत्यादि । याः क्षणे क्षणे ऽन्याश्चान्याश्च स्वभावभेदान्वयिन्यः शक्तयो भवन्ति तत्रायमेकार्थक्रियाप्रतिनियमः सहकारिणां द्रष्टव्यः । न तु ये स्थिरैकस्वभावा भावाः परैः कल्प्यन्ते तेष्वपि । स्थैर्यं सन्तानाश्रयेणापि व्यपदिश्येतेत्येकग्रहणम् । क्षणे ऽप्येकत्वमस्तीति स्थिरग्रहणम् ।
[38. अक्षणिके एकार्थक्रियाकारित्वस्याभावः ।]
कस्मात् पुनः स्थिरैकस्वभावेषु नेष्यते? इत्याह- "स्वभाव- " इत्यादि । कामं भावः स्वयं न भवेत् । न तु स्वत एव स्वभावस्यान्यथात्वं सम्भवति । ततश्च स्थिरः पदार्थो यदि कार्योत्पादनसमर्थस्वभावः ततो ऽस्याक्रिया नोपपद्यते इति सर्वदैव कुर्यात् । अथासमर्थस्वभावः । तदापि क्रियानुपपन्ना, सर्वदैव न कुर्यादिति भावः । यत्तु कदाचित् करोति कदाचिन्न इत्येतन्न लभ्यते । ततश्चाक्षणिकानां तत्कार्यक्रियासमर्थस्वभावत्वे सहितासहितावस्थयोरेकरूपत्वात् केवलानामपि तत्कार्यक्रियाप्रसङ्गेन कुत एकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं सम्भवेत्? ।
अत्र पर आह- "अन्यसहितः" इत्यादि । यद्यपि केवलस्यप्यक्षणिकस्य समर्थः स्वभावः तथापि अन्यसहितः करोति न केवलः । अयमपि ह्यस्य स्वभावः यद्- ‘अन्यसहितेन स्वकार्यं कर्तव्यम् न समर्थस्वभावेनापि सता केवलेनऽ; इति ।
सिद्धान्तवाद्याह- "किं केवलस्य" इत्यादि । अन्यसहितेनैव स्वकार्यं कर्तव्यं न केवलेन इत्येतत् केवलस्यासमर्थस्वभावत्वे युज्यते नान्यथेति मन्यमानस्य प्रश्नः । परस्त्वनवगताभिप्राय आह- "समर्थ" इति । केवलस्याप्यक्षणिकस्य समर्थ एव स्वभावः ( ह्ब्ट् 119 ) अन्यथास्याक्षणिकतैव हीयेतेति । सिद्धान्तवाद्याह- "किन्न करोति" इति । नहि समर्थस्याक्रिया, सहितस्यावस्थायामिव युज्यत इति सहितस्यैव क्रियामिच्छता केवलस्यासमर्थस्वभावतैवोपगन्तव्या ।
अथ मतम्- केवलस्य यदि शिरश्छिद्यते तथापि न करोतीत्यत आह "अकुर्वन्" इत्यादि । कार्यानुमेयं हि सामर्थ्यं न च केवलस्य कदाचिदपि कार्यक्रियास्तीति कथं सामर्थ्यं कल्प्यते? । नायं नियमः यत् समर्थस्वभावेनावश्यमेव कार्यं कर्तव्यम्, अन्यथापि दर्शनात् इति मन्यमान अह परः- "कुविन्दादयः" इत्यादि । सिद्धान्तवाद्यपहसन्नाह "क्रीडनशीलः" इत्यादि । देवानांप्रियः ऋजुः मूर्खो व सुखसंवर्द्धितत्वात् रमणस्वभावः, क्रीडनं बालधर्मः, तत्साधर्म्येण प्रज्ञावैकल्यं दर्शयति, सुखैधितत्वेन शास्त्रेष्वनभियोगम् । यो ह्यनभियुक्तो दुर्बुद्धिश्च स "कृतमपि" वस्तु विस्मरणप्रकृतित्वात् पुनः पुनः "कारयतीति" पुनः प्रतिविधापयति । क्व पुनरेतत् प्रतिविहितम्? इत्याह- "तथाहि"- इत्यादि । ‘बीजादिवदनेकान्तःऽ; इत्यनेन प्रस्तावेन निर्ल्लोठितमेवैतत् ।
तदेवमक्षणिकस्य समर्थस्वभावत्वे सहितस्यैव कार्यक्रियास्वभावत्वविरोधात् केवलस्याक्रियानुपपन्नेति प्रतिपाद्योपसंहरन्नाह- "तस्मात् तत्स्वभावस्य" कार्यक्रियासमर्थस्य "अन्यथात्वासम्भा(म्भ)वात्" कदाचिदसमर्थत्वाभावात् "तद्धर्मणः" कार्यक्रियाधर्मणः तथाभावः कार्यक्रिया "अन्त्यावस्थावत्" सहितावस्थायामिव "अनिवार्यः ।
[39. मीमांसकसंमतस्य भावस्वभावरूपसामर्थ्यस्य निरासः ।]
स्यान्मतम्- केवलो ऽयमक्षणिको ऽसमर्थ एव । ततः केवलो न करोति, सहितावस्थायां त्वस्य सामर्थ्यं सहकारिभ्यो जायते । ततः सहित एव करोतीत्यत आह- "अन्त्यावस्थायां सामर्थ्योत्पत्तौ" कीदृशस्य "प्रागसमर्थस्य" सतः "तस्य सामर्थ्यस्य" यस्य तदुपजायते "तत्स्वभावत्वे" मीमांसकादिभिरिष्यमाणे । ( ह्ब्ट् 120 ) नहि तेषां समर्थस्य सामर्थ्यस्य च स्वभावभेदो ऽभिमतः । कथञ्चित् तद्भेदे ऽपि तत्स्वभावतयैव प्रतीयमानत्वादिति ते मन्यन्ते । "अपूर्वोत्पत्तिरेव सा" अपूर्वस्यैव वस्तुनः सा उत्पत्तिर्या तत्स्वभावस्य सामर्थ्यस्य । नह्येकस्वभावत्वे सामर्थ्यमेवापूर्वमुपजातं न समर्थः इति युक्तम्, तयोः स्वभावभेदप्रसङ्गात्, विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् ।
ननु प्रतीयमाने एव सामर्थ्यतद्वतोरुत्पत्त्यनुत्पत्ती एकस्वभावता च कथं निन्होतुं शक्यते? इति चेत् । न । अप्रमाणेन प्रतीतेः, अन्यथा प्रतीत्यनुसारिणा भवता द्विचन्द्रादयो ऽपि न निन्होतव्याः । बाधकप्रमाणसम्भवात् ते ऽपन्हूयन्त इति चेत् । इहापि वस्तुन एकस्वभावस्योत्पत्त्यनुत्पत्ती परस्परविरुद्धे बाधिके किं नेष्येते? । व्यवस्थितस्यैव वज्रोपलादेर्द्धर्मिणः तत्स्वभावं सामर्थ्यमुत्पन्नमिति च पुर्वापरकालयोरप्रतिभासमानविवेकः कथं प्रतीयात्? ।
विज्ञानादिकार्यस्यानुत्पत्तियौगपद्योदयप्रसङ्गात् चक्षुरादिसान्निध्ये प्रागसत् तत् सामर्थ्यमुत्पन्नं क्रमवच्चेति निश्चय इति चेत् । यद्येवमेकाकारतया पूर्वापरकालयोरधिकृतं प्रत्यभिज्ञानमुपजायमानमपूर्वसामर्थ्यप्रतिभासविविक्तोपलादिग्राह्यप्यनुमानादर्थापत्तितो वा बाधामनुभवन्न प्रमाणमित्युपगतं स्यात् । तथा, उत्पत्त्नुत्पत्त्योरेकस्वभावतायां विरोधात् समर्थस्यैवापूर्वस्योत्पत्तिः सदृशापरभवग्रहकृतश्चार्वाग्दर्शनानामेकत्वविभ्रमो लूनपुनर्ज्जातेष्विव केशनखादिष्विति किं नेष्यते? ।
[40. नैयायिकाभिमतस्य भावास्वभावरूपसामर्थ्यस्य निरासः]

अथ सामर्थ्यं सहकारिप्रत्ययसान्निध्यलक्षणमेवेत्यतत्स्वभावमिति नापूर्वोत्पत्तिप्रसङ्ग इति नैयायिकादयो मन्येरन् अत्राह- "अतत्स्वभावत्वे" सामर्थ्यस्येष्यमाणे "स" बीजादिः पदार्थः "प्रागिव" तद्रूपापरित्यागात् "पश्चादप्यकारक एव" । ( ह्ब्ट् 121 ) कुत? । सामर्थ्यमित्याख्या यस्य पदार्थान्तरस्य सहकारिप्रत्ययसान्निध्यलक्षणस्य स एवातिशय[शब्द]वाच्य इति नैयायिकैरभ्युपगमात् । तत एव तद्भावभावित्वेन कार्योत्पत्तेः । ते ऽपि सहकारिणः प्रत्ययाः यद्यक्षणिकाः तेष्वप्येवं प्रसङ्गो ऽनिवारित एवेति क्षणिकतेवैकार्थ[क्रिया]प्रतिनियमलक्षणं सहकारित्वमिच्छतो ऽभ्युपेया ।
पुनरप्यक्षणिकानामेकार्थक्रियाप्रतिनियमं निराकर्तुमुपचयहेतुमाह- "अपि च" इत्यादि । यो ऽसावक्षणिको भावः सकलेषु सहकारिषु स्वकार्यं करोतीतीष्यते, स तदैव तावत् कस्मात् करोति? । येन हि कारणेन तत्कार्यक्रियास्वभावत्वेन तदा करोति तेने(नै)व स्थिरस्वभावत्वात् प्रागपि कुर्यात्, ततः कुतो ऽस्यैकार्थक्रियाप्रतिनियमः? इति भावः ।
"का चान्या मृग्यते युक्तिः यथा तद् दृश्यते तथा" इति सर्वत्रेयमप्रतिहता युक्तिरिति मन्यमानः कुमारिलः प्राह- "कुर्वन् दृष्टः" इत्यादि । यतस्तदैव कार्यं कुर्वम्(न्) दृष्टो मया "तेन दर्शनबलेन करोतीति ब्रूमः", किमत्रान्ययोपपत्त्याभिहितया?, प्राक् तत् कुर्वन्न दृष्टः तेन न करोतीत्येकार्थ[क्रिया]प्रतिनियमः सिध्यति अक्षणिकानामपीति । भावो हि कार्यं करोति तज्जननस्वभावतया न दर्शनबलेनादृष्टस्यापि स्वकार्यकरणात् अतो नेदमुत्तरं सम्बध्यत इत्युपहसन्नाह- "अहो महासमर्थ्यम्" इत्यादि । महाप्रभावस्य भवतो महसामर्थ्यं दर्शनम्, यस्मादेतद्भावान् कार्यकरणस्वभावविकलानपि- यदि कार्यकरणस्वभावत्वाद् भावाः कार्यं कुर्युः तदैतदेवोत्तरं किं नोक्तम्?, यतः कार्यकरणे दर्शनमुत्तरीकृतमिति कृत्वा- "स्वभावमात्रेण" आत्मसत्तामात्रेण "नानाप्रकारेषु व्यापारेषु नियुङ्क्ते" तत् कथं महासामर्थ्यं न स्यात्? । न चात्र मे काचिदक्षमा किन्तु "यदि नाम किञ्चित्" कारणं "कथञ्चिद्" अनादृतस्य वा व्याक्षिप्तस्य वा "अत्र भवत" इति पूजावचनम् ( ह्ब्ट् 122 ) "दर्शनस्य विषयतामतिक्रामेत्" तदा "हन्त" इति दैन्योद्भावनमेतत्, अप्रसवो धर्मो ऽस्य तदिदम्- "अप्रसवधर्मकं" ततो ऽपेतसन्तानं "स्यादि"ति इयमस्माकं चिन्ता चित्तं दुनोति ।
पर आह- "न वै वयम्" इत्यादि । नैव वयं कार्यकरणस्वभावरहितानां "भावानामस्मद्दर्शनवशात् कार्यक्रियां ब्रूमः, किन्तु" स्वभावेनैव ते भावाः तत्कार्यकरणस्वभावाः, ततः स्वकार्यं कुर्वन्ति । "तान् पश्यन्तः केवलं जानीमहे" त एते कारकस्वभावा इति । दर्शनस्य हि यथावस्थितवस्तुविज्ञाने व्यापारः, नाविद्या(द्य)मानस्वभावक्रियायामिति ।
सिद्धान्तवाद्याह- "सत्यम्, इदमप्यस्ति" । किं वयं न्यायानुरागितया न्याय्यं वचनमुपलक्षयामः, उत भवानेव सर्वदा न्याय्यवचनरहितो ऽपि कथञ्चिन्न्याय्यमुक्तवान् इति सञ्जातपरितोषः पृच्छति- किं तद्? इत्याह- "स्वभावस्तेषां" भावानां "कार्यक्रियाधर्मा" कार्यकरणधर्मा "तेन" कारणेन "समस्ताः" समग्राः प्रत्ययाः सहकारिणो येषां तेषामकृत्वा कार्यं "नोपेक्षापत्तिः" नौदासीन्यप्रतिपत्तिः इति सत्यम्- इदमप्यस्ति भवतो न्याय्यं वचनमिति, किन्तु इदमसि प्रष्टव्यः- "सौ[ऽक्षेप]क्रियाधर्मा स्वभावः किं तेषां तदैवान्त्यावस्थायां" समग्रावस्थायां यदनन्तरं कार्यमुत्पद्यते तदैव "उत्पन्नः? आहोस्वित् प्रागपि" परस्परविरहावस्थायामपि "आसीत्"? ।
तत्र तदैवोत्पन्ने तत्स्वभवत्वे ऽपूर्वोत्पत्तिरेव, अतत्स्वभावत्वे सो ऽकारक एवेति प्रागुक्तदोषभयात् पर आह- "आसीत्" । कुतः? प्रच्युतश्च उत्पन्नश्च प्रच्युतोत्पन्नः, तस्य प्रतिषेधः "अप्रच्युतो ऽनुत्प(अप्रच्युतोत्प)न्नः" स्थिर एकः स्वभावो येषां भावानां तेषां कस्मिंश्चित् काले "कस्यचित्" स्वभावस्य तत्रोपलब्धस्य "अभावविरोधात्" । क्षणिकेष्वेव ह्येकदा दृष्टः स्वभावो ऽन्यदा न भवेत् तदा तस्यान्यत्वात् । नाप्रच्युतानुत्पन्नपूर्वापररूपेषु स्थिरेषु भावेष्विति ।
अत्राह- "तत् किमिदानीम्" इत्यादि । स्यान्मतम्- नैवेदमनेन वाक्येन सदृशमस्मद्वाक्यमित्याह- "को वास्य" इत्यादि । यद्येतदनेन तुल्य न भवति तदा सकलसहकार्यवस्थायाः "प्रागपि" अयम् "अक्षेपक्रियास्वभावः" अविलम्बितकार्यकरणस्वभावः "कार्यं च न करोती"त्यस्य भाषितस्यार्थो वक्तव्य इति ।
नैयायिकास्तु मन्यन्ते- भावानां सहकारिसन्निधानासन्निधानापेक्षया कारकाकारकस्वभावव्यवस्था, न स्वभावतः, तेनायमप्रच्युतोत्पन्नस्थिरैकस्वभावत्वे ऽपि न प्रागपि स्वकार्यजननस्वभावः, किन्तु सन्निहितसकलसहकारिप्रत्यय एवेति । तन्मतमाशङ्कमान आह- "सहितः" इत्यादि ।
एतन्निरस्यति- "अन्यस्तर्हि" इत्यादि । यदि नाम सहितस्य स्वकार्यजननस्वभावता, केवलस्य च तद्विपरीतरूपता, अन्यत्वं तु कस्माद्भवति? इत्यत आह- "स्वभावभेद" इत्यादि । "स्वभाव भेद एव हि भावभेदस्य लक्षणम्" । स चेत् तत्कार्यजनकाजनकरूपतया भिद्यते, शालियवबीजादीनामिव कथमिव भावभेदो न स्यात्? । नहि स्वभावादन्यो भावः यतस्तद्भेदे ऽपि न भिद्येत, निःस्वभावताप्रसङ्गात् ।
ननु चोक्तं स्वतो जनकाजनकस्वभावताविरहात् प्रत्ययान्तरभावाद्यपेक्षत्वात् जनकाजनकरूपतायास्तद्भेदे ऽपि कुतो भावभेदप्रसङ्गः?, तस्यापरापेक्षस्वभावभेदलक्षणत्वात् इत्यत आह- "नहि स साहित्ये ऽपि" इत्यादि । तदैतदुत्तरं भावत्कं सम्बध्येत यदि भावो यो ऽसौ परः सहकारित्वाभिमतः सन्निधीयते तद्रूपेण कर्ता स्यात् न स्वरूपेण । न चैतदस्ति, तथाभावे हि परमार्थतः स एव परः कर्ता स्यात् । तत्र तु कर्तृत्वव्यपदेशः कल्पनानिर्मित एव भवेत् । न च कल्पनानुविधायिन्यो ऽर्थक्रियाः । नहि माणवको दहनोपचारादाधीयते पाके । ततश्च नास्यानुपकारिणो भावमपेक्षेत कार्यमिति तद्रहितेभ्य एव ( ह्ब्ट् 124 ) सहकारिभ्यो भवेत् । यद्वा तेभ्यो ऽपि न भवेत् । तेषामपि पररूपेण कर्तृत्वे स्वयमकारकत्वात् । ततः सर्वेषामेवं स्वयमकारकत्वे पररूपेणाप्यकारकत्वात् सर्वथा कारकोच्छेद एवेति न किञ्चित् कुतश्चित् जायेत । तस्मात् स्वरूपेणैव भावः स्वकार्यस्य कर्ता न पररूपेणेति नास्योत्तरस्यावकाशः । ततो ऽन्यः सहितो ऽन्यश्च केवलः इत्येतदविचलमेवेति ।

अथ येन स्वरूपेणायं जनकस्तदस्य सहितासहितावस्थयोः सर्वदास्ति तदा स्वरूपं च स्वकार्यजनकमस्य स्थिरस्वभावस्य प्रागपि सहितावस्थायास्तदेव यत्सहितावस्थायामक्षेपक्रियास्वभावमिति तस्मात् न कथंचित् कार्यक्रियाविरामः । अथवा कदाचित् परो ब्रूयात् स्वहेतुभिरेवायं प्रत्ययान्तरापेक्षः स्वकार्यजननस्वभावो जनित इति केवलो न करोति । न चास्य सहितासहितावस्थयोः स्वभावभेदः, प्रत्ययान्तरापेक्षस्वकार्यजननस्वभावतायाः सर्वदा भावात् इत्यत आह- "नहि स साहित्ये ऽपि" इत्यादि । स्वरूपेणैवास्य कर्तृत्वात् तस्य च प्रागपि भावात् प्रत्ययान्तरापेक्षायाश्च ततो लभ्यस्यात्मातिशयस्याभावेनायोगात् उपकारलक्षणत्वादस्य, अन्यथातिप्रसङ्गात्, केवलस्य कार्यकरणमनिवार्यमिति अकुर्वतः कथं सहितावस्थाया न भेदः स्यात्? इति भावः । प्रत्ययान्तरापेक्षस्वकार्यकरणस्वभाव इत्यपि पररूपेणाकारकस्य प्रत्ययान्तरसन्निधानोपलक्षितकाले कारकत्वं न प्रागित्ययमर्थः । ततश्च कदाचित् कार्यक्रियास्वभावो न सर्वदा इति ब्रूवता कथं सर्वदा कार्यजननस्वभावतास्योक्ता भवति? । नन्वेवं स्वभावभेद एवास्य तदतत्कालयोः समर्थितः स्यात् । तस्मान्नाक्षणिकानामेकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वमिति स्थितम् ।
परः समानदोषतामापादयन्नाह- "यस्यापि" इत्यादि सुबोधम् । यदि नाम क्षणिकस्तथापि किन्न भवति? इत्याह- "उक्तं यादृशस्य" सहकारिभिरपृथग्भाविनः "क्रिया" । ‘ते समर्था ( ह्ब्ट् 125 ) एव स्वभावतो ऽन्त्याः प्रत्ययाः सह जायन्ते क्षणिका येषां प्राक्पश्चात्पृथग्भावो नास्तिऽ; इत्यत्र । "स कथमेकक्षणभावी" एकस्मिन्नेवान्त्ये क्षणे भवनशीलः "अन्यथा भवेत्" अन्त्यक्षणात् प्राक् पश्चात् पृथग्वा भवेत्? "यश्च" अन्यथा "भवति स" एवान्त्यक्षणभावी सहकारिसन्तानोपकृतस्वभावो ऽक्षेपक्रियाधर्मा "न भवतीति नायम्" अक्षणीकपक्षोदितः "प्रसङ्गः" क्षणिकपक्षे । कुतः? । "कारकाकारकयोः" इत्यादि । कारको ऽन्त्यः अकारकस्तदन्यः तयोर्यः "स्वभावः" स भिन्नो ऽपि भेदाविवक्षयैकत्वेनोक्तः । तथा कारकस्य यो हेतुरुपान्त्यः, अकारकस्यापि यो हेतुस्तदन्यः स भिन्नो ऽप्यभेदविवक्षयैवैकत्वेनोक्तः । तेन कारकाकारकयोर्यौ स्वभावौ तयोरेकत्र धर्मिणि विरोधात् । तथा तयोः स्वभावयोर्जनकौ यौ हेतू- एकः कारकस्वभावजनको ऽन्यश्चाकारकस्वभावजनकः- तयोरप्येकत्र धर्मिणि विरोधात्, अन्यत्वे सति । अकारकस्वभावजनकहेतोरुत्पन्नस्याकारकस्य स्वभावस्यान्यत्वात् "यश्च भवति स एव न भवतीति नायं प्रसङ्ग" इति ।
[41. कार्यस्यैव सहकार्यपेक्षेति मतस्य निरासः ।]
अपरस्त्वन्यथा शिररूपेष्वेकार्थक्रियाप्रतिनियमं कल्पितवान् तमुपन्यस्यति "यो ऽपि मन्यते" इत्यादि । भावस्य ह्यक्षेपक्रियाधर्मैव सर्वदा स्वभावः, न तु यथा केचिद् ब्रू(ब्रु)वते- सहकारिसन्निधानापेक्षा वस्तूनां करकस्वभावव्यवस्था, न स्वत इति । स्वतो ऽकारकत्वे पररूपेण कारकत्वायोगात् करकव्यवस्थोच्छेदप्रसङ्गात् । स एवंविधस्वभावो न कदाचित् साहित्यं स्वकार्यकरणे ऽपेक्षते यतो ऽन्यः सहितो ऽन्यश्च केवलः कारकाकारकस्वभावभेदात् स्यात् । स तर्हि सर्वदा तत्स्वभावः कार्यं किन्न करोति? इति चेत् । कार्यस्य प्रत्ययान्तरापेक्षस्वभावतया तस्मिं (स्मिन्) सर्वदा जनकत्वेनावस्थिते ऽपि केवलादभावात्, तेनात्र कार्यमेवापराध्यति, यत् तस्मिं(स्मिन्) केवले जनकतयावस्थिते ऽपि प्रत्ययान्तराण्यपेक्षत इति । ततः ( ह्ब्ट् 126 ) तदात्मनः कार्यस्य सहितेभ्य एव भावादेकार्थक्रियालक्षणं सहकारित्वमक्षणिकानामप्युपपद्यत इति । सिद्धान्तवादी पूर्वदोषानतिक्रममस्य दर्शयन्नाह- "तस्यापि" एवंवादिनः "कथं स" नित्याभिमतो भावः "केवलः करोत्येव" ‘अक्षेपक्रियाधर्मैव स तस्य स्वभावःऽ; इति वचनात् । कार्यं च सहितेभ्य एव भवति, ‘सामग्रीजन्यस्वभावत्वात् तस्यऽ; इति वचनात् । तस्मात् केवलान्न भवतीति "तदवस्थो विरोधो" यः पूर्वमुक्तः । तथाहि- यद्यक्षेपक्रियाधर्मा तदावश्यमनेन कार्यं कर्तव्यम् न चेदवश्यं करोति कथमक्षेपक्रियास्वभावः ।
अक्षेपेणा कार्यदर्शनादक्षेपक्रियास्वभावतावगम्यते नान्यथा इति पराभिप्रायाशङ्कयाह- "न केवलः" इत्यादि । नैवं मयोक्तं केवलः करोत्येवेति किन्त्वक्षेपक्रियास्वभाव इति । अत्राह- "कथमिदानीम्" इत्यादि । यदि करोत्येवेति नेष्यते कथमक्षेपक्रियास्वभाव इति कथ्यते? । अथ तथोच्यते तथा नन्वेतदेवानेन "वचसा परिदीपितम्" अभिहितं भवति । किं तत्? । करोत्येवेति । स एव ह्यक्षेपक्रियास्वभावो यः करोत्येव, यस्तु नावश्यं करोति स कथं तद्रूपः स्यत्? । यदप्युक्तं ‘कार्यस्यैवायमपराधो यत् तस्मिं (स्मिन्) जनकतयावस्थिते प्रत्ययान्तराण्यपेक्षतेऽ; इति तदप्ययुक्तम्, यतः "कार्यं" चायमक्षणिको भावः "केवलो ऽपि समर्थः सन् परं" प्रत्ययान्तरम् "अपेक्षमाणं कथमुपेक्षेत?" नैव । अनुपेक्षमाणेन किं कर्तव्यम्? । आह- "परं" प्रत्ययान्तरम् "अनादृत्य" तिरस्कृत्य एतत् कार्यं "प्रसह्य" हठात् "कुर्यात्" । क एवं सत्यस्य गुणो भवति? इति चेत्, आह- "एवं हि" परमनादृत्य हठात् स्वकार्यं "कुर्वतानेन" केवलेनापि समर्थेन सता यत् तदात्मनः केवलस्यापि "सामर्थ्यं" तद् "दर्शितं" प्रकाशितं भवति । अन्यथान्यसहितस्यैव करणात् केवलस्य च कदाचिदप्यकरणात् न ‘अयं केवलो ऽपि समर्थःऽ; इति परेषां बुद्धिः स्यात् । ततो ऽयं तिरस्कृतप्रभाव इव कथं भ्राजेत? । तस्मादयुक्तमुच्यते कार्यं प्रत्ययान्तरापेक्षमिति ।
कार्यापेक्षयापि विरोधस्य तादवस्थ्यं दर्शयन्नाह- "कार्यं परम्" इत्यादि । कार्यस्य परापेक्षां ब्रूवन् केवलात् कारणादनुत्पत्तिमस्य कथयसि, ‘स केवलो ऽपि समर्थःऽ; इतीदं वदंस्ततः केवलादुत्पत्तिं कार्यस्य ब्रूषे । एते चैकस्यैव कार्यस्य । तत् एवैकस्मात् कारणादुत्पत्त्यनुत्पत्ती परस्परविरुद्धे "कथमेकत्र" कार्याख्ये धर्मिणि "स्याताम्?" विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् । एकत्र ते ब्रूवाणो ‘माता च वन्ध्या चऽ; इत्यनेन सदृशं ब्रूष इति न पूर्वोक्तदोषान्मुच्यसे, यत एवमपि ब्रूवाणो विरुद्धमेव ब्रूते न च लक्षयति "तत्" तस्मात् "अयम्" अक्षणिकवादी क्षणिकपक्षस्यानवद्यतया तद्वादिनां निर्द्दोषतासम्पत्सु अमर्षलक्षणेर्ष्या एव शल्यं अन्तर्दुःखहेतुत्वात् तेन वितुद्यमानानि व्यथ्यमानानि मर्माणि यस्य सो "ऽयमीर्ष्याशल्यवितुद्यमानमर्मा" वराको ऽस्वस्थचित्ततया विरुद्धाभिधानमप्यलक्षयन् "विक्लवम्" आकुलं पूर्वापरासम्बद्धं "विक्रोशति" विरोदिति "इति" कृत्वा अस्वस्थचित्तवचनेष्वनादरात् तद्दोषोद्भावनस्य सुतरां दुःखोत्पादनेन क्षतक्षारनिषेकतुल्यत्वात् "उपेक्षामेव" विपश्चितानां (श्चितां) कृपाधनानाम् "अर्हतीति" ।

तदेवमक्षणिकेषु न कथञ्चिदेकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं सम्भवतीति प्रतिपाद्योपसंहरन्नाह- "तस्मादिदम्" इत्यादि । येषां हि स्थिररूपतया पृथगपि भावः सम्भवति तेषामक्षणिकानां "पृथक्" केवलानां "कार्यकरणसम्भवेन" हेतुना सहैव कुर्वन्तीति सहकारित्वनियमायोगादिदमेकार्थक्रियालक्षणं सहकारित्वं क्षणिकानामेव । तेषां स्वहेतुपरिणामोपनिधिधर्माणां परस्परोपादानसहकारिप्रत्ययैकसामग्रीजन्यानां पृथगसम्भवात् ।
[42. क्षणीकपक्षे एव एकार्थक्रियारूपसहकारित्वस्य व्यवस्था ।]
ननु अतिशयोत्पादनलक्षणमपि सहकारित्वं भावेषु दृश्यते तत् कथमुक्तं प्राक् ‘सर्वत्र नैवातिशयोत्पादनं सहक्रिया, किं तर्हि बहूनामेकार्थकरणमेवऽ; इत्यत आह- "यत्र तु सन्तानोपकारेण" इत्यादि । ( ह्ब्ट् 128 ) एकार्थक्रियालक्षणमेव सहकारित्वं सर्वत्र न क्वचिदतिशयोत्पादनं सम्भवति । यत्र तु सन्तानोपकारेण पूर्वपूर्वप्रत्ययेभ्यो विशिष्टविशिष्टतरोत्तरोत्तरक्षणजनेन भावाः सहकारिणो विवक्षितकार्यस्य हेतुतां प्रतिपद्यन्ते- यथा तण्डुलादिभ्य ओदनादिजन्मनि दहनोदकादयः, बीजादिभ्यश्चाङ्कुरादिजन्मनि पृथिव्यादयः- तत्र विशेषोत्पादनं प्रत्ययानां सहक्रियोच्यते लोके । सन्तानाश्रयेण पूर्वक्षणेभ्यो द्वितीयादिविशिष्टक्षणलक्षणं सन्तानाख्यं कार्यमाश्रृ(श्रि)त्य पुर्वोत्तरक्षणयोरेकत्वाध्यवसायेन तस्यैवायमतिशय इति न द्रव्याश्रयेण । औपचारिकमेव न तु पारमार्थिकम् । पूर्वपूर्वक्षणेभ्यस्तु स्वहेतुपरिणामोपनिधिधर्मभ्य उत्तरोत्तरविशेषोत्पत्तौ पूर्वकारणकलापस्यैकार्थक्रियालक्षणमेव तत्र परमार्थतः सहकारित्वमिति न काचित् क्षतिरिति । कस्माद् द्रव्याश्रेयेणातिशयोत्पादनं नेष्यते? । क्षणिके द्रव्ये वस्तुनि विशेषस्यानुत्पत्तेः तस्यानन्तरक्षणभावरूपत्वाद् ।
यदि तर्हि क्षनिके तण्डुलादिद्रव्ये विशेषो नोत्पद्यते, अनन्तरमप्यसौ मा भूत् । ततो यथा परस्परतो विशेषमनासादयन्तो ऽपि क्षणिकाः सहिता एव कुर्वन्ति न केवलाः, एवमक्षणिका अपि । तेनैषामेकार्थक्रियालक्षणमेव सहकारित्वं भविष्यति । न च शक्यं वक्तुम्- यो यस्य प्रागकारकः स्वभावः स पश्चादपीति । तथा हि- प्रभास्वरादपवरकं प्रविष्टस्येन्द्रियमर्थप्रतिपत्तिमकुर्वदपि पश्चात् कुर्वाणमुपलभ्यते । तदुक्तम्-
"न हि प्रविष्टमात्राणामुष्णाद् गर्भगृहादिषु ।
अर्था न प्रतिभान्तीति गृह्यन्ते नेन्द्रियैः पुनः ॥" इति ।
अत आह- "नहि तण्डुलादीनाम्" इत्यादि । विशेषानुत्पत्तौ सन्निधानस्याप्यसन्निधानतुल्यत्वात् दहनादिभावे ऽपि तण्डुलादिभ्यो नौदनजन्म स्यात् । तथा प्रभास्वरादपवरकं प्रविष्टस्य यदीन्द्रियं स्वोपकारिभ्यो ऽतिशयं क्रमेण न प्रतिपद्यते तदा प्रागिव पश्चादप्यर्थप्रतिपत्तिं नैव जनयेत् । तस्माद्यदसम्भवि ( ह्ब्ट् 129 ) कार्यं यत्र दृश्यते तस्य ततो ऽन्यत्वमेव, शालिबीजादिव कोद्रवबीजस्येति निरतिशयादन्यत्वमेव सातिशयतया तत्कार्यकारिण इति । एवं तावद् यत्र सहकारिभ्यः क्रमेण कार्यं भवति तत्रातिशयोत्पादनलक्षणमौपचारिकं सहकारित्वमेकार्थक्रियालक्षणमेव तु मुख्यं तत्रापीति प्रतिपादितम् ।
यत्र त्वक्षेपेणैवार्थसन्निधिमात्रेण सहकारिणः कार्यं कुर्वन्ति किं तत्रापि सन्तानाश्रयमतिशयोत्पादनमस्ति? इत्यत आह- "अक्षेपकारिषु" इत्यादि । ‘ये ह्यव्यवधानादिदेशा इन्द्रियादयः स्वहेतुभ्यो जातास्तेष्वविलम्बितकारिषु न विशेषोत्पत्तिः परस्परतः सम्भवति, क्षणिकत्वात्ऽ; इत्युक्तं प्राक् ।
यदि न विशेषोत्पत्तिः तदा कथं निर्विशेषा ज्ञानस्य कारणीभवन्ति? इत्यत आह- "तत्र यथास्वं" यस्य ये आत्मीयाः प्रत्ययाः तैः, "परस्परोपसर्पणव्यवधानादिविरहादेराश्रयभूतैर्ये जाताः" योग्यश्चासावत्यासन्नत्वातिविप्रकर्षविरहाद् देशश्च स आदिर्यस्याव्यवहितदेशादेः तत्रावस्थानमवस्था येषां "ते सह स्वभावनिष्पत्त्या" स्वभावनिष्पत्तिर्विद्यत इत्येव कृत्वा "ज्ञानहेतुतां प्रतिपद्यन्ते" तत्र किं परस्परतो विशेषोत्पत्त्या प्रार्थितया? । यदि हि स्वहेतुभ्य एव परस्परोपसर्पणाद्याश्रयेभ्यः स्वकार्यजननक्षमा योग्यदेशाद्यवस्थानलक्षणविशेषयोगिनो नोत्पद्येरन्, तदैषां परस्परतो विशेषोत्पत्तिः प्रार्थ्येत, न तु स्वहेतुभ्य एव तथाविधानामुत्पत्तौ । यत एवं "इति" तस्मात् "तत्र"तेषु अक्षेपकारिष्विन्द्रियादिषु "एकार्थक्रियैव" मुख्यं "सहकारित्वं" न सन्तानाश्रयेण व्यवस्थाप्यमानमतिशयोत्पादनलक्षणं गौणमिति ।
अथ विशेषोत्पादनलक्षणं सहकारित्वं कथं न व्यवस्थाप्यते? । तदपि हि लोके प्रतीतत्वाद् व्यवस्थापनीयमेवेत्यत आह- "यत्र तु" कार्ये नाव्यवधानादिदेशोपनिपातमात्रेणैवेन्द्रियादय इव सहकारिणः प्रत्ययतां प्रतिपद्यन्ते, किन्तु विवक्षितकार्योत्पादानुगुणं ( ह्ब्ट् 130 ) प्रतिक्षणं प्रकृष्यमाणं विशेषमुत्पादयन्तः "तत्र" कालक्षेपभाविनि कार्ये कर्तव्ये "हेतुसन्तानो"ऽपरापरक्षणभावलक्षण आत्मातिशयासादनार्थं सहकारीणि प्रत्ययान्तराण्यपेक्षते, न तु तत्समानकालः कारणक्षण इति । "तत" स्तेभ्यः कारणान्तरेभ्यः "स्वभावान्तरस्य" कार्योत्पादानुगुणविशेषपरम्परालक्षणस्य "प्रतिलम्भः" सन्तानस्यैकत्वेनाधिमुक्तस्योच्यते लोके । परमार्थतस्तु तत्रापि पूर्वः पूर्वः प्रत्ययकलाप उत्तरोत्तरकार्योत्पादानुगुणे विशिष्टक्षणे प्रतिनियत इत्येकार्थक्रियालक्षणमेव सहकारित्वमनुभवति ।
कथं पुनः स्वभावान्तरप्रतिलम्भस्तेषाम्?, यतः क्रमेण कार्यं निर्वर्तयन्तीत्यत आह- "तत्र स्वरसतः" इत्यादि । "तत्र" तस्मिन् हेतुसन्ताने ये हेतव उपादानकारणाख्याः ये च प्रत्ययाः सहकारिसंज्ञितास्तेषां ये पूर्वे प्रथम उपनिपातक्षणाः तेषां विनाशहेत्वनपेक्षितया स्वरसतो निवृत्तौ सत्यां तेभ्य एव स्वरसतो निवर्तमानेभ्यः प्रथमक्षणेभ्यः कार्योत्पादानुगुणेन विशेषेण विशिष्टस्य क्षणस्योत्पत्तिः तेभ्यो ऽनुगुणतरविशेषवतां तृतीयक्षणानां तेभ्योनुगुणतमविशेषवतां चतुर्थक्षणानाम्; एवं यावदत्यन्तातिशयवानन्त्यः कारणकलापो जातः ततः कार्यस्योत्पत्तिः इत्येवं सहकारिभ्यः स्वभावान्तरप्रतिलम्भः, क्षेपवती च कार्योत्पत्तिरिति ।
अत्र परश्चोदयन्नाह- "सहकारिणः" सह करणशीलात् कारणात्, जातावेकवचनम्, यत् समुत्पन्नविशेषमनन्तरोक्तेन प्रकारेण कारणं अन्त्यसामग्रीक्षणलक्षणं ततो ऽङ्कुरादिकार्योत्पत्तौ इष्यमाणायां तस्यैव विशेषस्याद्यस्य कार्योत्पादनानुगुणस्य यः क्रमेणाभिवर्द्धमानः कार्यस्य जनक इष्यते तस्यैव उत्पत्तिर्न स्यात् प्रथमक्षणोपनिपातिनां परस्परतो विशेषानासादनात् क्षणानामविवेकात् अनभ्युपगमाच्च ।

परस्परतो ऽनवाप्तविशेषा एव कार्योत्पादनानुगुणं विशेषमारप्स्यन्त इति चेदाह- "अविशिष्टाद" विशिष्टेभ्यः परस्परतो "विशेषस्य" ( ह्ब्ट् 131 ) कार्योत्पादानुगुणस्योत्पत्ताविष्यमाणायां "कार्यस्य" अङ्कुरादेः स्यात्, विशेषाभावादित्यभिप्रायः । ततश्च परस्परतो विशेषोत्पादानपेक्षिण एव सहकारिणः कार्यं कुर्वीरन् ।
किमेवंसति सिद्धं भवति? इति चेत्, आह- "तेन" येन क्षणिका अपि परस्परतो विशेषोत्पादानपेक्षा एव स्वकार्यं कुर्वन्ति एककार्यप्रतिनियमलक्षणं च सहकारित्वं प्रतिपद्यन्ते तेन कारणेन "अक्षणिकानामपि कारणता स्यात्, अपेक्षणीयेभ्यः स्वभावातिशयोत्पतिश्च न स्यात्" इत्यक्षणिकवादी क्षणिकपक्षेण स्वपक्षस्य साम्यमापादयति । यदाह-
"कः शोभेत वदन्नेवं यदि न स्यादह्रीकता ।
अज्ञता वा यतः सर्वं क्षणिकेष्वपि तत्समम् ॥
विशेषहेतवस्तेषां प्रत्यया न कथञ्चन ।
नित्यानामिव युज्यन्ते क्षणानामविवेकतः ॥"
इति । तत्रैतत् स्यात् प्रथमक्षणे ऽपि क्षितिबीजादयः परस्परतः समुत्पन्नविशेषा एव सन्निधीयन्ते-
"येन यस्याभिसम्बन्धो दूरस्थस्यापि तेन सः ।"
इति न्यायाद्धि दूरदेशवर्तिनामपि हेतुफलभावात् इत्याशङ्कयाह- "अथ सहकारिणा" इत्यादि । सहकारिणः परस्परसम्पर्कविकला अपि वस्तुधर्मतयैवान्योन्यमुपकुर्वन्तीति शहकारिणा कार्योत्पादानुगुणविशेषजननाय कृतविशेष एव सम्पर्ककाल उपतिष्ठेत, एवं सत्यनवस्था स्यात् । तथा हि- तद्विशेषोत्पत्तावप्यपरः सहकारिकृतो विशेषो ऽभ्युपगन्तव्यः, तथा तदुत्पत्तावप्यन्य इति ।
अथ नैवं सहकारिणः परस्परस्य कार्योत्पादानुगुणविशेषणिमित्तमपरं विशेषं कुर्वन्ति, स्वभावत एव तत्र तेषां योग्यत्वात् इत्यत आह- "न च" इत्यादि । नैव हि सहकारिणः क्षितिबीजादयः परस्परस्य कार्योत्पादानुगुणो यो विशेषः तदुत्पादने "नित्यं" सर्वकालं योग्यावस्था "येन" योग्यावस्थत्वेन "नित्यानुषक्तः" नित्यानुबद्धः "एषां" क्षितिबीजादीनां कार्योत्पादानुगुणविशेषजनको ( ह्ब्ट् 132 ) विशेषः स्यात् यतः ‘अविशिष्टाद् विशेषोत्पत्तौ कार्यस्यापि स्यात्ऽ; इत्येतदपि परिह्रियेत ।
कुत एतद्? इत्याह- "तदुपाय" इत्यादि । तेषां क्षितिबीजादीनामुपाये- योग्यदेशोपनिपाते कार्यव्यक्तिदर्शनात् अपाये च- परस्परसम्पर्कविरामे कार्यानुत्पत्तिदर्शनात् । यदि हि कार्योत्पादनुगुणविशेषोत्पादने सर्वदा योग्यावस्थाः स्युः तदा सो ऽपि विशेषः सर्वदा स्यत् । ततस्तत्परम्पराभावि कार्यमिति तदुपायापाययोः कार्यस्योत्पत्त्यनुत्पत्ती न स्याताम् । तस्मान्न सहकारिणः कार्योत्पादानुगुणविशेषोत्पादने योग्यावस्थाः सर्वदेति । यतः सहकारिणा पृथगवस्थितेनानवस्थाभयात् कृतविशेषो नोपतिष्ठते परस्परतश्च प्रथमसम्पर्कक्षणभाविनां नोपेयते युज्यते वा । तेन कारणेनाद्यो विशेषः कार्योत्पादानुगुणः सहकारिभ्यः समानकालतया निरुपकारस्य क्षितिबीजादेः "नोत्पद्यते", उत्पद्यते चासौ इतीष्यते । तेन समग्रावस्थावत् सर्वेषां व्यग्रावस्थाभाविनामपि क्षणानामविशेषात् तज्जननस्वभावत्वे ऽप्यजननात् समग्रावस्थायामेव जननाद् । यथा क्षणिकानामेकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं तथा स्थिरस्वभावानामपि भविष्यतीति क्षिनसर्वोपायो ऽक्षणिकवादी साम्यमेवातुर इव बहुमन्यमानस्तत्रैव भरं कृतवान् ।
सिद्धान्तवादी भङ्ग्या परमुपहसन्नाह- "नास्माकं पुनः पुनः" इत्यादि । यदि पुनः पुनर्वचने ऽपि लोकस्य न्यायप्रतीतिर्भवति शतशो ऽपि ब्रूमः । किमङ्ग पुनर्द्धौ त्रीन् वा वारान्? । नहि परार्थप्रवृत्तानामस्माकं पुनः पुनरभिधाने कश्चिदुद्वेगो भवति । एवंवादिनश्च शास्त्रकृतः क्वचित् प्रकारान्तरेण तमेवार्थं स्फुटीकुर्वतो ये पुनरुक्तताअप्रिहाराय यतन्ते स तेषामस्थानपरिश्रम एव । यदि नोद्वेगो हन्त तर्ह्युच्यताम् इत्यत आह- "न विशेषोत्पादनादेव" इत्यादि । नैव विशेषोत्पादनात् सहकारिणां ( ह्ब्ट् 133 ) सहकारित्वं परमार्थतः क्वचित् सम्भवति, यतः प्रथमक्षणभाविनां बीजादीनां तदभावात् कार्योत्पादानुगुणे विशेषे कर्तव्ये सहकारिताविरहः स्यात् । किन्त्वेकार्थाक्रियैव सहकारिणां पारमार्थिकं सहकारित्वं पूर्वोक्ताभिर्युक्तिभिः सम्भाव्यते । सा च प्रथममसम्पर्कभाजामस्त्येवेति किं न सहकारिणः स्युः? ।

पर आह- साप्येकार्थक्रिया न भवेत् परस्परतो विशेषरहितानाम् । यदि पुनः परस्परतो विशेषरहितानामपि तदेकार्थक्रियाङ्गिक्रियते तदा प्रत्येकं तदवस्थायां तदुत्पादनसामर्थ्याभ्युपगमात् तदवस्थायामिव पृथगपि सा भवेत् । तथाहि- ते तदवस्थायामपि परस्परतो निर्विशेषा एव कुर्वन्ति । तेषां पृथगपि तद्विशेषक्रिया कथमिव न प्रसज्येत? । नह्येषां संहतासंहतावस्थयोः कश्चिद्विशेषो ऽस्तीति । भवतु, को दोषः? इति चेत्; "तथा च" कार्योत्पादानुगुणविशेषस्य पृथक्करणप्रसङ्गे सति "तस्माद् विशेषाद् भवनशीलम्" अङ्कुरादि "कार्यमपि" विशेषवत् केवलात् सहकारिणः स्यात् इति चेन्मन्यसे, अत्रापि सर्वमुक्तमुत्तरम् । तथा हि- संहतासंहतावस्थयोन्निर्विशेषा एव क्षणक्षयिणो भावा इति यदुच्यते तत् किं तावद्विशेषमात्रापेक्षया? आहोस्वित् कार्योत्पादानुगुणविशेषजनकविशेषापेक्षया? । यदि प्राच्यो विकल्पः तदयुक्तम् । न हि काचिद् विशेषमात्ररहितावस्था सम्भवति, सर्वदापरपरप्रत्यययोगनिबन्धनस्यापरापरविशेषस्य भावात् । नहि कदाचित् किंचिदेकमेव, आधारच्छायातपवातशीतादेर्यथासम्भवं भावात् । न च तद्भावे ऽपि तत् तादृशमेव, कारणभेदात् । एतावत्तु स्यात्- कश्चिद् विशेषः क्वचित् कार्ये ऽनुगुणो न सर्वः सर्वत्रेति । एतच्च प्रागेवोक्तमिति दर्शयन्नाह- "प्रतिक्षणमपरापरैः प्रत्ययैः" इति । ‘अपरापरप्रत्ययोगेन प्रतिक्षणं भिन्नशक्तयः संस्काराः सन्तन्वन्तो यद्यपि कुतश्चित् साम्यात् सरूपाः प्रतीयन्ते, तथापि भिन्न एवैषां स्वभावः, तेन किञ्चिदेव कस्यचित् कारणम्ऽ; इति, ‘क्षणिकेषु ( ह्ब्ट् 134 ) भावेष्वपरापरोत्पत्तैरैक्याभावात्ऽ; इति चात्र संक्षिप्यतरमुक्तम् । एवं च ऽनास्माकं पुनः पुनर्वचनऽ; इत्यत्र द्विः पुनर्ग्रहणं युज्यते । यथा येन प्रकारेण भावसन्ताने विशेषस्योत्पत्तिः [त]दप्युक्तम् ‘तत्र स्वरसतः पूर्वक्षणनिरोधे तेभ्य एव विशिष्टक्षणोत्पादाद् विशेषोत्पत्तिःऽ; इति । अथ कार्योत्पादानुगुणविशेषजनकविशेषापेक्षया प्राग्वत् प्रथमसम्पर्कभाजः परस्परतो निर्विशेषा इत्यभिमतं तदप्ययुक्तम् । यतः कार्योत्पादानुगुणस्य विशेषस्य जनकाः क्षितिबीजादयः कीदृशाः ये व्यवधानादिरहितत्वेनोपनिपातिनः । तद्भाव एव तस्य भावात् एतावन्मात्रनिबन्धनत्वाच्च जनकं व्य(कव्य)वस्थायाः । ते च तथाविधाः सर्वदा न भवन्तीति कथं पृथगपि कार्योत्पादानुगुणविशेषारम्भ एषां स्यात्?, यतः केवलानामपि कार्यक्रिया प्रसज्येत तद् दर्शयति- योग्यो देशो येषां ते योग्यदेशाः, तद्भावो योग्यदेशता, सा आदिर्येषामव्यवहितदेशत्वादीनानवस्थाभेदानां ते तथोक्ताः, ते च ते अवस्थाभेदाश्च तथोक्ताः । "योग्यदेशता अ(ताद्य) व्यवहितदेशतादयो" ये "अवस्थाविशेषाः" क्षितिबीजादीनामुपजायन्ते ते कार्योत्पादानुगुणविशेषलक्षणकार्यकरणशीलाः, नैवंविधाः सर्वदा बीजादय इति कथमेषां पृथगपि तथाविधविशेषारम्भः स्यात्? । एतदपि प्रागेवोक्तम् ‘तत्र यो ऽव्यवधानादिदेशो रूपेन्द्रियादिकलापः स विज्ञानजनने समर्थो हेतुःऽ; इति वचनात् । तस्य चोदाहरणमात्रत्वात् । इहापि तत्र यो ऽव्यवधानादिदेशः क्षितिबीजादिकलापः स कार्योत्पादानुगुणविशेषजनने समर्थो हेतुरिति प्रतीयत एव । स च तथाविधोविशेषः सर्वदा न भवति, तज्जनकस्य हेतोरभावात् । परस्परोपसर्पणाद्याश्रयस्यैव प्रत्ययविशेषस्य तद्वेतुत्वात् । एतदपि पूर्वमेवोक्तमित्याह- तेषां च कार्योत्पादानुगुणविशेष[जनने] विशेषवतां यत उत्पत्तिस्तदप्युक्तमसकृदेव ‘यस्तेषां परस्परोपसर्पणाद्याश्रयः प्रत्ययविशेषः स तद्धेतुजनने समर्थो हेतुःऽ; इति । तथा ‘यथास्वं प्रत्ययैः परस्परोपसर्पणाद्याश्रयैर्ये ( ह्ब्ट् 135 ) योग्यदेशाद्यवस्था जातास्ते सह स्वभावनिष्पत्त्या ज्ञानहेतुतां प्रतिपद्यन्तऽ; इत्यनेन, इहापि गम्यमानत्वात् । ततो यद्यप्येषां परस्परतो ऽनुपपत्तेर्विशेषो न भवति, स्वहेतुकृतस्तु केन वार्यते? । न च स्वहेतुत एव सञ्जातविशेषाणां भावे परस्परतस्तदाशंसा, यतः परस्परतो विशेषायोगः प्रतिपाद्यमानः शोभेत । तेषां च कार्योत्पादानुगुणविशेषजनकानां प्रत्ययानां प्रत्येकं सामर्थ्ये ऽपि खण्डशः कार्योत्पादायोगात् सकलस्यैव प्रत्येकं करणात् । यथा केवलानामक्रिया कर्तृविशेषस्याव्यवधानादिदेशक्षितीबीजादिकलापस्य पृथगेकैकस्य समर्थस्य भावस्याभावादित्येतदप्यसकृदेवोक्तम् ‘तेषां च न पूर्वं न पश्चात् न पृथग्भाव इति समर्थानपि पूर्वापरपृथग्भावभाविनो दोषा नोपलीयन्तेऽ; इत्यादिवचनात् । ततस्तथाविधविशेषस्य स्वोपादानमात्रनिबन्धनस्यानभ्युपगमेन केवलानामप्रसङ्गात् कुतः कार्योत्पादानुगुणविशेषारम्भद्वारकं कार्यमपि स्यादिति? ।

कुतः पुनरयं कामचारो लभ्यते यदङ्कुरादिकार्यं सहकारिणः परस्परस्य कार्योत्पादानुगुणां विशेषपरम्परां जनयन्तः कुर्वन्ति, कार्योत्पादानुगुणं तु विशेषं व्यवधानादिरहितदेशोपनिपातमात्रेणेत्यत आह- "कार्यद्वैविध्यं च यस्मात् तस्मादेवं विभज्यते" । कथं द्वैविध्यं कार्याणामिति? अत आह- सहकारिभिरव्यवधानादिदेशैरनन्तरं सञ्जनिताः परस्परस्य प्रागवस्थापेक्षविशिष्टक्षणभावलक्षणा ये विशेषास्तत्परम्परया उत्तरोत्तरविशिष्टविशिष्टतरादिक्षणभवरूपया उत्पत्तिर्द्धर्मो यस्य तदात्मकमेकं कार्यम् । अन्यच्च तद्विपरीतं यत् सहकारिसन्निधिमात्रेण भवति न परस्परकृतां विशेषपरम्परामपेक्षते । अत्रोदाहरणम्- "अङ्कुरादिवत्", आदिग्रहणादोदनादिवत् । तथाक्षेपेण करणशीलं यदिन्द्रियं तद्विज्ञानादिवच्च । प्रभास्वरादपवरकप्रविष्टेन्द्रियनिरासार्थं चैतद् विशेषणम् । कुत एतद्? इति चेत् ; कार्यकारणयोः ( ह्ब्ट् 136 ) स्वभावभेदात् । किंचिद्धि कार्यं कारणसामग्रीसन्निधिमात्रजन्यस्वभावम्, तदन्यत्तु तत्परिणामापेक्षमिति । कारणमपि किञ्चित् स्वसन्निधिमात्रेण कार्यजननस्वभावं स्वकारणेभ्य एव भवति, येन परस्परकृतां विशेषपरम्परां स्वकार्यकरणे नापेक्षते । अन्यत्तु तद्विपरीतस्वभावम् । यथा किञ्चिदेव शाल्यङ्कुरजननस्वभावम्, तद्विपरीतं चापरम् । शाल्यङ्कुरश्च तब्दीजजन्यस्वभावो न यवादीबीजजन्यस्वभाव इति न भावानां स्वहेतुबलायाताः प्रमाणाधिगताः स्वभावाः पर्यनुयोज्याः । ये तु यज्जननस्वभावाः प्रमाणतो ऽधिगताः ते किं सर्वदैव तत्स्वभावाः? आहोस्वित् तदैव? इत्यत्र चिन्ता प्रवर्तते । तत्र सर्वदा तत्स्वभावत्वे पश्चादिव प्रागपि तत्कार्यक्रियाप्रसङ्गेन पररूपेणाकारकस्य भिन्नस्वभावता कारकाकारकावस्थयोः शालियवबीजादीनामिव तत्त्वचिन्तकैरूच्यते । सदृशापरभावनिबन्धनं चैकतया प्रत्यभिज्ञानं लूनपुनर्जातेष्विव केशनखादिषु इत्यत्र विरोधाभावादिति । यदा च तक्तार्यकारणस्वभावभेदात् कार्यव्दैविध्यम्, "तत्रै"तस्मिं(स्मिन्) सति "सहकारिभ्यः" क्षितिबीजादिभ्यस्तेषां परस्परसन्तानोपकारमपेक्षते यत् कारणमन्त्यावस्थाप्राप्तं तस्य यत् कार्यमङ्कुरादिकं तज्जन्मनिमित्तं "सहकारिणां" प्रथमक्षणान्तरं विशिष्टद्वितीयक्षणभावरूपो यो विशेषः कार्योत्पादानुगुणः "आद्यो" भवति "स तेषां" सहकारिणां प्रथमसम्पर्कभाजां परस्परकृतो यो विशेषस्तज्जन्मा न भवति परस्परोपसर्पणाद्याश्रयादेव प्रत्ययविशेषात् तस्य भावात् । ततः कार्योत्पादानुगुणादाद्याद् विशेषात् प्रथमक्षणोपनिपातिभिः सहकारिभिरन्यतः समासादितविशेषैः जनितात् तत्प्रभृति "ये विशेषाः" प्रकृष्यमाणतदुत्तरोत्तरक्षणभावलक्षणा जायन्ते "ते तज्जन्मानः" सहकारिकृतविशेषजन्मानः । कुतः? "तत्प्रकृतित्वात्" तस्याद्यस्य विशेषस्य परस्परोपसर्पणाद्याश्रयात् प्रत्ययविशेषादासादिततदनुकूलविशेषैः सहकारिभिः परस्परोपकारनिरपेक्षैर्जन्यस्वभावत्वात्, तदुत्तरेषां च विशेषाणां सहकारिकृतकार्योत्पादानुगुणविशेषजन्यस्वभावत्वात् । ( ह्ब्ट् 137 ) यत एवम् "इति" तस्मात् "नानवस्था" प्रागुक्ता । अथ सहकारिणा क्षित्यादिना कुशूलाद्यवस्थो ऽपि बीजादिः तेनापि क्षित्यादिः कृतविशेष एवोपतिष्ठेतानवस्थैवं स्यात् इति । तस्य प्रकारस्यानभ्युपगमात् पुरुषप्रयत्नादेरेव क्षेत्रप्रकिरणहेतोरव्यवहितस्निग्धपृथिवीबीजसम्पर्कलक्षणस्य कार्योत्पादानुगुणविशेषजनकस्य विशेषे ऽस्योपगमात् । तत्र यदुक्तं परेण ‘यथा प्रथमसम्प्रर्कभाजः क्षितिबीजादयः परस्परस्य विशेषमनादधानाः कार्योत्पादानुगुणं विशेषं जनयन्ति, तथा स्थिररूपा अपि भावाः तदेककार्यप्रतिनियताः परस्परकृतविशेषनिरपेक्षा एव भविष्यन्तिऽ; इति, तदभ्युपगच्छन्नाह् "तथा यद्यक्षणिको ऽपि" इत्यादि । क्षणिकवदक्षनिको ऽपि यदि कार्यं करोति करोतु नाम । ना कश्चिद् वारयति । किन्तु येन स्वभावेन कार्यं करोति स यदि "अविलम्बितकार्यकर्तृधर्मा" अक्षेपेण करोतीत्येवंशीलो धर्मो यस्य स तथोक्तः, तदा "पृथग्भावस्य सम्भावात् केवलो ऽपि" न केवलं सहितः "तथा स्यात्" तत्कार्यकारकः स्यादित्युक्तं बहुशः । "अतत्स्वभावस्तु" अक्षेपकर्तृस्वभावविकलस्तु "तदापि" सहितावस्थायामपि प्राग्वत् "अकारक एव" पररूपेण कर्तृत्वस्य पूर्वमेव निषेधात् ।
तदेवमेकार्थक्रियया विशेषोत्पादनेन चाक्षणिकानां सहकारित्वं निषिध्योपसंहरन्नाह- "तस्मात्" इत्यादि । द्विविधस्यापि सहकारित्वस्यायोगान्नैवाक्षणिकस्य कश्चित् सहकारीति केवलो ऽपि स्वकार्यं कुर्यादिति सहकारिप्रत्ययापेक्षस्याक्षणिकस्य हेतुतां ब्रुवाणस्य किं युक्तमिति दर्शयन्नाह- "प्रायस्तु" इत्यादि । यो हि स्थिरहेतुवादी तस्य यदि स हेतुः प्रत्ययान्तराण्यपेक्ष्य कार्यं करोति तदा "व्यक्तम्" अवश्यं तस्य स्थिरस्य हेतोः प्रत्ययान्तरापेक्षकारकस्य स्वभावान्तरस्योत्पत्तिरिति । "नाकार्यस्य" कार्यतामननुभवतो अपेक्षेत्युच्यते । यतः सहकारिणां यः "संघातः" सन्निपातः "तत्स्थायी" तत्र वर्तमानो भावसन्तानः "प्रायः" बाहुल्येन "सहकारिप्रत्ययैरुपजनितविशेषः" सन् "स्वकार्यं कुर्वन् दृष्टो बीजादिवत्" ( ह्ब्ट् 138 ) तस्मादेवं विभज्यते । प्रायोग्रहणं चाक्षेपकारीन्द्रियादिसङ्घातव्यवच्छेदार्थम् । तत्सम्भविनो न्यायस्याक्षणिकेषु पृथग्भावसम्भवेन कथञ्चिदपि कल्पयितुमशक्यत्वात् । प्रागकारकस्य पश्चात् कारकस्वभावान्तरोत्पत्तिस्तु न विरुध्यते । तस्यैव ह्यकारकस्य तदात्मा कारकः स्वभावो न युज्यते न त्वतदात्मा । अत एव स्वभावान्तरग्रहणम् । तत्र केवलमकारकस्वभावस्य स्वरसनिरोधितामात्रमुपेयम् । ततः सर्वं सुस्थमिति ।
अथ मतम्- कारकस्वभावान्तरोत्पत्तिरिष्येत यदि स्थिरस्य हेतोः प्रागपि कारकस्वभावो न स्यत् । तस्य तु प्रागपि भावात् प्रत्ययान्तरापेक्षा तदुत्पत्तिरप्ययुक्तेति अत आह- "कारकस्य" इत्यादि । यदि हि समग्रावस्थायाः प्रागपि कारकस्वभावो भवेत् तदास्याक्रिया न युज्यते, संहतावस्थायामपि तत्स्वभ्वतयैव करणात्, पररूपेण कर्तृत्वस्य प्रागेव निषिद्धत्वात् । न च करोति । तस्मात् सो ऽस्य स्वभावः प्राङ्नैवासीत् । यदि च प्रत्ययान्तरैरप्यसौ न क्रियेत तत् किमिति मुधैव तान्यपेक्षते? इति ।
[43. निर्हेतुकविनाशचर्चाया उपसंहारः ।]

तदेवं ‘तत्स्वभावस्य जननात्ऽ; त्यस्य ‘यो यत्स्वभावः स स्वहेतोरेवोत्पद्यमानः तादृशो भवति पुनस्तद्भावे हेत्वन्तरमपेक्षतेऽ; इत्यस्यानेकान्तपरिहारायोक्तस्य प्रकारान्तरेणानेकान्ते उद्भाविते तत्परिजिहीर्षया "अपरापरप्रत्यययोगेन" इत्याद्यभिहितम् । तत्र येन न्यायेन क्षणिकानां हेतुफलस्वभावः तस्याक्षणिकेष्वसम्भवं प्रतिपादयितुं प्रासङ्गिकं यदुपक्रान्तं तत् परिसमापय्य प्रकृतमनुबध्नन्नाह- "तस्माद् यो यदात्मा" इत्यादि । यदि स्वभावेनास्थितिधर्मणो भावस्य न नाशकारणैः प्रयोजनं स्वभावेन स्थितिधर्मणो भविष्यतीत्यत आह- "स्थितिधर्मणो ऽपि" इत्यादि । स्थितिधर्मणो ऽपि हि नैव नाशकारणैः किञ्चित् प्रयोजनम् । तस्य स्वहेतुभ्यः समुपजातो यः स्थिरः स्वभवः तदन्यथात्वस्यास्थिरात्मतापत्तेः ( ह्ब्ट् 139 ) केनचित् कर्तुमशक्यत्वात् । कामं हि भावाः स्वयं न भवेयुः । न तु सन्त एव स्वं स्वभावं परित्यजन्ति । अथ स्थितिधर्मणो ऽप्यन्यथात्वप्रतिपत्तिरिष्यते तदान्यथात्वप्रतिपत्तौ वा "तत्स्वभाव एव" स्थितिधर्मैव "न स्यात्" आत्मभूतस्यास्थितिधर्मणः स्वभावस्य पश्चात् सम्भवे प्रागप्यभावायोगात् । नहि तदात्मनस्तस्मिं(स्मिन्) सन्निहिते कदाचिदभावो युक्तः, अतस्त्वभावताप्रसङ्गात् ‘विरुद्धधर्माध्याअस्य भेदलक्षणत्वात्ऽ; इत्युक्तम् । तथा च सति "पूर्व" एव "विकल्पः" स्वभावेनास्थितिधर्मा भाव इति । "तत्र च" पूर्वविकल्पे प्रागेवोक्तं दूषणं विनाशहेतोर्वैयर्थ्यमिति ।
अथासौ शिरस्वभाव एव, केवलमस्याशिरस्वभावता प्रागसति विनाशहेतोरुपजायते, अन्यथा निवृत्त्ययोगादित्यत आह- "यश्च परस्मात्" नाशहेतोः स्थितिधर्मणः सत "अन्यथाभावः" अस्थितिधर्मतालक्षणो भवति, स पूर्वकात् स्थितिधर्मणः स्वहेतुसमुद्भूतात् स्वभावात् "अपरः" अन्यः "स्वभावस्तस्मिन्निष्पन्ने" पश्चा[ज्जन्य]त्वाद् भिन्नहेतुकत्वाच्च "कथं तस्य" स्वभावः "स्यात्"? । तदात्मतया प्रतिभसनादिति चेत् । सारूप्यादलक्षितविवेकस्य तथा प्रतिभासनं स्यात् यद्यसौ पूर्वस्वभावे सत्येवान्यतो भवेत् । अन्यथा विरोधः कथं परिह्रियेत? । भवत्वपरः स्वभाव इति चेत् । यश्चापरः स्वभावः स कथं तस्य? । न ह्यन्यो ऽन्यस्य स्वभावो युक्तः, अतिप्रसङ्गात् । यो ऽपरः स्वभावः स किमिति तस्य न भवति? इत्यत आह- "स्वभावभेद-" इत्यादि । भवतु वस्त्वन्तरमेव तदपरस्वभावतया को दोषः? इत्यत आह- "तथा च" वस्त्वन्तरत्वे सति विनाशहेतोरुपजायमानस्य स्वभावस्य पूर्वको भावः स्वहेतुभ्यो यः स्थितिधर्मा जातः सो ऽच्युतिधर्मे स्थितो निवृत्तिभाङ्न भवति, विनाशहेतोर्वस्त्वन्तरोत्पत्तौ व्यापृतत्वादिति न "तस्य" स्थितिधर्मणो "ऽन्यथाभावो" निवृत्तिः । नहि मुग्दरादेर्वस्त्वन्तरस्य भावे ऽपरस्य निवृत्तिर्युक्ता, अतिप्रसङ्गात् । तदुपमर्द्देन तदुत्पत्तौ च प्रागेव प्रोक्तम् ।
ननु च दृश्यत एव कठिनादिरूपस्य ताम्रादेरग्नयादेर्विनाशहेतोर्द्रवादिस्वभावान्तरोत्पत्तिः । न च पूर्वकस्य प्रच्युतिधर्मता इत्यत आह- "एतेन" अनन्तरोक्तेन "कठिनादीनाम्" आदिशब्दाद् द्रवादीनां ताम्रसुवर्णादिनामग्निशीतवातादिभ्यो द्रवत्वकठिनत्वादिस्वभावान्तरोत्पत्तिर्व्यवस्थितरूपस्य ताम्रादेः "प्रत्युक्ता" प्रत्याख्याताः, तुल्यदूषणत्वात् ।
कथं तर्हि स्वभावान्तरोत्पत्तिः पूर्वस्य चाप्रच्युतिधर्मे स्थितस्याभावो युक्तः? इत्याह- "तत्रापि" कठिनादिरूपे ताम्रादौ "पूर्वकस्य" कठिनद्रवादिरूपस्य "स्वरसनिरोधित्वात्" विनाशहेत्वयोगेन । "विनाशे" सति "अग्न्यादेः" आदिग्रहणाज्जलनिषेकशीतवातादेः । सहकारिणः परस्परोपसर्पणाद्याश्रय प्रत्ययविशेषोपजातातिशया "दुपादानाच्च" यत् तत् कठिनादिरूपं ताम्रादि स्वरसतो निरुध्यते । तत एव उपादानकारणादग्न्यादिसहकारिकारणोपादानप्रत्ययोपजातविशेषाद् "अपर एव" अन्य एव द्रवकठिनादिस्वभावो द्रवग्रहणस्योपलक्षणत्वात्, "उत्पन्नो" न तु पूर्वकमेव कठिनद्रवादिरूपं ताम्रादि व्यवस्थितात्मकं द्रवकठिनादिस्वभावेन परिणतमिति ।
अत्र पर आह- "केनोक्तं" यथा ‘स्थितिधर्मणः सतो विनाशहेतोरस्थितिस्वभावोत्पत्तिस्ततो विनाशःऽ; इति, येन ‘यश्च परस्मादन्यथाभावः सो ऽपरः स्वभावःऽ; इत्याद्युच्यते । किन्तु स स्वयं स्थितिधर्मैव स्वहेतुभिर्जनितो नास्यास्थिरस्वभावता विनाशहेतोरुपजायते । कथं ज्ञायते यथा ‘स्वहेतुभिः स्वभावेन स्थितिधर्मैव जनितःऽ; इति? । विनाशहेतोरग्न्यादेरसम्भवे अवस्थानात् । यदि स्वभावेनास्थितिधर्मा स्वहेतोर्जातः स्यात् तदा तदसम्भवे ऽपि नावतिष्ठेत । तस्य स्वभावेन स्थितिधर्मणः स्वहेतुभिरेवायमपरः स्वभावो नियमितो यदुत "परस्मात्" विरोधिनो ऽग्न्यादे "र्विनाशः स्वयं भवतीति" । परस्मादिति कर्मणि ल्यप्लोपे पञ्चमी परमपेक्ष्य इत्यर्थः । स्वहेतुभिरेवायं नियमितस्वभावो ( ह्ब्ट् 141 ) जातो यथा त्वया विरोधिनमपेक्ष्य स्वयं निर्व(व)र्तितव्यमिति । तदुक्तम्-
"स्वभावो ऽपि स तस्येत्थं येनापेक्ष्य निवर्तते ।
विरोधिनं यथान्येषां प्रवाहो मुग्दरादिकम् ॥" इति ।
ननु यद्यस्य विनाशओ विरोधिसन्निधाने स्वयमेव भवत्यहेतुकः प्राप्नोति, अहेतोश्च देशकालस्वभावनियमो न युक्त इत्यत आह- "न च" नैव विनाशो नाम विनष्टुरपरः स्वभावः, यतो ऽयं दोषः स्यात्, किन्तु "भावच्युतिरेव विनाशः" । तस्याश्च निःस्वभावत्वाद्धेतुमत्ता नैव युज्यते । नहि सा तस्य भवति । केवलमसौ स्वयमेव न भवति । ततो भवितुरभावात् कस्य हेतुमत्तोपगम्यते? ।

सिद्धान्तवाद्याह- "नेदमनन्तरोक्तं विकल्पद्वयमतिक्रामति" । कीदृशं विकल्पद्वयम्? । ‘किं नित्यो भावः?ऽ; इत्यादि । ननु च कालान्तरस्थितिरधर्मतामुपगच्छतो नैव नित्यविकल्पस्यावकाशः । न । तदुपगमे ऽपि नित्यतैवोपगता भवति । तथा हि- यद्ययं संवत्सरस्थितिधर्मा स्वहेतुभिर्जनितस्तदा संवत्सरपरिसमाप्तौ यो ऽस्यादावुदयकाले संवत्सरस्थितिधर्मा स्वभावो यतो ऽयं संवत्सरं स्थितः स एव तदन्ते ऽपि । ततो ऽपरं संवत्सरमवतिष्ठेत । तदन्ते ऽपि प्रथमोत्पन्नसंवत्सरस्थितिधर्मस्वभावापरित्यागादपरापरसंवत्सरस्थितिप्रसङ्गात् कालान्तरस्थितिधर्मतोपगमे ऽपि नित्यतैवोपगता भवतीति नित्यविकल्पो दुर्निवारः । विनाशहेतुसन्निधौ स्वयं निवर्तत इति चोपगमादनित्यविकल्पो नश्वरात्मताविकल्पः । तथा हि- विनाशहेत्वभिमतसन्निधौ स्वयं विनश्यतो यो ऽस्य स्वभावः स एव भावस्यैकरूपत्वादुत्पन्नमात्रस्येति तदैव विनाशप्रसङ्गात् कथमस्य कालन्तरस्थितिधर्मता सम्भवति? । एवं विकल्पे कृते पाश्चात्यविकल्पोपगमे कालान्तरस्थितिरेवास्य त्रुट्यतीति नित्यविकल्प एवानेनोपगन्तव्यः । तत्र विनाशहेतुसन्निधौ स्वयं नाशोपगमे प्राङ्नित्यो भूत्वा पश्चादनित्यो विनश्वरस्वभावो भवतीति ब्रूते । "एवं च ब्रूवाणो भावद्वयं चाह" । वक्ष्यमाणापेक्षश्चकारः । ( ह्ब्ट् 142 ) कीदृशं भावद्वयम्? । नित्यानित्यौ स्वभावौ भेदौ यस्य तथा । यो ऽसौ नित्यः स्वभावः प्राक्तनः तस्य नित्याभिमतस्य स्वयं पश्चान्नाशं ब्रूवाणः सर्वदा प्रतिक्षणमेव नाशं प्राह । अन्यथा पूर्वोक्तेन न्यायेन पश्चादपि नाशासम्भवात् । अथ प्रतिक्षणमस्य नाशो न भवति तदा पश्चादपि तदयोगात् सर्वदैवानाशं प्राहेति कृत्वा पूर्वस्मिन्नित्याभिमते स्वभावे विनाशहेतुरसमर्थो ऽकिञ्चित्कर एव ।
ननु च विनाशहेतोर्नैव सामर्थ्यमुपगतं परेन विरोधिसन्निधिमपेक्ष्य स्वयं नाशोपगमात् । न । अत एव तन्निबन्धनत्वप्रसङ्गात् नाशस्य । अन्यथा ह्यकिञ्चित्करः किमित्यसावपेक्ष्यते?, हेतुभावस्यापेक्षालक्षणत्वात् । स्वहेतव एवात्रापराध्यन्ति यदकिञ्चित्करे ऽपि तत्रापेक्षायां नियुञ्जत इति चेत् । कः पुनरयमस्थानाभिनिवेशः तेषां यत् तत्र तथा नियुञ्जते । तस्मादुपकार्यपेक्षायामेव हेतवो नियुञ्जानाः शोभन्ते । अन्यथा ते ऽपि कार्यात्मानो नैव तन्नियोगमाद्रियेरन् । कथं चाकिञ्चित्करो विरोधी नाम? । न ह्यस्याविरोधित्वाभिमताद्विशेषः कश्चिदिति यत्किञ्चिदेतत् ।
यदप्युक्तं ‘यथान्येषां क्षणिकवादिनामकिञ्चित्करमपि मुग्दरादिकमपेक्ष्य घटादिप्रवाहो निवर्तते तथास्माकमपि कालान्तरस्थायी भावःऽ; इति तदपि परसमयानभिज्ञतयोच्यते । यतो नास्माकं प्रवाहो नाम क्षणव्यतिरिक्तो ऽस्ति यो ऽकिञ्चित्करमुग्दरादिसन्निधौ निवर्तेत । क्षणा एव हि केवलं सन्ति । ते च स्वनिवृत्तौ न मुग्दरादिकमपेक्षन्ते, स्वरसत एव निरोधात् । या तु तेषां कपालादिवृत्तिलक्षणा पर्युदासवृत्त्या निवृत्तिः यस्यां सत्यामेकत्वाभिनिवेशिनो लोकस्य सदृशापरभावरूपस्य विभ्रमनिमित्तस्यापगमात् ‘निवृत्ता घटादयःऽ; इति व्यवहारः, तत्राकिञ्चित्करत्वं मुग्दरादीनां नैवास्ति, तद्भाव एव तेषां भावात् । वेगवन्मुग्दरादिसहकारिणो घटक्षणात् परस्परोपसर्पणाद्याश्रयात् ( ह्ब्ट् 143 ) प्रत्ययविशेषात् सञ्जातातिशयात् कपालदेर्भवनधर्मत्वात् तस्य च तज्जन्नस्वभावत्वादिति ।
स्वभावद्वयोपगमप्रसङ्गादिति परिजिहीर्षया पर आह- "न प्राग्" इत्यादि । कुत एतत्? । "एकस्वभावत्वात्" । सर्वदैकस्वभावस्य सर्वदा नित्यतैव न पश्चादनित्यस्वभावतासम्भव इति ।
सिद्धान्तवाद्याह- "स तर्हि भावः" सर्वदा नित्यस्वभावः स्वभावेन "नाशमनाविशन्" अप्रतिपद्यमानः कथं नैव नष्टो(कथं नष्टो) नाम? । कुतः? "तत्स्वभावविनाशयोः" नित्यस्वभावताया, विनाशस्य चानित्यरूपतायाश्च "अपरस्पररूपत्वात्" परस्परपरिहाररूपत्वात् । उपसंहरन्नाह- "यत एवं" स्थितिधर्मणां विनाशो नैव युज्यते तस्मात् सति अस्य विनाशे यद्यवश्यम्भावी कृतकरूपस्य सतो विनाश इष्यते परैस्तदा "विनाशस्वभावेन"- विनश्यति नावतिष्ठत इति विनाशः । कर्तरि बहुलवचनाद् घञ् । स स्वभावो यस्य तेन विनाशस्वभावेनास्थितिधर्मणा । "तेन" कृतकरूपेण सता वस्तुना स्वहेतुभ्यो "भवितव्यम्" अन्यथावश्यम्भावितयोपगतस्य कृतकात्मनां सतां विनाशस्यैवायोगात् ।
भवत्वेवम् इति चेत् । आह- "तथापि" स्वयं विनाशस्वभावत्वे ऽपि न केवलमविनश्वरस्वभावत्वे स्वभावान्यथात्वासम्भवाद् व्यर्थो विनाशहेतुरिति प्रथमविकल्पोपन्यास एवोक्तम् न पुनरुच्यते । यत एवं "तेन" इत्यादि सुगमम् ।
तदेवं विनाशं प्रत्यनपेक्षामसामर्थ्य- वैयर्थ्याभ्यां तद्धेत्वयोगेन कृतकलक्षणस्य सत्त्वस्य पूर्वाचार्यदर्शितां प्रतिपाद्य यथासौ विपर्यये बाधकप्रमाणतामनुभवति तद दर्शयन्नाह- "तस्माद् विनाश" इत्यादि । प्रयोगस्त्वेवम्- ये यद्भावं प्रत्यनपेक्षास्ते तद्भावनियताः । तद्यथा- अन्त्या कारणसामग्री स्वकार्योत्पादने । अनपेक्षश्च कृतकरूपः सन् भावो विनाशे ऽवश्यम्भाविविनाशतयोपगतः ( ह्ब्ट् 144 ) परैरिति स्वभावहेतुप्रसङ्गप्रयोगो विपर्यये बाधकं प्रमाणं पूर्वाचार्यप्रदर्शितम् । "ततः" तद्भावनियतत्वे, नाशस्याकादाचित्कत्वादुदयानन्तरं नाश इति "यः सन्" कृतकलक्षणो भावः "स विनाशी" विनश्वरस्वभावो नश्वरतायाः साध्यधर्मस्य निवृत्तौ च कृतकलक्षणसत्त्वनिवृत्तिरिति कृत्वा कृतकलक्षणस्य सत्त्वस्य क्षणिकतायामन्वयव्यतिरेकसिद्धिः सम्पद्यते अनपेक्षयानुक्रान्तसत्त्वक्षणिकत्वयोस्तादात्म्यसिद्धेः तन्निबन्धनयोरन्वयव्यतिरेकयोरपि निश्चयात् ।
तदेवं पूर्वाचार्यान् प्रति अकृतकस्य सतो ऽभावात् "सदकारणवन्नित्यम्" इति नित्यलक्षणविरहादेव न तन्नित्यत्वम् । यत्तु सद् उत्पत्तिमत् तद् उक्तेन न्यायेनावश्यंनाशितयोपगतं परैः कालान्तरस्थायि न भवतीति प्रति पादितम् ।
[44. सामान्येन सत्त्वक्षणिकत्वयोस्तादात्म्यव्याप्तिप्रदर्शनम् ।]

यदा तु यत् सत् तत् क्षणिकमेवेति सामान्येनोच्यते कृतकाकृतकलक्षणं सतो भेदमनपेक्ष्य प्रौढवादितया कृतकस्यापि चावश्यम्भावी विनाश इति परोपगमो नापेक्ष्यते, तदा विनाशं प्रत्यनपेक्षत्वमेव सर्वस्य न सिध्यति । येषां हि विनाशो भवं(वन्) दृष्टो घटादीनां तेषामेव तद्धैत्वयोगत् तत्रानपेक्षा युज्यते । ये तु देशादिव्यवहिताः पर्वतादयो वा विनशामाविशन्तो न दृष्टाः तेषामवश्यं विनाशित्वोपगमनिबन्धनाभावादन्त्ये ऽप्ययं विनाशं प्रत्यनपेक्ष एव विनश्यन्नऽविशेषादादावपि तद्भावनियत इति वक्तुमशक्यत्वात् तत्स्वभावसापेक्षत्वात् । विनाशं प्रत्यनपेक्षत्वासिद्धेरकृतकानां चाकाशादीनां विनाशिस्वभावसापेक्षाणामित्यनपेक्षया सतो नश्वरस्वभावतासिद्धेः अन्वयव्यतिरेकयोस्तन्निबन्धनयोरयोगमुत्पश्यन्नर्थक्रियाविरोधलक्षणमेव तदा बाधकं प्रमाणं तादात्म्यप्रसाधकमभिधानीयमिति मन्यमानः पूर्वपक्षमुत्थापयन्नाह- "स्वभावतो" नश्वरत्वे ऽप्युक्तेन ( ह्ब्ट् 145 ) न्यायेन परिदृश्यमानविनाशानां घटादीनां "कश्चिद्" देशादिव्यवहितः पर्वतादिर्वानुपलब्धविनाशः कृतको ऽपि सद्रूप आकाशादिर्वाकृतकः सन्न "ऽतत्स्वभावो ऽपि" अविनाशिस्वभावो ऽपि स्यात् । अपिशब्दः सम्भावनायाम् । तस्य विनाशिस्वभावसंसाधकप्रमाणाभावादाशङ्कयत एतत् । ततश्च विनाशिस्वभावसापेक्षत्वात् तदनपेक्षत्वमसिद्धमिति तद्वशात् साध्यस्य क्षणिकत्वस्य सत्त्वस्वभावत्वासिद्धेः तन्निबन्धना नान्वयव्यतिरेकसिद्धिरिति । किं पुनरत्राशङ्कानिमित्तं येन कश्चिदतत्स्वभावो ऽप्याशङ्कयत इत्याह- "न हि सर्वः सर्वस्य स्वभावः" इति । विचित्रस्वभावा हि भावा दृश्यन्ते- केचित् सप्रतिघाः केचिदप्रतिघाः, तथा नीलानीलादिस्वभावाः, तथा केचिद्विनाशिनः अन्ये त्वविनाशिस्वभावाः शङ्कयन्त इति पूर्वपक्षाशङ्का ।
न- ‘कश्चिदतत्स्वभावो ऽपि स्यात्ऽ- इति आशङ्कनीयम्, तथाभावे ह्यक्षणिकत्वं तस्य स्यात् । तस्मिंश्च सत्यवस्तुत्वप्रसङ्गात् कुतो ऽतत्स्वभावताशङ्का? । कथं पुनरक्षणिकत्वे ऽवस्तुत्वप्रसङ्गः? । यतः सत्त्वस्य क्षणिकत्वस्वभावतयान्वयव्यतिरेकसिद्धिरित्यत आह- "शक्तिर्हि" इत्यादि ।
[45. अर्थक्रियाकारित्वमेव सत्त्वं, तच्च क्षणिकानामेवेति ।]
एवं मन्यते- इह तावदिदमेव विचारणीयम् किंलक्षणमेतद् भावानां सत्त्वं युक्तमिति । तत्र न सत्तायोगलक्षणमव्याप्तेः, सामान्यदिष्वभावात् । वन्ध्यासुतादिष्वपि भावाद् अतिव्याप्तेर्वा । वन्ध्यासुतादीनामसत्त्वात् कथं सत्तायोगः? इति चेत् । न । इतरेतराश्रयात् । यतस्तेषामसत्त्वं सत्तायोगविरहादेव तद्विरहश्चासत्त्वादिति । यदि च सतामेव सत्तायोगः एवं तर्ह्यन्यत् सत्त्वलक्षणमभिधानीयम् सत्तायोगस्य च वैयर्थ्यम्, तत् एव वस्तुनः सत्त्वात् । सर्वार्थक्रियासामर्थ्यविरहात् सत्तायोगाभावस्तेषामिति ( ह्ब्ट् 146 ) चेत् । एवं सति यदेवार्थक्रियसामर्थ्ययुक्तं तस्यैव सत्तायोग इत्यर्थक्रियासामर्थ्यमेव भावलक्षणमायातमित्यपार्थकः । सत्तायोगः । "इत्थं च" एवम् । अन्यथा सामान्यादीनां कथं स्वरूपं सत्त्वं स्यात्? । अर्थक्रियासामर्थ्यं तु सर्वेषामस्तीति तदेव भावलक्षणम् ।
"उत्पादव्यव्यघ्नौव्ययुक्तं सत्" इत्येतदप्ययुक्तम्, ध्रौव्येणोत्पादव्यययोर्विरोधात् एकस्मिं(स्मिन्) धर्मिण्ययोगात् । कथञ्चिदुत्पादव्ययौ कथञ्चित् ध्रौव्यमिति चेत् । यथोत्पादव्ययौ न तथा ध्रौव्यम्, यथा च ध्रौव्यं न तथोत्पादव्ययाविति नैकं वस्तु यथोक्तलक्षणं स्यात् । ततो ऽन्यस्य भावलक्षणस्यायोगात् शक्तेश्चान्तशः स्वज्ञानजनने ऽप्युपगमात् परैः, अन्यथा षट्पदार्थादिव्यवस्थानायोगात् सैव भावलक्षणम्, सर्वशक्तिविरहः पुनरभावलक्षणम् ।
सर्वग्रहणं च सर्वस्य वस्तुनो वस्त्वन्तरशक्तिविरहरूपत्वादभावतानिरासार्थम् । यस्य तु न क्वचिच्छक्तिः स एवैकान्तेनाभाव उच्यते ।
शक्तिलक्षणमेव सत्त्वमक्षणिके स्यात् ततः क्षणिकात्मता सत्त्वस्य न सिध्यतीति कुतो ऽन्वयव्यतिरेकौ? इति चेत्, आह- "न चैवाक्षणिकस्य" क्वचित् कार्ये ऽन्तशो ज्ञानलक्षणे ऽपि शक्तिरस्ति तत् कुतस्तस्य तल्लक्षणं सत्त्वमतीतादेरिव भविष्यति?, यतः सत्त्वस्य क्षणिकात्मता न सिध्येत् ।
ननु च शक्तेरतीन्द्रियत्वात् कारणानां कार्यरम्भनियमाभावाच्च कथं तद्विरहो ऽक्षणिकस्य भवेत् यतो ऽस्य सर्वशक्तिविरहलक्षणेनासत्त्वेन विरोधिना निराक्रियमाणं सत्त्वं क्षणिकात्मतामेवानुभवेत् यतो ऽन्वयव्यतिरेकौ स्यातामित्यत आह- "क्रमयौगपद्याभ्याम्" इत्यादि । नैव प्रत्यक्षतः कार्यविरहाद्वा सर्वशक्तिविरहो ऽक्षणिकत्वे उच्यते, किन्तु तव्द्यापकविरहात् । तथा हि- क्रमयौगपद्याभ्यां कार्यक्रिया व्याप्ता प्रकारान्तराभावात् । ततः कार्यक्रियाशक्तिव्यापकयोस्तयोरक्षणिकत्वे ( ह्ब्ट् 147 ) विरोधात् निर्वृत्तेस्तव्द्याप्तायाः कार्यक्रियाशक्तेरपि निवृत्तिरिति सर्वशक्तिविरहलक्षणमसत्त्वमक्षणिकत्वे व्यापकानुपलब्धिराकर्षति, विरुद्धयोरेकत्रायोगात् । ततो निवृत्तं सत्त्वं क्षणिकेष्वेवावतिष्ठमानं तदात्मतामनुभवतीति- ‘यत् सत् तत् क्षणिकमेवऽ; इत्यन्वयव्यतिरेकरूपाया व्याप्तेः सिद्धिर्निश्चयो भवति ।
ननु च प्रकारान्तराभावात् कार्यमङ्कुरादिकं बीजादिना क्रमयौगपद्याभ्यामेव क्रियत इत्युच्यते स एव तु प्रकारान्तरविरहः कार्यात्मनः कुतः सिद्धः? । प्रकारान्तरस्योपलब्धिलक्षणप्राप्तत्वे कथमत्यन्तासम्भवः? । केवलं देशादिनिषेधमात्रमेव स्यात् । अनुपलब्धिलक्षणप्राप्तत्वेनासत्तानिश्चयो विप्रकर्षिणामिति कुतस्तदभावसिद्धिः? । ततः प्रकरान्तरेणार्थक्रियासम्भवात् क्रमयौगपद्यनिवृत्तावपि नार्थक्रियासामर्थ्यनिवृत्तिरिति कुतो ऽक्षणिकत्वे सति सर्वसामर्थ्यविरहलक्षणमसत्त्वम्?, यतः सत्त्वस्य क्षनिकात्मतयान्वयव्यतिरेकौ स्याताम्? । न । उभयथाप्यदोषात् । तथा हि- क्रमो नाम परिपाटिः कार्यान्तरासाहित्यं कैवल्यमङ्कुरादेः, यौगपद्यमपि तस्यापरैर्ब्बीजादिकार्यैः साहित्यं । प्रकारान्तरं चाङ्कुरादेः तदुभयावस्थाविरहे ऽप्यन्यथाभवनम् । तस्य चाङ्कुरादिस्वभावस्यान्यसहितस्य केवलस्य वाभावे प्रत्यक्षबोधगम्यमाने सत्युपलब्धिलक्षणप्राप्त एव स्वभावः क्रमयौगपद्यभावबहिर्भूतो नोपलभ्यते । वस्तुनः उपलभ्यस्यान्यसाहित्ये कैवल्ये चापनीते तद्विविक्तदेशादिप्रतिभासिनः प्रत्यक्षस्योदयात् स्वभावानुपलम्भत एवाभावनिश्चयादिलक्षणव्यवहारवृत्तेः । तस्य चाङ्कुरादिभावस्यावस्थाद्वयबहिर्भावनिषेधे कयोश्चिद्देशकालयोः देशान्तरादौ क्रमेणाङ्कुरादिभाववतीरतरस्मिन् वा भावे ऽपि न काचित् क्षतिः । ततः प्रत्यक्षत एव प्रकारान्तराभावसिद्धेः कथं क्रमयौगपद्याभ्यामर्थक्रियाशक्तिरव्याप्ता स्यात्? । शास्त्रकारस्तु यथा प्रत्यक्षत एव प्रकारान्तराभावसिद्धिः तथा स्वयम् "एतेन क्रमाक्रमादयो ऽपी"ति अतिदिशन् वक्ष्यति ।

अनुपलब्धिलक्षणप्राप्तत्वे ऽपि प्रकारान्तरस्य क्रमयौगपद्ययोरन्यो ऽन्यव्य वच्छेदरूपत्वादेवाश्रयसि (देवाभावसि)द्धि तथाहि- अन्योन्यव्यवच्छेदरूपाणामेकनिषेधेनापरविधानात् तस्याप्रतिषेधे विधिप्रतिषेधयोर्विरोधादुभयप्रतिषेधात्मनः प्रकारान्तरस्य कुतः सम्भवः? । अत्र प्रयोगः- यत्र यत्प्रकारव्यवच्छेदेन यदितरप्रकारव्यवस्थानं न तत्र प्रकारान्तरसम्भवः, तद्यथानीलप्रकारव्यवच्छेदेनानीलप्रकारान्तरव्यवस्थायां पीते । अस्ति च क्रमयौगपद्ययोरन्यतरप्रकारव्यवच्छेदेन तदितरप्रकारव्यवस्थानं व्यवच्छिद्यमानप्रकाराविषयीकृते सर्वत्र कार्यकारणरूपे वस्तुनीति विरुद्धोपलब्धिः व्यवच्छिद्यमानप्रकारेतरव्यवस्थानं च, प्रकारान्तरसम्भवश्च ततो बहिर्भावलक्षण इत्यनयोस्तत्त्वान्यत्वरूपयोरन्योन्यपरिहारस्थितलक्षणत्वात् । न चात्रापि बाधकान्तराशङ्कयानवस्थानमाशङ्कनीयम्, पूर्वप्रसिद्धस्य विरोधस्य स्मरणमात्रत्वात् । विरुद्धोपलब्धिषु बहिर्द्धर्मिणि हेतोः सद्भावमुपदर्श्य विरोधसाधनमेव बाधकम्, तच्चेहास्ति । ततो विरुद्धयोरेकत्रासम्भावात् प्रतियोग्यभावनिश्चयः शीतोष्णस्पर्शयोरिव भावाभावयोरिव वेति कुतो ऽनवस्था? ।
तत्र न क्रमेणाक्षणिकः कार्याणि करोत्यविशेषादकारकावस्थायामिव । सहकार्यपेक्षा च द्विविधस्यापि सहकारित्वस्यायोगादनुपन्यसनीया । सर्वेषां चैकक्रियाकाल एव क्रियाप्रसक्तेः, तत्कारकस्य स्वभावस्य तदैव भावात् । नापि युगपत्, प्रत्यक्षादिविरोधात्, पुनस्तत्क्रियाप्रसङ्गाच्च । कृतत्वान्नेति चेत्, न, सामर्थ्यानपायात् । अन्यथा प्रागप्यकारकरूपविशेषादक्रिया स्यात् । कृतस्य कर्तुमशक्यत्वादिति चेत् । शक्ताशक्ततया तर्ह्येकत्रैव कार्ये भेदप्रसङ्ग शालिकोद्रवबीजादेरिव । नित्यश्च यदा युगपत् करोति ततः प्रागपि भावात् तदैव तत्क्रियाप्रसङ्गः पुनस्ततो ऽपि पूर्वतरम् इत्येवं न कदाचिद्युगपत् क्रिया स्यात् । पूर्वोत्तरकालयोश्चैकदा युगपत्कारिणो ऽन्यदा सर्वार्थक्रियासामर्थ्यविरहलक्षणमसत्त्वं ( ह्ब्ट् 149 ) स्यादिति कथं न क्षणिकता? । क्रियोपगमे वा क्रमपक्ष एव । तत्र चोक्तो दोषः । एवमक्षणिकत्वे सति चक्षुराद्यायतनानामसत्त्वप्रसङ्गात् क्षणिकतायामेव सत्त्वमिति यत् सत् तत् क्षणिकमेवेति सतो नश्वरात्मतासिद्धेः अन्वयव्यतिरेकरूपव्याप्तिसिद्धिरिति ॥
3. कार्यकारणभावव्यवस्था ।]
तदेवं स्वभावहेतौ तादात्म्यसिद्धिनिबन्धनमन्वयव्यतिरेकनिश्चयं प्रतिपाद्य कार्यहेतौ कार्यकारणभावसिद्धिनिमित्तत्वात् तयोस्तस्याश्च प्रत्यक्षानुपलम्भनिबन्धनायाः प्रागेव दर्शितत्वात् तग्दतमपरमपि परेषां भ्रान्तिकारणपनेतुं तद्विषयं दर्शयन्नाह- "अर्थान्तरे" हेतोर्व्यतिरिक्ते वस्तुनि गम्ये "कार्यं हेतुः" । अनर्थान्तरे तु स्वभावो हेतुरित्युक्तम् । कस्मात् पुनरर्थान्तरे कार्यमेव हेतुरित्याह- "अव्यभिचारात्" इति कार्यमेव ह्यर्थान्तरं न व्यभिचरति नान्यत् यथोक्तं प्राक् ततः कार्यमेवार्थान्तरे गम्ये हेतुरुच्यते संयोगवशाग्दमकत्वे ।
"न च केनचित्" इत्यादिना यः सर्वथा गम्यगमकभावप्रसङ्ग आचार्येणोक्तः परस्य, तमिहापि कार्यहेतौ परः कदाचित् प्रसञ्जयेदित्याशङ्कमान आह- "कार्यकारण- " इत्यादि । यदि हि कार्यं हेतुरुच्यते तदा कार्यकारणभावेन कारणेनास्य गमकत्वम् । तथा च सति सर्वथा गम्यगमकभावः प्राप्नोति । अग्नेः सामान्यधर्मवद् विशेषधर्मा अपि तार्णपार्णादयो गम्याः स्युः । धूमस्यापि विशेषधर्मवद् द्रव्यत्वपार्थिवत्वादयो ऽपि सामान्यधर्मा गमका भवेयुः । कुतः? "सर्वथा जन्यजनकभावात्" । जन्यजनकभावो हि कार्यकारणभाव उच्यते । स च नाग्निधूमयोरंशेन अपि तु सर्वेण प्रकारेण । तथाहि- यथा अग्निरग्नित्वद्रव्यत्वसत्त्वादिभिः सामान्यधर्मैर्जनकः तथा तार्णपार्णत्वादिभिर्विशेषधर्मैरपि, यथा च धूमो धूमत्वपाण्डुत्वादिभिः स्वनियतैर्विशेषधर्मैर्जन्यः तथा सामान्यधर्मैरपि सत्त्वद्रव्यत्वादिभिः । ततश्च यथा तयोः कार्यकारणभावः तथैव गम्यगमकभावः प्राप्नोति, तस्यैव तन्निबन्धनत्वादिति पूर्वपक्षाशङ्का । अत्राह- "न सर्वथा जन्यजनकभावः" ततश्च कुतस्तथा गम्यगमकभावः स्यात्? । कस्मात्? इति चेत्, ( ह्ब्ट् 151 ) "तदभावे" तेषां तार्णपार्णत्वादिनां विशेषधर्माणामभावे "भवतो" धूममात्रस्य तेभ्य एव विशेषधर्मेभ्यो भवतीति एवमात्मनः "तदुत्पत्तिनियमस्याभावात्" । तथा "तदभावे" अग्न्यभावे भवतो द्रव्यत्वादेः सामान्यधर्मस्याग्नेरेवायं भवती त्येवंरूपस्य तदुत्पत्तिनियमस्याभावात् कुतः सर्वथा जन्यजनकभावः?, यतः सर्वथा गम्यगमकभावः स्यात् । न ह्यसति तदुत्पत्तिनियमे जन्यजनकभावो व्यवस्थापयितुं युक्तः । यत एवं "तस्मात् कार्यं" धूमादिकं "स्वभावैर्यावद्भि" र्धूमत्वादिभिः स्वगतैः । इत्थम्भूतलक्षणा च तृतीया । "अवीनाभावि" विना न भवति । कैर्विना न भवति? । ‘कारणे यावद्भिः स्वभावैःऽ; इत्यत्रापि सम्बध्यते । कारणाश्रितैर्यावद्भिः स्वभावैर्विना ते कार्यगताः स्वभावा न भवन्ति हेतुः तैस्तेषामिति गम्यते । क्व अविनाभावि? । "कारणे" कारणविषये अपरो ऽर्थः "कारणे" आधारसप्तमी । इदानीं कारणस्थैः स्वभावैर्यावद्भिरग्नित्वद्रव्यत्वादिभिरविनाभावि तेषां कारणगतानां सामान्यधर्माणां हेतुः कार्यं गमकम् । कस्मात्? इत्याह- "तत्कार्यत्वनियमात्" तेषामेव कारणगतानां सामान्यधर्मानां तत् कार्यमित्येवंरूपस्य नियमस्य सद्भावात् । नहि तान् सामान्यधर्मान् कदाचिदपि कार्यं व्यभिचरति ।
एवं कारणगतमंशं पाश्चात्येनार्थेन निरूप्य प्राक्तनेनार्थेन कार्यगतमंशं निरूपयन्नाह- "तैरेव च" इत्यादि । कार्यमपि तैरेव धर्मैः स्वगतैः कारणगतानां धर्माणां गमकम् यथान्तरा सम्भविनो धूमत्वपाण्डुपार्णत्वादयो विशेषरूपास्तैः कारणगतैः सामान्यधर्मैर्विना न भवन्ति । अत्रापि ‘तत्कार्यत्वनियमात्ऽ; इत्यपेक्ष्यते । तेषामेव कार्यगतानां विशेषधर्माणां कारणगतसामान्यधर्मापेक्षया कार्यत्वनियमात् । न हि ते विशेषधर्माः कार्यगताः कारणस्थसामान्यधर्मैर्विना कदाचिदपि भवन्ति । ततस्तेषामेव कार्यत्वनियमः, नान्येषां द्रव्यत्वादीनां ( ह्ब्ट् 152 ) कारणस्थसामान्यधर्मैर्विना भवताम् । तदेवं कारणस्य सामान्यधर्मा एव गम्या न विशेषधर्माः, कार्यस्यापि विशेषधर्मा एव गमका न सामान्यधर्माः, तत्कार्यत्वनियमात् । ये तु कारणस्य विशेषधर्मा यैस्तत्कार्यत्वनियमः कार्यमात्रस्य नास्तीति न ते गम्याः । ये च कार्यस्य सामान्यधर्मा द्रव्यत्वादयस्तेषामपि तत्कार्यत्वनियमाभावादेव गमकत्वं नास्तीति कार्यकारणभावेन गमकत्वे कुतः सर्वथा गम्यगमकभावः परेषामिव प्रसज्येत? ।

[2. जन्यजनकभावस्य सर्वथा सत्त्वे ऽपि गम्यगमकभावस्य न तथात्वम् ।]
परस्यानिष्ठापादनमाशङ्कयाह- "अंशेन" इत्यादि । यदि हि कारणस्य सामान्यधर्मा एव गम्याः कार्यस्यापि विशेषधर्मा एव गमकाः तत्कार्यत्वनियमादिष्यन्ते, हन्त तर्ह्यशेन जन्यजनकभावः प्राप्तः । कारणस्य सामान्यधर्मा एव जनका न विशेषधर्माः, कार्यस्यापि विशेषधर्मा एव जन्या न सामान्यधर्मा इति स्यात् । सर्वथा च जन्यजनकभावो ऽभिमत इत्युभ्युपगमविरोधः । एतत् परिहरति- नांशेन जन्यजनकभावप्रसङ्गः, निरंशत्वेन वस्तुनः सर्वात्मना तदभ्युपगमात्, गम्यगमकभावस्यापि सर्वथाभिमतत्वात् । तदाह- "तज्जन्य" इत्यादि । यदि हि कार्यस्य तैः कारणगतैर्विशेषधर्मैर्जन्यो यो विशेषः स ग्रहीतुं शक्यते, तदा तज्जन्यविशेषग्रहणे ऽभिमतत्वात् कारणगतविशेषधर्माणां गम्यत्वस्य । तथा लिङ्गविशेषो धूमत्वादि उपाधिर्विशेषणं येषां द्रव्यत्वादीनां सामान्यानां कार्यगतानां तेषां चाभिमतत्वाग्दमकत्वस्य । तथा हि- अगुरुधूमग्रहणे भवत्येव तदग्नेरनुमानं धूमत्वविशेषणेन च द्रव्यत्वादिनाग्नेरनुमानम् । न हि सर्वथा जन्यजनकभावो ऽस्तीत्येव तथैव गम्यगमकभावो भवति, तस्य ज्ञानापेक्षत्वात् । तथा हि- न सत्तामात्रेण लिङ्गस्य गमकत्वम्, तस्य ज्ञापकत्वात् । ज्ञापको हि स्वनिश्चयापेक्षो ज्ञाप्यमर्थं ज्ञापयति, नान्यथा । कथं ( ह्ब्ट् 153 ) तर्ह्युक्तं "तदभावे भवतः तदुत्पत्तिनियम(मा)भावात्" इति ।? । सर्वथा जन्यजनकभावाभ्युपगमे तदभावे भावस्यैवाभावादित्यत आह- "अविशिष्ट"- इत्यादि । यदि हि तज्जन्यविशेष ग्रहणरहितमविशिष्टं कार्यमात्रमुपादीयते लिङ्गविशेषोपाधिरहितं वा द्रव्यादिकं तदा "अविशिष्टसामान्यविवक्षायां" कारणगतविशेषाभावे ऽपि धूममात्रस्य भावात् तदविशिष्टस्य च द्रव्यत्वादेरग्न्यभावे ऽपि भावाद् व्यभिचार इति सर्वथा जन्यजनकभावो नेष्यते, तदभावाद् गम्यगमकभावश्च । न तु विशेषविवक्षायाम्, तत्र व्यभिचाराभावात् । तथा हि- यदि नामधूममात्रं तार्णपार्णादिविशेषाभावे भवति, न तु तज्जन्यो विशेषः, स यदि ग्रहीतुं शक्यते, तदा विशेषस्य गम्यत्वमस्त्येव, निश्चितस्यैव लिङ्गत्वात् । तथा यद्यपि द्रव्यत्वसत्त्वमात्रमग्न्यभावे ऽपि भवति न तु धूमात्मकमिति तद्विशिष्टस्याव्यभिचाराद् गमकत्वमपि न वार्यत इति ।
[3. कार्यकारणभावप्रतीतेरतिदुर्लभत्वाशङ्काया निरासः ।]
अत्र परस्य वचनावकाशमाशङ्कयाह- "कस्यचित्" धूमादेः "कदाचित्" कस्मिंश्चित् काले "कुतश्चित्" अग्न्यादेः "भावे ऽपि" सति "सर्वो" धूमादिः "तादृशो" यादृश एकदाग्न्यादेर्भवन दृष्ट तज्जातीयः, "तथाविधजन्मा" यथाविधात् स एको भवन् दृष्टः तादृशादेव जन्म यस्य स । "तथाविधजन्मेत्येतत् कुतः" प्रमाणादवसितम्? येनोच्यते ‘कार्यहेतौ कार्यकारणभावसिद्धिनिबन्धनावन्वयव्यतिरेकौऽ; इति । तथाहि- यदि नाम प्रत्यक्षानुपलम्भाभ्यां कस्यचिद्धूमस्याग्न्यादिसामग्रीकार्यत्वमवगतं किमेतावतान्यस्यापि तादृशस्य तादृशकार्यता सिध्यति, तत्र तन्निबन्धनयोः प्रत्यक्षानुपलम्भयोरव्यापारात् । यत्रैव हि तयोर्व्यापरस्तस्यैव तत्कार्यता भवतु, तदन्यस्य तु किमायातम्? येन तथविधादस्य जन्म स्यात् । एवं हि कस्याश्चिद्धूमव्यक्तेरग्न्यादिजन्यता दृष्टेति किन्न घटादेरपि साभ्युपगम्यते? अन्यत्वेन ( ह्ब्ट् 154 ) विशेषाभावात् । क एवं सति दोषः? इति चेत् ; तथा च प्रमाणाभावेन तथाविधजन्मत्वानिश्चयादतादृशादपि जन्माशङ्कायां तादृशस्य धूमादेरग्न्यादिनाऽन्वयव्यतिरेकौ न निश्चिताविति कुतः कार्यहेतोर्गमकत्वम्? । न हि यो ऽसावेको देशकालावस्थानियतो ऽग्निविशेषहेतुको धूमो ऽधिगतः प्रत्यक्षानुपलम्भाभ्यां तस्यैवान्वयव्यतिरेकौ प्रतिपत्तव्यौ । तस्य देशान्तरादावसम्भवात् । किं तर्हि? । तादृशस्य सामान्यात्मन एव लिङ्गत्वात् तस्य चातथाविधादपि जन्माशङ्कायां कुतस्तथाविधेनान्वयो व्यतिरेको वा? । तदुक्तम्-
"अवस्थादेशकालानां भेदाद् भिन्नासु शक्तिषु ।
भावानामनुमानेन प्रतीतिरतिदुर्ल्लभा ॥" इति ।
सिद्धान्तवाद्याह- "न, अतद्भाविनः" इत्यादि । एवं मन्यते- इहैकदा धूमादेरग्न्यादिसामग्रीजन्यतया प्रत्याक्षानुपलम्भाभ्यां निश्चितरूपत्वे ऽपि तादृशस्यातादृशादपि भावः समाशङ्क्यते यथापरिदृष्टादन्यत्वेन । तत्र यो ऽसावग्न्यादिसामग्रीजन्यो धूमविशेष एकदा निश्चितस्तदपेक्षया यथान्यो धूमविशेषस्तादृशो यो ऽन्यादृशादपि- भावानां विचित्रशक्तितया- भवेदिति शङ्कयते, तथा सो ऽप्येकदाग्न्यादिसामग्रीजन्यतया निश्चितस्तदन्यापेक्षया तादृश एव । तत्र यदि तदन्यस्य तादृशस्यातादृशाज्जन्म स्यात् तदा तादृशस्य स्वभावस्य नाग्न्यादिसामग्रीजन्यस्वभावतेति परिदृष्टस्यापि धूमस्य नाग्न्यादिसामग्री कारणमित्यायातम् । तादृशस्य स्वभावस्याग्न्यादिसामग्रीविलक्षणकारणजन्यस्वभावत्वात् । ततश्चाग्न्यादिसामग्र्या अकारणत्वात् यो मयैकदा ततो भवन् दृष्टो धूमः सो ऽपि न भवेत् । नहि यद् यस्य कारणं न भवति तत् ततः सकृदपि जायते, तस्याहेतुकत्वप्रसङ्गादिति । "अतद्भाविनः" इति तच्छब्देन विवक्षितमग्न्यादिकारणं परिगृह्यते, न तत् अतत्, तव्दिलक्षणं अतादृशं शक्रमुर्द्धादिकम्, अतस्माद् भवितुं शीलं ( ह्ब्ट् 155 ) यस्य तस्यातद्भाविनस्तादृशस्य तल्लक्षणस्य धूमवस्तुनः "सकृदपि" एकदापि "ततः" अग्न्यादेः "अभावाद्" भावविरोधात् । भवति च तादृशो ऽग्न्यादिसामग्रीतः ततस्तादृशस्य स्वभावस्य तादृशमेव कारणमित्यवगम्यते सकृत्प्रवृत्ताभ्यामेव प्रत्यक्षानुपलम्भाभ्यामिति कुतो व्यभिचाराशङ्का? । तेन यादृशो धूमो ऽग्न्यादिसामग्र्या भवन् दृष्टः सकृत् तादृशस्य तस्य तज्जन्यस्वभावतया तादृशादेव भावात् ‘यत्र धूमस्तत्राग्न्यादिसामग्रीऽ; इत्यन्वयव्यतिरेकनिश्चयः ।
अथवान्यथा व्याख्यायते- इह प्रत्यक्षानुपलम्भनिबन्धना कार्यकारणभावसिद्धिः प्रागुक्ता तन्निबन्धनावन्वयव्यतिरेकौ प्रतिपादयितुम्, तच्चायुक्तम् । तथा हि- "कस्यचित्" धूमस्याग्न्यादिसामग्र्यनन्तरभाविन आद्यस्य "कदाचित्" प्रथमोत्पादकाले "कुतश्चिद्" अग्न्यादिसामग्र्याः "भावे ऽपि" उत्पादे ऽपि "सर्वस्तादृशो" यादृशः प्रथमक्षणभावी धूमो द्वितीयादिक्षणेष्वपि तादृशः प्रत्यक्षत एव तस्य पूर्वक्षणाविलक्षणतया प्रतीतेः । "तथाविधजन्मा" इति यथाविधादग्नीन्धनसामग्रीलक्षणात् कारणादाद्यो धूमक्षण उत्पन्नस्तथाविधाज्जन्म यस्य स "तथाविधजन्मेत्येतत् कुतः" नैव तस्य धूमादेरभावात् । एवं च यद्यतो दृष्टं तस्यान्यतो ऽपि भावस्य दर्शनात् सर्वत्रानाश्वास इति मन्यमान आह- "तथा च" अनग्नितो धूमादपि धूमस्य भावे शक्रमूर्द्धादेरपि तस्य भावाविरोधादग्निना धूमस्य नन्वयव्यतिरेकाविति चेन्मन्यसे इति पूर्वपक्षाशङ्का ।
तदुक्तम्-

"क्षणिकत्वे कथं भावाः क्वचिदायत्तवृत्तयः ।
प्रसिद्धकारणाभावे येषां भावस्ततो ऽन्यतः ॥
अतश्चानग्नितो माद् यथा धूमस्य सम्भवः ।
शक्रमूर्द्व्नस्तथा तस्य केन वार्येत संभवः ॥"इति ।
सिद्धान्तवाद्याह- नाग्नीन्धनसामग्रीजन्यो यादृशो धूमस्तादृश एव धूमादपि भवति कारणभेदेन । कुतश्चित् साम्यात् ( ह्ब्ट् 156 ) सरूपतयावसीयमानस्याप्यन्यादृशत्वात् । तादृशो ह्यग्नीन्धनसामग्रीक्षणान्तरजन्य आद्य एवापरः क्षणस्तथा तदन्य आद्य एवापराग्नीन्धनसामग्रीजन्य इति तादृशस्य धूमस्य धूमादसम्भवात् न क्वचिदनाश्वासः कार्यः । तथा यादृशो द्वितीयक्षणभावी प्रथमधूमक्षणजनितो धूमक्षणस्तादृशो ऽपरप्रथमधूमक्षणजनित एव द्वितीयो धूमक्षणो न तृतीयादिः । एवं तृतीयक्षणादिष्वप्यङ्कुरादिषु च सर्वत्र वाच्यम् । कुतः पुनरयं विभागः? इति चेत्, आह- "अतद्भाविनः" अतस्माद्- अनग्नीन्धनादिरूपाद् धूमाद् भवनशीलस्य प्रथमक्षणाविलक्षणस्य धूमस्य "सकृदपि" एकदापि "ततः" अग्न्यादिसामग्र्याः "अभावाद" भावायोगाद् । यथा हि प्रथमक्षणापेक्षया द्वितीयस्तादृशस्तथा तदपेक्षया प्रथमो ऽपीति तादृशत्वाविशेषात् तादृशस्यानग्नितो भावे तादृशो नाग्निजन्यस्वभावः इति सकृदपि ततो न भवेत् । भवन् वा तज्जन्यस्वभावतामात्मानस्तादृशः ख्यापयतीति कुतो ऽन्यादृशाद् भवेत्? तस्मादन्यादृशाद् भवन्नन्यादृश एव ततो न व्यभिचारः ।
[4. भिन्नकारणजन्यानां धूमानां अतादृशत्वे ऽपि सादृश्यात् तादृशत्वाभिमानः ।]
ननु सर्वेषां धूमक्षाणानां कण्ठक्षणनाक्षिस्रुतिकालीकरणादिकायामर्थक्रियायामुपयोगात् कथं तादृशस्वभावता न स्यात्? । न, तस्या अप्यर्थक्रियायाः क्षणभेदोपधीयमानरूपायाः तादृशत्वाभावात् तत्रापि तुल्यदोषत्वात् । कथं तर्हि लोके सर्वत्र धूमव्यवहारः इति चेत्; सदृशापरभावनिबन्धनैकत्वाध्यवसायवशात् क्षणिअर्व्यवहारायोगाच्च । सादृश्ये सति कथं न तादृशता? इति चेत् । तादृशादन्यत्वात् सदृशस्य । तथा हि- गोसदृशो भवति गवयः न तु तादृशः, गोरेवापरस्य तादृशत्वात् । परमार्थेनातादृशे ऽपि तादृशाभिमानो मन्दमतीनां भवन् कथं निवार्त्येत्? । तथा हि- तत्त्वाध्यवसायो ऽपि तावद्- अतस्मिन्नर्वाग्दृशां विनिवारयितुं न पार्यते, किमङ्ग पुनस्तादृशत्वाध्यवसायः? यथोक्तम्-
"समानवर्णसंस्थाने सन्ताने ऽत्यत्र जायते ।
अतस्मिंस्तन्मतिः पुंसां किमुतैकत्र संततौ? ॥" इति ।
तत्त्वचिन्तकास्तु तादृशातादृशकारणभेदात् तादृशातादृशतां भावानां अनुमन्यन्ते न तादृशताम् । तद् यद्यतादृशादपि तदृशो भवेत् तदा तस्य तज्जन्यः स्वभाव इत्यतद्भाविनः सकृदपि ततो भावो न स्यात् । अमुमेवार्थं समर्थयमन आह- "परस्परापेक्षया" इत्यादि । कारणापेक्षया हि जन्यस्वभावं कार्यम्, कार्यापेक्षया च जनकस्वभावं कारणम् । यतो हि कारणाद् यद् भवद् दृष्टम् तस्य तज्जन्यस्वभावः, इतरस्य च तज्जनक इति प्रतीयते । अन्यथा तस्य ततो भावायोगात्, इतरस्य च तज्जननायोगात् । यदि नामैवं ततः प्रकृते किं सिद्धम्? इत्यत आह- "तत्र" एतस्मिन् न्याये सति "यदि धूमो" यादृश आद्यो ऽग्न्यादिसामग्रीजनितस्तादृशो द्वितीयादिक्षणभावी "अग्न्यादिसामग्र्या" अग्नीन्धनादिकारणकलापात् तज्जनकस्वभावतया निर्द्धारिता "दन्यतो"ऽग्नीन्धनादिसामग्रीजनितादाद्याद्धूमक्षणाद् भवेत् । तदा "तस्य" तादृशस्य धूमस्वभावस्य "तज्जन्यो"ऽग्न्यादिसामग्रीजन्यः "स्वभावो न भवति" किन्तु धूमजन्य एवेति कृत्वा सकृदपि "ततो"ऽग्न्यादिसामग्रीतो "न भवेत" । तादृशस्य हि स्वभावस्यान्यतो भावे तज्जन्यस्वभावता, नाग्न्यादिजन्यस्वभावतेति कुतः सकृदपि ततो भावो युज्येत । अत्र दृष्टान्तः "अर्थान्तरवद्" इति । यथा ह्यर्थान्तरमतज्जन्याभिमतमन्यतो भवत् न तज्जन्यस्वभावं नाग्न्यादिसामग्रीजन्यस्वभावमिति सकृदपि ततो न भवति तद्वत् तादृशो धूमो ऽपीति ततो भवन्नन्यादृश एवासाविति गम्यते ।
स्यान्मतम्- अग्न्यादिसामग्र्यासावतज्जन्यस्वभावो ऽपि तादृशो बलाज्जन्यते कस्तस्य तपस्विनो ऽपराधः? इत्यत आह- "नापि" न केवलं स्वयमतज्जन्यस्वभावतया ततो न भवेत्, किन्त्वग्न्यादिसामग्र्यपि तं तादृशं धूमं- यादृशो द्वितीयादिक्षणभावी- ( ह्ब्ट् 158 ) न जनयेत् । कुतः? । अतज्जननस्वभावत्वात् । तादृशस्य ह्यन्यतो भावे स एव तज्जननस्वभावो नाग्न्यादिसामग्रीति तज्जननस्वभावविकला कथं तं जनयेत्? । अत्राप्युदाहरणम्- "सामग्र्यन्तरवदिति" । यथा सामग्र्यन्तरमतज्जननस्वभावाभिमतं न जनयति तद्वदग्न्यादिसामग्र्यपि । तथा हि- सा आत्मीयं स्वभावमनुसृत्यैव प्रवर्तते, ततः कुतो ऽसौ सामग्रीबलाज्जायेत? ।
[5. तादृशातादृशजन्यत्वे कार्यस्यापि तादृशातादृशत्वम् ।]
स्यान्मतम्- अग्न्यादिसामग्रीजन्यस्वभावो ऽपि तादृशो धूमो धूमजन्यस्वभावो ऽपि यथा स एव धूम इन्धनजन्यस्वभावो ऽग्निजन्यस्वभावश्चोभयतो भवति । तथा तादृशो ऽपि धूम उभयसामग्रीजन्यस्वभावतयोभयतो भविष्यतीत्यत आह- "न च" नैव "धूमस्य" तादृशस्य "तदतज्जन्यः" अग्न्यादिसामग्रीजन्यो धूमजन्यश्च "स्वभावो युक्तः" युक्त्या सङ्गतः । कुतः? "एकस्वभावत्वात्" तादृशस्य धूमरूपस्य भेदाभावात् । नहि तस्य कालभेदे ऽपि तादृग्रूपता भिद्यते । भेदे ह्यन्यादृशस्यान्यादृशाद्भावे विवादायोगात् । तस्य यदि तादृशातादृशकारणजन्यता स्यात् ततस्तादृशातादृशस्वभावतैव स्यात् । तदेव दर्शयन्नाह- "धूमाधूम"- इत्यादि । धूमशब्देन यादृशो ऽग्न्यादिसामग्रीजन्यस्तादृशः स्वभावो ऽभिप्रेतः, अधूमशब्देनान्यादृशकारणजन्यो धूमजनितो ऽन्यादृशः । तयोश्च तादृशातादृशकारणजन्यतयैव तादृशातादृशस्वभावतावगन्तव्या वक्ष्यमाणनीत्या । तेनाग्निधूमलक्षणात् "धूमाधूमजननस्वभावात्" तादृशातादृशजननस्वभावात् तादृशातादृशतयास्य भवतो धूमाधूम[स्वभाव]स्तादृशातादृशस्वभावः स्यात् कुतस्तादृश एव? । कुत एतत्? इत्याह- "कार्यस्वभावानाम्" इत्यादि । कार्याणां हि ये स्वभावाः परस्परासंभविनः ते परस्परविलक्षणकारणसामग्रीस्वभावकृता न स्वाभाविका अहेतुकत्वप्रसङ्गात् । ततस्तादृशातादृशाद् भवतो धूमस्य तादृशातादृशस्वभावतैव स्यात् ।

स्यान्मतम्- नैव तादृशातादृशस्वभावतायां तादृशातादृशकारणापेक्षा, कार्याणामुत्पत्तिमात्र एव कारणापेक्षणादित्यत आह- "अकारणापेक्षणे च" तादृशातादृशरूपतायां तादृशातादृश- कारणानपेक्षणे च तादृशातादृशतायाः "अहेतुकत्वप्रसङ्गात्" । न हि तादृशातादृशस्वभावयोरभूत्वा भावव्यतिरेकेणान्या काचिदुत्पत्तिः यत्र तादृशातादृशस्वभावकारणनिरपेक्षाणामपि तदपेक्षा स्यात् । तस्मादुत्पत्तिशब्देन तादृशातादृशस्वभावतैवोच्यत इति । तत्र कारणापेक्षोपगमे कथं तादृशातादृशतायां कारणापेक्षा न स्यात् । तस्मात् सामग्रीणां तादृशातादृशत्वादेव कार्याणां तादृशातादृशस्वभावविभाग इति कुतो ऽन्यादृशात्तादृशसम्भवः? इति ।
यत्तूक्तं ‘यथैको धूमो ऽग्नीन्धनाभ्यां विलक्षणाभ्यां जन्यते तथैकलक्षणमपि कार्यं विलक्षणादपि सामग्र्यन्तराद् भविष्यतिऽ; इति । तदयुक्तम् । यतो नास्माभिर्विलक्षणानां जनकत्वं वार्यते जनयन्त्येव परस्पविलक्षणा अपि स्वहेतुपरिणामोपनिधिधर्माणस्तदवस्थानियताः तदेकं कार्यं, तस्य तु तेषां च परस्परापेक्षया जन्यजनकस्वभावतानियमात् तादृशस्य तादृशादेव जन्मोच्यते नान्यादृशात्, तस्यातज्जननस्वभावत्वात्, तदभावे ऽप्यन्यतो भवतस्तदुत्पत्तिनियमाभावात् । अनियमे च कार्यकारणभावायोगात् । यदि त्वग्निरिवेन्धनोपादानोपकृतस्तदुपादानोपकृतं चेन्धनमिव तदवस्थानियतमतादृशमपि धूमादिकं तादृशं धूमं जनयेत् प्रत्यक्षानुपलम्भाभ्यां च तथावगम्येत तदाग्न्यादिवत् सो ऽपि तज्जननस्वभावतानियमात् तादृशजनकः केन नानुमन्येत । तदभावे ऽपि तु तादृशस्य भावे तयोर्जन्यजनकस्वभावतानियमाभावात् कुतः कार्यकारणतेत्यहेतुतैव तादृशस्यान्यादृशाद् भवतः स्यात् । यत एवं "तस्मात्" सो ऽग्नीन्धनादिसामग्रीविशेषो मन्तव्यो "यः" आद्य "धूमजननो" नान्यः "स" धूम आद्यो यः "ग्न्यादिसामग्रीविशेषेण" जनितो नान्य अ ( ह्ब्ट् 160 ) इति कृत्वा कार्यकारणयोरेवं यथोक्तेन न्यायेन जन्यजनकरूपस्य स्वभावस्य नियमाद् यादृशं यस्य कारणमेकदा प्रत्यक्षानुपलम्भाभ्यामेवावधारितं "तद्विजातीयात्" ततो ऽन्यादृशात् कारणात् "उत्पत्तिः" तादृशस्य कार्यस्य "न भवति" अन्यादृशस्य एव न वार्यत इति ।
तदेवं तादृशातादृशकारणकृतकत्वं तादृशातादृशकार्यस्वभावस्य प्रतिपाद्योपसंहरन्नाह- "तत्" तस्मात् यादृशं कार्यं यादृशात् कारणात् दृष्टं प्रत्यक्षानुपलम्भाभ्यां निश्चितमेकदा तत् त्"न्न व्यभिचरति" तादृशमन्यादृशान्न भवति । यनैवं "तेन" कारणेन "सिद्धे कार्यकारणभावे" तादृशस्य "कार्यस्य" तादृशमेव कारणमिति निश्चये सति यथोदितेन न्यायेन "कार्यस्य कारणेन व्याप्तिर"न्वयव्यतिरेकरूपा "सिद्धा" भवति ।
"न विजातीयादुत्पत्तिरिति" दृष्टकारणविजातीयात् कारणादन्यादृशान्नोत्पत्तिरित्यसमुमर्थमप्रतिपद्यमानः कार्यस्य विजातीयात् कारणान्नोत्पत्तिरित्ययमत्रार्थो ऽभिमत इति मन्वानः परश्चोदयन्नाह- "ननु" स्वतो "विजातीयादपि" कारणात् "किञ्चित्" कार्यं "भवद् दृष्टं" तत् कथं न विजातीयादुत्पत्तिरित्यस्य न दृष्टविरोधः स्यात् । कथं यथा इत्याह- "तद् यथा गोमयादेः" आदिग्रहणात् शृङ्गचन्द्रकान्तादेः " शालूकादि" आदिग्रहणाच्छरोदकादि । तथा हि- गोमयाच्छालूकस्य भावः शृङ्गाच्छरस्य चन्द्रकान्तादपाम । न च गोमयादिकं शालूकादेर्न विजातीयम् तत् किमुच्यते न विजातीयादुत्पत्तिः इति । सिद्धान्तवादी परस्य भ्रांततां दर्शयन्नाह- "न विजातीयादुत्पत्तिः" इति । यतो हि कारणाद् यद् भवद् दृष्टं तत् ततो ऽन्यादृशान्न भवति इत्ययमत्रार्थो विवक्षितः, न तु कार्यविजातीयादिति । न च तस्य व्यभिचारः । तदाह- "तथाविधमेव हि" गोमयादिरूपं "तादृशं" शालकादीनामा "दिनिमित्तं" शालूकादिप्रबन्धस्य य आदिः प्रथम आरम्भक्षणः तस्य कारणमिति कृत्वा शालूकादिप्रबन्धस्यादेर्न कारणाभेदो ( ह्ब्ट् 161 ) ऽन्यादृशादुत्पत्तिः । सर्वस्य तदादेर्गोमयादिनिमित्तत्वात् । यदा तु प्रबन्धेन पूर्वक्षणनिमित्तानामुत्तरोत्तरक्षणानां सन्तानेनोत्पत्तिलक्षणा वृत्तिर्भवति शरस्य तदा शराद्भावः । तदेवं यस्य प्रबन्धादेः शृङ्गादिभ्यो भावो न तादृशस्य शरादेः यस्य च शारादेस्तुदुत्तरोत्तरस्य भावो न तादृशस्य शृङ्गादेरिति न दृष्टकारणविजातीयात् कारणात् तादृशस्य सम्भव इति कार्यहेतोरन्वयव्यतिरेकनिश्चयः ।
यदापि शालूकादयः पूर्वपूर्वस्वजातिनिबन्धना अनादिसन्तानप्रवृत्ता इष्यन्ते तदापि गोमयादिभ्यः केषाञ्चिद्भावे ऽपि तादृशत्वाभावान्न व्यभिचार इति दर्शयन्नाह- "अस्ति च" इत्यादि । यस्य शालूकसन्तानस्य गोमयादि कारणं यस्य च सर्वदा स्वजातिनिमित्तत्वं तयोर्गोमयेतरजन्मनोः शालूकयोरस्त्येव स्वभावभेदः परस्परमन्यादृशत्वं "रूपस्याभेदे ऽपि" सति । तुल्याकारत्वे सति कथमन्यादृशत्वम्? इति चेत्, आह- "नहि" इत्यादि । यस्मान्नाकारतुल्यतैव भावानां "तत्त्वे" तादृशत्वे निमित्तम् यतो गोमयेतरजन्मनोः शालूकयोराकारसाम्यात् तादृशत्वमेव स्यान्न जातिभेदः । कुत एतत्? इत्याह- "अभिन्नाकाराणामपि" इत्यादि । येषामपि हि समानाकारता केषाञ्चिद्भावानां तेषामपि यत आकारादन्यतो विशेषाज्जातिभेदो दृश्यते ततो नाकारसाम्यमेव जात्येकत्वे निबन्धनम् । तथा हि- आकारसाम्ये ऽपि क्वचित् पुष्पाद् भेदो दृश्यते नीलेतरकुसुमयोरिव सूर्ययोः, क्वचित्फलात् बन्ध्येतरयोरिव कर्कोटक्योः, क्वचिद् रसाद् वन्येतरयोरिव त्रपुषयोः, क्वचिद् गन्धाद् वृक्षेतरप्रभवयोरिव चम्पकयोः, क्वचित् प्रभावात् स्पर्शोपयोगस्त्रंसिन्योरिव हरितक्योरिति । तस्मादाकारसाम्यनिबन्धनं यद्यपि ‘तदेवेदम्ऽ; इति प्रत्यभिज्ञानं सजातीयतां गोअमयेतरजन्मनोः शालकयोरूपकल्पयति तथापि विलक्षणसामग्रीजन्यतया तयोर्जातिभेद एवावगन्तव्यः, नैकजातिता । तत एव प्रत्यभिज्ञानस्य भ्रान्ततया तत्कल्पितस्य तादृशत्वस्यालीकत्वात् ।
[6. विलक्षणसामग्र्या अविलक्षणकार्यजनकत्वे दोषाः ।]
यदि पुनर्गोमयेतरादिजन्मनः शालूकाकादेरग्निधूमादिजन्मनो वा धूमादेः प्रत्यभिज्ञावशाद् विलक्षणसामग्रीनिबन्धनत्वे ऽपि समानस्वभावतैव स्यात् को दोषः स्यात्? इत्यत आह- "अन्यथा हि" इत्यादि । यदि हि या स्वजाति [लक्षणप्रत्ययान्तरसहिता सामग्री या च] स्वजातिनिरपेक्षा गोमयादिरूपा शालूकादेः, धूमस्य वा याग्नीनधनादिलक्षणा या च शक्रमूर्द्वादिस्वभावा धूमाद्यात्मिका अवि(का तस्याः वि)लक्षणाया अपि सामग्र्या अविलक्षणं तादृशमेव कार्यं धूमशालूकादिकमुत्पद्येत तदा न ‘कारणस्यऽ; सामग्रीरूपस्य "भेदाभेदाभ्यां" वैलक्षण्यावैलक्षण्याभ्यां कार्यस्य "भेदाभेदौ" वैलक्षण्यावैलक्षण्ये तज्जातीयविजातीयात्मके स्यातामिति कृत्वा "विश्वस्य" सकलस्य पदार्थराशेः "अहेतुकौ भेदाभेदौ" सजातीयविजातीयत्वे स्याताम् । तस्माद् यत्र विलक्षणा सामग्री तत्र कुतश्चित् साम्यात् सरूपत्वे ऽपि विजातीयतैव कार्यस्येति ।

ननु धूमेन्धनादिसामग्रीभेदे ऽपि धूमस्य न जातिभेदमामनन्ति विद्वांसः, अतद्रूपपरावृत्तेरुभयत्र समानत्वात्, नैष दोषः, क्षणभेदाश्रयसूक्ष्मावान्तरजातिभेदे ऽपि स्थूलसन्तानाश्रयविजातीयव्यावृत्तेः समानत्वात् । शाबलेयाद्यवान्तरजातिभेदेप्यगोव्यावृत्तिनिबन्धनगोजातिवद् गवां सर्वधूमानामेकसन्तानव्यवस्थाव्यु(प्यु)पादानकारणक्षणभेदे ऽप्येकाकारप्रत्ययनिबन्धनतया समानत्वात् । आद्यस्येन्धनप्रभवस्य कथम्? इति चेत् । न । इन्धनजात्यनुविधानात् सर्वधूमानाम् । तथा हि- अगुरुकर्पूरचन्दनादिजातिभेदमनुकुर्वन्त्येव तद्धूमाः, कासश्वासादिहरद्रव्यनिर्मितवर्तिभेदं च तद्धूमाः, तद्रसवीर्यविपाकानुविधानात् । न चाकारान्यतया विजातीयत्वम्, यतो नाकारऽभेदभेदनिबन्धेन सजातीयविजातीयत्वे । नहि शाल्यङ्कुरादयः ( ह्ब्ट् 163 ) तब्दीजाद्याकारमनुकुर्वते । न च तज्जातीयतामशाल्यादिव्यावृत्तिनिबन्धनां नानुभवन्ति । तस्माद् इन्धनमेव तयोपादानकारणम् अग्न्यादिसहकारिप्रत्ययाहितविशेषं तथाविधं धूमकार्यमङ्गारादि भिन्नाकृति जनयतीत्यलमतिप्रसङ्गेन ।
ननु च यदि नाम सामग्रीभेदे ऽपि कार्यस्य भेदो न जातः तदा कारणभेदे सत्यपि तस्याभावात् तस्याहेतुकतास्तु, अभेदस्य तु किमायातम्? येनोभयोरहेतुकत्वमुच्यते इत्यत आह- "तथाहि" इत्यादि । यदा हि सामग्रीभेदे सत्यपि कार्यस्य भेदो न जात इति तस्याहेतुकत्वम्- न हि हेतौ सत्यभवतः कथञ्चिदपि हेतुमत्तोपपद्यते- तदा यो ऽप्यसावभेदः कार्यस्य सो ऽपि सामग्र्योः भिन्नत्वादसत्यभेदे जात इति कुतस्तस्यापि हेतुमत्ता? । यथा हि हेतौ सत्यभवतो न हेतुमत्ता तथा हेतावसत्यपि भवतो हेतुमत्ता कुतः स्यात्? । हेतुभेदस्यैवाभेदनिबन्धनत्वात् न इति चेत्; न तर्ह्ययं भेदः क्वचित् पदमाबध्नीयात्, शालीकोद्रवादेरपि हेतुभेदस्याभेदहेतुत्वान्निमित्तमन्तरेण कल्पनायां विशेषाभावात् । प्रतिभासाभेदस्य च कुतश्चिद् भ्रान्तिनिमित्तात् परमार्थतो भेदे ऽप्युपलक्षणात् । स्यादेतत्- यो ह्यतादृशादपि तादृशोद्भवमिच्छति तस्य भेदाभेदयोरहेतुकत्वमिष्टमेव भावा एव केवलं हेतुमन्त इत्यत आह- "तद्व्यतिरिक्तश्च" इत्यादि । नहि भेदाभेदव्यतिरिक्तः कश्चिद् भावानां स्वभावो ऽस्ति यस्तयोरहेतुकत्वे ऽपि हेतुमान् स्यात् । तस्य ताभ्यामन्यत्वे ‘अस्येमौ भेदाभेदौऽ; इति सम्बन्धाभावप्रसङ्गात्, तदन्यसम्बन्धकल्पनायामनवस्थादोषात्, अनन्यत्वे ऽपि भेदाभेदयोर्भावस्वभावस्य च स्वात्मन्येवावस्थानात् अनुपकाराच्च कुतः सम्बन्धिता? । उपकारकल्पनायां च यदि भावस्वभावः स्वहेतुभ्य एव न कुतश्चिद् भिन्नो ऽभिन्नो वा समुत्पन्न इतीष्यते, तदा तद्भावे ऽपि स्वभावान्यथात्वाभावात् कुतो भिन्नाभिन्नता भावस्वभावस्य स्यात्? । अथ व्यतिरिक्तभेदाभेदवशाद् ( ह्ब्ट् 164 ) भेदाभेदौ स्वभावः प्रतिपद्येत, तावपि यदि भिन्नौ तदा भावस्वभावस्तदवस्थ एवेति न तस्य कुतश्चित् स्वरूपतो भेदो ऽभेदो वा स्यात् । पुनस्तद्वशाद् भेदाभेदकल्पनायां भावस्वभावस्य तदवस्थं तादवस्थ्यमनवस्था च भेदाभेदयोः । अथाभिन्नौ तदा भावस्वभाव एव भेदाभेदाभ्यां क्रियत इति स्यात्, तस्य रूपान्तरेण करणासम्भा(म्भ)वात्; तस्य च हेत्वन्तरात् पश्चाद् भवतस्ततो ऽन्यत्वापत्तेः । न च भावस्वभावः क्रियते, तस्य स्वहेतोरेव निर्वृत्तेः । स्वहेतुभ्य एव भावस्वभावस्य कुतश्चिद् भिन्नाभिन्नात्मन उत्पत्तिकल्पनायां वा भेदाभेदयोर्व्यतिरेकवतोः वैयर्थ्यम्; भेदाभेदबुद्धेरपि तत एव सिद्धेः । तस्माद् वैशेषिकादिकल्पितयोर्भेदाभेदयोर्विशेषसामान्यात्मनोरयोगात् भावस्वभाव एव भेदाभेदशब्दवाच्यः तयोरहेतुकत्वे भावस्वभावस्यैवाहेतुकत्वमापतितम् । ततो भावानामहेतुकत्वान्नित्यं सत्त्वमसत्त्वं वा स्यात् । अहेतुकत्वे हि भावानां यदि कदाचित् सत्त्वं सर्वदैव स्यात् । अथ कदाचिदसत्त्वं तदपि सर्वदा स्यात् । कादाचित्कत्वं तु सत्त्वस्यायुक्तम् । किं कारणम्? । अपेक्ष्यस्याहेतुकत्वे सति कस्यचिदभावात् । यस्मा "दपेक्षया हि" तस्यापेषणीयस्य हेतोर्भावे भवन्तो ऽभावे च न भवन्तः "कादाचित्काः" कदाचिद्भवा युज्यन्ते, नान्यथेति । तस्मान्न विलक्षणात् कारणात् अविलक्षणस्य कार्यस्योत्पत्तिरभ्युपगन्तव्या, यथोक्तेन न्यायेनाहेतुकत्वादिप्रसङ्गात् ।
पुनरपि विलक्षणायाः सामग्र्याः अविलक्षणस्य कार्यस्योत्पत्तौ दोषान्तरमाह- "व्यवस्थावांश्च" प्रतिनियतः "साध्येषु" घटपटादिषु "साधनानां" मृत्तन्त्वादीनां लोके यो "नियोगो" घटार्थी मृत्पिण्डमेव तत्र नियुङ्क्ते न तन्तून्, पटार्थी च तन्तूनेव न मृत्पिण्डम् इत्यादिकः स न स्यात् । कस्मात्? इत्याह- "कारणानां"- सामग्रीणां याः "शक्तयः"- आत्मातिशयलक्षणास्तासां "प्रतीनियमे" काचिदेव सामग्री क्वचिदेव ( ह्ब्ट् 165 ) कार्ये उपयुज्यते नान्यान्यत्रेत्येवंरूपे "हि" यस्मात् "किञ्चिदेव" मृदादिकं "कस्यचिदेव" घटादेः साधनायोपादीयते "नापरं" तद्विलक्षणं तन्त्वादिकम् कस्मादेवम्? इति चेत्? "तस्यैव" मृदादेः "तत्र" घटादौ "शक्ते" र्योग्यत्वात् "अन्यस्य" तन्त्वादेस्तत्राशक्तेः । कस्मात्तस्यैव तत्र शक्तिर्नान्यस्य इत्यत आह "तयोः" मृदादेस्तन्त्वादेश्च "तज्जनस्वभावत्वेन" घटादिजननस्वभावत्वेन "इतरस्वभावत्वेन च" घटाद्यजननस्वभावेन च "भेदात्" अन्यत्वभावात् । नहि मृत्तन्त्वादिरूपतातो ऽन्यदेव तज्जननेतरस्वभावत्वं नाम । यदा तु सामग्रीणां परस्परविलक्षणानामपि शक्तिप्रतिनियमो नेष्यते विलक्षणादपि अविलक्षणकार्योपगमात् तदा " तज्जननस्वभावविलक्षणादपि" धूमादिजननस्वभावं यत् कारणग्नीन्धनादिसामग्रीलक्षणं तद्विलक्षणादपि शक्रमूर्द्वादेः क्षणाश्रयेण वा धूमादेस्तस्याग्नीन्धनादिसामग्रीजन्यस्य धूमस्य तत्क्षणस्य चोत्पत्ताविष्यमाणायां "न तज्जननशक्तेः प्रतिनियमो" विवक्षितधूमादिकार्यजननशक्तिप्रतिनियमः । "इति"तस्माद् "यत् किञ्चित्" कार्यं "यतः कुतश्चित्" कारणात् "स्यात्" उत्पद्येत, न यथादृष्टमेव यथादृष्टात् । सर्वं सर्वतो जायेतेति यावत् । तस्माच्छक्तिप्रतिनियमः कारणानामभ्युपगन्तव्यः । ततो विलक्षणसामग्रीजन्मनः कार्यस्य कुतश्चित् साम्यात् सरूपस्योपलक्षणे ऽप्यन्यादृशतैवेति सर्वस्तादृशस्तथाविधजन्मेति सिद्धम् ।

स्यान्मतम्- विलक्षणाया अपि सामग्र्यास्तल्लक्षणकार्यजननशक्तिः समानेति तल्लक्षणं कार्यं भविष्यति कस्याश्चिदेव च तथाभावान्न यथोदितदोषावसर इत्यत आह "तज्जननशक्तिसाम्ये तु" इत्यादि । उक्तमेव तावद् अत्र पूर्वपक्षे ‘न च धूमस्य तदतज्जन्यस्वभावःऽ; इत्यादिकं दूषणम् । अभ्युपगम्यापीदमाह- "यादृशी ह्यग्निसहकारिणः" तदाधीयमानविकारस्ये "न्धनस्य" स्वभेदेन धूमभेदहेतोः "शक्तिः" आत्मातिशयस्तादृश्येव शक्रमूर्द्ध्नो ( ह्ब्ट् 166 ) धूमस्य वा यदि तत्सामग्रीजन्यधूमविलक्षणकार्यजननशक्तिरात्मातिशयलक्षणा तदा तच्छक्तिसाम्ये तदेवाग्नीन्धनादिकमेवार्थान्नामान्तरेणोक्तं स्यात्, तद्विलक्षणस्य तदविलक्षणात्मातिशयासम्भवात् । स एव ह्यग्निर्य इन्धनविकारमादधानो धूमं जनयति, तच्चेन्धनं यदग्निनाधीयमानविकारं धूमं स्वजातिमनुकारयति । यदि च शक्रमूर्द्वादेरपि एवं भवताभ्युपगम्यते तदा केवलं नाम्नि विवादः स्यात्, अर्थाभेदमभ्युपगम्य तथाभिधानात् । यत एवम् "इति" तस्मात् "कार्यं" धूमादिकं "दृष्ट"मेकदा प्रत्यक्षानुपलम्भाभ्यां निश्चितमतद्रूपव्यवृत्तेनात्मना "कारण"मिन्धनादिकं सन्तानापेक्षया क्षणापेक्षया वा "न व्यभिचरति" तद्विलक्षणादन्यतो न भवतीति कार्यहेतावन्वयव्यतिरेकनिश्चयः सिध्यतीति ।
4. अनुपलब्धिहेतुनिरूपणम् ।]
[1. विप्रतिपत्तिप्रदर्शनपूर्वकमनुपलब्धेस्स्वरूपम् ।]

तदेवं कर्यहेतौ यतो यद्भवदृष्टं सकृत् प्रत्यक्षानुपलम्भाभ्यां तादृशस्य सर्वस्य तथाविधादेव जन्म न तद्विजातीयदित्येकस्या अपि कार्यव्यक्तेः कुतश्चिद् भावदर्शने व्याप्त्यान्वयव्यतिरेकसिद्धिरिति प्रतिपादितम् । अनुपलब्धौ तु यथोक्तायां निमित्तान्तराभावोपदर्शननिबन्धनयोर्नान्वयव्यतिरेकयोर्विप्रतिपत्तिः । स्वरूप एव तु परे विप्रतिपद्यन्ते । तथाहिकेचिदुपलब्ध्यभावमात्रमनुपलब्धिमभावस्य प्रसज्यप्रतिषेधात्मनः प्रमाणान्तरत्वेन गमिकामिच्छन्ति ईश्वरसेनप्रभृतयः, अपरे तु प्रतिषेध्यविषयज्ञानरूपेणापरिणाममात्मनः तदन्यवस्तुविषयं विज्ञानमेव वाभावस्य गमकं प्रत्यक्षानुमानाभ्यां प्रमाणान्तरमाहुर्मीमांसकाः । न ह्यन्यवस्तुविषयं ज्ञानं प्रत्यक्षानुमानात्मकमभावं प्रतिपद्यते, तस्य भावांशविषयत्वात्, अभावांशस्य च ततो ऽन्यत्वात् । अभावांशे तु नास्तीति ज्ञानं जनयत् तदभावप्रमाणाख्यां लभते, यथेन्द्रियं स्वविषयप्रतिपत्तिजनकत्वेन प्रत्यक्षाख्याम् । तथान्ये अन्यभावलक्षणां तज्ज्ञानलक्षणां वानुपलब्धिमभावस्यैव साधनमाहुर्नाभावव्यवहारस्य, अनुपलब्धेर्लिङ्गादादभावसिद्धौ स्वयमेव तद्व्यवहारप्रवृत्तेः । नैयायिकास्तु नास्तीति ज्ञानमेव केवलप्रदेशादिग्राहिज्ञानन्तरभाविप्रत्यक्षं न प्रमाणान्तरमभावस्य तुच्छरूपस्य परिच्छेदात्मकमाचक्षते तदेवास्य घटादेः प्रतिषेध्यस्यानुपलब्धिशब्देन यद्युच्यते न कश्चिद्विरोधः इति । तदेवमनुपलब्धौ भेदं गता बुद्धयः प्रतिवादिनामिति तन्निरासार्थमनुपलब्धिस्वरूपं तावदुपदर्शयन्नाह- "उपलब्धिलक्षणप्राप्तस्य" इत्यादि । ‘उपलब्धिलक्षणप्राप्तीःऽ; ‘उपलम्भप्रत्ययान्तराणां समनन्तराधिपतिप्रत्ययसंज्ञितानां साकल्यम्, आलम्बनप्रत्ययस्य स्वभावविशेषश्च । यः स्वभावः सत्स्वन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवतीऽत्येवंरूपा शास्त्रकृतान्यत्र ( ह्ब्ट् 168 ) व्याख्याता नैयायिकविप्रतिपत्तिनिरासार्थम् । ते ह्युपलब्धिलक्षणप्राप्तिशब्देन महात्त्वानेकद्रव्यवत्त्वरूपाणि द्रव्याणामाहुः । "महत्त्वादनेकद्रव्यवत्त्वाद् रूपाच्चोपलब्धिः" इति वचनात् । एवं चोपलब्धिलक्षणप्राप्तस्यानुपलब्धिः सत्यपि वस्तुनि सम्भवतीत्यसद्व्य्वहारसिद्धावनैकान्तिकीत्याचक्षते । न हि चाक्षुषस्यापि रश्मेर्महत्त्वानेकद्रव्यवत्त्वरूपाण्युपलम्भकानि भवन्ति । न च तावतानुपलम्भऽप्यसव्द्यवहारस्तत्र शक्यते कर्तुम् । यदाह भाष्यकारः- ‘नानुमानत उपलभ्यमानस्य प्रत्यक्षतो ऽनुपलब्धिरभावे हेतुःऽ; इति । इन्द्रियत्वात् त्वगादिवत् किल प्राप्यकारि चक्षुरित्यनुमानतश्चाक्षुषो रश्मिरुपलभ्यते तस्य प्रत्यक्षतो ऽनुपलब्धिः कथमभावव्यवहारं साधयेत्? इति । तदेवमुपलब्धिलक्षणप्राप्तस्यानु पलब्धिमसव्द्यवहारे ऽनैका न्तिकीमाहुर्नैयायिकाः तन्निरासमुपलब्धिलक्षणप्राप्तेरविपरीतरूपोपदर्शनेन शास्त्रकारो ऽभ्यधात् । यदा ह्युपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च यथोक्त उपलब्धिलक्षणप्राप्तिरुच्यते न महत्त्वादिकं तदा कुतो व्यभिचारावकाशः?, सति वस्तुनि तस्या असम्भवात् । महत्त्वादिकं त्वसम्भवादेव नोपलब्धिलक्षणप्राप्तिशब्देन वाच्यम् । नहि रूपादिव्यतिरिक्तं द्रव्यं तत्प्रतिभासविवेकिनाकारान्तरेण स्वज्ञाने प्रतिभासते । न चाप्रतिभासमानमनात्मरूपविवेकिना रूपेण प्रत्यक्षतामनुभवत्यतिप्रसङ्गात् । तत् कुतो ऽस्यासतो महत्त्वादिसम्भवः? । न च स्वरूपेणामहतः तत्सम्बन्धे ऽप्यस्य महत्तासम्भवः । अपररूपेण वा ग्रहणे कथं तद्ग्राहिज्ञानमभ्रान्तम्? । ततो न महत्त्वं द्रव्यस्योपलम्भकं रूपं वा । तस्यापि स्वरूपेण ग्रहणे द्रव्यात्मनो ऽत्यन्तपरोक्षत्वात् । द्रव्यरूपस्य च तद्विवेकेनानुपलक्षणान्न तथा ग्राहकत्वम् । न च महत्त्वं रूपं वा द्रव्योदयकाले ऽभ्युपगम्यते, यतो द्रव्यं गुणस्य समवायिकारणमिष्यते । तच्च प्रतिलब्धात्मकमेव तथातामनुभवतीति प्रथमे क्षणे द्रव्यं निर्गुणमेव । न चास्य द्वितीये क्षणे प्राक्तनरूपत्यागो ऽस्ति रूपान्तरं वाविर्भवति यतः प्रागप्रतिपन्नाधारभावं ( ह्ब्ट् 169 ) महत्त्वादिगुणप्रतिबन्धादाधारतां यायात् । न चाजनक आधारः । जनकत्वे च क्षणिकता, अर्थक्रियाविरोधादक्षणिकस्य । ततः कुतः सामवायिकारणस्य सम्भवः?, यतः स्वोत्कलितं कार्यं जनयत् तथा व्यपदिश्यते । न चैतत् क्षणिकत्वे सम्भवति अक्षणिकत्वे वा प्रागऽनाधारस्य पश्चादाधाराभावः । समवायिकारणासम्भवादेवानेकद्रव्यवत्त्वमप्यस्मभवि यस्मादनेकं द्रव्यमारम्भकं समवायिकारणात्मना यस्य विद्यते तदेवं व्यपदिश्यते । द्रव्याभवाच्च नानेकद्रव्यवत्त्वं । सत्त्वे ऽपि महत्त्वादेर्नेयमुपलब्धिलक्षणप्राप्तिरस्माकमभिमता । या त्वभिमा(म)ता न तयोपलब्धिलक्षणप्राप्तस्यानुपलब्धिरसव्द्यवहारसिद्धावनैकान्तिकीति शास्त्रकारो दर्शयाम्बभूव "उपलब्धिलक्षणप्राप्तस्य" या "अनुपलब्धिः" कारणस्य व्यापकस्य वा प्रतिषेध्यादन्यस्य सा "अभावहेतुः" कार्यस्य व्याप्यस्य च "अभावव्यवहारहेतुश्च" । या तु प्रतिषेध्यस्यैवोपलब्धिलक्षणप्राप्तस्यानुपलब्धिः साभावव्यवहारहेतुरेवेति वाशब्देन दर्शयति । या त्वनुपलब्धिलक्षणप्राप्तस्यानुपलब्धिः प्रत्यक्षानुमाननिवृत्तिलक्षणा सा संशयहेतुः प्रमाणनिवृत्तावप्यर्थाभावासिद्धेः, निमित्ताभावात्तु सव्द्यवहारप्रतिषेधहेतुरित्यवगन्तव्यम् ।
[2. स्वेष्टामनुपलब्धिं स्पष्टयितुमीश्वरसेनकुमारिलादीनां निरासः ।]
तत्र ये तावदुपलब्ध्यभावमात्रमनुपलब्धिमिच्छन्ति, "विज्ञानं वान्यवस्तुनि" इति वचनात् तदन्यवस्तुविज्ञानमेव वा, तन्निरासार्थं ज्ञातृ- ज्ञेयधर्मलक्षणामनुपलब्धिं दर्शयितुमुपलब्धिमेव तावद्द्विविधाम्दर्शयन्नाह- "अत्र" अनुपलब्धिवाक्ये योपलब्धिः श्रूयते क्रियारूपा सा यदा कर्तृस्थतयापेक्ष्यते तदा तस्या "उपलभमानस्य" कतुः "धर्मत्वे" अपेक्ष्यमाणे "तज्ज्ञानम्" उपलभमानस्य यज्ज्ञानं तद् उपलब्धिरुच्यते । उपलभमानश्च बुद्धीन्द्रियदेहकलाप एव च पूर्वक्षणसङ्गृहीत उपलब्धिजनक उच्यते । तथाहि- उपलब्धेर्जनक आश्रयो वा कर्ता परैरुच्यते । न ( ह्ब्ट् 170 ) चेन्द्रियादेरन्यस्य जनकत्वं सम्भवति यतो ऽन्वयव्यतिरेकनिबन्धनः कार्यकारणभावव्यवहारः, तौ चान्वयव्यतिरेकौ नेन्द्रियादेरन्यस्य सम्भवतः सत्स्विन्द्रियादिषु नियमेनोपलब्धेर्भावात् । यदि हीन्द्रियादिषु सत्स्वपि कदाचिदुपलब्धिर्नोपजायते तदा सत्स्वप्यन्येषु सकलेषु हेतुषु कार्यानुत्पत्तिः कारणान्तरवैकल्यं सूचयतीति तव्द्यतिरिक्तकारणान्तरं परिकल्प्येत । न चैतदस्ति, तत् कथमात्मनस्तदुत्पत्तौ निमित्तभावो ऽभ्युपगम्येत? अतिप्रसङ्गात् । यदाह-
"यस्मिन् सति भावत्येव यत् ततो ऽन्यस्य कल्पने ।
तद्धेतुत्वेन सर्वत्र हेतुनामनवस्थितिः ॥" इति ।

आश्रयत्वमपि जनकस्यैवेति तदप्यात्मनो न सम्भवति । स्थापकत्वादाश्रय इति चेत्; न, क्षणिकत्वे स्थितेरभावादुपलब्धेरक्षणिकत्वे ऽपि स्वयमेवाविनाशादवस्थानात् । तथाहि- उपलब्धेरविनाश एव स्थितिरुच्यते न पाताभावः तस्या गुरुत्वाभावात् "संयोगाभावेन गुरुत्वात् पतनम्" इति च परेषां कृतान्तः । समवायादाश्रय इति चेत्; ननु सो ऽपि आधार्याधारभूतानामेवेष्यते । न चापतनधर्मिकाया उपलब्धेराधारेण किंचित्, समवायाच्चाश्रयत्वे ऽन्यस्यापि तद्भावप्रसङ्गः, तस्य सर्वात्मसु समानत्वात्, एकत्वेनास्योपगमात् । क्रमयौगपद्याभ्यामर्थक्रियाविरोधाच्च नास्यात्मनः सत्त्वम्, ततो ऽस्य कुतो जनकत्वम्? आश्रयत्वं वा? इत्यलं क्षुण्णक्षोदीकरणेनेति ।
एवमुपलब्धिमादर्श्यानुपलब्धिमादर्शयन्नाह- " तस्मादुपलब्धिज्ञानादन्या" वस्त्वन्तरविषया "उपलब्धिः" ज्ञानात्मिका "अनुपलब्धिः" । कथं पुनरुपलब्धिरेवानुपलब्धिरुच्यते? इत्याह- "विवक्षिते"त्यादि । यथा भक्ष्याभक्ष्यप्रकरणे विवक्षिताद् भक्ष्यादन्यत्वाद् ‘अभक्ष्यो ग्राम्यकुक्कुटःऽ; भक्ष्यो ऽपि सन् तदन्यस्य- उच्यते । यथा च स्पर्शनीयास्पर्शनीयाधिकारे विवक्षितात् स्पर्शनीयादन्यत्वाद् ‘अस्पर्शनीयश्चाण्डालादिःऽ- तदन्यस्य स्पर्शनीयो ऽपि सन्- उच्यते । ( ह्ब्ट् 171 ) तद्वदुपलद्भिरेवानुपलब्धिर्मन्तव्या । नञः प्रतिषेधविषयत्वात् कथं भावविषयता? इति चेत्, आह- "पर्युदासवृत्त्येति" । पर्युदासेन प्रतिषेध्यस्यार्थस्य र्वजनेन या विशिष्टे ऽर्थे वृत्तिस्तया , नञः आगृहीतप्रतिषेधस्य भावविषयता । यत्र विधेः प्राधान्यं प्रतिषेधो ऽर्थगृहीतः विधिभाक्स्वपदेन नोच्यते एकवाक्यता च तत्र पर्युदासवृत्तिता । विधेश्च प्राधान्यं ‘विवक्षितोपलब्धेरन्योपलब्धिर्भवतिऽ; इत्येवं वाक्येनान्योपलब्धेर्विधानात् अन्योपलब्धिसामर्थ्यादेव विवक्षितोपलब्धेः प्रतिषेधः प्रतीयते । विवक्षितोपलब्धेरनिवर्तने तदपेक्षयान्यस्या विधानायोगात् स्वपदेन नञा विधिभाङ् नोच्यते । किं तर्हि? । अन्यशब्देन पर्युदासाश्रयेणान्यशब्दस्यैव वाक्ये प्रयोगात् अन्या उपलब्धिरनुपलब्धिरिति । नञश्च सुबन्तेन सामर्थ्यं न तिङन्तेन इत्येकवाक्यत्वं ‘न उपलब्धिरनुपलब्धिःऽ; इति । प्रसज्यप्रतिषेधः पुनरेतद्विपरीतो मन्तव्यः । तत्र हि प्रतिषेधस्य प्राधान्यं विधिरर्थाद् गम्यते वाक्यभेदः स्वपदेन नञा प्रतिषेधभाक् सम्बध्यते ।
तदेवं ज्ञातृधर्मलक्षणामनुपलब्धिं व्याख्याय ज्ञेयधर्मलक्षणां प्रतिपादयन्नाह- "उपलभ्यमानधर्मत्वे" इत्यादि । यदा कर्मस्थक्रियापेक्षयोपलभ्यमानस्य वस्तुनो धर्म उपलब्धिर्विवक्ष्यते तदा विषयस्वभाव उपलब्धिर्मन्तव्या । कीदृशो विषयस्वभावः? इत्याह- "स्वविषये"त्यादि । प्रतिषेध्यस्य घटादेर्यदात्मविषयं विज्ञानं तज्जनने या योग्यत तल्लक्षणो विषयस्वभाव उपलब्धिशब्देनोच्यते । यदि विषयस्वभाव उपलब्धिः, कथं योग्यतालक्षणः? । तथा हि योग्यता धर्मः, धर्मधर्मिणोश्च भेद एव इत्यत आह- "योग्यतायाः" इत्यादि । योग्यता हि परमार्थतो भावरूपैव न वस्तुरूपाद भिद्यते, अन्यथा भावो योग्य एव न स्यात् । योग्यतास्येति च सम्बन्धाभावतो न स्यात् । सम्बन्धकल्पनायामनवस्थेत्युक्तप्रायम् ।
तदेवमुपलभेर्विषयधर्मतां प्रतिपाद्यानुपलब्धेरपि प्रतिपादयन्नाह- "तस्मादन्यः" इत्यादि । "तस्मात्" प्रतिषेध्याद् घटादेः ( ह्ब्ट् 172 ) स्वविषयज्ञानजननयोग्याद् यो ऽन्य उपलम्भजननयोग्य एव न तद्विपरीतः स्वभावो घटविविक्तप्रदेशरूपः स एव चात्रानुपलब्धिशब्देनोच्यते । प्राक्तनमेव न्यायमत्रादिशन्नाह- "पूर्ववदिति ।" विवक्षितोपलब्धेरन्यत्वादभक्ष्यास्पर्शनीयवत् पर्युदासवृत्येति । कथं पुनरयं नञ अन्यार्थवृत्तिः सामान्यशब्दः सन् घटविविक्तप्रदेशस्य तज्ज्ञानस्यैव वा घटविविक्तस्यानुपलब्धित्वं पर्युदासवृत्त्या प्रकल्पयति, न पुनरविशेषेण सर्वेषामेवान्यशब्दवाच्यानाम्? इत्यत आह- "यत्र यस्मिन्" इत्यादि । "यत्र" देशे काले ऽवस्थायां वाव्यवधानादिलक्षणायाम्, "यस्मिन्" प्रदेशरूपादौ "उपलभ्यमाने नियमेन" अवश्यंतया "यस्यान्यस्य" पदार्थस्य घटरूपादेरुपलब्धिर्भवति "स" घटरूपादिः पदार्थः "तत्संसृष्टः" तेन प्रदेशरूपादिना संसृष्टः । कथमेकस्मिन्नुपलभ्यमाने परस्यापि नियमोपलब्धिः? इति चेत्, योग्यताया अविशेषात् । प्रदेशघटयोर्हि स्वविषयविज्ञानजनने योग्यता तुल्या । यदा हि प्रदेशरूपं व्यवधानविप्रकर्षादिरहितं विज्ञाने स्वाकारं समर्पयति तदा घटरूपमपि तत्र तथाविधं स्वाकारं समर्पयत्येव । यदि नाम योग्यता तस्य तेन तुल्या स्वस्वभावव्यवस्थितेस्तु कथं तत्संसृष्टता? इत्यत आह- "एकज्ञानसंसर्गादि"ति । एकत्र हि ज्ञाने द्वावपि तौ स्वाकारद्वारेण संसृष्टौ न साक्षात्, तद्विज्ञानं पदार्थद्वयाकारमाजायमानं तयोरात्मनि संसर्गं दर्शयति । किमिति पुनस्तत् ज्ञानं पदार्थद्वयाकारमवश्यं भवति यतस्तयोर्ज्ञानद्वारकः संसर्गः? इत्यत आह- "तयोः सतोः" इत्यादि । यावेतौ तुल्ययोग्यतारूपौ तौ यदि सन्तौ भवतस्तदा नैवैकाकारनियता प्रतिपत्तिर्भवति । कस्मात्? असम्भवात् । न ह्येष सम्भवो ऽस्ति- यत्तुल्ययोग्यतारूपयोरेक एव प्रतिभासेत नापर इति । तथाहि- अविशिष्टत्वाद् योग्यतायाः कस्तत्र स्वाकारं न समर्पयेत्? । अनुभवसिद्धं च युगपदनेकप्रतिभासनम् । न चानुभवविरुद्धमाचक्षाणा विदुषामवधेयवचसो भवन्ति । लधुवृत्तित्वाद् यौगपद्याभिमान इति चेत्; न, बाधकप्रत्ययविरहेण ( ह्ब्ट् 173 ) भ्रान्तिकल्पनानुपपत्तेः, सर्वत्र तथाभावाप्रसङ्गात् । करणधर्म एवायं यदेकस्मिन्नेव कर्मणि क्रियां निष्पादयतिनानेकत्र, करणं चेन्द्रियं ततो नानेकप्रतिपत्तिहेतुरिति चेत्, कथं प्रदीपादिरनेकत्र बहूनां प्रतिपत्तिजनकः? । कर्तृभेदाददोष इति चेत्; कर्त्रेकत्वात् तर्हि क्रियैकत्र कर्मणीति कथं ‘करणधर्मःऽ; इत्यादि वचो न प्लवते? । न च प्रतिक्षणविशरारुषु भावेषु परमार्थतः कर्तृकरणादिभावो युक्तः क्रिया वा काचित् । न च सर्वकारकान्वयव्यतिरेकानुविधायिनि कार्ये कस्यचिदतिशयो ऽस्ति येनायं कर्ता का(क)रणं चेदमित्यादि परिकल्प्येत । तस्मादविशिष्टयोग्यतयोः कुत एकरूपनियतायाः प्रतिपत्तेः सम्भवः? इति सिद्ध एकज्ञानसंसर्गः । तुल्ययोग्यतारूपत्वस्य चैतदेव लिङ्गम् । न ह्यसति तुल्ययोग्यतारूपत्वे युगपदेकेन्द्रियजनितज्ञानप्रतिभासिता रूपरसवत् सम्भवतीति ।

तत्र येषां सौगतानामिदं दर्शनं ‘एकायतनसङ्गृहीते ऽनेकत्राप्येकमेवेन्द्रियज्ञानमाजायतेऽ; इति तेषां मुख्य एवैकज्ञानसंसर्गः । ये तु ‘तत्रापि प्रत्यर्थं भिन्नान्येवैकेन्द्रियनिमित्तान्येककालानि तद्विषयाणां युगपत्सन्निहितानां स्वज्ञानेषु सामर्थ्याविशेषात्, अत एवैकतया लोके ऽध्यवसीयमानानि ज्ञानान्युपजायन्तेऽ; इति वर्णयन्ति तेषामेकेन्द्रियजत्वेनैकायतनविषयत्वेन चैककालेष्वेकत्वव्यपदेशो लोके तथाध्यवसायादौपचारिकः ।
यदि नामैकज्ञानसंसर्गात् तत्संसृष्टस्तथापि सामान्येन सर्वमन्यमयं नञ् किन्न प्रतिपदयति? इति, अत आह- "तस्मात्" इत्यादि । यस्मादविशिष्टत्वाद्योग्यताया यथोक्तेन प्रकारेणैकत्र ज्ञाने द्वयोरपि संसर्गः तस्मादविशिष्टं योग्यतारूपं ययोः तत एवैकज्ञानसंसर्गिणौ तौ तस्मात् तयोरेवंरूपयोः "परस्परापेक्षमेव" न सर्वान्यपदार्थापेक्षम् "अन्यत्वमिह" अनुपलब्ध्यधिकारे "अभिप्रेतम्" । लोके तु यद्यप्यशेषपदार्थान्तरापेक्षमन्यत्वं नञा क्वचिदुच्यते व्याप्तिन्यायसमाश्रयात्, तथापि तदिह न गृह्यते, ( ह्ब्ट् 174 ) "प्रत्यासत्तेराश्रयणात्" एकज्ञानसंसर्गलक्षणा प्रत्त्यासत्तिराश्रीयते नान्या, प्रमाणचिन्ताधिकारात् अन्यथानुपलब्धिरनैकान्तिक्येव स्यात् । तस्मात् तत्त्वचिन्तकैस्तथाविधमन्यत्वमाश्रयणीयम् यदनुपलब्धेरव्यभिचारनिबन्धनम् । तच्च यथोक्तमेवेत्यभिप्रायः ।
तदेवमेकज्ञानसंसर्गापेक्षयान्यत्वं प्रतिपाद्यानुपलब्धिं दर्शयन्नाह- "स केवलः" इत्यादि । स एव यदा केवलः प्रदेशो यथोक्तघटापेक्षय तस्मादन्य उच्यते तदा घटविविक्तप्रदेशज्ञानं वानुपलब्धिः, न तु यथेस्वरसेनो मन्यते उपलब्ध्यभावमात्रमनुपलब्धिरिति, वक्ष्यमाणदोषात्; घटविविक्तप्रदेशस्वभावो वा, न तु तद्विविक्तज्ञानमेव यथाह कुमारिलः "विज्ञानं वान्यवस्तुनि" इति । यथा ह्यन्यवस्तुविषयं ज्ञनमनुभूयमानं प्रतियोगिस्मरणापेक्षं तदभावव्यवहारनिबन्धनं तथा तद्विविक्तः प्रदेशो ऽपि । तथाहि- कस्यचित् प्रतिपत्तुः ‘यतः केअलप्रदेशाकारमेव ज्ञानं मया संवेद्यते न तु घटाकारमपि तस्मादत्र घटो नास्तिऽ; इति एवं नास्तिताज्ञानमुत्पद्यते; कस्यचित् तु ‘यतः केवलः प्रदेशो ऽयं दृश्यते न तु घटसहितः तस्मान्नास्त्यत्र घटःऽ; इत्येवम् । तस्मादुभयोर्नास्तिताज्ञानजन्मनि तुल्यं सामर्थ्यमिति द्वयोरपि अनुपलब्धिव्यवस्था युक्तेति । तत्र यदा तज्ज्ञानं तदा ज्ञातृधर्मलक्षणानुपलब्धिः कर्तृस्थक्रियापेक्षया, यदा तत्स्वभावस्तदा ज्ञेयधर्मलक्षणा कर्मस्थक्रियापेक्षयेति ।
एवमनुपलब्धिं पर्युदासवृत्त्या व्यवस्थाप्य साध्यमस्या दर्शयन्नाह- "सा अभावम्" इत्यादि । सर्वान्योपलब्धिलक्षणप्राप्तविविक्ते ऽपि प्रदेशादौ दृश्यमाने यत्र घटादौ प्रतियोगिन्यर्थित्वादिभिः स्मृतिरस्य भवति तस्याभावं साधयति, अभावव्यवहारं वा । कारणव्यापकानुपलब्धी अभावमभावव्यवहारं च साधयतः । स्वभावानुपलब्धिस्तु अभाव्यवहारमेव । अभावव्यवहारश्च ज्ञानाभिधानप्रवृत्तिलक्षणः । तत्र ‘नास्त्यत्र घटःऽ; इत्येवमाकारं ज्ञानम्, एवंविधवस्त्वभिधायकं चाभिधानं, निःशङ्कस्य च तत्र प्रदेशे गमनागमनलक्षणा प्रवृत्तिरिति ।
अत्रेश्वरसेन- कुमारिलयोर्वचनावकाशमाशङ्कय सिद्धान्तव्यवस्थामेव कुर्वता तन्मते निरस्ते ऽप्याहत्य तन्मतनिरासार्थमाह- "कथमन्यभाव" इत्यादि । ईश्वरसेनो हि मन्यते- कार्य- स्वभावहेतुभ्यां भावरूपाभ्यां अनुपलब्धेः पृथक्करणादवश्यमभावरूपत्वमस्याः, अन्यथा पृथक्करणमनर्थकमेव स्यात् । त्वया चान्यस्य प्रतिषेध्यविविक्तस्य प्रदेशादेस्तज्ज्ञानस्य वा भावरूपानुपलब्धिराख्यायते तन्नूनमन्यभावस्तदभावो येनैवमभिधीयते । न चैतद् युज्यते, भावाभावयोर्विरोधादेकात्मतानुपपत्तेरिति ।
कुमारिलो ऽप्येवं मन्यते- येयं ज्ञातृ- ज्ञेयधर्मलक्षणा द्विधानुपलब्धिरभावरूपा त्वयोच्यते तस्या भवतु नास्तिताज्ञानं प्रति साधनभावः । किन्तु स एवान्यस्य प्रतिषेध्यविविक्तस्य वस्तुनः प्रतिषेध्यज्ञानादन्यस्य वा तज्ज्ञानस्य यो भावो भावांशः स कथमभावः? प्रतिषेधस्य तज्ज्ञानस्य वा कथमभावांशः? । नैव युज्यते, धर्मरूपतया भावाभावांशयोर्भेदात् । सत्यपि धर्मिरूपेणाभेदे तयोश्चोद्भवाभिभवाभ्यां ग्रहणाग्रहणव्यवस्थेति । यदाह-
"धर्मयोर्भेद इष्टो हि धर्म्यभेदे ऽपि नः स्थिते ।
उद्भवाभिभवात्मत्वाद् ग्रहणं चावतिष्ठते ॥" इति ।
उक्तोत्तरतामस्य दर्शयन्नाह- "उक्तमुत्तरमत्र"चोद्ये यथा "पर्युदासवृत्त्या अपेक्षातः" । ‘प्रतिषेध्यं तज्ज्ञानं वा अपेक्ष्य तद्विविक्तो ऽर्थस्तज्ज्ञानं वाभावो ऽनुपलब्धिश्चोच्यतेऽ; इति ईश्वरसेनस्य प्रतिवचनम् । न हि प्रसज्यप्रतिषेध एवैको नञर्थः किन्तु पर्युदासो ऽपि । ततो ऽन्यभावस्याभावरूपता न विरुध्यते, प्रसज्यप्रतिषेधरूपताप्यन्यभावस्य यथा तथोत्तरत्र वक्ष्यते । स्वभावहेतोस्त्वनुलब्धेः पृथक्करणं प्रतिपत्रभिप्रायवशात् । प्रतिपत्ता हि स्वभावहेतौ वस्तुप्रतिपत्त्यध्यवसायी । अनुपलब्धौ त्वभावप्रतिपत्त्यध्यवसायी । परमार्थतस्तु प्रतिषेध्याभावव्यवहारयोग्यता ( ह्ब्ट् 176 ) वस्तुभूतैव प्रदेशस्य साध्यत इति न स्वभावहेतोः स्वभावानुपलब्धिर्भिद्यत इति ।
यत्तु ‘अनपेक्षितार्थान्तरसंसर्गं प्रतिषेधमात्रमनुपलब्धिःऽ; इतीश्वरसेनो मन्यते तन्निराकुर्वन्नाह- "न प्रतिषेधमात्रम्" इत्यादि । कस्मात्? इत्याह- "तस्य साधनासिद्धेः" इत्यादि । नह्यभावस्य सर्वसामर्थ्यविरहलक्षणस्य साधनत्वं सिद्धिहेतुत्वं सिध्यति, सर्वसामर्थ्यविरहरूपस्य तदयोगात् । हेतुत्वे वा कथं न सामर्थ्ययोगिता? भावरूपता वा?, सामर्थ्यलक्षणत्वाद् वस्तुनः । अभावस्य चानपेक्षितसहकारिणो अनाधेयातिशयतया नास्तीति ज्ञानजनने नित्यं तज्जननप्रसङ्गः । ततश्च साधकत्वायोगादभावव्यवहार एव न सिध्येत् । अथवा तस्य प्रसज्यप्रतिषेधात्मन उपलब्ध्यभावस्य साधनमेव किञ्चिन्न सिध्यतीति । स ह्यभावत्वादपरेणोपलब्ध्यभावेन साध्यः स्यात्, सो ऽप्यपरेणेत्यनवस्थानम् । न चेन्द्रियवदज्ञातस्य प्रतिषेधज्ञानहेतुता, सदा सन्निहितत्वेनानपेक्षितसहकारिणो नित्यं तदुदयप्रसङ्गात् । इदं चार्थद्वयं ‘कथमभावः कस्यचित् प्रतिपत्तिः, प्रतिपत्तिहेतुर्वा? । तस्यापि कथं प्रतिपत्तिःऽ; इत्यत्रान्तरे स्वयमेव विपञ्चयिष्यति ।

कुमारिलस्याप्युत्तरमाह- "तस्य" अन्यस्य प्रतियोगिना वस्त्वन्तरेणासंसृष्टरूपस्य । न ह्यसौ वस्त्वन्तरैः संसृष्टस्वभाव एकरूपः । तथात्वे ह्यभावांशो ऽपि न क्वचित् सिध्येत् । तस्यैवंविधस्य "भावसिद्धिरेव" भावांशसिद्धिरेव "अपरस्य" प्रतियोगिनो वस्त्वन्तरस्याभावसिद्धिरभावांशस्य त्वदभिमतस्य सिद्धिरस्तु भावांशस्यैवाभावांशरूपतोपपत्तेरिति मन्यते । तथा हि- अभावांशो ऽपि पररूपासंसृष्टतयैवाभाव इति व्यपदिश्यते, अन्यथा तदयोगात् । सा च भावांशस्यापि समानेति स एवाभावो ऽस्तु तन्निमित्तस्य समानत्वात् किमन्येनाभावांशोपगतेन? । अत एवासंसृष्टरूपस्येति विशेषणम् । यत ( ह्ब्ट् 177 ) एवम् "इति" तस्माद् "अन्यभावो ऽपि" अन्यस्य वस्तुनो भावो ऽपि त्वदभिमतो भावांशो ऽपि न केवलमभावांशस्त्वन्मत्याभाव इति व्यपदिश्यते ऽस्माभिः । ततो भावांशस्याभावरूपता सङ्गतैवेति न किञ्चिद् विरुध्यत इति ।
यदुक्तं ‘ज्ञातृज्ञेयधर्मलक्षणया स्वभावानुपलब्ध्या अभावव्यवहार एव साध्यते नाभावःऽ; इति तत् परो विघटयितुं, यच्चोक्तं ‘न प्रतिषेधमात्रमनुपलब्धिः, तस्य साधनासिद्धेःऽ; इति द्वितीये व्याख्याने प्रतिषेधमात्रस्यानुपलब्धि[रि]त्येतस्य साधनं दर्शयितुमाह- "अन्यभावलक्षण" इत्यादि । एवं मन्यते- लोको हि केवलप्रदेशदर्शनात् घटाभावमेव प्रथमं प्रतिपद्यते केवलप्रदेशज्ञानसंवेदनद्वारेण घटज्ञानाभावप्रतिपत्त्या वा ततो घटाभावस्य व्यवहारम् । तेन लोकप्रतीत्यनुसारेण प्रतिषेध्यादन्यस्य प्रदेशस्य प्रतिषेध्यज्ञानाद्वा तज्ज्ञानस्य यो भावस्तल्लक्षणो ऽभावः स्वयं प्रमाणेनेन्द्रियप्रत्यक्षेण स्वसंवेदनप्रत्यक्षेण च सिद्धो ऽलं घटाभावं साक्षात् पारम्पर्येण च यथाक्रमं साधयितुम्, स च घटाभावव्यवहारमित्येवं व्यवस्थापयितुं युक्तम् । न चैवमपि व्यवस्थापने [अस्म]त्पक्षस्य काचित् क्षतिः । तथाहि- पारम्पर्येणापि यदनुपलब्धेः त्वदभ्युपगतायाः सिद्धं तत् तत एव सिद्धं भवतीति प्रतिषेधमात्रस्यानुपलब्धित्वे तत्साधनप्रतिपादने ऽपि । अयमभिप्रायः- यथा भवतो ज्ञातृज्ञेयधर्मलक्षणा भावरूपा द्विविधानुपलब्धिस्तथा ममापि ज्ञातृज्ञेयधर्मलक्षणोपलब्ध्यभावो ऽप्यनुपलब्धिसंज्ञितो द्विविधो भविष्यति । तत्र ज्ञेयधर्मलक्षणेनान्यभावेन प्रत्यक्षसिद्धेन प्रतिषेध्याभावो ज्ञेयधर्मलक्षणोपलब्ध्यभावरूपो ऽनुपलब्धिसंज्ञितः सेत्स्यति । ज्ञातृधर्मलक्षणेन चान्यभावेन केवलप्रदेशज्ञानात्मना स्वसंवेदनसिद्धेन ज्ञातृधर्मः प्रतिषेध्यज्ञानाभावरूपो ऽनुपलब्धिसमाख्यातः सेत्स्यति । ततश्च कुतो ऽनवस्था येन साधनासिद्धिः स्यादिति । तत्र "अन्यभावलक्षण" इति प्रतिषेध्यात् तज्ज्ञानाच्च यो ऽन्यो भावः प्रतिषेध्यविविक्तः प्रदेशः तज्ज्ञानं च तदात्मको ऽभावः विवक्षिताद् भावात् प्रतिषेध्याद् भावात् तज्ञानाच्चान्यत्वादनुपलब्धित्वेन ( ह्ब्ट् 178 ) भवतो ऽभिमतः स्वयं स्वरूपेण प्रमाणेनेन्द्रियप्रत्यक्षेण स्वसंवेदनप्रत्यक्षेण च सिद्धः संस्तस्य प्रतिषेध्यस्याभावव्यवहारं ज्ञानाभिधानप्रवृत्तिलक्षणं साधयेत् "तत्सिद्धिसिद्धो" वा तस्यान्यभावलक्षणस्याभावस्य यथोक्तस्य सिद्ध्या सिद्धो वा तदभावस्तस्य प्रतिषेध्यस्य तज्ज्ञानस्य वाभाव इति एवमपीष्यमाणे "न कश्चिद् विशेषः" त्वदभिमतानुपलब्धितो ऽस्मदभिमतानुपलब्धेः ततो ऽस्मद्दर्शनं किमिति प्रतिक्षिप्यते? । नन्वस्त्येवैवमिष्यमाणे विशेषो ऽन्यभावलक्षणानुपलब्धिरितरया व्यवहिता तदभावव्यवहारं साधयेदितरा तु साक्षादित्याह- स विशेषो नास्ति येन विशेषेणानुपलब्ध्याभावरूपया वस्तुसंस्पर्शरहितयास्मदभिमतयाभावव्यवहारसिद्धेः विरोधः स्यात् । अन्यस्य तु विशेषस्य सतो ऽप्यबाधकत्वादसत्समत्वमेव । यदप्युक्तं- ‘तस्य साधनाभावादभावव्यवहारासिद्धिप्रसङ्गःऽ; इति, तदप्यसत्, यतः स एव त्वदभिमतो ऽन्यभावः प्रतिषेध्यविविक्तभूतलात्मकस्तद्विषया चोपलब्धिरनुपलब्धित्वेनेष्टा भवतस्तदभावस्यानुपलब्धित्वेनास्मन्मतस्य प्रतिषेध्याभावस्य तदुपलब्ध्यभावस्य च "किं" कस्मात् "न साधनं" लिङ्गम् "इष्यते?" । तथा हि सति लोकप्रतीतिरनुसृता भवति । "किं पुनः" कस्मात् पुनः "अभावस्य" द्विविधस्य "सिद्धिरेव तदभावसिद्धिः" न तत्साध्या काचिदन्या विद्यत इत्यस्मन्मतनिषेधार्थं लोकातिक्रान्तमिष्यत इति पूर्वपक्षः ।
अत्राह- "अपृथक्सिद्धेरन्यभावात्" तदभावस्य पृथक्सिद्धेरभावात् कुतो लिङ्गलिङ्गिता । तथा "सम्बन्धाभावाच्चा" अन्यभावतदभाव योर्न लिङ्गलिङ्गितेति । प्रथमं तावत् कारणं विवृण्वन्नाह- "अन्यभावस्तद्विविक्तदेशात्मकस्तावन्न साधनं" लिङ्गं प्रतिषेध्याभावस्य, ‘तदुपलब्धिरपि तदभावस्य न साधनम्ऽ; इति पश्चाद् वक्ष्यते । तदर्थमेव तावच्छब्दः । कस्मादन्यभावो न साधनम्? इत्याह- "यत्सिद्धौ" यस्य वस्तुनः सिद्धौ प्रतीतौ "यस्य" अपरस्य ( ह्ब्ट् 179 ) वस्तुनो "न सिद्धि"र्न प्रतीतिः तद्वस्तु तस्य वस्तुनो लिङ्गं भवतीत्ययं लिङ्गलिङ्गिनोर्न्यायः । तत्रोदाहरणम्- "धूमाग्निवदिति" । यथा- यदा धूमप्रतीतौ नाग्निः प्रतीयते तदा तयोर्ल्लिङ्गलिङ्गिभावो भवति, न तु धूमप्रतीतिकाल एव प्रतीयमाने ऽग्नौ । यदि नामैवं ततः किम्? इत्यत आह- "अन्यस्य वस्तुनो यो भावः" स्वभाव "तत्सिद्ध्यैव" तत्प्रतीत्येव "तदभावः" तस्य प्रतिषेध्यस्याभावः "प्रसिध्यति" प्रतीयतेअन्यभावस्यैव तदभावात्मकत्वात् तत्सिद्धेरेव तत्सिद्धिलक्षणत्वात् ।
नैयायिकास्तु मन्यन्ते- प्रतिषेध्याभावो हि प्रसज्यप्रतिषेधात्मकस्तुच्छरूपस्तस्य कथं तदन्यभावरूपता?, भावाभावयोर्विरोधात् । ततः कथं तदन्यभावसिद्ध्यैव तदभावसिद्धिः स्यात्? इत्यत आह- "तस्य" तदन्यभावस्य प्रदेशलक्षणस्य तस्मादन्येन प्रतिषेध्येन घटादिना "असंसृष्टरूपस्य" रहितात्मनः केवलस्य प्रतिषेध्येन शून्यात्मनः । अनेन केवलप्रदेशस्यापि प्रसज्यप्रतिषेधात्मकतामाह । कथं भावस्य तुच्छरूपता स्वभावः, विरोधात्? इति चेत्; न, पररूपेण तस्यापि तुच्छरूपत्वात् । यथा ह्यनपेक्षितभावान्तरसंसर्गः प्रसज्यप्रतिषेधः शून्यविकल्पप्रतिभासी प्रतिषेध्येन तुच्छरूपः तद्रूपविरहात्, तथा तदन्यभावो ऽपि प्रतिषेध्यासंसृष्टरूपः । ततः कथमस्य प्रतिषेध्येन तुच्छरूपता विरुध्येत? । स्वरूपेण ह्ययमतुच्छरूपः स्यान्न पररूपेण, अन्यथा कथमस्यान्यभावत्वं परस्य वा तत्राभावः स्यात्? । यो हि यदभावरूपो न भवति स एवासौ भवति, तत्स्वरूपवत् । ततः सर्वस्य जगतः परस्परात्मताप्रसङ्गः । तस्मात् सर्वभावाः पररूपेण निःस्वभावाः स्वरूपेण रूपवत्त्वे ऽपी त्यनवद्यम् ।

कस्तर्हि प्रसज्यप्रतिषेधत्पर्युदासस्य भेदः? । न कश्चित्, केवलमनपेक्षितरूपान्तरमभावमात्रं प्रसज्यप्रतिषेध इति लोके कथ्यते । रूपान्तरं तु पररूपशन्यं पर्युदास इति । न तु रूपान्तरं पररूपतुच्छात्मकं न भवति । अनुभूयत एव च रूपान्तरं तद्रूपशून्यतया, ( ह्ब्ट् 180 ) कथं तस्य प्रसज्यप्रतिषेधात्मता न स्यात् पररूपेण? । सामर्थ्यात् ततस्तत्प्रतीतिरिति चेत्; न, अकारणप्रतीतौ सामर्थ्यासम्भवात् । तादात्म्याभावे हि प्रसज्यप्रतिषेधस्य पर्युदस्तात् प्रतीतौ तत्कारणत्वे सति स्यात् प्रतिपत्तिः नान्यथा । तस्य तदन्यासंसृष्टरूपस्य यत् तत्त्वं तस्य प्रतिषेध्यतुच्छरूपताया व्यवस्थापकं प्रमाणं प्रत्यक्षरूपम् तत एव- न तदुत्तरकालभाविनो ‘नास्तीह घटःऽ; इति विकल्पात्, तस्य गृहीतग्राहितया स्मृतित्वेनाप्रमाणत्वात्- अन्यस्य घटादेस्तत्रासतो व्यवच्छेदस्याभावस्य सिद्धेस्तदभावात्मकस्यैव प्रदेशस्य तेन ग्रहणात् । द्विविधो ह्ययं प्रदेशो घटासंसृष्टरूप्सस्तव्द्यावृत्तरूपतया ततो ऽन्यो घटवानपि, केवलश्च घटं प्रति अप्रतिपन्नाधारभावः । तस्य तद्विवेकेन प्रत्यक्षेण ग्रहणे घटादन्यत्वं घटविरहश्च गृहीत एव भवतीति न वस्त्वसंकरसिद्ध्यर्थम्, ‘इहेदं नास्तिऽ; इत्येवमर्थं च प्रमाणान्तरमन्वेषणीयम् । विस्तरतश्चैतदुत्तरत्र वक्ष्यत इति आस्तां तावत् । यतश्चान्यभावसिद्ध्यैव तदभाव उक्तेन न्यायेन सिद्ध्यति ततो नान्यभावः प्रतिषेध्याभावस्य लिङ्गम् ।
द्वितीयं कारणं व्याचक्षाण आह- "सम्बन्धाभावाच्च" इति । अन्यभावतदभावयोर्न कश्चित् सम्बन्धो ऽस्ति, ततः कुतो लिङ्गलिङ्गिभावः? इति । एतच्च कदोच्यते? । यदा तदभावरूपतान्यभावस्य परानभ्युपगतापेक्ष्यते । तदन्यभावात् पृथगेव तदभावस्तुच्छरूप इष्यते परैः । अन्यथोक्तेन न्यायेनान्यभावस्यैव तदभावरूपत्वे तादात्म्यात् कथं सम्बन्धाभावः? । प्रत्यक्षसिद्धता च तदैव, न पक्षान्तरेण अभिहिता । "तच्च तस्य" इत्याद्यस्यैव विवरणं व्यतिरेकमुखेन "एकार्थसमवाय" इति परदर्शनेनोक्तं । परेषां हि नैयायिकादीनां व्यतिरिक्तावेव कृतकानित्यत्वाख्यौ धर्मावेकस्मिन्नेव धर्मिणि समवेताविति कृतकस्यानित्यत्वेनैकस्मिन्नर्थे धर्मिणि समवायः सम्बन्धः धमस्य वेति ( ह्ब्ट् 181 ) सम्बन्ध एवोदाहरणान्तरम् । अत्रैकर्थसमवाय इति संयोगः स एव समवायशब्देनोक्तः । संयोगसमवाययोः कल्पितत्वाद् भेदेन व्यपदेशे ऽनादरात् । परेषां त्वग्निधूमौ स्वावयवेष्वेव समवेताविति न तयोरेकार्थसमवाय आधाराधेयभावो वेति धूमस्याग्नेरुपरि दर्शनाल्लौकिकः सम्बन्ध उक्तः । "जन्यजनकभावो वा" इति पारमार्थिकः सम्बन्धो ऽभिहितः, परमार्थतो ऽग्नेर्जनकत्वात् इतरस्य च जन्यत्वादिति ।
ननु चेश्वरसेनेन सह विचारः प्रक्रान्तः तत् किमिति नैयायिकाभिमस्यापि सम्बन्धस्यान्यभावतदभावयोरभाव उच्यते । सत्यम्, प्रसङ्गेन तु तन्मतस्यापि निषेधार्थमुक्तम् । पूर्वं ह्यन्यभावग्राहिप्रत्यक्षसिद्धत्वात् प्रतिषेध्याभावस्य न तदर्थं प्रत्यक्षान्तरं ‘नास्तीह घटःऽ; इत्येवमाकारं कल्पनीयमिति प्रसङ्गतः कथितम् । अधुना तु प्रसङ्गादिदमुच्यते- यदान्यभावग्राहिप्रत्यक्षसिद्धो ऽयं तदभावो न भवति तदा प्रत्यक्षान्तरं ‘नास्ति इह घटःऽ; इत्येवमाकारं विशेषणविशेष्यभावलक्षणात् सन्निकर्षादिष्टं भवता । न चासति सम्बन्धे ऽन्यभावतदभावयोर्विशेषणविशेष्यभावो युक्तः, अतिप्रसङ्गात् । ततः कुतस्तल्लक्षणात् सन्निकर्षात् तदभावे प्रत्यक्षं भवेदिति ।
एवं सम्बन्धस्वरूपमाख्याय तस्येहासम्भवमाह- "नैवम्" यथा कृतकत्वानित्यत्वयोरग्निधूमयोर्वैकार्थसमवायादिलक्षणः सम्बन्धो नैवं कश्चिद् भावाभावयोः सम्बन्धो येन "अस्य" तदभावस्यान्यभावः साधनं स्यात् । यावेकत्रार्थे धर्मिरूपे प्रवर्तेते तयोरेकार्थसमवायो भवति । अन्यभावश्च प्रदेशाख्यः स्वावयवेषु येषु वर्तते न तत्र घटाभावः । एवं हि प्रदेशावयवेषु घटो नास्तीति स्यात् न प्रदेशे । न चास्य प्रदेशावयवैरारम्भः । ते हि द्रव्यात्मानो द्रव्यान्तरमेवारभन्ते । न च घटाभावो द्रव्यम् । नवैव हि द्रव्याणीष्यन्ते । न च क्रियावदादिकं द्रव्यलक्षणं तत्रास्ति । न च गुणरूपतया तत्र वर्तते । चतुर्विशतिरेव हि ( ह्ब्ट् 182 ) गुणा इष्यन्ते । न चायं तेषामन्यतमः । नापि कर्मरूपतयपञ्चसु कर्मस्वनन्तर्भावात् तल्लक्षणविरहाच्च । "एकद्रव्यम्" इत्यादिकं हि तल्लक्षणम् । न चैतदभावे सम्भवतीति । नापि सामान्यादिरूपतया, तद्रुपविरहादेव । नाप्यन्यभावतदभावयोः संयोगो ऽग्निधूमयोरिव, द्रव्ययोरेव तदभ्युपगमात् । न च तदभावो द्रव्यमित्युक्तम् । नाप्याधार(रा)धेयभावो, यतः सो ऽपि संयोगनिमित्त उच्यते ‘इह कुण्डे बदराणिऽ; इति । समवायनिमित्तो वा, ‘इह तन्तुषु पटःऽ; इति । न चाभावस्याद्रव्यात्मनः संयोगः समस्ति । नापि समवायः, पञ्चानामेव हि द्रव्यादीनां पदार्थानां समवायित्वमिष्यते; न चाभावः पञ्चस्वन्तर्भवतीति । न च तदात्मानुपकारे सत्याधारव्यपदेशः सम्भवति । उपकारे वा जन्यजनकभवः । न च तदभावो जन्यः, कार्यताप्रसङ्गात् । कार्यता चास्यासम्भविनी, यतः स्वकारणसमवायः, सत्तासमवायो वा कार्यतोच्यते भवद्भिः । अन्यभावस्तु प्रदेशाख्यो ऽस्य न कारणम्, त्रयाणामेव हि द्रव्यगुणकर्मणां द्रव्यं कारणमिष्टम् । न चाभावो द्रव्यादिलक्षणः इति । सत्तासमवाये ऽपि सत्प्रत्ययविषयता तदभावस्य स्यात्, नाभावप्रत्ययविषयता । प्रदेशाभावे ऽपि च घटाभावसम्भवात् कुतस्तत्कार्यता । न चास्य प्रतिविषयं भेदः, एकाकारज्ञानविषयत्वात् । सम्बन्धिभेदाद् भेदे वा सामान्यादिष्वपि तत्प्रसङ्गः । समवायोप्यस्यानन्तरमेव निरस्त इति कुतः स्वकारणसत्तासमवायरूपा कार्यता तदभावस्य स्यात्? । एतेन जन्यजनकभावः प्रयुक्तः । ततः सर्वथा सम्बन्धाभावान्नान्यभावः तदभावस्य साधनमिति ।

परः सम्बन्धान्तरं दर्शयन्नाह- "अस्ति विषये"त्यादि । यथा हि अर्थो विषयः शब्दो विषयीति तयोर्विषयविषयिभावः सम्बन्धः, एवमन्यभावतदभावयोर्विषयविषयिभावः सम्बन्धो भविष्यति । प्रदेशाख्येनान्यभावेन घटाभावस्य प्रत्यायनादिति पूर्वपक्षाशङ्का । शब्दार्थयोः सम्बन्धः स्यादित्यभिसम्बन्धः । ( ह्ब्ट् 183 ) किं रूपः? । "कार्यकारणलक्षणः" । कथं पुनरर्थकार्यता शब्दस्य? । तत्प्रतिपादनाभिप्राये सति अर्थप्रतिपादनविवक्षायां सत्यां तत्प्रयोगाच्छब्दोच्चारणात् । तेनार्थेन विवक्षाविपरिवर्तिना शब्दस्य कार्यकारणलक्षणः सम्बन्धः स्यात् । यद्यपि च शब्दार्थयोः बुद्धिपरिकल्पितसामान्यरूपता तथाप्यर्थप्रतिभासिन्या विवक्षया शब्दसामान्योत्प्रेक्षानिबन्धनस्य शब्दस्वलक्षणस्योत्थापनात् तन्मुखेन कार्यकारणभाव उच्यते । "अविनाभावलक्षणो वा" इति परप्रसिद्ध्योच्यते । परो ह्यविनाभावलक्षणः शब्दार्थयोः सम्बन्ध इति व्यवहरति । ततः सम्बन्धनिवन्धन प्रतिपाद्यप्रतिपादकरूपो विषयविषयिभावो युक्तः । तदभावान्यभावयोरप्येवं भविष्यतीति चेत्, आह- "अयं च" अनन्तरोक्तप्रकारः "अत्र" तदभावान्यभावयोः "न सम्भवति" । नहि घटाभावप्रतिपादनाभिप्राये सति अन्यभावस्य प्रदेशलक्षणस्य प्रयोगो निष्पत्तिर्भवति, घटाभावप्रतिपादनाभिप्रायात् प्रागपि प्रदेशस्य स्वहेतुभ्य एव निष्पत्तेः । सत्यपि तदभिप्राये ऽन्यभावस्याभावाच्च । ततश्च कथं तयोः कार्यकारणभावः?, तद्वारको ऽविनाभावो वा स्यात्? यतो विषयविषयिभावः कल्प्येत ।
स्यान्मतम्- यथा शब्दार्थयोः साध्यसाधनभावनिमित्तो विषयविषयिभावः तथा अन्यभावतदभावयोरपि इत्येतावन्मात्रेण शब्दार्थयोर्दृष्टान्ततेत्यत आह- "सिद्धे हि" इत्यादि । शब्दार्थयोर्हि कार्यकारणभावनिबन्धनः साध्यसाधनभावः अन्यथार्थान्तरत्वे तदयोगात् तथेहापि यदि तदभावान्यभावयोः साध्यसाधनभावः सिध्येत् तदा तन्मुखेन साध्यसाधनभावद्वारेण विषयविषयिभावः स्यात् । यावता स एव साध्यसाधनभावो ऽसति सम्बन्धे कार्यकारणभावादिके न सिध्यति, सर्वस्य साध्यसाधनताप्रसक्तेः ।
कथमिन्द्रियं स्वविषयसिद्धिनिबन्धनमिति चेत्; परस्परोपसर्पणाद्याश्रयात् प्रत्ययविशेषादिन्द्रियविषययोरेकविज्ञानोत्पादनयोरुदयात् ( ह्ब्ट् 184 ) तथा व्यपदेशः, नैवमिह, अन्यभावतदभावयोस्तदयोगात् । लिङ्गलिङ्गिभावलक्षणस्य च साध्यसाधनभावस्य प्रकृतत्वात्, तस्य च सम्बन्धमन्तरेणायोगात् ।
नैव सम्बन्धान्तरनिबन्धनो ऽन्यभावतदभावयोः साध्यसाधनभावो ऽपि तु विषयविषयिभावनिमित्त एवेति चेत्; आह- "अन्यथा" यदि सम्बन्धान्तरं नेष्यते किन्तु विषयविषयिभावात् साध्यसाधनभावः तस्माच्च विषयविषयिभावः, तत इतरेतराश्रयमिदं स्यात् । तथा चैकासिद्धौ द्वयोरप्यसिद्धिर्भवेदिति । किञ्चान्यभावाच्च लिङ्गभूतादभावस्य लिङ्गिनः सिद्धावनुमिताविष्यमाणायां असमुदायश्च साध्यः स्यात्, अन्यभावेन तदभावस्य केवलस्यैव साधनात् न केवलसम्बन्धाभावात् साध्यसाधनभावायोगः । समुदायश्च विशेषणविशेष्यभावापन्नो धर्मधर्मिलक्षणः साध्यो य इष्टस्तदभावदोषश्चेति ‘चऽ; शब्दः ।
सर्वत्र समुदायस्य साध्यता नैवेष्टेति चेत्, आह- "तथा च" धर्ममात्रस्यापि स्वतन्त्रस्य साध्यतोपगमे ‘घटाभावस्तदन्यभावात्ऽ; इत्येवंरूपे प्रयोगे घटस्य सर्वत्र देशे सर्वदा चाभावः प्रसज्येत । धर्मिणि हि क्वचिद्धर्मस्य गुणभूतस्य साधने तत्रैव तत्काल एव च भावो युक्तो नान्यदेति सर्वत्र समुदाय एव साध्यो ऽभ्युपगन्तव्यः न केवलो धर्म इति ।
अत्राह परः- नासमुदायस्य साध्यता अन्यभावतदभावयोरसम्बन्धो वा । कुतः? । "प्रदेशादि" इत्यादि । ‘इह प्रदेशे घटो नास्तिऽ; इत्येवं घटाभावेन प्रदेशादिर्धर्मी विशेष्यते सघटात् प्रदेशादेर्भेदेनावस्थाप्यत इति तद्विशेषणत्वं प्राप्तसाध्यते न तु घटो नास्तीत्येवं "केवलो" धर्मिणः कस्यचिग्दुणभावमनापन्नः । ततो नासमुदायस्य साध्यतेति कुतस्तद्भावी दोषः? । "न च" नैवास्मिन्पक्षे "लिङ्गस्या" न्यभावात्मनो "लिङ्गिनश्च" प्रदेशादिधर्मिलक्षणस्य "असम्बन्धदोषः प्रसज्यते" । कुत? । "अन्यभावस्य" घटविविक्तप्रदेशदिलक्षणस्य "प्रदेशादिना" धर्मिणा ( ह्ब्ट् 185 ) "सम्बन्धात्" तदात्म्यसद्भावादिति । तथा हि- शब्दादिधर्मिणा कृतकत्वादेस्तादात्म्यलक्षण एव सम्बन्ध इष्यते भवता । स इहास्तीत्यभिप्रायः । ततश्च ‘सम्बन्धाभावाच्चऽ; इत्ययुक्तमिति मन्यते ।
सिद्धान्तवादी तु साध्यधर्मलक्षणस्य लिङ्गिनो घटाभावाख्यस्यान्यभावेन लिङ्गेन सम्बन्धाभावः प्रागुक्तो न धर्मिणा ततः दमुत्तरं सांबध्यत इति मन्यमानो धर्मिणाप्यन्यभावाख्यस्य लिङ्गस्य सम्बन्धाभावं दर्शयन्नाह- "न" लिङ्गलिङ्गिनोरसम्बन्धो न चेति सम्बध्यते । तथा नासमुदायसाधनमिति । किन्तु लिङ्गलिङ्गिनोरसम्बन्ध एवासमुदायसाधनमेव च एवमपि ब्रुवतः । कुतः? । प्रदेशादेरेव धर्मितयावस्थाप्यमानस्यान्यभावत्वादन्यभावलक्षणलिङ्गत्वात् । एतदेव दर्शयति- यत्रैव हि प्रदेशादौ धर्मितया त्वया कल्प्यमाने यद् घटादिकं नासीत्युच्यते लोकेन स एव प्रदेशादिस्तेन घटादिनासंसृष्टस्संसर्गरहितः "अन्यभावो" लिङ्गतयेष्टो नापरः कश्चित् यतः "तद्दर्शनादेव" घटासंसृष्टप्रदेशादिदर्शनादेवास्य प्रतिपत्तुः ‘घटो नास्तिऽ; इति विकल्पो लिङ्गिज्ञानतयोपगतो भवति । ततः स एवान्यभावः । यदेव हि दृश्यमानं लिङ्गिज्ञानं जनयति तदेव लिङ्गमुच्यते । घटासंसृष्टश्च प्रदेशादिरेवम् । तस्मात् तदेवान्यभावलक्षणं लिङ्गमुपेयम् । ततः कथं तस्यैवान्यभावस्य व्यावृत्तितो ऽपि भेदमननुभवतो लिङ्गलिङ्गिभावो लिङ्गत्वं लिङ्गित्वं वा? । नहि लिङ्गमेव धर्मी भवितुमर्हति, धर्मिप्रतिपत्तावेव साध्यप्रतिपत्तेरन्वयाद्यनुसरणायोगात् । ततश्चान्यस्य धर्मिणो ऽभावात् कथमन्यभावात्मनो लिङ्गस्य तत्सम्बन्धः, समुदायसाध्यता वा? । शब्दकृतकत्वयोस्तु परमार्थतस्तादात्म्ये ऽपि व्यावृत्तिभेदनिबन्धनो ऽस्त्येव भेदः । ततः शब्दादिधर्मिप्रतिपत्तावप्यनित्यत्वाद्यप्रतीतौ कृतकत्वादिना तत् साध्यत इति युक्तम् ।

स्यान्मतम्- सामान्यविशेषकल्पनया लिङ्गलिङ्गितैकस्यापि भविष्यतीत्यत आह- "न चात्र" प्रकृते ऽन्यभावे "सामान्यविशेषभावकल्पना सम्भवति", येन सामान्यविशेषविकल्पेन सामान्यं हेतुर्भवेद् विशेषो धर्मी, यतः समुदायसाध्यता ( ह्ब्ट् 186 ) लिङ्गलिङ्गिनोः सम्बन्धो वा स्यात् । कुतो न सम्भवतीत्याह- तद्विशेषप्रतिपत्तेरेव" घटविविक्तप्रदेशविशेषप्रतिपत्तेरेव "तदभावस्य" घटाभावस्य प्रतीतेः । यतश्च विशेष एव घटाभावप्रतीतिनिबन्धनं ततः किं तत्र सामान्यकल्पनया क्रियत इति । स एव विशेषो ऽन्यत्र वर्तमानः सामान्यरूपतां प्रतिपत्स्यत इति चेत्, आह- "तस्य" घटविविक्तप्रदेशविशेषस्य "अन्यत्र" सजातीये "अन्वयस्य" अनुवृत्तेरभावात् कुतः सामान्यात्मता? । न ह्यसौ देशकालावस्थानियतो विशेषो ऽन्यमन्वेतीति । अत्रैवोपचयहेतुमाह- "प्रतिज्ञार्थे"त्यादि । यदि हि घटविविक्त एव प्रदेशविशेषो धर्मी, तस्यैव च हेतुतेष्यते, तदा प्रतिज्ञाया यो ऽर्थो धर्मधर्मिसमुदायस्तदेकदेश एव धर्मिलक्षणो हेतुः स्यात्, प्रतिज्ञार्थैकदेशस्य च व्यावृत्तितो ऽपि भेदमनु(न)नुभवतो हेतुत्वमसिद्धमिति । अथ मा भूत् एष दोष इति न घटविविक्त एव प्रदेशविशेषो हेतुरिष्यते, किन्तु प्रदेशमात्रं घटविविक्तताविशेषरहितमित्यत आह- "न च यत्र प्रदेशमात्रं तत्र घटाभावः" । सघटे ऽपि प्रदेशे प्रदेशमात्रस्य भावादनैकान्तिको हेतुः स्यात् ।
परो ऽन्यथा सामान्यविशेषभावं दर्शयन्नाह- तादृशौ(शे) यादृशो घटविविक्तः केवलः प्रदेशो ऽग्रतः स्थितस्तादृशे सर्वत्र प्रदेशे घटस्याभाव इति कुतो ऽनेकान्तः? । तथाविधप्रदेशविशेषप्रतीतिरेव घटाभावप्रतीतिस्ततो ऽन्यभावतदभावयोः लिङ्गलिङ्गितानुपपन्नेत्युपदर्शयन्नाह- "ननु तस्यैव" इत्यादि । यो ऽसौ केवलः प्रदेशविशेषो धर्मितयावस्थापितस्तस्यैव यत् कैवल्यं केवल इत्यनेन विशेषणेनोच्यते भवता, त देव घटविरहो घटाभाव इति कथ्यते । स च घटविरहो लिङ्गभूतस्य केवलस्य प्रदेशस्य प्रतिपत्तावेव सिद्धो न तूत्तरकालं ततो ऽन्य एव आकारान्तरेण धूमादिवाग्निः सिध्यति । ततः कस्येदानीं "तत्प्रतिपत्तावेव" साध्यप्रतीतौ सत्यां तल्लिङ्गम्? । न कस्यचित् । ( ह्ब्ट् 187 ) जिज्ञासितस्य घटाभावस्य सिद्धेरन्यस्य कस्यचिदजिज्ञासितत्वात् । केवलप्रदेशप्रतिपत्तावेव घटविरहप्रतीतौ च यदेतदुत्तरकालं ‘यत्र यत्र केवलः प्रदेशस्तत्र तत्र घटविरहःऽ; इति "अन्वयस्यानुगमामनु( गमनम्" अनु)सरणम्, तच्च निरर्थकम् आदावेव साध्यप्रतीतेः । यत एवं तस्मादन्यभावः केवलप्रदेशलक्षणः साध्यसाधनयोर्भेदाभावान्न साधनमभावस्येति स्थितम् । तदेवं समुदायसाध्यतां लिङ्गस्य च धर्मिणासम्बन्धं प्रतिपादयितुं यदुक्तं परेण- ‘प्रदेशादिधर्मिविशेषणस्याभावस्य साधनात्ऽ; इति तदपृथक्सिद्धिदूषणेनैव निराकृतम् ।
विषयविषयिभावेन तु सम्बन्धप्रतिपादने निरस्ते परो ऽन्यथा सम्बन्धं साध्यसाधनयोर्द्दर्शयन्नाह- "अस्त्य"न्यभावतदभावयोः सम्बन्धो विरोधाख्यः । ततः सम्बन्धसद्भावादन्यभावादभावस्य सिद्धिर्भविष्यतीति । सिद्धान्तवादी तु साध्यसाधनयोर्विरोधमेवासम्भावयन् पृच्छति- "केन कस्य विरोधः" इति । न ह्यत्र साध्यसाधनयोर्विरोधः संभवतीत्यभिप्रायः । परो विरोधमभिप्रायनभिज्ञतया दर्शयति- "अन्यभावेन" केवलप्रदेशात्मना "प्रतियोगिनो" यस्याभावः प्रमातुमिष्टो घटादेस्तस्येति ।
परस्यैवंवादिनो असम्बन्धाभिधायितामादर्शयन्नाह- "किं नु वै प्रतियोगी" घटादिः प्रमातुमिष्टो येन प्रतियोगिनः प्रमेयत्वेन लिङ्गलिङ्गिनोर्विरोधः सम्बन्धो ऽभिधीयते? । नैव प्रतियोगी प्रमातुमिष्टः किन्तु तदभाव इति चेत्, आह- "अभावस्तु" प्रतियोगिनो यः साध्य .........................................................................................
[कुमारिलस्तु मन्यते भवांशाद्भिन्नो ऽ]यमभावांशस्ततो नान्यभाव एव तदभाव इति कथं तत्प्रतिपत्तिरेव तदभावप्रतिपत्तिरिति । तथा ह्ययमभावः प्रागभावादिभेदभिन्नः, ( ह्ब्ट् 188 ) न चावस्तुनो भेदः सम्भवति अतो ऽयं वस्तुरूप एव । यदाह-
"न चावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता ॥" इति ।
न च भावांश एवाभावांशो युक्तः, तस्येन्द्रियसंयोगबलेन प्रतीतेः, इतरप्रतीतेश्च तदसंयोगहेतुकत्वात् । यदाह-
"तत्संयोगे सदित्येवं सद्रूपत्वं प्रतीयते ।
नास्त्यत्रेदमितीत्थं तु तदसंयोगहेतुकम् ॥" इति ।
तत्कथं तत्प्रतिपत्तिरेवापरस्य व्यवच्छेदनमिति तन्निरासार्थमाह । "तस्या"न्यस्य प्रदेशस्य केवलस्य यत् तत् "कैवल्य" मेकाकिकत्वमसहायता तदेव "अपरस्य" प्रतियोगिनो घटादेः "वैकल्यम्" अभाव "इति" तस्मात् "तदन्यभाव एव" भावांश एव त्वदभिमतः "तदभावः" प्रतियोग्यभावांशो न ततः पृथग्भूतं धर्मान्तरमित्युच्यते सुगतसुतैः । ततश्च "तत्प्रतिपत्तिरेव च" तस्यान्यभावस्य प्रतिपत्तिरेव च "तदप्रतिपत्तिः" तस्य प्रतियोगिनो ऽप्रतिपत्तिरभावप्रतिपत्तिरिति यावत् । एवं मन्यते- यो ऽयमभावांशो भावांशात् पृथग्भूतो वस्तुनो धर्मः परिकल्प्यते स घटाद्यभावात्मकतां तद्रूपवैकल्यादेवानुभवति नान्यथा । तच्च तद्रूपवैकल्यमन्यवस्तुनो भावांशस्यापि विद्यत एव । तदभावे हि तस्यान्यवस्तुतैव हीयेत । नहि यद् यद्रूपविकलं न भवति तत् ततो ऽन्यत्वमनुभवति, यथा तस्यैव स्वरूपम्, तथा चाभावांशो ऽपि तस्य न सिध्येत्, सर्वं च विश्वमेकं द्रव्यं प्रसज्येत, ततश्च सहोत्पत्त्यादिप्रसङ्गः, सर्वस्य च सर्वत्रोपयोगः स्यादित्यवश्यमन्यवस्तुनो भावरूपता तदन्याभावात्मिकैव । तथा च तत्प्रतिपत्तिरेव तदन्याभावप्रतिपत्तिः । तत्संयोग एव चेन्द्रियस्य तदन्याभावसंयोग इति किमुच्यते-
"नास्त्यत्रेदमितीत्थं तु तदसंयोगहेतुकम् ।" इति? । विकल्पापेक्षयोक्तमिति चेत्, तदेतदबाधकमेव । प्रत्यक्षेण तदाकारोत्पत्त्या तदन्यभावात्मके एव वस्तुरूपे प्रतिपन्ने पाश्चात्यस्य ( ह्ब्ट् 189 ) यथागृहीताभिलापिनो विकल्पस्योपगमात् । विस्तरतश्चायमभावविचारः प्रमाणद्वित्वसिद्धावभावं प्रमेयं प्रमाणं च विचारयता विहित इति तत एवाववधार्य इति ।

अवश्यं च तदन्यभावप्रतिपत्तिरेव तदभावप्रतिपत्तिः । ततो न वस्त्वसङ्करसिध्यर्थं, ‘नास्त्यत्रेदम्ऽ; इत्यभावव्यवहारार्थं चाभावप्रमाणपरिकल्पना युक्तेति दर्शयन्नाह- "अन्यथा" यदि तत्प्रतिपत्तिरेव तदभावप्रतिपत्तिरिति नेष्यते तदा "तस्य" अन्यवस्तुनः स्वरूपपरिच्छेदेन ततो ऽन्यस्यातद्रूपस्य "अव्यवच्छेदे" अनिराकरणे तदभावाप्रतिपत्तौ "तत्परिच्छेद एव न स्यात्"- तस्य तदन्यवस्तुनः स्वरूपप्रतिपत्तिरेव न स्यात् । किं कारणम्? "तदतद्रूपयोः" तस्य तदन्यवस्तुनो यद्रूपं प्रतिनियतं सकलत्रैलोक्यविलक्षणं यच्चातद्रूपं तद्रूपं न भवति पररूपं तयोः "अविवेकाद्" अविवेचनाद् विवेकेनाव्यवस्थापनादसाङ्कर्येणाप्रसाधनात् । सकलपररूपासङ्किर्णं हि तद्रूपम् तच्चेत् तत्सामर्थ्यभाविना प्रत्यक्षेण तथा नानुकृतं केवलं सम्मुग्धाकारमेव तदुत्पन्नं तदा कथन्तेन तत्परिच्छेदः स्यात्? । न हि यद्रूपं यद्वस्तु तद्रूपाननुकारिणा ज्ञानेन तत्परिच्छेदो युक्तो यथा- शुकुशङ्खरूपाननुकारिणा कामलिनः पीतशङ्खावभासिना ज्ञानेनेति । प्रतिनियतरूपानुकारे वा तत्परिच्छेदस्य कथमन्याव्यवच्छेदो नाम? । ततः प्रतिनियतरूपाननुकारादेव तदन्याव्यवच्छेदः । तथा च तत्परिच्छेदाभाव इति ।
भवत्येवं ततः को दोषः? इत्यत आह- "य एष व्यवहारः" सर्वजनप्रतितः "कस्यचिद्" अग्न्यादेर्वस्तुनो दर्शनात् "क्वचिद्देशे" तत्सम्बन्धिनि "प्राप्त्यर्थो" दृष्टस्यादृष्टस्य च "परिहारार्थः" प्रवृत्तिनिवृत्तिलक्षणः "स न स्यात्" । किं कारणम्? । "न हि" यस्माद् "अयं" प्रतिपत्ता "अनलं पश्यन्नपि" सङ्कीर्णतदद्रूपप्रतिभासिना प्रत्यक्षेण, अन्यथास्य दर्शनरूपताहानेः, तथा हि- असङ्कीर्णस्यादर्शने सङ्कीर्णमपि यदि न पश्येत् तदा लोष्टादिप्रख्यं कथं कस्यचिदेतद्दर्शनं स्यात्? । स एवंभूतः सङ्कीर्णदर्शनवान् प्रतिपत्ता ( ह्ब्ट् 190 ) कथम् "अनलमेव पश्यति" न सलिलादिकम्? । "किन्तु" सङ्कीर्णरूपवस्तुप्रतिभासिज्ञानतया "सलिलादिकमपि" पश्यति । ततः कथं "सलिलार्थी तत्र" अग्निमति प्रदेशे "न प्रवर्तेत"? ।
परस्य वचनावकाशमाशङ्कयाह- "अनुपलम्भेन" इत्यादि । अनलप्रतिभासिना हि ज्ञानेनानलस्वरूपमेव प्रतीयते । यस्तु सलिलाभावः स तत्र सलिलस्यानुपलम्भेन । ततो ज्ञानद्वयेन तदतद्रूपयोर्विवेकाल्लोके प्रवृत्तिनिवृत्तिलक्षणः प्रतिनियतो व्यवहारः सिध्यतीति । सिद्धान्तवाद्याह- "को ऽयमनुपलम्भो नाम" इति । कदाचित् परो ब्रूयात् सलिलोपलम्भविरहमात्रमित्यत आह- "यदि सलिल" इत्यादि । कुमारिलस्य तु सलिलोपलम्भनिवृत्तिमात्रं तुच्छरूपमभावप्रमाणतया नाभिमतमेव ।
"प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते ।
सात्मनो ऽपरिणामो वा विज्ञानं वान्यवस्तुनि ॥"
इति वचनात् । किन्तु यो ऽसावात्मनः प्रतिषेध्यवस्तुप्रतिभासिज्ञानात्मनापरिणामः स तदन्यवस्तुप्रतिभासिज्ञानसहचरितो ऽभ्युपगन्तव्यो न केवल इति परमभ्युपगमयितुमस्योपन्यासः । तथा चान्यवस्तुविज्ञानमेवाभावप्रमाणमस्तु, किमप्रमाणकस्यात्मनो ऽपरिणामाख्येन धर्मेण परिकल्पितेन? । न च तदन्यवस्तुविज्ञानपरिणामादन्य एव तस्यापरिणामो नाम भवतो ऽभिमतो भावान्तरस्यैवाभावत्वेनोपगतत्वात् । तुल्ययोग्यतारूपस्यैकज्ञानसंसर्गिण एव चान्यवस्तुनो विज्ञानं तथोपेयं नान्यस्य, तज्ज्ञानात् प्रतियोग्यभावसिद्धेः । न हि रूपज्ञानाद्रसाद्यभावप्रतीतिर्युक्तिमती देशादिविप्रकर्षवतो वा । अन्यवस्तुविज्ञानं च प्रतिनियतरूपर्पतिभास्येव । रूपान्तरावभासित्वे हि तस्य सलिलोपलम्भाभाव एव न सिध्येत् । एवं च प्रतियोग्यभावः प्रत्यक्षावभासित एव । तदभावव्यवहारे त्वस्मदभिमतैवानुपलब्धिरायातेति प्रतिपादयितुमस्योपन्यासः । तत्र यदि सलिलोपलम्भाभावः तुच्छरूपो ऽनुपलम्भस्तदा कथमभावः ( ह्ब्ट् 191 ) कस्यचित् प्रतिपत्तिः परिच्छेद इति यावत्, परिच्छेदस्य ज्ञानधर्मत्वात् । अथ न तस्य प्रतिपत्तिरूपतेष्यते किन्तु तद्धेतुभाव इत्यत आह- "प्रतिपत्तिहेतुर्वा" इति । नहि सर्वसामर्थ्यविरहलक्षणस्याभावस्य प्रतिपत्तिं प्रति हेतुभावो युक्तः । हेतुभावे वा तस्यानपेक्षितसहकारिणो नित्यं तज्ज्ञानजननादभावज्ञानमेवैकं प्रतिपत्तुः स्यात्, ज्ञानान्तरस्यावकाश एव न भवेत् ।
न चाज्ञातस्यास्य नास्तिताज्ञानजननं युक्तमित्याह- "तस्यापि" सलिलोपलम्भाभावस्य कथं प्रतिपत्तिः? । अथायं सलिलोपलम्भाभावः स्वयमप्रतीत एव सलिलाभावप्रतीतिं जनयति तदा कस्यचिदपि । तदेवाह- "तस्य" सलिलोपलम्भाभावस्य ततो वा सलिलादन्यस्यानलादेः ‘विज्ञानं वान्यवस्तुनिऽ; इत्यत आत्मनो ऽपरिणामस्य पृथगवस्थापनात्, तत्रापि तदङ्गीकरणे चात्मनो ऽपरिणामस्य तदात्मकत्वान्न ततो भेदेन व्यवस्थाप्येत । ततश्च कस्यचिदपि तस्य तदन्यस्य वाप्रतिपत्तावपि यद्यभावः सलिलादेः प्रतीयते तदा स्वापाद्यवस्थास्वपि सलिलाद्यभावः किं न प्रतीयते? । तदापि तदभावः प्रतीयेतेत्येतद्विचारितम् प्रमाणविनिश्चये, तत एवावधारणीयम् । व्यवधानादिग्रहणेन चैतद्दर्शयत्यन्यवस्तुनो ऽप्यन्यत्वं तत्तुल्ययोग्यतारूपापेक्षमेव, न तदनपेक्षमुपेयम् । तथा चास्मदुपवर्णितानुपलब्धिसिद्धिरिति । यद चैवमुक्तेन प्रकारेणानुपलम्भेन सलिलाभावप्रतीतिर्न युज्यते ऽनलप्रतिभासिनश्च ज्ञानस्य प्रतिनियताकारता नाभ्युपगम्यते "तस्मादयम्" अनलदर्शी प्रतिपत्तानलं "पश्यन्नपि" सङ्कीर्णरूपप्रतिभासिना ज्ञानेन ‘अनलो ऽयं न सलिलम्ऽ; इति नाध्यवस्यति अनध्यवस्यंश्च सलिलरूपस्यापि प्रतिभासनात् तदर्थी "न तिष्ठेत्" प्रवर्तेत "नापि प्रतिष्ठेत" सलिलार्थी न प्रवर्तेत । तथाहि- सलिलं नाम तदुच्यते यत् सर्वोदन्यासन्तापाद्यपनयनक्षमं सकलतदन्यरूपासंकीर्णप्रतिनियताकारज्ञानावभासि । इदं त्वन्यदेव शबलरूपं किमप्यवभासत इति । ( ह्ब्ट् 192 ) "ततश्च" प्रवृत्तिनिवृत्त्योर्विरुद्धयोर्युगपदनुष्ठातुमशक्यत्वात् "दुस्तरं व्यसनं प्रतिपत्तुः स्यात् ।"
अत्र परस्य वचनावकाशमाशङ्कयाह- "तत एव" इत्यादि । न मया सलिलोपलम्भनिवृत्तिमात्रात् तु च्छरूपात् तदभावगतिरुच्यते, यथोक्तदोषप्रसङ्गात् । किन्तु यदेतदेकस्य केवलस्यानलस्य दर्शनं तत एवान्यस्य तत्राप्रतिभासमानस्य सलिलस्याभावगतिर्भवति ‘विज्ञानं वान्यवस्तुनिऽ; इति वचनात् ।

सिद्धान्तवाद्याह- "कथमेकम्" इत्यादि । केन पुनः सामर्थ्येन तदेकदर्शनम् "अन्याभावं प्रत्याययति?" । तथाहि- तस्मिन् दृश्यमाने तदेवास्तीत्यवगच्छतु, तदन्यत्तु नास्तीति किमिति प्रत्येतीति । "तस्यैव" परिदृश्यमानस्यानलादेः "केवलस्य" सलिलासंसृष्टरूपस्य "दर्शनाद्" अनलज्ञाने प्रतिभासनात् ‘सलिलं नास्तिऽ; इति निश्चयः सञ्जायते । तथाहि- अनल इव सलिलमपि यदि तत्राभविष्यत् तदप्यनलवद् दर्शने प्रत्ययभासिष्यत तयोः स्वज्ञानं प्रत्यविशिष्टत्वाद् योग्यताया नैकस्य प्रतिभासो युक्तः । तस्मादेकप्रतिभासनमन्याभावनान्तरीयकं इत्यन्याभावे ततो ज्ञानमुत्पद्यते अन्यवस्तुनि च विज्ञानं नास्तीति ज्ञानं जनयति । तथान्यद् वसुत् पररूपासंकीर्णस्वभावतयैव तथोच्यते । तद्रूपतयैव च तज्ज्ञानमन्यत् प्रतियदेवं व्यपदिश्यते ऽन्यथा तदयोगादित्यन्यप्रतिपत्तिरेव तदभावविकल्पहेतुरिति सिद्धान्तवाद्याह- "इदमेव" इत्यादि । नन्वस्माभिरिदमेव प्रागभिहितं "तयोः सतोः नैकरूपनियता प्रतिपत्तिः असम्भवात्" इत्यादिभिर्वचनैः । ततो यदेवान्यासंसर्गिणः केवलस्य प्रतिभासनं तदेव तदन्याभावस्यापि, तस्यैव केवलस्य तदन्याभावात्मकत्वादन्यस्य चाभावांशस्य निरस्तत्वात् । ततः प्रत्यक्षावभासितत्वात् तदभावस्य तब्दलात् पाश्चात्यं व्यवहारप्रवर्तनरूपं नास्तिताज्ञानं विकल्पकमाजायते । ( ह्ब्ट् 193 ) न तु तेनाप्रतिपन्नं किञ्चिदवगम्यते, यतस्तदन्यवस्तुनि विज्ञानं प्रत्यक्षात्मकमप्यनवगते तदन्याभावे ज्ञानं जनयत् पृथगभावप्रमाणतया व्यवस्थाप्येत । तथा हि- तदन्याकारशून्य एव तदेकज्ञानाकारः संवेद्यते । ततस्तत्संवेदनमेव तदभावसंवेदनम् । नहि विकल्पज्ञानस्यापि तदाकारशून्यरूपसंवेदनादन्यत्तदभावसंवेदनं नाम । केवलमस्य विकल्परूपतैवातिरिच्यते । ततो यथा निर्विकल्पज्ञानावसिते क्वचिदनले ‘अनलो ऽत्रास्तिऽ; इति पाश्चात्यो विकल्पो व्यवहारप्रवर्तनमात्रं न ततः पृथक् प्रमाणं यथोक्तं प्राक्, तथा नास्तिताज्ञानमपि विकल्पकं तत्फंलद्वारेण वान्यवस्तुविज्ञानं न प्रत्यक्षात् पृथगभावाख्यं प्रमाणमिति । तस्माद् यदेवास्माभिरभिहितं तदन्याभावप्रतीतिं प्रति, तदेव त्वयाप्यभिधीयत इति कस्मात् परुषमिवाभाति यतस्तदनभ्युपगमेन पृथगभावाख्यं प्रमाणमभ्युपगतमित्युपहसति । तथा ह्यगत्येदानीं त्वयोच्यते न मध्यस्थतया अन्यथेदमेव किं न पूर्वमेवाभिहितम्?, यत आलजालभिधानेनात्मा परिक्लेशित इत्युपसंहरन्नाह- " तस्मात् तीरादर्शिनेव" इत्यादि । यथा किल वहनारूढैर्वर्णिग्भिः शकुनिर्मुच्यते अपि नाम तीरं द्रक्ष्यतीति । स यदा सर्वतः पर्यटंस्तीरें नासादयति तदा वहनमेवागच्छति तद्वदेतदपि द्रष्टव्यम् । यतश्चावश्यभ्युपगमनीयो ऽयं पक्षस्तस्मान्न किञ्चिदनयाविद्यमानप्रतिष्ठानया दिशः प्रतिपत्त्या प्रयोजनम् ।
तदेवं परस्यान्यभावतदभावयोर्लिङ्गलिङ्गिभावमिच्छतः सम्बन्धाभावादसावयुक्तः इति प्रतिपादिते परेण ‘असति सम्बन्धे ऽन्यभावगत्यापि तदभावगतिर्न स्यात्ऽ; इति चोदिते ‘न वै कुतश्चित् सम्बन्धाद्ऽ; इत्याद्यभिहितम् । अतः ‘अन्यभाव एव तदभावो ऽन्यभावगतिरेव च तदभावगतिःऽ; इति प्रसाधयता कुमारिलपरिकल्पितः कस्यचिदभावनिश्चयार्थमभावप्रमाणवादः प्रसङ्गतो निरस्तः सम्प्रति तु-
"वस्त्वसङ्करसिद्धिश्च तत्प्रामाण्यसमाश्रिता"
इत्येतदाहत्य निराकर्तुं पूर्वपक्षमुत्थापयन्नाह- "यद्येकपरिच्छेदादेवः" इत्यादि । यदि हि "एकस्य" केवलस्य परिच्छेदादन्यस्य "व्यवच्छेदः" प्रतिषेधः सिध्यति तदा सर्वस्या अ(स्या)न्यस्याविशेषेणैव "तत्र" देशे यत्रासावेकः परिदृश्यते तत्राभावसिद्धिर्भवेत्, न तु विशेषपरिग्रहेण तुल्या स्वज्ञानजननं प्रति योग्यावस्था यस्य तस्यैवेति । तथा हि- असौ यथा तुल्ययोग्यतारूपपदार्थविविक्तरूप उपलभ्यते, तदेकाकारप्रतिनियमात् तज्ज्ञानश्च, तथा तदतुल्ययोग्यतारूपपदार्थविविक्तत्मको ऽपि । ततश्च तद्विविक्ताकारतया तदन्याभवसाधने विशेषाभावात् प्रदेशरूपज्ञानं घटाभवमिव रसाद्यभावमपि साधयेत्, न वा घटाभावमपीति ।
किञ्च, यदेतद् ‘उपलब्धिलक्षणप्राप्तस्यानुपलब्धिरभावसाधनीऽ; इति विशेषणमुक्तं तच्च न वक्तव्यम् । किं कारणम्? यतो ये ऽप्यनुपलब्धिलक्षणप्राप्तास्तेषामपि तत्र देशे तदेकाकारतया ज्ञानस्य व्यवच्छेदो भवत्येव । तथा हि- यथोपलब्धिलक्षणप्राप्तास्तदेकाकारवति ज्ञाने न प्रतिभासन्ते ततश्च व्यवच्छिद्यन्ते तथानुपलब्धिलक्षणप्राप्ता अपीति किम् ‘उपलब्धिलक्षणप्राप्तस्य" इत्यनेन विशेषणेनेति । एवं पूर्वपक्षे व्यवस्थिते यदि तदन्यव्यवच्छेदः- ततः पृथक्करणमन्यत्वेन व्यवस्थापनमभिमतं तदभ्युपगम्यत एव । अथ तद्देशकालयोरभावः, तदयुक्तम्, येन हि सामर्थ्येन तुल्ययोग्यतारूपस्योपलब्धिलक्षणप्राप्तस्य चाभावं साधयति न तत्सामर्थ्यमतुल्ययोग्यतारूपे ऽनुपल्ब्धिलक्षणप्राप्ते वा सम्भवति । ‘तयोः सतोर्नैकरूपनियता प्रतिपत्तिः असम्भवात्ऽ; इत्येवं हि तदभावसाधनम् । न चैतदन्यत्र सम्भवतीति प्रतिपादयितुम् "एकात्मपरिच्छेदात्" इत्यादिनोपक्रमते । यत् पुरो ऽवस्थितं प्रत्यक्षे ऽवभासते तस्यैकस्यात्मनः प्रतिनियतस्य रूपस्य परिच्छेदात् तदाकारोत्पत्त्या विधिविकल्पोत्पादनेन च यः "तदन्यः" ततो ऽन्यस्तद्वयतिरिक्तस्तस्य सर्वस्य य "आत्मा" स्वभावस्ततो ( ह्ब्ट् 195 ) "व्यवच्छेदो" भेदनं पृथक्करणमन्यत्वसाधनमसङ्कीर्णरूपताप्रत्यायनं भवति । कथं पुनरेकात्मपरिच्छेदादेव तस्य तदन्यात्मनो व्यवच्छेदः प्रत्यक्षेण क्रियते?, यावता प्रत्यक्षं पुरो ऽवस्थितपदार्थसामर्थ्यभावि तद्रूपमेव प्रतिपद्यताम् । यत्तु तद्वयतिरिक्तमशेषपदार्थजातं तदात्मनस्तस्य पुरो ऽवस्थितस्य कथं तव्द्यवच्छेदकम्? अतः तव्द्यवच्छेदार्थमभावप्रमाणमभ्युपेयम्, यतो-
"वस्त्वसंकरसिद्धिश्च तत्प्रामाण्यसमाश्रिता" इति ।

अत आह- "तदात्मनियतप्रतिभासज्ञानाद्" इति । यतः पुरो ऽवस्थितस्यैकस्य वस्तुनः पररूपासंकीर्ण आत्मा, सर्वभावानां स्वभावत एव स्वस्वभावव्यवस्थितेः पररूपेणासंकीर्णस्वभावत्वात् । अन्यथा कथमभावप्रमाणतो ऽप्यसांकर्यमेषां सिध्येत्? । संकीर्णरूपाणामसाङ्कर्यसाधने तस्य भ्रान्तताप्रसङ्गात् । तस्मिन् पररूपासंकीर्णे स्वभावत एव तदात्मनियतो यः प्रतिभासः पररूपप्रतिभासासंकीर्णः तदेकपदार्थसामर्थ्यभाविनि प्रत्यक्षे पररूपप्रतिभासायोगात् तस्य भ्रान्ततापत्त्या प्रत्यक्षाताहानेः । तदुक्तम्- "तद्धयर्थसमर्थ्येनोत्पद्यमानं तद्रूपमेवानुकुर्यात्" इति । तस्य तदात्मनियतप्रतिभासय ज्ञानात् प्रत्यक्षेण स्वसंवित्त्या संवेदनात् । तत्संवेदनमेव हि प्रत्यक्षस्यातद्रूपाद् "व्यवच्छेदनं" पृथक्करणं तब्दलेनैव च पाश्चात्यः ‘अन्यात्मकमेतन्न भवतिऽ; इत्यसांकर्यवस्थाप्रत्ययो विकल्पकः संजायते गॄहीतग्राही । न तेनापूर्वं किञ्चित् प्रतीयते, पररूपासंकीर्णस्यात्मनः प्रत्यक्षेणैव तदाकारानुकारिणा परिच्छेदादिति ।
यदि नाम तदात्मनियतप्रतिभासज्ञानं तथापि कथमन्यात्मनः तस्य पृथक्करणम्? इत्यत आह- "न हि तदात्म" इत्यादि । यस्मात्तस्य वस्तुनो य आत्मा पररूपासंकीर्णः स तदन्यस्य शेषस्य वस्तुन आत्मा न भवति, सर्वस्य ततो ऽन्यस्वभावत्वात्, अन्यथा तदन्यत्वहानेरिति । तस्मात्तदात्मनियतप्रतिभासज्ञानमेव ( ह्ब्ट् 196 ) तदन्येभ्यो निवर्तनम् । नहि ज्ञानेनार्थो हस्ते गृहीत्वान्यतो निवर्तनीयः । केवलमन्यरूपासंकीर्णस्यैकस्यात्मनो ऽनुकरणमेवास्यान्यतो निवर्तनमुच्यत इति । अथान्यात्मानः स्वविषयं न निवर्तयेत्, तदास्य विषयस्यान्यात्मनः सकाशादव्यवच्छेदे पृथगव्यवस्थापने परात्मनो ऽपि तत्र परिच्छेदः स्यात्, अन्यथा तदपरिच्छेदस्यैवैकात्मपरिच्छेदात्मनस्तन्निवर्तनरूपता स्यात् । ततश्चाव्यवच्छेदे ऽन्यात्मनस्तत्परिच्छेदप्रसङ्गात् प्रवृत्तिनिवृत्त्योरभाव इति पूर्वः प्रसङ्गो ‘न ह्ययमनलं पश्यन्नपिऽ; इत्यादिकः ।
न केवलमन्यात्मनस्तन्निवर्तयति तदात्मनो ऽप्यशेषमन्यदिति दर्शयन्नाह- "तं च" अग्रतः स्थितं देशकालस्वभावावस्थानियतं तदन्यदेशादिभ्यो व्यावृत्तात्मनः स्वहेतुभ्यः एवास्य भावात्, "तदात्मना" देशादिनियतेनात्मना तथाविधस्वभावस्यैवानुकारादुपलभमाना बुद्धिः "तथात्वप्रच्युतिम्" अन्यदेशकालस्वभावावस्थताम् "अस्य" स्वविषयस्य "व्यवच्छिनत्ति" ततः पृथक्करोति । कस्मात्पुनरन्यदेशादितां ततः पृथगवस्थापयति इत्यत आह- "एवं हि" यस्मादन्यदेशतादेस्ततः पृथक्करणे सति तद्देशादिनियतः पदार्थः परिच्छिन्नो भवति, तद्रूपस्यैवानुकाराद् । यद्यन्यथाभावो ऽन्यदेशादिता तद्रूपाननुकाराव्द्यवच्छिन्नः- भवति तथात्वं च तद्देशादिनियतत्वं च, तदा तस्यैव दृश्यमानस्य भवति नान्यस्यान्यदेशादिमतः । यत एवम् "इति" तस्मादन्यथाभूतादन्यदेशादिमतस्तथाभूतं तद्देशादिमंतं "व्यवच्छिन्दत्येव" निवर्तयन्त्येव तत् परिच्छिनत्तीति पूर्वकस्योपसंहारः । तथा "तथाभूतादन्यथाभूतं व्यवच्छिन्दत्येव" इति द्वितीयस्योपसंहारः कार्य इति । "एवम्" उक्तेन न्यायेन "एकस्य" प्रमाणस्य प्रत्यक्षस्यानुमानस्य वा तस्याप्येवमेव स्वविषयपरिच्छेदाद् "वृत्तिः" प्रवृत्तिः सर्वभावान् "द्वैराश्ये" तत्त्वे ऽन्यत्वे च "व्यवस्थापयति" । ततस्तत्परिच्छेदकप्रमाणबलेनैवासाङ्कर्यसिद्धिः । किं तदर्थिकयाप्यभावकल्पनयेति? ।
ननु च विकल्पव्यापार एष ‘इदमन्यात्मकं न भवति अन्यथैतदात्मकम्ऽ; इति । प्रत्यक्षं च निर्विकल्पकमिष्यते तत् कथमसांकर्यसिद्धिस्ततः? इत्यत आह- "तस्यान्वये" त्यादि । तद्धि प्रत्यक्षं विधिप्रतिषेधविकल्पौ यदा स्वविषये जनयति तदैवास्य साफल्यम्, तदैव च प्रमाणमिष्यते नान्यदा अत एवैकस्यार्थस्वभावस्याप्रतिपन्नांशाभावात् सर्वात्मना परिच्छेदे ऽपि भ्रान्तिकारणसद्भावात् क्षणिकतादावन्वयव्यतिरेकबुद्धी जनयितुमसामर्थ्यात् तत्रास्य प्रामाण्यं नेष्यत इति ।
स्यान्मतम्- द्वैराश्यसाधने ऽप्यसांकर्यसिद्ध्यर्था मा भूदभावप्रमाणकल्पना किन्तु प्रकारान्तराभावसिद्ध्यर्था भविष्यति । न हि तदभावसिद्धौ प्रत्यक्षस्य कश्चिद् व्यापारः प्रतिपादित इति अत आह "तद्व्यतिरिक्ते"त्यादि । तस्मात् परिदृश्यमानाद् व्यतिरिक्तस्याशेषस्य वस्तुनो व्यवच्छेदेन ततः पृथक्करणेनान्यत्वेन या व्याप्तिस्तत्साधनादेव प्रकारान्तरस्य तत्त्वान्यत्वबहिर्भूतस्याभावः सिध्यति । ततस्तदर्थमपि नाभावप्रमाणकल्पना युक्तेति ।
अथ मतम्- सर्वस्यापरिदृष्टस्य दृश्यमानादन्यतया व्याप्तिं नैवं प्रत्यक्षं साधयति तत् कुतस्तृतीयराश्यभावः प्रत्यक्षत एव स्यात्, यतो ऽभावप्रामाण्यकल्पना व्यर्था भवेदित्यत आह- "तस्य" तृतीयराशितया कल्प्यमानस्य ततो दृष्टादन्यतया व्याप्त्यभावे "तेन" प्रत्यक्षेण "ततो"ऽर्थात् स्वविषयस्य "अव्यवच्छेदा" दपृथक्करणात्, तदर्थस्य च राश्यन्तरत्वेन कल्प्यमानस्य स्वविषयादव्यवच्छेदात् अपृथक्करणात् पुनरपि भावस्य स्वविषयस्यापरिच्छेदप्रसङ्गात् । स हि तद्विषयः सकलपररूपासंकीर्णात्मा यदि तेनात्मना न परिच्छिन्नः कथं तेन तस्य परिच्छेदः? । तेनात्मना परिच्छेदे वा कथं सर्वस्य तदन्यतया व्याप्त्यसाधनम्? अन्यथैकस्यापि तदन्यत्वं न स्यात्, निमित्तस्य समानत्वादिति । यत एवं "तस्मात्" क्वचिद्वस्तुनि प्रमाणं प्रत्यक्षादिकं ( ह्ब्ट् 198 ) प्रवृत्तं तद्वस्तु प्रतिनियतेनात्मना परिच्छिनत्ति, ततो ऽन्यत्तद्रूपविकलं व्यवच्छिनत्ति, तदन्यत्वेन व्यवस्थापनात् । तृतीयस्य च तत्त्वान्यत्वबहिर्भूतस्य प्रकारस्याभावं सूचयति, सर्वस्यान्यतया व्याप्तिसाधनात्, तद्विरुद्धस्य वा सर्ववस्तुनो द्वैविध्यस्य साधनादिति ।

एवमेकस्य प्रमाणस्य व्यापार एषो ऽनन्तरोक्त इति तमेवोपसंहृत्य सुखप्रतिपत्तये दर्शयन्नाह- "तथाहि" क्वचिद्वस्तुनि "प्रमाणं" प्रत्यक्षादि प्रवृत्तं "तदेव" वस्तु तदन्यस्मात् "पारूपाद् व्यवच्छिनत्ति" ततः पृथक्करोति तदसंकीर्णरूपतया प्रतिपद्यते, परमार्थतस्तस्य तद्रूपत्वात् यथावस्तु च प्रत्यक्षेण रूपानुकारात् । किमिति पररूपाव्द्यवच्छिनत्ति? । तस्यैव पररूपविकलस्यैकरूपस्य परिच्छेदात् । तथा "तदन्यदेव च" तस्माद् दृश्यमानादन्यदेव च व्यवच्छिनत्ति । कुतः? । "तस्मात्" स्वविषयात् । न केवलं स्वविषयं परतो व्यवच्छिनत्ति, परमपि स्वविषयाद् इति । कुत एतद्? । अन्यस्य पररूपस्य तत्र खालम्बने ऽपरिच्छेदादवश्यमेवापरिच्छिन्नस्य परिच्छिन्नादन्यत्वं भवति । यत एवमतः "तद्" एव प्रमाणमेकवस्तुपरिच्छेदकं प्रकारान्तराभावं साधयति, नाभावाख्यम् । कुत एतत्? । तस्मिं दृश्यमाने वस्तुनि दृष्टतदन्यत्वेन तस्यान्यस्य तत्रापरिच्छिद्यमानस्यान्यत्वं तदन्यत्वं दृष्टात् तदन्यत्वं "दृष्टतदन्यत्वं" तेन सर्वस्य तव्द्यतिरिक्तस्य व्यवस्थापनान्न अ(पनेन अ) तदन्यस्यैव च यदन्यन्न भवति पुरो ऽवस्थितं सकलपरभावव्यावृत्तं तस्यैव तत्त्वेन दृश्यमानप्रकारतया व्यवस्थापनादिति ।
अमुमेव न्यायमन्यत्राप्यतिदिशन्नाह- "एतेन क्रमाक्रमादयः" इत्यादि । एतेन अनन्तरोक्तेन न्यायेन प्रतिनियतैकपदार्थरूपानुकारिणी बुद्धिरुपजायमाना तद्विपरीतरूपं सर्वं स्वविषयाद् व्यवच्छिन्दती द्वैराश्यं तृतीयप्रकाराभावं च साधयतीति ये केचिदन्योन्यव्यच्छेदरूपाः क्रमाक्रमनित्यानित्यादयः ते व्याख्याताः । ( ह्ब्ट् 199 ) तथा हि- कार्यस्य क्रममनन्यसहायतां प्रतियत्येव बुद्धिस्तस्याक्रमं कार्यान्तरसाहित्यं ततः पृथक्करोति । ततः क्रमाक्रमतया द्वैतसिद्धेः तृतीयस्य प्रकारस्य सम्भवो निरस्तो भवति । क्रमभावव्यतिरेकिणः सर्वस्य कार्यजन्मनः तदन्यतया द्वितीयप्रकारतयावस्थानात् । एवमुदयानन्तरध्वंसिता क्षणिकतोच्यते इति प्रतीयती व्यवस्थापनाकाल एव बुद्धिस्तद्विपरीतरूपतायाः स्वविषयादपाकरणात् ततो ऽन्यत्वेन प्रकारान्तरे ऽवस्थापनाद् राश्यन्तराभाव इति ।
तदेवमेकप्रमाणनिबन्धनामसाङ्कर्यसिद्धिं प्रतिपाद्योपसंहरन्नाह- "तदेवम्" उक्तेन न्यायेन "एकस्य" प्रतिनियतात्मन उपलम्भात् तस्योपलभ्यमानस्य यस्ततो ऽन्यस्तत्तुल्ययोग्यतारूपस्तव्दिपरीतो वा तद्रूपविकलस्तदात्मनो "व्यवच्छेदः" पृथक्करणं तस्योपलभ्यमानस्यानुपलभ्यमानस्वभावाद् रूपान्तरेण प्रतिभासनात् । तथा तस्य स्वविषयस्य तदन्यात्मताया भावप्रधानत्वान्निर्द्देशस्य "व्यवच्छेदो भवति" असाङ्कर्यं सिध्यति ।
तद् यद्येतदविशेषेणान्यस्य सर्वस्य तन्नाभावसिद्धिः स्यादित्यत्राभिमतं तदा सिद्धसाधनम्, यतः सर्वमविशेषेणैव तदेकाकारया बुध्या तद्रूपविकलं स्वविषयादवच्छिद्यते, सर्वस्यान्यरूपस्य तत्राप्रतिभासनात् । अथ तद्देशकालयोरभावः सर्वस्य तद्विपरीतरूपस्य व्यवच्छेदो ऽभिमतः स न युक्त इति दर्शयति- "न तद्देशकालयोः" यत्रासौ प्रतिनियतात्मा सकलत्रैलोक्यविलक्षणः पदार्थ उपलभ्यते तत्र सर्वस्यान्यस्य भावस्य तत्तुल्ययोग्यतारूपस्येतरस्य वा व्यवच्छेदः प्रतिषेधः । येन हि कारणेन तत्तुल्ययोग्यतारूपस्य तत्राप्रतिभासमानस्य प्रतिषेधस्तस्मिन् सति तदेकरूपनियतायाः प्रतिपत्तेरसंभवात् तदभावनान्तरीयिका सा भावन्ती तत्प्रतिषेधं गमयतीति तत्कारणमनुपलब्धिलक्षणप्राप्ते तदतुल्ययोग्यतारूपे च न सम्भवतीति कथं तदभावः सिध्येत् ।
एतदेवोपसंहरन्नाह- "तस्मादतदात्मा" च सर्वस्तद्विपरीतरूपस्तदेकाकारया बुद्ध्या प्रसाधितः स्यात् "तद्देशकालश्च" तस्य प्रतिभासमानस्य यौ देशकालौ तौ यस्य, स च स्यात् । किंवत्? । रसरूपादिवदिति । नहि रूपप्रतिभासिना ज्ञानेन तद्रूपविकलस्य रसस्य स्वविषयात् पृथक्करणे ऽपि तदसांकर्यसाधने ऽपि तद्देशकालयोरभावः सिध्यति । ततश्च कथं सर्वस्यातुल्ययोग्यावस्थास्यापि तत्राभावः स्यात्?, उपलब्धिलक्षणप्राप्तस्येति विशेषणं वा नोच्येत । यत एवं "तस्मात्" क्वचित् कदाचित् कस्यचिदभावसिद्धिर्यथोक्तादेवानुपलम्भाद् उपलब्धिलक्षणप्राप्तस्य तत्तुल्ययोग्यतारूपोपलम्भात्मनश्चेत्येवंरूपात्, न तु सामान्येन यथाहुः परे-
"प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते ।
वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता ॥" इति ।
न ह्यनुपलब्धिलक्षणप्राप्ते प्रमाणपञ्चकाप्रवृत्तावपि तदभावः सिध्यति, सत्यपि तस्मिन् स्वभावादिविप्रकर्षेण प्रमाणपञ्चकाप्रवृत्तिसम्भवादिति ।
तदेवं प्रासङ्गिकं परिसमापय्य यदुक्तं परेण ‘स एवान्यभावस्तद्विषया चोपलब्धिः तदभावस्य किं न साधनम्ऽ; इति तत्रान्यभावस्य तदभावं प्रति लिङ्गत्वे निरस्ते तद्विषयाया उपलब्धेर्निराकुर्वन्नाह- "अन्याभावविषये"त्यादि । यत्पुनरुक्तम्- ‘अन्यभावविषयोपलब्धिस्तदभावस्य किन्न साधनम्ऽ; इति सा तदभावस्य साधिकेष्टैवास्माकम्, न तु लिङ्गत्वेन यथोक्तवानसि । किं कारणम्? । यतः तत्राप्यन्यभावविषयायामुपलब्धावऽभावस्य पृथगन्यभावात् साध्यत्वे कल्प्यमाने सम्बन्धाभावस्य तदभावेन तुल्यत्वात् । न हि तस्या अपि अन्यभावरूपायाः तदभावेन कश्चिदेकार्थसमवायादिरूपः सम्बन्धो ऽस्तीति ।
अपृथक्सिद्धेरित्यस्यापि तुल्यतां दर्शयन्नाह- "लिङ्गाविर्भावे" त्यादि । येयमन्यभावविषया उपलब्धिर्ल्लिङ्गतयोच्यते तस्यास्तद्विविक्तप्रदेशाकाराया ( ह्ब्ट् 201 ) "अविर्भावकाल एव" जन्मकाले प्रतीतिकाल एव वा तदभावसिद्धेश्च । तथा हि- तत्प्रतिभासविविक्तान्यभावप्रतिभासबुद्धिसंवेदनमेव तदभावसंवेदनमिति । तदेव साधयति- न ह्यन्यस्य तद्विविक्तस्य भावं प्रतिपद्य प्रतिपत्ता पुनरुत्तरकालं तत्प्रतिपत्तेरन्यभावप्रतिपत्तेस्तदभावेनान्वयव्यतिरेकौ प्रसाध्य प्रतिबन्धसाधकेन प्रमाणेन तदभावं प्रतिपद्यते । किं तर्हि? । तदन्यं तद्विविक्तरूपं प्रतिपद्यमान एव तस्य प्रतियोगिनो ऽभावं प्रतिपद्यते, तस्यैव तदभावात्मकत्वात् । तथा हि- सघटप्रदेशासंकीर्णरूपस्य केवलप्रदेशस्य दर्शनमेव घटाभावदर्शनम् । नहि ‘घटो ऽत्र नास्तिऽ; ‘घटवानयं न भवतिऽ; ‘सघटादन्यःऽ; इत्यर्थभेदः कश्चित् । ततः सघटादन्यतया केवलप्रदेशस्य दर्शनमेव घटाभावदर्शनमिति । ‘घटो ऽत्र नास्तीऽ; ति ज्ञानं गृहीतग्राहितया स्मृतिरेवेति । कथं ज्ञायते इति चेत् । दर्शनानन्तरमन्वयव्यतिरेकसाधनलक्षणेन व्यवधानेन विना ‘इदं घटविविक्तं प्रदेशवस्त्वस्तिऽ; ‘इदं तु घटवस्तु नास्तिऽ; इति पाश्चात्येन विकल्पद्वयेन व्यवस्थापनात् । ततो नान्वयव्यतिरेकानुसरणमत्रास्तीति ।

किञ्च- दृष्टान्तासिद्धे स्वात्मन्यभावविषयोपलब्धिस्तदभावस्य साधनं । तदेव व्यतिरेकमुखेन दर्शयति- "तच्च तस्य" इत्यादि । इहाप्यस्त्येवान्वय इति चेत्, आह- "न ह्येवं शक्यम्" इत्यादि । कस्मान्न शक्य दर्शयितुम्? । तदेकोपलब्धेः तस्यैकस्यानन्यसंसर्गिणो योपलब्धिर्विशेषरूपा तस्याः क्वचिदप्यन्यत्राभावात् । अथ तद्विविक्तोपलब्धिसामान्यं हेतुरूच्यते- यत्र यत्र घटविविक्तभूतलोपलब्धिस्तत्र तत्र घटाभावो यथा पूर्वानुभूते घटविविक्ते प्रदेश इत्याह- "सामान्येन प्रदर्शने क्रियमाणे" दृष्टान्ते ऽपि पूर्वानुभूतघटविविक्ते प्रदेशे घटाभावस्य प्रसाधकं प्रत्यक्षादिकं प्रमाणान्तरमन्यभावविषयोपलब्धेर्नास्ति, किं तु सैव तदन्यभावोपलब्धिः साध्यधर्मस्य तदभावलक्षणस्य साधिका । ( ह्ब्ट् 202 ) सा च यथा साध्यधर्मिणि तदभावसिद्ध्ये दृष्टान्तमपेक्षते तथा दृष्टान्ते ऽपि । तथा, तत्रापि तदन्यत्रापीत्यनवस्था दृष्टान्तानाम् इति । अनवस्थायां चाप्रतिपत्तिः सर्वत्र तदभावस्य । यत एवं "तस्मान्न" कुतश्चिल्लिङ्गात्तदन्यभावात्तदुपलब्धेर्वा तदभावसिद्धिरिति । यदि तदन्यभावस्तदभावं न साधयति, किं पुनर्ल्लिङ्गतया साधयति?, इत्यत आह- "सो ऽन्यभावः" प्रत्यक्षलक्षणेन- प्रत्यक्षस्यैव विवक्षितोपलम्भादन्यत्वेनानुपलम्भत्वात् । तल्लक्षणेनानुपलम्भेन सिद्धः सन्नभावव्यवहारं साधयेत्, कर्मस्थक्रियापेक्षायां तदन्यभावस्यानुपलब्धिरूपत्वात् । क्व पुनरसावभावव्यवहारं साधयेत्? । मूढप्रतिपत्तौ साध्यायां । यस्त्वमूढो विषयप्रतिपत्तौ विषयिणं स्मरत्येव तस्याभावव्यवहारः प्रत्यक्षनिबन्धन एवेति न तत्रानुपलब्धेर्लिङ्गतेति सुचर्च्चितमेवान्यत्रेतीहालं प्रसङ्गेनेति ।
[3. अनुपलब्धिं त्रिधा विभज्य तद्विवेचनम् ।]
तदेवमनुपलब्धेरशेषविप्रतिपत्तिनिराकरणेन स्वरूपमवस्थाप्यप्रभेदनिर्द्देशार्थमाह- "सेयं यथोक्ता त्रिधानुपलब्धिः" । कथम्? । सिद्धे तत्प्रसाधकेन प्रमाणेन कार्यकारणभावे सति कारणस्यानुपलब्धिः । कीदृशस्य? । सिद्धाभावस्य । तथा, व्याप्यव्यापकभावसिद्धौ सत्यां तत्प्रसाधनप्रमाणबलेनैव सिद्धाभावस्यैव व्यापकस्य नान्यस्य व्यापकानुपलब्धेरेवासिद्धताप्रसङ्गाद् । यथोक्ता स्वभावानुपलब्धिश्चेति । एवं त्रिविधानुपलब्धिः । कथं पुनः कारणव्यापकयोरभावव्यवहारः सिध्यति यतस्तयोः सिद्धाभावतोच्यत इत्याह- "तत्र कारणव्यापकयोरपि" न केवलं यस्य साक्षादभावव्यवहारः साध्यते । स्वभावानुपलब्धौ "स्वभावस्यासव्ध्यवहारस्य सिद्धिरन्यस्य" तद्विविक्तस्य भावसिद्धिर्या सैवासव्द्यवहारसिद्धिहेतुत्वादेवमुच्यते । "स" कारणव्यापकाभावः "तथासिद्धो" ऽन्यभावसिद्ध्या प्रत्यक्षरूपया सिद्धो ऽभावव्यवहारः कार्यव्याप्ययोः प्रतिषेध्ययोः । यदानयोर्विरूपविषयतया सविशेषाणामुपलब्धिर्न ( ह्ब्ट् 203 ) सिध्यति "तदाभावमभावव्यवहारं वा साधयति" । समुच्चयार्थो वाशब्दः । अथ किं स्वभावानुपलब्धावप्यभावो लिङ्गतया साध्यत इत्याह- "स्वभावानुपलब्धौ तु" इत्यादि । "अभावव्यवहार एव", नाभावो ऽपि तस्य प्रत्यक्षसिद्धत्वात् ।
अत्र परस्य वचनावकाशमाशङ्कयाह- "यदि" तर्हि "कारणव्यापकौ" सिद्धो ऽसव्द्यवहारो ययोः तौ सन्तौ । केन? । "तदन्यस्य" कारणव्यापकविविक्तस्य भावस्य सिद्धिर्या प्रत्यक्षत्मिका तद्रूपयानुपलब्ध्या, अन्यस्य कार्यस्य व्याप्यस्य वाभावमभावव्यवहारं च साधयतः । सा चान्यभावोपलब्धिस्तयोः कारणव्यापकयोरुपलब्धिलक्षणप्राप्तावेव सत्यामसव्द्यवहारस्य साधिका नान्यथा इत्येवमिष्यमाणे सति कथं तयोः कारणव्यापकानुपलब्ध्योः परोक्षे ऽर्थे विषये प्रयोगः । यदा कार्यस्वभावहेत्वोर्व्यतिरेकप्रयोगः क्रियते- यत्र यत्राग्निर्नास्ति तत्र तत्र धूमो ऽपि नास्ति, तथा यत्र यत्र वृक्षो नास्ति क्षणिकता वा तत्र तत्र शिंशपा नास्ति सत्त्वं वा इत्यशेषपदार्थपरिग्रहेण व्यतिरेकप्रयोगे सति । नहि तदाग्निवृक्षव्यतिरिक्ताः सर्वे ऽर्थाः प्रत्यक्षता(क्षा) अक्षणिकता वा । ततश्च कथं तद्विविक्तोपलब्धिलक्षणानुपलब्धिः प्रतियोगिनो वोपलब्धिलक्षणप्राप्तता सिद्धा? । तथा च कथमशेषोपसंहारेण व्याप्त्या कार्यस्वभावहेत्वो ऽर्व्यतिरेकः सिध्येत्? । तदसिद्धौ वा कथमनयोर्गमकत्वम्? । तस्मात् क्वचिददर्शनमात्रादेव व्यतिरेक एष्टव्यः, क्वचिच्च दर्शनमात्रादन्वयः । तथा च प्रतिबन्धघोषणानर्थिकेति मन्यते परः ।
सिद्धान्तवाद्याह- "नैव" परोक्षे ऽर्थे कारणव्यापकानुपलब्ध्योः "प्रयोगो" व्यतिरेकोपदर्शनकाले "प्रमाणतया" कारणस्य व्यापकस्य वानुपलब्धिः प्रमाणभूता नैव प्रयुज्यते । कस्मात्? । "लिङ्गस्य" कारणव्यापकानुपलब्धिलक्षणस्य तदभावलक्षणस्य वा "अनिश्चयात्" तदनुपलब्ध्योः सन्देहरूपत्वात् तदभावस्य च सन्दिग्धत्वात् । कथं तर्हि तदानयोः प्रयोग इष्यते? इत्याह- "केवलम्" इत्यादि । कारणव्यापकयोर्हिकार्यकारणभावप्रसाधकेन ( ह्ब्ट् 204 ) पूर्वोक्तेन प्रमाणेन व्याप्यव्यापकभावसाधकेन च तदुत्पत्तिलक्षणे तादात्म्यलक्षणे च सम्बन्धे साधिते सिद्धसम्बन्धयोर्यद्यभावो यत्र यत्रा भावः स्यात् परस्यापि कार्यस्य व्याप्यस्य वावश्यं नियमेनाभावो ऽन्यथाहेतुकत्वप्रसङ्गात्, निःस्वभावताप्रसङ्गाच्च । तद्द्वारेण प्रतिबन्धप्रसाधके प्रमाणे स्मृतिः कथं नाम स्यादित्येतस्यार्थस्य दर्शनार्थमेते कारणव्यापकानुपलब्धी प्रयुज्येते इति । दर्शनादर्शनबलेन तु साधने यत्रैवैकदर्शने परो दृष्टो ऽदर्शने वा न दृष्टः तत्रैव तस्य भावो ऽभावो वा भवतु सर्वत्र तु कस्माद् भवति? । न ह्यप्रतिबद्धात्मनां गवाश्वादीनां क्वचित् तथाभावदर्शने ऽपि सर्वत्र तथाभावो भवति, पुरुषस्य तु सर्वदा क्वचिदेकभावाभावयोरपरस्य भावाभावादर्शनं यदृच्छासंवादः सम्भाव्येत असति प्रतिबन्धे । तथा चाह-
"देशादिभेदादृश्यन्ते भिन्ना द्रव्येषु शक्तयः ।
तत्रैकदृष्टया नान्यत्र युक्तस्तद्भावनिश्चयः ॥" इति ।
तस्मादवश्यं प्रतिबन्धः साध्यसाधनयोरभ्युपगन्तव्यः । स एवान्वयव्यतिरेकप्रयोगाभ्यां सुचनीयः । न चासौ व्याप्त्यान्वयव्यतिरेकोपदर्शनमन्तरेण ख्यापयितुं शक्यत इति ‘यत्र यत्रऽ; इति सकलपदार्थपरिग्रहेण ख्याप्यते । प्रतिबन्धे हि प्रमाणसिद्धे सत्यवश्यमेव यत्र यत्र कार्यं तत्र तत्र कारणम्, यत्र यत्र तदभावः तत्र तत्र च कार्यस्याप्यभावो ऽन्यथा कारणमन्तरेण कार्यस्य भावे तस्याहेतुतैव स्यात् । ततश्च नित्यं सत्त्वादिप्रसङ्गः । तथा यत्र यत्र यत्स्वभावस्तत्र तत्र तद्भावः अन्यथा तस्य नैरात्म्यमेव स्यादिति व्याप्त्यैवान्वयव्यतिरेकोपदर्शने प्रतिबन्धः ख्यापयितुं शक्यते नान्यथेति प्रागेव विस्तरतो विपञ्चितम् ।

[4. हेतोस्त्रैरूप्यत्रैविध्ययोर्हेत्वाभासत्वस्य चोपसंहारः ।]
एवं कार्यस्वभावानुपलब्धिलक्षणे एव पक्षधर्मे तत्साधकप्रमाणसद्भावादन्वयव्यतिरेकसद्भावो नान्यत्रेति प्रतिपाद्योपसंहरन्नाह- ( ह्ब्ट् 205 ) "इति" एष एव स्वभावकार्यानुपलब्धिलक्षणः पक्षधर्मो ऽन्वयव्यतिरेकवान् प्रतिबन्धसद्भावात् । यतश्वान्वयव्यतिरेकवान् प्रतिबन्धप्रसाधकप्रमाणसद्भावादुक्तेन न्यायेन "इति" तस्मात् "तदंशेन व्याप्तो"ऽन्वयव्यतिरेकनिश्चयेनैव तदंशव्याप्तेर्निश्चयाद् यथोक्तं प्राक्, ततश्च तदंशव्याप्तिवचनात् त्रिलक्षण एव "त्रिरूप एव" त्रिविध एव हेतुर्गमको नान्यलक्षणो ऽन्यो वा यथोक्तत्रैरूप्यसद्भावे रूपान्तरस्य वैयर्थ्यात् यथोक्तत्रैरूप्याभावे च रूपान्तरकल्पनायामप्यव्यभिचाराभावेनागमकत्वात् । कस्मात् त्रिलक्षण एव त्रिविध एव हेतुर्गमको नान्यलक्षणो ऽन्यो वेति दर्शयति "स्वसाध्यधर्माव्यभिचाराद्" इति त्रिलक्षणस्यैव स्वसाध्यधर्माव्यभिचारात् । स्वसाध्यधर्माव्यभिचार एव च गमकत्वमिति रूपान्तरकल्पना व्यर्था । प्रतिबन्धनिबन्धनान्वयव्यतिरेकापगमे च रूपान्तरकल्पनायामपि स्वसाध्यधर्माव्यभिचाराभावात् । तदनेन ‘त्रिधैव सऽ; इत्यस्य त्रिलक्षण एव "स हेतुरःविनाभावस्य" स्वसाध्यधर्माव्यभिचारस्य "नियमाद्" अवश्यन्तया सद्भावात् प्रतिबन्धनिमित्ततदंशव्याप्त्यनभ्युपगे (गमे)च रूपान्तरकल्पनायामपि "हेत्वाभासास्ततो ऽपरे" यथोक्तत्रिलक्षणादपरे रूपान्तरयोगितया विकल्प्यमाना हेत्वाभासा अविनाभावस्य स्वसाध्यधर्माव्यभिचारस्य तेष्वभावादित्यपरो ऽर्थो दर्शित इति ।
[5. हेतुलक्षणे ऽधिकरूपवादिनां निरासः ।]
यदुक्तं ‘त्रिलक्षण एव हेतुर्नान्यलक्षणःऽ; इति तत्र परेषां विप्रतिपत्तिं दर्शयन्नाह- "षड्लक्षणो हेतुरित्यपरे" नैयायिक- मिमांसकादयो मन्यन्ते । कानि पुनः षड्रूपाणि हेतोस्तैरिष्यंते? इत्याह- ‘त्रीणि चैतानि" पक्षधर्मान्वयव्यतिरेकाख्यानि । तथाबाधितविषयत्वं चतुर्थं रूपम् । अबाधितः प्रमाणेनानिराकृतो विषयः साध्यधर्मलक्षणो यस्य स तथोक्तः तस्य भावः तत्त्वमपरं रूपम् । तथा विवक्षितैकसंख्यत्वं रूपान्तरं, एका संख्या यस्य हेतुद्रव्यस्य ( ह्ब्ट् 206 ) तदेकसंख्यं विवक्षितमेकसंख्यं हेतुद्रव्यमाश्रयत्वेन यस्य हेतुसामान्यस्य तद्विवक्षितैकसंख्यं तद्भावो ऽपरं रूपम् । यद्येकसंख्याव्यावच्छिन्नायां प्रतिहेतुरहितायां हेतुव्यक्तौ हेतुत्वं भवति तदा गमकत्वं न तु प्रतिहेतुसहितायामपि द्विसंख्यायुक्तायामिति । यदि विरुद्धाव्यभिचार्यपरं हेत्वन्तरं नोपदर्श्यत इति यावत् । तथा ज्ञातत्वं च ज्ञानविषयत्वं च । नह्यज्ञातो हेतुः स्वसत्तामात्रेण गमको युक्तः इति । तत्रैतेषु रूपान्तरेषु यदेतबाधितविषयत्वं नाम तत् तावत् प्रतिबन्धनिबन्धनान्वयव्यतिरेकात्मकाविनाभावसम्भवे सति ततः पृथगन्यल्लक्षणं न भवति । तदात्मकं तु तद्वचनेनैवोक्तमिति न वक्तव्यमिति । कस्मात् पृथग् लक्षणं न भवति? बाधाया अविनाभावस्य च विरोधादिति । तथा हि- सत्यप्यविनाभावे यथोक्ते बाधासम्भवं मन्यमानैरबाधितविषयत्वं रूपान्तरमुच्यते । सा चेयं तत्सम्भावना न सम्भवति, बाधाया अविनाभावेन "विरोधात्" सहानवस्थानलक्षणात् । तमेव विरोधं साधयन्नाह- "अविनाभावो हि" इत्यादि । सत्येव हि साध्यधर्मे भावो हेतोरविनाभाव उच्यते । प्रमाणबाधा तु तस्मिन्नसति । यदि हि सत्येव तस्मिंस्तदभावविषयं प्रमाणं प्रवर्तेत तदास्य भ्रान्तत्वादप्रमाणतैव स्यात् इति कुतो बाधा? । ततः "स" हेतुः "तल्लक्षणः" साध्याविनाभावी "धर्मिणि स्यात् । अत्र च साध्यधर्मः कथं न भवेत्"? यतो बाधावकाशः स्यात् । तस्मादविनाभावस्य प्रमाणबाधायाश्च सहानवस्थानमविनाभावेनोपस्थापितस्य धर्मिणि साध्यधर्मभावस्य प्रमाणबाधोपस्थापितस्य च तदभावस्य परस्परपरिहारस्थितिलक्षणतया विरोधेनैकत्र धर्मिण्यसम्भवादिति ।
तमेव विरोधं स्पष्टीकर्तुं परोपहासव्याजेनाह- "प्रत्यक्षानुमाने हि" इत्यादि । साध्यधर्मं हि बाधमाने प्रत्यक्षानुमाने, "तं ग्रीवायां गृहीत्वा" धर्मिणः स्वाश्रयात् "निष्कासयतः" । तस्मिंश्च साध्यधर्मे सत्येव तदविनाभावित्वाद्धेतुर्भवं "स्तं" साध्यधर्मं ( ह्ब्ट् 207 ) निष्कास्यमानं गले गृहीत्वा हठात् "तत्रैव" धर्मिण्यवस्थापयतीति "परं" प्रकृष्टं बत "भावानां" साध्यधर्मलक्षणानामस्वास्थ्यं वर्तते । तथा हि- यन्त्रद्वयनियन्त्रितानां निरुच्छावसितया मरणमेव प्राप्तमिति ।
परो बाधाविनाभावयोर्विषयभेदादविरोधं दर्शयन्नाह- "अन्यत्र" साध्यधर्मिणं परिहृत्य दृष्टान्तधर्मिणि साध्यधर्मेणाविनाभावी हेतुर्न पुनः साध्यधर्मिण्येव । ततः कुतो बाधाविनाभावयोर्विरोधो ऽन्यत्र बाधया साध्यधर्माभावसाधनादन्यत्र च हेतुना तद्भावसाधनात् । तथा चैवंविधे सत्यपि अविनाभावे बाधासम्भवाद् अबाधितविषयत्वस्य रूपान्तरस्य सम्भव इति ।
एवंविधाविनाभावोपगमे सत्यप्यबाधितविषयत्वादिके रूपान्तरे "हेत्वाभासास्ततो ऽपरे" रूपान्तरसम्भविन इत्यापादितां हेत्वाभासतां विवरीतुं परोपहासपूर्वकमाह- तत् किम् "अयं" साध्यधर्मी "तपस्वी" वराकः "शड्ढ(ण्ढ)मुद्वाह्य तस्मिंन्" साध्यधर्मसाधनशक्तिविकलं हेतुं परिणाय्य साध्यधर्मलक्षणं "पुत्रं मृगयते?" । एतदेव व्यनक्ति- "यस्य" हेतोर्द्धर्मिण्यसत्यपि "साध्यधर्मे भाव" इष्यते, साध्यधर्मिणो ऽन्यत्राविनाभावोपगमात् । "तं" तथाविधं साध्यधर्मिण्युपदर्श्य कथं धर्मी साध्यधर्मवानित्युच्यते? । न ह्य् अम्भस्त्वस्य समुद्रे लवणत्वेनाविनाभावे ऽपि तव्द्यतिरिक्ते ऽम्भसि लवणतया साध्यत्वेनेष्टे ऽम्भस्त्वभावे ऽपि लवणत्वसिद्धिरिति ।
परस्य वचनावकाशमाशङ्कयाह- "अत एव" इत्यादि । एतदेव विवृणोति- "स्यादेतद्" भवतो मतम् । यत एव हेतुरन्यथापि साध्यधर्ममन्तरेणापि धर्मिणि भवेदम्भस्त्वादिषु तथादर्शनात्, साध्यधर्मिपरिहारेण चाविनाभावोपगमात् अत एव कारणात् प्रमाणाभ्यामबाधितधर्मा धर्मीत्युच्यते । यदि प्रत्यक्षानुमानाभ्यां ( ह्ब्ट् 208 ) साध्यधर्मिणि हेतोर्विषयः साध्यधर्मो न बाध्यते यथाम्भस्त्वस्य लवणत्वम्, तदा तस्य गमकत्वम्, नान्यथेति । ततो ऽन्यत्राविनाभावमात्रेण साध्यसिद्धेरनभ्युपगमात् न यथोक्तो दोष इति ।

सिद्धान्तवाद्याह- "तत् किम्" इदानीं यदा हेतोर्धर्मिण्यविनाभावितानभ्युपगमात् साध्यसिद्धेरभावात् तत्सिद्धये रूपान्तरमबाधितविषयत्वमुच्यते तदा हेतोर्न किञ्चित् सामर्थ्यम् । कस्माद्? "अबाधयैव" हेतुमन्तरेणापि "साध्यसिद्धेः" अकिञ्चित्कर एव हेतुः । तथा ह्यत्र कल्पनाद्वयम्- बाधकप्रमाणवृत्तौ साध्याभावो नियतो वा स्याद्? अनियतो वा? । तत्र यदि पूर्वो विकल्पस्तदा साध्याभावो हि बाधकप्रमाणस्य वृत्तौ नियतः, तदैव भावात् तदभावे चाभावादिति । तस्माद् "अबाधायां" बाधकप्रमाणवृत्त्यभावे तन्नियतस्य साध्याभावस्याप्यभावात् "साध्यसिद्धिः" भवत्येवेति व्यर्थ एव हेतुरिति नोपन्यसनीय एव । ततः कस्याबाधितविषयत्वं रूपान्तरं भवेत्? । स्यान्मतम्- मा भुद् बाधकप्रमाणवृत्त्यभावे हेतोः सामर्थ्यम्, यदा तु साध्यस्य बाधकं प्रमाणं धर्मिणि वर्तते तदा हेतोः साध्यसाधने सामर्थ्यं भविष्यतीत्यत आह- "बाधायामपि" इति । यदि बाधकं प्रमाणं वर्तते तदा तेन साध्याभावस्य धर्मिणि साधनात् पुनर्ब्रह्मणापि तद्भावस्य कर्तुमशक्यत्वात् किमङ्ग पुनः शठेन हेतुनेति कुतः साधनस्य हेतोः सामर्थ्यम्? । अत एव हि भवद्भिरबाधितविषयत्वं रूपान्तरमुच्यत इति ।
अथ बाधकप्रमाणवृत्तौ साध्याभावो न नियतः तदभावे ऽपि भावादिति द्वितीयः पक्ष इष्यते तदाप्यबाधायाः सामर्थ्यविरह इति दर्शयन्नाह- "अनियमे" बाधकप्रमाणवृत्तौ साध्याभावस्येष्यमाणे सतीदमापतितम् । न च- बाधकं प्रमाणं स्यात् "साध्याभावस्य च सम्भवः"- इति "न" साध्यसाधने "सामर्थ्यम् अबाधायाः" सत्यामपि तस्यां साध्याभावस्य सम्भवादिति तद्योगिनो ऽपि हेत्वाभासतैवेति ।
यदुक्तम् "अबाधयैव साध्यसिद्धेर्व्यर्थो हेतुः" इति तत्रान्यथार्थमबाधाया दर्शयन् हेतुसामर्थ्यं प्रतिपादयन्नाह परः- न बाधाया अभावो ममाबाधाभिमता । किं तर्हि? । बाधाया अनुपलब्धिः । सा च तदनुपलब्धिः पुरुषस्य शक्तिवैकल्यात् क्वचिद् देशादौ बाधायाः सम्भवे ऽपि स्यात् । ततो बाधानुपलब्धिमात्रेण साध्यसिद्धेरभावात् तत्सिद्धये ऽवश्यं हेतुरभिधानीय इति स हेतुप्रयोगस्य विषयस्तदा हि हेतुः स्वसाध्यं साधयन् कथमसमर्थः स्यात्? इति ।
सिद्धान्तवाद्याह- किं नु वै हेतुर्ब्बाधाया या उपलब्धिस्तस्याः विभेति न पुनर्ब्बाधाया येन बाधां सम्भवन्तीमप्यनादृत्य तदनुपलब्धौ सत्यां प्रयोक्तव्य इष्टो भवतः ।
कदाचित् परो ब्रूयात्- किं करिष्यति विद्यमानापि बाधा तपस्विनी, तदुपलब्धिरेव राक्षसी । तस्मात् तत एव हेतोर्भयं तदभावे हेतुः प्रयोक्तव्य एवेत्यत आह- "स तर्हि" इत्यादि । एवं तर्हि परमार्थेन बाधा किमस्ति नास्तीत्येतदनपेक्ष्य बाधाया अनुपलब्धौ सत्यां प्रयोक्तव्य इति काक्वा पृच्छति । कदाचित् परो ब्रूयात्- उक्तमेवैतत् किमर्थं पृच्छ्यते? इत्याह- "किमर्थं प्रयुज्यत" इति । बाधानुपलम्भे ऽपि तत्सम्भवे साध्यसाधनायोगादित्यभिप्रायः । परो ऽनवगताभिप्राय आह- "साध्यसिद्ध्यर्थम्" इति बाधकप्रत्ययाभावे प्रमाण्यस्येष्टत्वात् ततः साध्यसिद्धिरविरुद्धैवेति मन्यते । सिद्धान्तवादी सत्यां बाधायां तदनुपलम्भे ऽपि साध्यसिद्धिमसम्भावयन् पृच्छति "स किं क्वचिद्" इत्यादि । किं पुनरसौ हेतुः सत्यामपि बाधायां साध्यं साधयेदिति सम्भाव्यते भवता येनास्या बाधाया अभावनिश्चयं प्रति यत्नो न क्रियते हेतुश्च प्रयुज्यत इति । एवमेतत् इति चेत्; तथा सत्यामपि बाधायां साध्यसाधनसामर्थोपगमे सत्यबाधितविषयत्वं हेतुलक्षणं न भवति । किं कारणम्? । बाधायामपि सत्यामस्य हेतोः "सामर्थ्यात्" सामर्थ्योपगमात् । तद्धि हेतोर्लक्षणमुच्यते येन विना साध्यं न साधयेदिति ।
स्यान्मतम्- अनुपलभ्यमानबाधत्वं हेतुलक्षणं परमार्थेन, नाबाधितविषयत्वमित्यत आह- "तथा च" इत्यादि । एवं हि सति बाधायाः सद्भावसम्भवे ऽपि तामभ्युपगम्य तदनुपलम्भमात्रेण हेतोः प्रयोगः प्राप्तः । यदि हि बाधामभ्युपगम्य हेतुप्रयोगो नाभिमतः स्यात् तदानुपलम्भमात्रेण बाधायं संशयात्- सतामपि केषाञ्चित् कथञ्चिदनुपलम्भसम्भवात्- संशयितस्य हेतुप्रयोगे प्रवृत्तिरेव न युज्येत । तस्माद् यो यत्संशये ऽपि प्रवर्तते स तस्य भावपक्षमभ्युपेत्यैव प्रवर्तते । तथा च यथा बाधानुपलब्धौ तामभ्युपगम्य हेतुः प्रयुज्यते तथा तदुपलब्धावपि प्रयुज्यताम्, बाधायाः सद्भावाभ्युपगमे सति तदुपलम्भानुपलम्भयोर्विशेषाभावादिति नानुपलभ्यमानबाधत्वमपि हेतुलक्षणं युज्यत इति कुतो बाधकप्रत्ययविरहे ऽप्यसति प्रतिबन्धे प्रामाण्यस्य सम्भव इति ।
परस्य वचनावकाशमाशङ्कयाह- "न बाधायाम्" इत्यादि । नैव हि बाधायां संत्यां हेतोः सामर्थ्यमिष्यते तत् कथं तदुपलम्भे ऽपि प्रयोगः स्यात्? । सिद्धान्तवाद्याह- "यद्येवं" बाधायां सत्यां हेतुरसमर्थो यदीष्यते तदानिर्णीतो बाधाया असंभवो यस्य हेतोः स तथाविधः प्रयोगं बाधानुपलम्भमात्रेण नार्हति । किं कारणम्? । मा भूद् बाधायाः सम्भवपक्षे "प्रयुक्तस्यापि" हेतोः साध्यसिद्धौ "असामर्थ्यमिति" । पूर्वपक्षवाद्याह- बाधानुपलम्भे सति बाधाया अभावात् सदुपलम्भकप्रत्ययाभावे सत्यवश्यमर्थानामसत्त्वाद्धेतोः सामर्थ्यम् इति चेन्मन्यसे सिद्धान्तवाद्याह- "किमुपलम्भो बाधाम्" इत्यादि । उपलम्भो ह्यर्थानां कार्यम्, न च कार्यं कारणं व्याप्नोति । न ह्यऽवश्यं कारणानि कार्यवन्ति भवन्ति, प्रतिबन्धवैकल्यसम्भवात् । तत् कथमव्यापकस्योपलम्भस्य निवृत्तौ बाधाया निवृत्तिः?, यतो हेतोर्ब्बाधायाः सम्भवकृतमसामर्थ्यं न सम्भवेदिति । एतच्च परैरपीष्यत एव; प्रमाणतयोपगतस्याप्युदयकाले ऽनुपलब्धबाधस्य कालान्तरेण ( ह्ब्ट् 211 ) बाधकप्रत्ययोत्पादे सत्यप्रामाण्योपगमात् । अथाव्यापकस्याप्युपलम्भस्य निवृत्तौ बाधा निवर्तते-
"निवर्तते हि मिथ्यात्वं दोषाज्ञानादयत्नतः ॥"
इति अनेनैव न्यायेन ज्ञाननिवृत्त्या बाधानिवृत्तेरित्याह- त- थापि व्यर्थो हेतुः । कुतः? । "बाधानुपलम्भादेव" हेतुप्रयोगरहितात् साध्यसिद्धेः । किं कारणम्? । अनुपलम्भे बाधाया असम्भवात् । तथा हि- यत्र बाधाया अनुपलम्भस्तत्र परमार्थत एव सा न विद्यत इति मन्यसे । यत्र चासौ परमार्थतो नास्ति तत्र साधय्धर्मस्याभावो ऽपि परमार्थेनैव नास्त्यन्यथा परमार्थेन बाधाया अभावायोगात् । ततश्च साध्यधर्मस्याभावाभावे सति भाव इति भवन्मत्या साध्यप्रतीतेर्व्यर्थता हेतोरिति ।
अथ मा भूद् युक्तिविरोध इति नोपलम्भनिवृत्तौ बाधानिवृत्तिरिष्यते, तत्राह- उपलम्भस्य निवृत्तावपि सत्यां बाधाया अनिवृत्ताविष्यमाणायां तदवस्थं हेतोरससामर्थ्यम् यदवस्थं बाधोपलम्भ इति हेतोरप्रयोग इति कस्याबाधितविषयत्वं रूपान्तरं स्यात्? ।

एतदेवोपसंहरन्नाह- "तस्मात् स्वसाध्य" इत्यादि । यत एवं व्याप्त्या हेतोः सर्वत्र साध्येनाविनाभावाभ्युपगमे बहिर्व्याप्ताविष्यमाणायां वैयर्थ्यं हेतुप्रयोगस्यापद्यते तस्मात् "स्वसाध्यभावाभावाभ्यां अन्यथापि" स्वसाध्यभावे ऽप्यभवन्नऽभावे ऽपि च भवन् हेतुर्धर्मिणि किञ्चित् साध्यं "न भावयति" न साधयति "न विभावयति" तद्विपरीतं न निषेधयति "इति" तस्य विधिप्रतिषेधावकुर्वत "उपक्षेपः" प्रयोगो "न समर्थः" इत्यवश्यं हेतुप्रयोगमिच्छता स्वसाध्याविनाभावः सर्वत्र हेतोरभ्युपगन्तव्यः । स च प्रतिबन्धनिबन्धनः । एष च दर्शनादर्शनमात्रयत्तो यथोक्तं प्राक् । तस्मिंश्चाभ्युपगते बाधाविनाभावयोर्विरोधः सिद्ध इत्युपसंहरन्नाह- "तन्न" इत्यादि । यत एवं तेन कारणेनाबाधा रूपान्तरं न भवति ।
यदि नाम बाधाविनाभावयोः सहावस्थानाभावादविनाभावे ( ह्ब्ट् 212 ) सत्यबाधा गम्यते रूपान्तरं तु किमिति न भवति? इति, अत आह- "तन्नाम" इत्यादि । तद्धि तस्माद् विशेषणान्तरं भवेद् वस्तुस्थित्या । लक्षणकारैश्च रूपान्तरत्वेनोपादानमर्हति यस्य विशेषणस्य भावे ऽपि यस्यापरस्याभावः स्यात् । यतः सम्भवे व्यभिचारे च विशेषणविशेष्यभावो न सम्भव एव केवले । उदाहरणमाह- "तद् यथा" इत्यादि । सत्यपि हि धर्मिसम्बन्धे श्रावणत्वादेः सपक्षे भावो नास्ति । सत्यपि च चाक्षुषत्वादेः सपक्षे भावे साध्यधर्मिणि शब्दे सम्बन्धो नास्ति । ततो ऽनयोः सम्भवव्यभिचारयोर्भावाद् विशेषणविशेष्यभावो लक्षणान्तरत्वेन चोपादानम् । इहाप्येवं भविष्यतीति चेद् आह- "न चैतद्" अनन्तरोदितमबाधाया अविनाभावे सति सम्भवति । सत्यविनाभावे नियमेनाबाधायाः सम्भवाव्द्यभिचाराभावात् कुतो विशेषणविशेष्यभावो क्षणान्तरत्वेन चोपादानमर्हति? इति न हेतोः साध्याविनाभाविनो विरुद्धस्य च साध्यविपर्ययाविनाभाविनो विषये बाधा सम्भवति । उक्तेन प्रकारेण विपर्यये सम्यग्घेतुरेवाविषये तु प्रयोगाद्धेत्वाभास उच्यते । यत एवम् "इति" तस्मान्न तदभावो बाधाविरहः पृथगविनाभावादन्वयव्यतिरेकात्मनो ऽनयोर्हेतुविरुद्धयोर्लक्षणान्तरत्वेन वाच्यः, व्यभिचाराभावेन रूपान्तरत्वायोगात् । यतश्चाविनाभावे सति बाधा न सम्भवति विरोधात्, तस्माद्धेतोर्यथोक्तलक्षणस्य प्रयोगे सति गम्यार्थाया अपि प्रतिज्ञाया दोषाणां प्रत्यक्षविरुद्धादीनां सम्भवो नास्ति, हेतुलक्षणेनैव तेषां निरस्तत्वात् । तत् कथं बाधाविरहो हेतो रूपान्तरमुच्यते? । असम्भविनां च तेषां उपवर्णनं निष्फलमित्याकूतम् ।
केवलायाः प्रयोगे ऽस्ति सम्भव इति चेत्, आह- "नापि" इत्यादि । हेतुप्रयोगे ह्यसति केवला प्रतिज्ञैव न प्रयुज्यते, हेतुविषयत्वेन तदभ्युपगमात् । ततश्च शास्त्रकारैर्न प्रतिज्ञादोषाः प्रत्यक्षविरुद्धादयो वाच्या इति । दिङ्नागपादैस्तु साध्यासाध्यविपर्ययेण ( ह्ब्ट् 213 ) विप्रतिपत्तिदर्शनादप्रयोगार्हस्यापि पक्षस्य लक्षणविधाने न्यायप्राप्तमेवापक्षत्व न नि(त्वं नि)राकृतपदेन प्रमाणविरुद्धस्याख्यानम्, न त्वतिप्रसक्तं पक्षलक्षणम् व्यवच्छिन्नम्, सन्दिग्धस्यैव साध्यत्वात्, प्रमाणबाधिते साधकप्रमाणावृत्तेइरिति ।
तदेवमबाधितविषयत्वं निराकृत्य रूपान्तरं निराकुर्वन्नाह- "एतेन" अविनाभावे सति बाधाया असम्भवदर्शनेन "एकसंख्याविवक्षापि" विरुद्धाव्यभिचारिदोषविपक्षेणोच्यमाना "प्रत्युक्ता" प्रत्याख्याता ।
परः पृच्छति- "कथम्" इति केन प्रकारेण- यथा बाधाविनाभावयोः सहानवस्थानं तथा प्रतिहेत्वविनाभावयोरपि?, येनैकसंख्याविवक्षा तद्वदेव प्रत्याख्यायेत इति ।
सिद्धान्तवादी साम्यं दर्शयन्नाह- "एक" इत्यादि । एको हि हेतुर्लक्षणयुक्तः । स्वसाध्याव्यभिचारी कथं भवति? । यदि स्वसाध्यभाव एव भवेत्, अन्यथा तल्लक्षणमविनाभावो नाम हीयेत । यत्रैव धर्मिणि स तल्लक्षण एको भवति तत्रैव धर्मिणि तस्मादन्यो ऽपि प्रतिहेतुर्विरुद्धस्तेन हेतुलक्षणयुक्तः कथं भवति? । एकस्य हेतोर्यत् साध्यं तब्दाधकस्य तद्विरुद्धस्यापरस्य धर्मस्य भाव एव नाभावे भावादविनाभावादिति बाधया समानं बाधासम्भवेन समानः प्रतिहेतुरिति तन्निरासेनैव निरस्त इति ।
अत्रैव दूषणान्तरमभिधातुं विकल्पयन्नाह- "अपि च" इत्यादि । "वस्तुतः" परमार्थतो यस्य प्रतिहेतुर्न सम्भवति किमसौ सम्यग्ज्ञानस्य विपर्यस्य वोपन्यस्तसाध्यविपरीतज्ञानस्य वा हेतुरिष्टो यतो विवक्षितैकसंख्यत्वं तल्लक्षणमुच्यते, आहोस्विद् यस्य प्रतिहेतुस्तत्साध्यविपरीतसाधको न प्रदर्शितः परमार्थतः सन्नपीति । परो दोषमपश्यन्नाह- "किञ्चातः" इत्यादि । यदि नाम पुर्वो विकल्प उत्तरो वा ततः को दोषः? इति ।
सिद्धान्तवाद्याह- यद्यसम्भवन् प्रतिहेतुर्यस्य स सम्यग्ज्ञानादिहेतुरिष्यते, तदालक्षणमेतद् विवक्षितैकसंख्यत्वम् । कस्मात्? । अशक्यो निश्चयो यस्य वस्तुतो ऽसम्भवत्प्रतिहेतुत्वस्य स तथोक्तः । परमतापेक्षया चैतदुच्यते । परो हि दर्शनादर्शनाभ्यामसत्यपि प्रतिबन्धे ऽविनाभावमिच्छति । ततस्तस्य प्रतिहेतोरेवंविधस्य सम्भवो ऽस्ति । स चानुपलभ्यमानो ऽपि कदाचित् स्यादिति वस्तुतस्तदभावो निश्चीयते । प्रतिबन्धनिबन्धनाविनाभाववादिनां त्वस्माकं प्रतिहेत्वसम्भवः सुनिश्चित एव । नहि तादात्म्यतदुत्पत्तिलक्षणे प्रतिबन्धे प्रमाणतः सिद्धे तन्निमित्ताविनाभावितया एकेन हेतुना स्वसाध्ये साधिते पुनस्तत्रैव धर्मिणि तल्लक्षणस्य तद्विरुद्धार्थसाधकस्य प्रतिहेतोः सम्भवः शङ्कयते, भावानां विरुद्धस्वभावद्वयायोगाद्, विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् । विरुद्धधर्मसाधकसम्भवे च तस्यैव स्वसाध्याविनाभाविनः प्रथमस्य तत्र प्रमाणतो भावसिद्धययोगादिति ।
स्यान्मतम्- यदि नाम प्रस्तुतः प्रतिहेत्वसम्भवो ऽस्माभिर्निश्चेतुमशक्यस्तथाप्यसम्भवत्प्रतिहेतुत्वं विवक्षितैकसंख्यत्वप्रतिपादितं हेतुलक्षणं कस्मान्न भवति? इत्याह- "न ह्यनिश्चितात्मनः" इत्यादि । प्रतिपादको यो धर्मो हेतोस्तस्यानिश्चितस्वभावस्य यस्मात् तल्लक्षणत्वं प्रतिपादकधर्मता न भवति । यथा संदिग्धस्य पक्षधर्मत्वस्येति पूर्वकस्य साधनम् । नापि सन्धिग्धं लक्षणं यस्य स हेतुर्भवतीति न कश्चिद्धेतुर्भवेदिति हेत्वभावो वा इत्यस्य समर्थनम् । ततश्च "हेत्वाभासास्ततो ऽपरे" इत्यत्रापि योजितमिति ।
स्यान्मतम्- यस्य प्रतियोगी दृश्यते तस्यैव प्रतिहेतुभावात् अहेतुत्वं भवतु, यस्य तु प्रतियोगी हेतुर्न दृश्यते स वस्तुत एवासम्भवत्प्रतिहेतुः । न हि तत्र वस्तुतः प्रतिहेतुसम्भवः शङ्कयते, बाधकप्रत्ययमन्तरेण बाधाशङ्काया अयोगात् । तदुक्तम्-
"बाधाज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिका" इति ।

अत्र आह- "तुल्ये लक्षणे हि" इत्यादि । शङ्कयमानप्रतिहेतुना तुल्यं लक्षणं दर्शनादर्शनमात्रनिमित्ताविनाभावरूपं यस्य तस्मिन् दृष्टः प्रतियोगिनः प्रतिहेतोर्ब्बाधकस्य सम्भवः स येषामपि तत्तुल्यलक्षणानां प्रतियोगी न दृश्यते तेष्वपि शङ्कां प्रतिहेतुसम्भवविषयामुत्पादयति । किं कारणम्? । अदृष्टप्रतियोगिनो दृष्टप्रतियोगिनो विशेषाभावात् । नहि तस्येतरेण कश्चिद्विशेषो ऽस्ति, यतस्तत्सम्भवो न शङ्कयेत । प्रुषशक्तिवैकल्यादिना तु तददर्शनं सम्भाव्येतेति किमुच्यते ‘नाशङ्का निःप्र(ष्प्र)माणिकाऽ; इति । अथ विशेषः प्रतिबन्धलक्षणो ऽविनाभावनिश्चायको दृष्टप्रतिहेतोरदृष्टप्रतियोगिन इष्यते यतः प्रतियोगिसम्भवाशङ्कास्तमुपैति । तदा सति वा विशेषे स विशेषो हेतोर्लक्षणम् । किं कारणम्? । यतस्ततो विशेषाद्धेतुरेकान्तेन निश्चयेन निरस्तप्रतिपक्षस्तथाविधे धर्मिणि प्रतिहेत्वसम्भवात् स्वसाध्यं निश्चाययतीति । यस्तथाविधो न भवति तद्विशेषविरहात् दृष्टप्रतिहेतुः सो ऽतल्लक्षणो न हेतुः स्यात् । तथा च यदि नामाहेतौ प्रतिहेतुर्दृष्टो, हेतोः किमायातम्, येन तन्निवृत्तये तत्रैकसंख्याविवक्षा क्रियते, यथोक्ताविनाभाववचनेनैव तन्निवृत्तेरित्याह- "तथा च हेतौ" तद्विशेषयोगिनि "प्रतिहेत्वसम्भवे" सति "व्यर्था" निष्प्रयोजना "एकसंख्याविवक्षेति" । यथोक्तविशेषाङ्गीकरने तल्लक्षणस्य प्रतिहेतोरसम्भवात् कस्यैकसंख्याविवक्षया व्यवच्छेदः क्रियते? यतो ऽस्य सार्थकत्वं स्यादिति ।
विरुद्धाव्यभिचारिणश्च हेत्वाभासस्य व्यवच्छेदार्थमेकसंख्याविवक्षा हेतुलक्षणे क्रियते । वस्तुतो ऽसम्भवत्प्रतिहेतुत्वसिद्धये च प्रतिबन्धलक्षणे विशेषे हेताविष्यमाणे विरुद्धाव्यभिचार्यपि हेत्वाभासो न भवति । ततो व्यवच्छेद्याभावात् किमेकसंख्याविवक्षया? इति दर्शयन्नाह- "अतः" प्रतिबन्धलक्षणविशेषोपगमात् "विरुद्धाव्यभिचारिणो हेत्वाभासस्य यल्लक्षणं तद्धीयेत" न सम्भवेत् । किं पुनस्तद्विरुद्धाव्यभिचारिणो लक्षणम्? इत्याह- "स्वलक्षण" इत्यादि । हेतोर्यदात्मीयं लक्षणं तद्युक्तयोर्हेत्वोरेकत्र ( ह्ब्ट् 216 ) धर्मिणि विरोधेन परस्परविरुद्धसाध्यसाधकत्वेनोपनिपाते सति विरुद्धाव्यभिचारीति विरुद्धाव्यभिचारिणो लक्षणम् । न च तत् प्रतिबन्धाङ्गीकरणे सति सम्भवति । नहि तादात्म्यतदुत्पत्तिभ्यां स्वसाध्यप्रतीबन्धवत्येकत्र हेतौ क्वचिद्धर्मिणि संभवति द्वितीयस्तल्लक्षस्तत्रैव हेतुः सम्भवेत्, भावानां विरुद्धस्वभावद्वयासम्भवात्, विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् । तदव्यभिचारिणो हेतोर्द्वितीयस्य तत्र कुतः सम्भवावकाश इति ।
ननु यदि तथविधाविशेषसम्भवे सति विरुद्धाव्यभिचारिलक्षणं हीयते, एकसंख्याविवक्षा वा व्यर्था, तथापि नैव हेत्वभावपरसङ्गः, तत् किमुक्तं हेत्वभावो वेत्यत आह- "न च" नैव "तस्य" विशेषस्य प्रतिबन्धलक्षणस्य, यतो वस्तुतो ऽसम्भवत्प्रतिहेतुत्वं निश्चीयते । "स्वरूपं" तादात्म्यतदुत्पत्तिलक्षणं निर्द्दिश्यते भवद्भिः यथास्माभिर्निर्दिष्टं यद्रूपं "प्रतीत्य" प्रतिपद्य प्रतियोगिनः अम्भवासम्भवावुत्पश्यामः । यत्र स विशेषो नास्ति तत्र प्रतियोगिनः सम्भवः कल्पित आगमाश्रये ऽनुमाने । यत्र त्वस्ति स विशेषो वस्तुबलप्रवृत्ते ऽनुमाने तत्र प्रतियोगिनो ऽसम्भव इति । यत एवं तस्मान्नास्त्येव भवतां स विशेषः- भवद्भिर्न ज्ञायत एव स विशेष इति । तस्मात् सर्वत्र यत्रापि प्रतियोगी न दृश्यते तत्रापि शङ्कया प्रतियोगिविषयया भवितव्यम् । तामेव शङ्कां द्रढयन्नाह- "दृष्टप्रतिहेतोरपि" इत्यादि । यस्यापि हि प्रतिहेतुर्दृष्टस्यापि प्राक् प्रैत्योगिदर्शनादितरेण सर्वकालमदृष्टप्रतियोगिना न कश्चिद् विशेषो लक्ष्यते यद्दर्शनाज्ज्ञायेत ‘अत्र प्रतियोगी सम्भवति न्यान्यत्रऽ; इति दर्शनादर्शनमात्रनिबन्धनयोरन्वयव्यतिरेकयोः सर्वत्र समानत्वात् । तथापि पश्चात्तत्र प्रतियोगी दृष्ट इति सर्वत्र तत्तुल्यलक्षणे प्रतियोगिसद्भावशङ्का न निवर्तत इति ।
स्यान्मतम्- येषु प्रतियोगी सम्भवति तेष्वश्यमेव कदाचिदसावुपलभ्यते । येषु तु पुरुषायुषेणापि नोपलभ्यते तेष्वसौ नास्त्येव । ( ह्ब्ट् 217 ) ततः स तथाविधो हेतुर्भविष्यति, तत् कथं हेत्वभावो ऽस्माकम्? इत्यत आह- "न च" इत्यादि । येषामपि हि प्रतिहेतुः सम्भवति तेषामपि नैव सर्वदा तस्य प्रतिहेतोरूपलब्धिः प्रतिपत्तॄणाम् । न ह्यसर्वदर्शिनामुपलब्धिः सर्वभावसत्तां व्याप्नोति, प्रतिबन्धवैकल्यसद्भावात् । ननु च यत्र सर्वदैव प्रतिपत्र(त्त्रा) प्रतियोगी न दृश्यते तत्र तदाशङ्काकथं क्रियते? । तथा चाह-
"बाध(धा)ज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिका" इति ।
तथापरम्-
"उत्प्रेक्षेत हि यो मोहादजातमपि बाधकम् ।
स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् ॥" इति ।
अत आह- "अतिशयवती तु" इत्यादि । तथा हि कस्यचिदेव प्रमातुः कुशाग्रीयमतेरतिशयवती प्रज्ञा प्रतिहेतूत्प्रेक्षिणी दृष्टास्माभिः यथा वेदप्रामाण्यनिराकर्तृषु [हेतुषु] सौगतैः शिष्यपरम्परया कुमारिलोत्पादात्प्रागदृष्टप्रतियोगिषूपन्यस्तेषु, तेनैव प्रज्ञातिशयशालिना प्रतिहेतव उत्प्रेक्षिताः ततस्तद्दर्शनात् यावज्जीवं अदृष्टप्रतिहेतुष्वपि तदाशङ्का न निवर्तते । ततः कथमाशङ्का निष्प्रमाणिकोच्यते? । "तुल्यलक्षणे हि" इत्यादिकमपि प्रतियोगिसम्भवाशङ्काकारणमुक्तमेव । न च प्रतियोगिसम्भवमाशङ्कमानस्तन्निमित्तसंभवात् ‘उत्प्रेक्षेत हिऽ; इत्याद्याक्रोशमात्रेण निवर्तयितुं शक्यते । तेनास्य प्रतियोग्याशङ्कापनोदक्षमं किञ्चित् कारणमभिधानीयम् यथास्माभिरभिहितं ‘स्वभावहेतोर्विपर्येये बाधकप्रमाणवशात्तादात्म्यनिश्चये सत्यन्वयव्यतिरेकयोस्तत्र निर्णयः; कार्यहेतौ च यथोक्तप्रत्यक्षानुपलम्भतः कार्यकारणसिद्धेस्तनिश्चयऽ; इति । यत एवं सर्वत्र प्रतियोग्याशङ्का न निवर्तते भवद्दर्शने तेन कारणेनानिश्चयः प्रतियोगिनः सम्भवासम्भवयोः ‘इह प्रतियोगी सम्भवति इह तु न सम्भवतिऽ; इत्येवंरूप इति । तस्माद्वस्तुतो ऽसम्भवत्प्रतिहेतुत्वं यल्लक्षणं ( ह्ब्ट् 218 ) हेतोः तस्यानिश्चितत्वादेकसंख्याविवक्षावादिनां न कश्चिद्धेतुः स्यात् । न ह्यनिश्चितलक्षणो हेतुर्भवतीत्युपसंहार इति ।

तदेवं ‘किं यो वस्तुतो ऽसम्भवत्प्रतिहेतुः स सम्यग्ज्ञानविपर्ययहेतुरिष्टःऽ; इति अमुं विकल्पं निराकृत्य द्वितीयं विकल्पं निराचिकीर्षुराह- "अथाप्रदर्शितप्रतिहेतुः" सम्यग्ज्ञानविपर्यहेतुरिष्ट इति सम्बन्धः । अयं च पक्षः किल दिङ्नागाचार्यस्याप्यभिमत इति पर उपदर्शयन्नाह- "यथाह दिङ्नागाचार्यः" । किमाह?"यदा तर्हि" इत्यादि । "श्रावणत्वस्य हि न कथञ्चिव्द्यवच्छेदहेतुत्वम्" इति दिङ्नागाचार्येणोक्ते परेणाभिहितम्- "यदा तर्हि वैयाकरणः शब्दत्वं सामान्यविशेषं नित्यमभ्युपगच्छति तदायं श्रावणत्वलक्षणः पक्षधर्मः हेतुरेव स्यात् । नित्यः शब्दः श्रावणत्वात् शब्दत्ववत्" इत्येवं परेणोक्ते सत्याचार्येणोक्तम्- "यद्यत्र शब्दाख्ये धर्मिण्यनित्यत्वहेतुं कृतकत्वप्रयत्नानतरीयकत्वादिलक्षणं कश्चिद् वैशेषिकादिर्न दर्शयेत् तदायमप्रदर्शितप्रतिहेतुर्हेतुरेव भवेत्" इति । तदेवामाचार्यपादैः साक्षित्वे दत्ते भुजमुत्क्षिप्य शास्त्रकारः पूत्कुर्वन्नाह- "इदमिदानीम्" इत्यादि । यदा ह्याचार्यस्याप्येतदभिमतमिति कैश्चिव्द्याख्यायते तदिदं सुमहव्द्यसनमायातम्- गुरुभिरभिहितत्वादप्रकाश्यम्, नहि गुरूणां दोषः प्रकाशयितुं युक्तः, "न्यायमनुपालयद्भिः असंवरणीयम्" अप्रच्छादनीयम् । तत् किं गुरून् दूषयाम उत न्यायमप्युपेक्षामहे इत्युभयमप्यशक्यमिति "कष्टतरं व्यसनं कथं निर्वोढुं शक्येत?" । न कथंचिदिति । कः पुनरत्र दोषो येनेदं कष्टतरमित्याह- "स तावदयं" श्रावणत्वलक्षणो "हेतुर्वस्तूनि" शब्दादीनि स्वसाध्यं तत्त्वं नित्यत्वं "तत्प्रकृतीनि" तदात्मकानि "कृत्वा" तच्छ्रावणत्वं प्रमाणं येषां पुरुषाणां मीमांसकवैयाकरणादीनां तान् "अभ्युदयेन" ( ह्ब्ट् 219 ) स्वर्गेण "निःश्रेयसेन" चापवर्गेण "योजयित्वा" । तथा हि- वस्तुतत्त्वं भावयन् यावत् क्लेशान्न् प्रजहाति तावत् स्वर्गमासादयति, क्लेशांस्तु प्रजहन्निर्वाणपरायणो भवति । अथावा शब्दनित्यत्वप्रतीतौ वेदप्रामाण्यात् तद्विहिताग्निहोत्रानुष्ठानात् स्वर्गो वेदान्तनिषेवणादपर्वग्गः । पुनरुत्तरकालं "प्रतिभावता" प्रज्ञाजातीयेन वैशेषिकादिना पुरुषेण "हेत्वन्तरस्य" प्रतिहेतोः "निदर्शनेन" यदस्य "नित्यत्वसाधनसामर्थ्यं" प्रतिहेत्वनुपदर्शने सत्यासीत् त्ततदुपदर्शनेन "उत्कीलितम्" अपनीतमिति । तानि वस्तूनि नित्यत्वसम्पदः प्रच्याव्य, तांश्च तत्प्रमाणकान् पुरुषान् स्वर्गापवर्गसम्पदः प्रच्याव्य श्रावणत्वलक्षणो हेतुः शक्तिवैकल्यात् परित्रातुमशक्तो भ्रष्टराज्य इएव राजा तपोवनं गच्छति स्वैरेव दुश्चरितैरिति किमत्र वयं ब्रूमः? ।
तदेवमुपहस्यैतस्मिन् पक्षे दोषमुपदर्शयन्नाह- "पुरुषप्रतिभा" इत्यादि । यद ह्यप्रदर्शितप्रतिहेतुर्हेतुर्हेतुरिष्यते तदा पुरुषप्रतिभाकृतं साधनत्वमभ्युपगतं भवति । ततश्च वस्तुतो न किञ्चित् साधनमसाधनं वा प्राप्तम् । तथा हि- यदा प्रतिहेतुर्नोपदर्श्यते तदा साधनम्, यदा तूपदर्श्यते तदा न साधनमिति पुरुषप्रतिभाकृतं साधनत्वमायातमिति ।
अपि च- अप्रदर्शितप्रतिहेतोर्हेतोर्हेतुत्वे ऽङ्गिक्रियमाणे विकल्पद्वयम्- किं परमार्थतो हेतुस्तद्धर्मभावी, उतातद्धर्मभावीति? । तत्राद्यं विकल्पमधिकृत्याह- "स च" हेतुर्यो ऽसौ प्रथमं उपादीयते । स "यदि स्वभावत" एव "तस्मिन्" साध्यधर्मे "सत्येव भवति" इत्येवंशीलो ऽस्मदुपवर्णितप्रतिबन्धोपगमात् यदीष्यते "तदा कथमन्यथा क्रियेत" हेत्वन्तरेणातद्धर्मभावी कथं क्रियेत? । न कथञ्चित् । किं कारणम्? । वस्तूनां हेतुलक्षणानां यःस्वभावः- ‘सत्यमेव साध्यधर्मे भवनात्मकःऽ- "तदन्यथाभावस्य" तद्विपर्ययस्य "अभावाद्" उभयोश्च स्वसाध्यधर्माविनाभावित्वे ( ह्ब्ट् 220 ) स्वभावत एव धर्मिण्येकत्र तयोर्भावे विरुद्धावुभौ स्वभावावेकस्य स्याताम् । न चैकस्य विरुद्धौ स्वभावौ सम्भवतः, विरुद्धधर्माध्यासेन तस्यैकत्वहानिप्रसङ्गात् । अथ द्वितीयो विकल्पस्तदा "अतद्धर्मभावी च" असत्यपि साध्यधर्मे भवनशीलः प्रतिबन्धानभ्युपगमात् "कथमन्यदापि" अप्रदर्शितप्रतिहेत्ववस्थायामपि "साधनं" कस्यचित्? । नैव तदापि साधनम्, न केवलं प्रदर्शितप्रतिहेत्ववस्थायामिति ।
उपसंहरन्नाह- "तस्मात् स्वभावतः" इत्यादि । यत एवं भावानां स्वभावो ऽन्यथा कर्तुं न शक्यते, विरुद्धोभयस्वभावश्चैको न सम्भवति तस्मात् परमार्थतः स्वेन स्वेन साध्येनाविनाभाविनोर्यथोक्तलक्षणयोः कार्यस्वभावहेत्वोः तल्लक्षणस्य कार्यस्वभावलक्षणस्य प्रतिहेतोरसम्भवाद् "अलक्षणमेकसंख्याविवक्षा" विवक्षितैकसंख्यत्वं लक्षणं न भवति । किं कारणम्? इत्याह- "व्यवच्छेद्याभावादिति" । प्रतिहेतुर्हि विवक्षितैकसंख्यत्वस्य व्यवच्छेद्यो वर्ण्यते । स च प्रतिहेतुः स्वलक्षणयुक्तयोः कार्यस्वभावयोर्न भवत्येवेति कथं तद्धेतुलक्षणं स्यादिति । तदेवमनयोर्द्वयो रूपयोर्यः सम्भवो यथोक्ताविनाभावासम्भवे सतीति रूपान्तरोपगमे ऽपि हेत्वाभासतैवेति "हेत्वाभासास्ततो ऽपरे इति" इत्यस्यार्थो विवृत इति ।
ज्ञातत्वनिराकरणायाह- "ज्ञानं पुनः" इत्यादि । अवाधितविषयत्वं विवक्षितैकसंख्यत्वं च कार्य- स्वभावहेत्वोरेवाविनाभावे सति बाधाप्रतिहेत्वोरसम्भवात् व्यवच्छेद्याभावत्वेन सत्यपि लिङ्गधर्मत्वे तल्लक्षणं न भवतीत्युक्तम् । ज्ञानं तु ज्ञातत्वम्, तस्यैव भावप्रत्ययेनाभिधानात् । तथा हि- ज्ञानशब्दप्रवृत्तिनिमित्तं ज्ञातत्वमुच्यते, तच्च ज्ञानमेव, तदुत्पादे सति ज्ञात इति व्यवहारात् । न च तत् लिङ्गस्यात्मरूपमिति कथं लिङ्गलक्षणं भविष्यति? । यद्यपि विकल्पप्रतिभासी सामान्याकारो लिङ्गतयावस्थाप्यते तथापि न ज्ञानस्य लिङ्गधर्मता । न ह्यसौ स्वतन्त्र एव लिङ्गम् । यदाह- "विकल्पभेदान स्वतन्त्राणामन्वर्थाश्रयणात् ( ह्ब्ट् 221 ) तत्कल्पितविषयादऽर्थप्रतिपत्तावनर्थप्रतिलम्भ एव स्यात्" इति । तस्माद् वाह्यवस्तूपादानस्यैवास्य लिङ्गतावस्थाप्यते । साध्यसाधनसंकल्पे वस्तुदर्शनहानेः स्वलक्षणस्य क्वचिदनन्वयाच्च तद्धर्मतामेव त्वनुस्मरन्तो विकल्पा नानैकव्यतिरेकान् संदर्शयन्तो वस्तुनि परम्परया प्रतिबन्धादविसंवादकाः कार्यादिलिङ्गव्यपदेशनिबन्धनं चेत्युक्तप्रायम् ।
न च तस्य कार्यादेरात्मरूपं ज्ञानम् । विकल्पावभासी च सामान्याकारो नैव विकल्पस्यात्मभूतः, तस्य नीरूपस्य वस्तुरूपविरोधात् । तद्रूपस्य च विकल्पप्रतिबिम्बचक्रस्य सामान्यात्मताविरहात् । यस्मादबाध्यस्यापि बाह्यतया व्यवसितस्याननुयायिनो ऽप्यनुयायितया सामान्यात्मकत्वं तथात्वे चास्य विकल्परूपता कुतः? यदाह-
"ज्ञानादव्यतिरिक्तं च कथमर्थान्तरं व्रजेत्? ॥
तस्मान्मिथ्यावभासो ऽयमर्थेष्वेकात्मताग्रहः ।" इति ।

न ज्ञानस्य लिङ्गधर्मता । एतदेव साधयन्नाह- "किंरूपाद्" इत्यादि । किमात्मकात् "हेतोरनुमेयो ऽर्थो ज्ञातव्यः इति चिन्तायां" प्रकृतायां "प्रतिपत्तुः" पुंसो यदविसंवादकं लिङ्गं तस्य स्वरूपमभिधीयते शास्त्रकारैः यस्य रूपस्य दर्शनादयं प्रतिपत्ता ‘यत्र तद्रूपसम्भवः तत् साधनम् तद्रूपविकलमसाधनम्ऽ; इति प्रविभागेन व्यवस्थाप्य यत्तत्र साधनत्वेन व्यवस्थापितं तस्येष्टार्थसन्निधानसम्प्रत्ययात् प्रवृत्तिमवलम्बते । तथा, एतस्मिंश्च न्याये व्यवस्थिते यदस्य लिङ्गस्यात्मरूपं तल्लक्षणं भवितुमर्हति पक्षधर्मादिवत् न तु यत् पररूपम् ।
स्यादेतत्- ज्ञातस्य लिङ्गस्य साधकत्वाद् युक्तैव साध्यसिद्ध्युपयोगिनो ज्ञानस्य लिङ्गलक्षणतेत्यत आह- "प्रतिपत्तिजन्मनि" इत्यादि । यद्यनुमेयप्रतीतिजन्मन्युपयुज्यते ज्ञानमिति तन्मात्रेण लिङ्गस्य लक्षणमिष्यते तदातिप्रसङ्गः प्राप्नोति । तमेवाह- "एवं प्रतिपत्तिजन्मन्युपयोगमात्राल्लिङ्गलक्षणत्वे प्रमेयस्य" अर्थस्य "पुरुषस्य" प्रमातुः ( ह्ब्ट् 222 ) "आदि" शब्दात् संयोगसमवायादीनामालोकमनस्कारादीनां लिङ्गलक्षणत्वं भवेत् । अत्र कारणमाह- "नहि तेष्वपि" प्रमेयादिषु असत्सु लिङ्गिनि ज्ञानं भवतीति कृत्वा । अत्र परो ऽनिष्टमापादयन्नाह- "निश्चितग्रहणं तर्हि" इत्यादि । यदि पररूपत्वाज्ज्ञानं लिङ्गलक्षणं न भवति तदा च यदेतदाचार्येण-
"अनुमेये ऽथ तत्तुल्ये सद्भावो नास्तितासति ।
निश्चिते" ति-
निश्चितग्रहणं कृतं भवतश्चाभिमतं तन्न कर्तव्ययम् । तथा हि- निश्चयो हि लिङ्गस्य पररूपमेव । स चेत् तल्लक्षणम्, ज्ञानं किमिति नेष्यते यतो निश्चयो विज्ञानमेव तद्विशेषत्वादस्येति ।
सिद्धान्तवाद्याह- "न न कर्तव्यं" किन्तु कर्तव्यमेव तस्य निश्चितग्रहणस्य लिङ्गरूपप्रतिपादन्यार्थत्वात् । तामेवान्यार्थतां दर्शयन्नाह- "सपक्षविपक्षयोः" इत्यादि । परे हि सपक्षे दर्शनमात्रेणासपक्षे चादर्शनमात्रतो गमकं हेतुमिच्छन्ति । तेषां नैव दर्शनमात्रेण साध्यसिद्धौ समर्थो हेतुर्भवतीति ज्ञापनार्थं निश्चितग्रहणं कृतम् । यतः सतोर्विद्यमानयोरपि दर्शनादर्शनयोरगमकत्वं हेतोर्दृश्यते ‘स श्यामः, तत्पुत्रत्वात्ऽ; इत्यादौ । यत एवं तेन कारणेन सपक्षे भावेन विपक्षे सर्वत्राभावविशिष्टेनासपक्षे च सर्वत्राभावेन सपक्षे तादात्म्यतदुत्पत्तिलक्षणभावविशिष्टेन गमको हेतुरित्यस्यार्थस्य ज्ञापनार्थं लक्षणवाक्ये निश्चितग्रहणं कृतं बोद्धव्यम् । एतदुक्तं भवति- यावेव सपक्षविपक्षयोः भावाभावौ प्रतिबन्धसाधकप्रमाणवृत्त्या निश्चितौ ताभ्यामेव हेतुर्गमको भवति, न तु यथाकथञ्चिद्दर्शनमात्रेणेत्यस्यार्थस्य ज्ञापनाय निश्चितग्रहणं कृतमिति ।
प्रकृतमुपसंहरन्नाह- "तेन" इत्यादि । येन विशिष्टयोर्भावाभावयोरेव ख्यापनाय निश्चितग्रहणं कृतम्, न रूपान्तराभिधानाय, अनात्मरूपस्य च लक्षणता न युज्यते, तेन पररूपं लिङ्गस्य लक्षणं न भवति । यतः तेन ज्ञानादिना पररूपेण लिङ्गस्य न कश्चिद् रूपविशेषो ऽभिधीयत इति ।
ननु च परे ऽपि सपक्षविपक्षयोर्भावाभावाभ्यां गमकं हेतुमिच्छन्ति, दर्शनादर्शने तु तयोरेव साधके, तत् किमर्थं निश्चितग्रहणम्? इति, अत आह- "तौ हि" इत्यादि । यद्यपि परे भावाभावाभ्यामेव गमकं हेतुमिच्छन्ति तथापि सपक्ष एव भावो ऽसपक्षे चाभाव एवेति भावाभावौ दर्शनादर्शनमात्रतो व्यवस्थापयन्ति । न च ततस्तौ तथाविधौ सिध्यतः, प्रतिबन्धविकलानामप्यर्थानां क्वचिद् भावाभावयोः कथञ्चिद्दर्शनादर्शनसम्भवात् । तस्माद् यौ ‘हेतोः सपक्षे एव भावो ऽसपक्षे चाभाव एवऽ; इत्येवमात्मकौ भावाभावौ तौ तद्भावस्य साधकं यत् प्रमाणं तादात्म्यतदुत्पत्तिसाधनविषयं तद्धृत्त्या वोद्धव्यौ । कुतः? उपायान्तरस्याभावात् । तदनभ्युपगमे हि हेतोः सपक्ष एव भावः सर्वेषां हेतुमतां भावानां साध्येनानुगमदर्शने सति विपक्षे चाभाव एव साध्यविकलानां सर्वार्थानां हेतुविविक्तानां उपलम्भे सति स्यात् । न चैतदसर्वदर्शिनः सम्भवतीति । यत उपायान्तरं नास्ति तेन कारणेन तयोर्विशिष्टयोर्भावाभावयोः प्रतिपादनाय निश्चितशब्दः प्रयुक्तो लक्षणे लक्षणकारेणेति ।
ननु च भावाभाववचनमात्रादेव प्रमाणतो निश्चयो लभ्यते अन्यथा तयोरेव सत्ता न प्रसिध्येदिति, अत आह- "यद्यपि" इत्यादि ।
"अनुमेये ऽथ तत्तुल्ये सद्भावो नास्तितासति ।"
इत्यनेनैव सपक्षासपक्षयोः भावाभाववचनमात्रेणा निश्चितग्रहणनिरपेक्षेण तयोर्भावाभावयोर्यत् साधनं प्रमाणं तस्य वृत्तिर्यद्यप्याक्षिप्यते । कथं पुनर्निश्चितग्रहणमन्तरेण भावाभाववचनमात्रतस्तद्धृत्तेः आक्षेपः? इत्याह- "अन्यथा" यदि तत्साधनप्रमाणवृत्तिर्नाक्षिप्येत, तदा "तयोरेव" सपक्षविपक्षयोरेव भावाभावयोर्या सत्ता स्वरूपव्यवस्था तस्या "अप्रसिद्धेः" । कस्मादप्रसिद्धिः? इत्याह- "ज्ञानस्य" उपलब्धेर्या सत्ता उत्पत्तिः तन्निबन्धनत्वाज्ज्ञेयस्य भावाभावलक्षणस्य सत्ताव्यवस्थायाः स्वरूपव्यवस्थितेः । न ह्युपलम्भमन्तरेण स्वत एवार्थाः ( ह्ब्ट् 224 ) सिध्यन्ति, सर्वस्य सर्वसिद्धिप्रसङ्गात् । तस्मादिदमेवंरूपं नैवंरूपमिति तदाकारज्ञानोदयादेव व्यवस्थाप्यते । यत एवं तस्मात् सर्वत्र शास्त्रे लोके वा ज्ञेयसत्ताव्यवस्थैव निश्चितग्रहणं विनापि "तत्साधनं" तत्सत्तासाधनं प्रमाणम् "आकर्षति" आक्षिपतीति । किञ्च, परार्थत्वाच्च शास्त्रप्रणयनस्य तत्साधनप्रमाणवृत्तिराक्षिप्यते इति सम्बन्धः । कीदृशं पुनस्तच्छास्त्रप्रणयनं यत् परार्थरूपतया स्वव्यवस्थापितज्ञेयसत्तासाधनं प्रमाणमाक्षिपति? इत्याह- " त्रिरूपं लिङ्गं वः संवादकं प्रापकं" वाञ्छितस्यार्थस्येति । यदि नामैवंरूपं परार्थं शास्त्रप्रणयनं तथापि कथं तत् साधनप्रमाणवृत्तिमाक्षिपतीत्याह- "तद्रूपं" तस्य लिङ्गस्य त्रिरूपस्य रूपं स्वभावं शास्त्रोक्तं ये प्रतिपत्तारो न विदन्ति, न तेषां ततस्त्रिरूपाल्लिङ्गाच्छास्त्रोक्ताद् वाञ्छिते ऽर्थे प्रवृत्तिर्भवति, अज्ञातस्यार्थस्य ज्ञापकस्य स्वसत्तामात्रेण प्रवर्तकत्वाभावात् । यत एवम् "इति" तस्मात् परोपलक्षणत्वादेव परेषां ज्ञापकत्वादेव प्रवर्तके त्रिरूपलिङ्गे ज्ञानं सिद्धमिति यद्यपि निश्चितग्रहणमतिरिच्यते तथापि तावेव लिङ्गस्य सपक्षासपक्षयोर्भावाभावौ विशिष्टौ शास्त्रोक्तौ ‘सपक्ष एव भावो ऽसपक्षे चाभाव एवऽ; इत्येवंरूपौ केचिन्नैयायिकप्रभृतयः, परे दर्शनादर्शनमात्रेण- ये दर्शनादर्शने प्रतिबन्धसाधके न भवतः- तन्मात्रेण व्यवस्थापयन्ति "यत एव इति" तस्मात्तेषां वादिनां निषेधार्थो ऽयं लक्षणे निश्चितशब्दः प्रयुक्त आचार्येणास्माभिश्चाभ्युपगत इति । यदि तु परविप्रतिपत्तिः न स्यात् तदा नैवासौ प्रयुज्येतेति ।

किमिति पुनर्द्दर्शनादर्शनाभ्यां भावाभावविषयाभ्यां सपक्षा [स]पक्षयोः विशिष्टौ भावाभावावन्वयव्यतिरेकात्मकौ नेष्येते इत्याह- "सतोरपि" इत्यादि । सत्यपि क्वचित् सपक्षे भावदर्शने हेतोः क्वचिच्चासपक्षे ऽभावदर्शने ‘स श्यामः, तत्पुत्रत्वात्ऽ; इत्यादावन्वयव्यतिरेकयोः संशयात् । तथा हि- अन्वयो नाम सर्वत्र सत्येव साध्ये हेतोर्भावो ( ह्ब्ट् 225 ) व्याप्त्या चासति साध्ये हेतोरभावो व्यतिरेकः । न च क्वचित् सति साध्ये हेतोर्भावदर्शने ऽपि तन्मात्रेण तथाभावः सर्वत्र भवति, अप्रतिबद्धस्वभावानां सहभावनियमाभावात् । तथा क्वचित् साध्याभिमतस्याभावे सत्यभावदर्शने ऽपि हेतोः सर्वत्र तदभावे ऽवश्यमभावः, तदनायत्तस्य तन्निवृत्तौ नियमेन निवृत्त्यभावात् । तस्मात् प्रतिबन्धप्रसाधकप्रमाणवृत्त्यैव यथोक्तौ सपक्षासपक्षयोः भावाभावौ सिध्यतः नान्यथेति विप्रतिपत्तिनिरासार्थमेव निश्चितग्रहणं कृतमित्युपदर्शयन्नाह- "तस्मात्" इत्यादि । "अस्माभिः" इत्याचार्यकृते निश्चितग्रहणे ऽन्यत्रास्माकमभिमतत्वात् "अस्माभिः" इत्याह ।
तदेवं विप्रतिपत्तिनिरासार्थं निश्चितग्रहणम्, असत्यां तु विप्रतिपत्तौ तन्न कर्तव्यमेवेति प्रतिपाद्य अत एव न्यायात् ज्ञातत्वं रूपान्तरं न भवतीति दर्शयन्नाह- "यतो ऽपि"इत्यादि । "पृथगतः" इति पक्षधर्मत्वादेस्त्रैरूप्यात् । कुतः? "तेनैव"त्रैरूप्यवचनेनैव तत्साधनप्रमाणाक्षेपतः "अवगतत्वात्" प्रतिपन्नत्वादिति । किंवत्? "उपनयार्थवत् पक्षधर्मत्वात्" इति । यथा पक्षधर्मत्ववचनेनैव हेतोरुपनयस्यार्थो ऽवगतस्तस्य धर्मिणि हेतोः सद्भावप्रदर्शनात्मकत्वात्, पक्षधर्मवचनस्य च तद्रूपत्वात् ततः पृथगुपनयो रूपान्तरं न भवति; तथा त्रैरूप्यात् ज्ञानं, तद्वचनेनैवावगतत्वादिति ।
अत्र परो ऽनिष्टमापादयन्नाह- "अन्वयव्यतिरेकयोरपि" इत्यादि । यदि त्रैरूप्यवचनेनैव सामर्थ्याज्ज्ञानं लभ्यत इति तत् ततः पृथग् न वक्तव्यम् "हन्तः" तर्हि अन्वयात् पृथग् व्यतिरेको न वक्तव्यः व्यतिरेकाच्च पृथगन्वयः । किं कारणम्? । एकस्यान्वयस्य व्यतिरेकस्य वा प्रयोगादुभयस्य गतेः । कृतं च तयोः पृथग्वचनं, तथा ज्ञातत्वस्यापि त्रैरूप्याद् गम्यमानस्यापि पृथग्वचनं कर्तव्यमिति ।
सिद्धान्तवाद्याह- "न, हेतोः" इत्यादि । नान्वयव्यतिरेकयोर्न पृथक्त्वं किन्तु भिन्नरूपतैव । तथा हि- अन्वयो हेतोः ( ह्ब्ट् 226 ) सपक्षे भाव उच्यते, व्यतिरेकः पुनरभावो ऽसपक्षे । न च तौ परस्परमाक्षिपतः परस्परमन्तर्भवतो विधिप्रतिषेधरूपयोर्भिन्नस्वभावत्वात् । न च यो यतो भिन्नस्वभावः स तत्रान्तर्भूतो युक्तो । ननु च यद्यन्वयव्यतिरेकयोर्भिन्नरूपता कथं तर्हि त्रिरूपं लिङ्गमुच्यते? । नहि परस्परभिन्नावात्मानावेवास्य युज्येते, स्वभावभेदलक्षणत्वाद् वस्तुभेदस्य । नैष दोषः, यतो यथान्वयव्यतिरेकौ व्यवस्थाप्येते न वा नयो (प्येते तथा तयो)रनन्तर्भाव उच्यते नान्यथा । कथं चेतौ व्यवस्थाप्येते? । व्यावृत्तिकृतं भेदमुपादाय । तथा चानयोर्भिन्नरूपतैव । व्यावृत्तिभेदे ऽपि च परमार्थतो भेदो नास्तीत्येकं लिङ्गं त्रिरूपमित्युच्यते इति ।
कथं तर्हि प्रागुक्तम् ‘नानयोरर्थतः कश्चिद् भेदः, अन्यत्र प्रयोगभेदाद्ऽ; इति? अत आह- "एकं वाक्यम्" इत्यादि । अन्वयमुखेन व्यतिरेकमुखेण वा प्रयुक्तमेकं वाक्यमुभयमन्वयं व्यतिरेकं च भिन्नलक्षणमेव गमयतीत्युच्यते ऽस्मभिर्नैको ऽर्थः स्वभावो द्वितीयस्योच्यते, परस्परभिन्नयोरेवैकवाक्यार्थरूपत्वात् ।
अत्र पर आह- "न तु तत्रैव" इत्यादि । अयमभिप्रायः- लक्षणवाक्यप्रतिपादितावन्वयव्यतिरेकावाश्रित्य परस्परान्तर्भावश्चोद्यते । स च विद्यत एव । तथा हि- ‘तत्रैव भावःऽ; इत्यत्र लक्षणवाक्ये तदर्थतया तदभावे ऽभावो गम्यते; ‘अतद्भावे ऽवश्यमभावःऽ; इति चात्र ‘तद्भावे भावःऽ; । न ह्यसति प्रतिबन्ध एकाभावे ऽपरस्याभावः । प्रतिबन्धश्च तादात्म्यतदुत्पत्तिभ्यां तद्भावे भावरूप एव । ततश्चैकेनैव सपक्षासपक्षयोर्भावाभावप्रतिपादकेन प्रतिविशिष्टेन लक्षणवाक्येनोभयगतेर्द्वितीयवचनं न कर्तव्यमिति । तथा चैकवाक्यार्थान्तर्भावाद् भिन्नस्वभावताप्यनयोर्दुर्ल्लभा । ततश्च यदुक्तम् ‘अन्वयव्यतिरेकयोरपि तर्हि न पृथक्त्वमितिऽ; तत् तदवस्थमेवेति ।
सिद्धान्तवाद्याह- "वचनमेतत्" ‘तत्रैव भावःऽ; इत्यादिरूपम् "उभयमाक्षिपति" प्रतिपादयति । कुतः? । सामर्थ्यादुभयप्रतिपादनशक्तत्वात् । कथम्? इति चेत्, आह- "एकस्यापि वाक्यस्य" कीदृशस्य? । "नियमख्यापकस्य" ‘सपक्ष एव भावो ऽसपक्षे चाभाव एवऽ; इति सावधारणस्य "द्वितीयाक्षेपनान्तरीयकत्वात्" द्वितीयप्रतिपादननान्तरीयकत्वात् । "न च तावतैकवाक्यप्रतिपादनमात्रेणोभयोरेकस्वभावता" भिन्नस्वभावानामप्यर्थानामेकवाक्येन प्रतिपादनात् । एकेनैव च लक्षणवाक्येनोभयगतावपि यत् "पृथगभिधानं" तत् "प्रयोगनियमार्थम्" । साधर्म्यप्रयोगे वैधर्म(र्म्य)वचनं न कर्तव्यम्, वैधर्म्यप्रयोगे च साधर्म्यवचनमिति न पुनरेकाभिधानेनानवगतस्य रूपान्तरस्य प्रतिपादनार्थम् । न च तथा त्रैरूप्यवचनेन ज्ञाननिबन्धनेन ज्ञेयसत्ताव्यवस्थायाः प्रोपलक्षणार्थेन च शास्त्रप्रणयनेनाश्रितज्ञानस्यैव त्रैरूप्यस्य प्रतिपादनाल्लब्धस्य ज्ञानस्य पुनर्वचने न किञ्चित् प्रयोजनमस्तीति नास्य पृथग्वचनं युक्तमिति ।
स्यान्मतम्- केवलावपि तर्ह्येकवाक्यार्थानन्तर्भूतौ परस्परमऽभिन्नस्वभावौ भविष्यतः तत एवैवकवाक्यार्थान्तर्भावादित्यत आह- "न पुनः केवलौ" एकवाक्यार्थानपेक्षौ तदन्तर्भावमात्रेण सपक्षासपक्षयोः भावाभावौ परस्परमाक्षिपतो ऽन्तर्भवतः भिन्नरूपाणामप्यर्थानामेकवाक्यान्तर्भावदर्शनात् । ननु च नियमवन्तावपि भावाभावौ केवलावेव, तयोः परस्पराक्षेपे केवलयोरपि तत्प्रसङ्ग इत्यत आह- "नियमवन्तौ च" सावधारणवाक्यप्रतिपादितौ "न केवलौ" किन्तु सहितावेव । कुतः? । "नियमस्य" सावधारणस्य वाक्यस्य "उभयरूपत्वात्" भावाभावप्रतिपादनात्मकत्वात् ।

तदेवं सावधारणेन वाक्येन नैव केवलो ऽन्वयो व्यतिरेको वाभिधीयते । तदन्तर्भावात्तु द्वितीयगतिः किन्तु परस्परान्तर्भूतावेव सहितावेकेन वाक्येनाभिधीयेते इति प्रतिपाद्योपसंहरन्नाह- "तस्मात्" तत्रैव सपक्ष एव भाव ( ह्ब्ट् 228 ) इत्यनेन वाक्येन न सपक्षे भाव एवोच्यते । किं तर्हि? । असपक्षे ऽभावो ऽपि, तथा चेतरेणाप्यसपक्षे ऽभाव एवेति वचनेन नाभाव एव केवल उच्यते किन्तु सपक्षे भावो ऽपि, येन केवलवचनेन भावो ऽभावो वा तदात्मकतया द्वितीयमाक्षिपेद् यतो ऽनयोः पृथग्वचनं न स्यात् । तस्माद् यदान्वयव्यतिरेकौ भवाभावावभिप्रेतौ तदा तौ भिन्नरूपावेवेति कथं तयोः न पृथक्त्वम्? । अथ नियमवता वाक्येनाभिहितौ तदैकवाक्यादेवोभयगतेः पृथग्वचनं न कर्तव्यमेव । तत्तु कृतं नाप्रतिपन्नप्रतिपत्तये किन्तु प्रयोगनियमार्थमित्युक्तमेतदिति ।
स्यान्मतम्- यथान्वयव्यतिरेकौ भावाभावलक्षणौ न परस्परात्मकौ ततश्च तयोः परस्परतो रूपान्तरत्वम्, एवं परोपलक्षणशास्त्रप्रतिपादितात् त्रैलक्षण्याद् भिद्यत एव ज्ञानम्, न तत्रान्तर्भतम्, ततो रूपान्तरं भविष्यतीत्यत आह- "नैवम्", यथान्वयव्यतिरेकौ भावाभावलक्षणौ परस्परमनन्तर्भूतौ, न तथा ज्ञानं परोपलक्षणशास्त्रप्रतिपादिते त्रैलक्षण्ये ऽनन्तर्भूतम् । कुतः? । "परोपलक्षणात्"- परे उपलक्ष्यन्ते उपलक्षण(णं) त्रैरूप्यविषयां प्रतीतिं कार्यन्ते येन शास्त्रेण ततो यत् त्रैलक्षण्यं प्रतीयते आगृहीतज्ञानं तस्मादव्यतिरेकादागृहीतज्ञाने त्रैलक्षण्ये ऽन्तर्भावादिति यावत्, "इति" तस्मान्न लक्षणान्तरं त्रैरूप्यादिति । तदयमत्र समुदायार्थः- यदि ज्ञातत्वं ज्ञानशब्दप्रवृत्तिनिमित्तं उक्तेन प्रकारेण ज्ञानमेवोच्यते तदा तल्लिंगस्यानात्मभूतमिति न तल्लक्षणम् । अथावि(पि) ज्ञानापेक्षः कर्मभावो ज्ञातत्वमुच्यते तदापि ज्ञेयसत्ताव्यवस्थाया ज्ञानसत्तानिबन्धनत्वात् त्रैरूप्यव्यवस्थैव तत्सत्ताव्यवस्थापकं ज्ञानमाक्षिपति । ततस्तदपेक्षो ऽपि कर्मभावो ऽनुक्तसिद्ध इति न तद्वचनं पृथक्कर्तव्यम् । तथा परोपलक्षणार्थशास्त्रप्रतिपादितागृहीतज्ञानात् त्रैलक्षण्यादव्यतिरेकादिति ।
तदेवमबाधितविषयत्वादिकं रूपत्रयं निराकृत्य निगमयन्नाह- "तस्मान्न हेतुः षड्लक्षणः ।" किं तर्हि? । त्रैलक्षण्य एवेति ।
इमं क्षताशेषकुतर्कमार्गं,
मुनीशराद्धान्तनयप्रदीपम् ।
वितत्य पुण्यं यदुपार्जितं तत्,
परां विशुद्धिं जगतो विधेयात् ॥
हेतुबिन्दुटीका समाप्ता ।
.............................................................
.............................................................
मा यतत इमा या तद्रूपा वल (?) त्रिभुवनस्य हिताय शस्वत् ।
नरस्य सेतोः दो.......तथागतमतस्य निवोधयित्री

मूल पाठ: Hetubinduṭīkā · Edition: Pandit S. Sanghavi and Muni Shri Jinavijayaji. Hetubinduṭīkā of Bhaṭṭa Arcaṭa, with the sub-commentary entitled Āloka of Durveka Miśra. Baroda 1949. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc