भाषा

ENहिગુ
ग्रंथ पाठ

हरिपाठ · अध्याय 1

1

महाराष्ट्रप्रान्ते विख्यात: साधु: श्रीज्ञानेश्वर:।सामान्यसाधकानां कृते तेन हरिपाठ: रचित:।अस्मिन् पद्यप्रबनधे २८ पद्यानि सन्ति।तेषाम् अयं संस्कृतानुवाद:-
॥ ज्ञानेश्वरकृतो हरिपाठ:

1

एकं वापि क्षणं तिष्ठेत् देवद्वारे नरो यदि ।
सम्पादयेत्तावतैव स तु मुक्तिं चतुर्विधाम्

2

मुखेन श्रीहरिर्गेयो हरिर्गेयो मुखेन च।
यद् हरिस्मरणाज्जातं तत्पुण्यं गणयेन्नु क:

3

संसारस्थोऽपि जन्तुश्चेत् त्वरते नाम जिह्वया।
तरतीति माहाघोष: श्रुतिशास्त्रेषु सर्वदा

4

ज्ञानेश्वरो वदत्येवं व्यास-सङ्केत-पालनात्।
पाण्डवानां गृहं साक्षाद् द्वारकेश: समागत:

1

२==
ज्ञानाभिधश्चतुर्वेदे षट्शास्त्रे कारणाभिध:।
अष्टादशपुराणेषु गीयते हरिरेव च

2

जगतो मन्थनाद् ग्राह्यो श्रीहरिर्नवनीतवत्।
त्यज व्यर्थां कथां व्यर्थं विमार्गगमनं त्यज

3

हरिरात्मा चैक एव व्याप्तो जीवे शिवे सम:।
दुर्गमेषु विमार्गेषु त्वं वृथा मा मन: कृथा:

4

हरिर्वैकुण्ठरूपोऽयं ज्ञानदेवेन पठ्यते।
ओतप्रोतश्च सर्वत्र श्रीहरि: सम्प्रदृश्यते

1

३==
त्रिगुणं सारहीनं स्यात् सारभूतं तु निर्गुणम्।
सारासारविचारोऽयं हरिपाठे विमृश्यते

2

सगुणं वा निर्गुणं वा गुणसम्बन्धत: स्मृतम्।
विना हरिं तत्र चित्तं प्रसक्तं चेन्निरर्थकम्

3

अव्यक्त: श्रीहरिर्ह्येष निराकारस्तथैव च।
चराचरं यतो जातं तमेव श्रीहरिं भज

4

रामकृष्णस्मृतिर्ध्याने ज्ञानदेवस्य मानसे।
अनन्तजन्मभिश्चैवं पुण्यं सम्पाद्यते नरै:

1

४==
भावेन रहिता भक्तिर्मुक्तिर्भक्तिं विना तथा।
बलं विना कार्यशक्तिरिति व्यर्थं प्रजल्पनम्

2

अचिरादेव देवानां प्रसाद: स्यात् कथं मयि।
इति यन्मुहु: प्रयतसे, व्यर्थं तत् , तिष्ठ निश्चल:

3

दिवानिशं प्रपञ्चेऽस्मिन् यतसे यतसे मुहु:।
किमालम्बनमास्थाय भजसे श्रीहरिं न च

4

भाषते ज्ञानदेवो यत् कर्तव्य: श्रीहरेर्जप:।
तेनैव स्यान्निश्चयेन प्रपञ्चस्य प्रबाधनम्

1

५==
न योगविधिना सिद्धिर्न यागविधिनापि वा।
धर्मा एते दम्भरूपा वृथोपाधय एव च

2

न भावेन विना देवो न च सन्देहनाशनम्।
अपरोक्षानुभूतिर्न विद्यते सद्गुरुं विना

3

नातपस्कस्य देव: स्याददातुर्नैव सम्पद:।
एकान्ते प्रेमसंवादं विना ब्रूयाद् हितं नु क:

4

प्रभाषते ज्ञानदेवो दृष्टान्तो नात्र साधक:।
तरणोपाय लभ्येत साधूनामेव सङ्गतौ

1

६==
तिष्ठेत् स निरहङ्कार: साधुना य: प्रबोधित:।
स्वाधिष्ठाने समरसो जायतेऽनुभवेन स:

2

एधते च यथा ज्योति: कर्पूरस्य स्वके स्थले।
दीप्तं पुन: समाप्तं तत् तस्मिन्नेव स्थले भवेत्

3

हरिभक्तस्य चरणं स्वयं मोक्ष: समागत:।
भाग्येन भूषितो भक्त: साधूनां किङ्करस्तथा

4

ज्ञानदेवस्य मनसि रुचि: साधुसमागमे।
जने वने चात्मतत्वे तेनैव हरिदर्शनम्

1

७==
अभक्ता: शैलतुल्यानि पापानि कुर्वते तथा।
भवन्ति तानि पापानि वज्रलेपदृढानि च

2

नास्ति येषां हरौ भक्तिरभक्ता: पतिताश्च ते।
न भजन्ते हरिं तस्मादेते दुर्भागिन: स्मृता:

3

वाचालास्ते वृथा जालं वचनानां वितन्वते।
नैतेरवाप्यते लोकै: श्रीहरि: सदयोऽपि सन्

4

ज्ञानदेवमतेनात्मा प्रमाणं च धनं तथा।
सर्वेषां हृदये पूर्णश्चैक: संनिवसत्ययम्

1

८==
सम्प्राप्यते चित्तलय: साधूनां सङ्गतौ तत:।
श्रीपति: सम्प्रापणीय एतेनैव पथा ध्रुवम्

2

रामकृष्णेतिवचनं जीवभाव इति स्मृत:।
शिवस्यात्मेति विख्यातो रामनामजपो ह्ययम्

3

एकतत्त्वात्मकहरौ नाम साधनमुच्यते।
साधयन्ति च ये तत् तान् द्वैतबन्धो न बाधते

4

नामामृतरसास्वादे वैष्णवानां परा रुचि:।
दीर्घजीवनविद्या या साधिता सा तु योगिभि:

5

नामोच्चारस्य दृढता प्रह्लादे बाल्य एव च।
उद्धवस्योपदेशं तु श्रीकृष्णोऽकुरुत स्वयम्

6

ज्ञानदेवो वक्ति नाम साधनं सुलभं स्मृतम्।
जानाति कश्चिदेवं यत् कठिनं साधनान्तरम्

1

९==
न रामे न च वा कृष्णे संरक्तं यस्य मानसम्।
अपविष्णु जपस्तस्य व्यर्थो, ज्ञानं वृथा च तत्

2

जातोऽप्यद्वैतमार्गं यो न जानीते स दुर्भग:।
कथं रामेऽथवा कृष्णे प्रवेशस्तस्य सम्भवेत्

3

न यैर्गुरोधिगतं ज्ञानं द्वैतविमर्दनम्।
सङ्कीर्तनं हरेर्नाम्नां कथं तेषां नु सम्भवेत्

4

ज्ञानेश्वरो वदति यद्, तद् ध्यानं सगुणं स्मृतम्।
यस्य नाम्नां पाठतोऽयं प्रपञ्च: शान्तिमृच्छति

1

१०==
त्रिवेणीसङ्गमे नानातीर्थेष्वटनमेव वा।
चित्तं न चेन्नामजपे, सर्वं तद्भ्रमणं वृथा

2

नामतो यस्तु विमुखो, मूर्तिमत्पापमेव स:।
उद्धर्तुं तादृशं पापं नालं कोऽपि विना हरिम्

3

पुराणेषु प्रसिद्ध: स वाल्मीकिरिदमुक्तवान्।
हरिनामस्मरणतो भुवनत्रयमुद्धरेत्

4

वदतीदं ज्ञानदेव: श्रीहरेर्नाम यो जपेत्।
विशुद्धा जायते तस्य सर्वा कुलपरम्परा

1

११==
उच्चारेण हरेर्नाम्नामनन्ता: पापराशय:।
क्षणमात्रेणैव सर्वे विलयं यान्त्यशेषत:

2

अग्निना सह संयोगात् तृणमग्निसमं यथा।
विनश्यति तथा पापं जपतो नाम श्रीहरे:

3

हरिरित्ययमुच्चारो मन्त्र: सामर्थ्यवानयम्।
एतस्मान्मन्त्रतो भीता भूतबाधा द्रवन्त्यपि

4

ज्ञानदेवो भाषते यत् समर्थ: श्रीहरिर्मम।
अगम्यश्च तथैवैष: सर्वोपनिषदामपि

1

१२==
तीर्थैर्व्रतैर्वा नियमैर्न सिद्धिर्भाववर्जितै:।
भावशून्यं वृथोपाधिरूपमेतदहो जना:

2

विज्ञायते च विस्पष्टं हस्तस्थामलकं यथा।
तथा भावबलेनायं हरिर्ज्ञायेत नान्यथा

3

भूमिस्थ: पारदकणो यथा यत्नशतैरपि।
न गृह्यते, साधनानां शतैरपि तथा हरि:

4

ज्ञानेश्वरो वदति यत्, निवृत्तिर्निर्गुणो गुरु:।
स स्वरूपस्थितिं पूर्णामददाद् हस्तयोर्मम

1

१३==
हरौ समाधिर्न विना ब्रह्मात्मसमतासुखम्।
न समाधिर्द्वैतबुद्ध्या सिद्ध्यतीत्यवधार्यताम्

2

न समाधिं विना बुद्धेर्वैभवं विद्यतेऽपरम्।
एकेन केशवेनैव लभ्यन्ते सर्वसिद्धय:

3

ऋद्धि: सिद्धिर्निधिर्वापि तावद् व्यर्था उपाधय:।
यावत्तस्मिन्परानन्दे श्रीहरौ नास्ति मानसम्

4

ज्ञानदेवो भाषते यत् सर्वदा हरिचिन्तनात्।
रमणीयं समाधानं यत्तदासादितं मया

1

१४==
मनसा हरिपाठं यो नित्यं नियतसङ्ख्यया।
कुर्यात्तस्य न बाध: स्यात् कलित: कालतोऽपि वा

2

रामकृष्णजपोऽनन्ततपोराशिसमो मत:।
भस्मसात्तेन वृन्दानि वृजिनानां भवन्ति च

3

हरे हरे हरे चेमं मन्त्रं जपति शङ्कर:।
मोक्षं तेऽपि प्राप्नुवन्ति मन्त्रमेतं जपन्ति ये

4

ज्ञानेश्वरो वदत्येवं यत् श्रीनारायणप्रभो:।
नामपाठान्निजं स्थानमुत्तमं प्राप्तवानहम्

1

१५==
हरिणैक्यं तस्य नाम्नो , द्वैतं नामान्तरस्य च।
अद्वैतं हरि-तन्नाम्नोर्जानाति विरलो जन:

2

समबुद्धिर्जपात् ,साम्यं हरेर्विज्ञायते तया।
श्रीहरिस्मरणात्सिद्धिर्शमस्य च दमस्य च

3

सहस्ररश्मिरादित्यो यथा सर्वप्रकाशक:।
अचरेषु चरेष्वेवं राम एक:प्रकाशते

4

वक्ति ज्ञानेश्वरश्चित्ते नित्यं मे हरिसंस्मृति:।
तेनाग्रिमेभ्यो जन्मभ्यो जातं मम विमोचनम्

1

१६==
रामकृष्णेति जपनं वाण्याति सुकरं नृणाम्।
तथापि दुर्लभो लोके हरिनाम जपन्नर:

2

यै: साधितश्चित्तलयो रामकृष्णेति नामसु।
संसाधिता नरैरेतै: सिद्धय: सकला अपि

3

सिद्धिर्बुद्धिस्तथा धर्मो हरेरेतेऽनुगामिन:।
प्रपञ्चस्थोऽपि सत्सङ्गान्मनोलयमवाप्नुयात्

4

ज्ञानेशो वक्ति मे मुद्रा रामकृष्णेति वाघृदो:।
आत्मस्वरूपा तेनैव जाता दश दिशो मम

1

१७==
मुखेन हरिपाठस्य कीर्तिं गायति चेन्नर:।
शरीरं तस्य तन्नूनं पवित्रं संप्रजायते

2

तपसो यन्महत्पुण्यं तद्गात्रेषु समाहितम्।
चिरञ्जीव: स कल्पानां कोटीस्तेनाभिनन्दति

3

माता पिता तथा भ्राता सगोत्रा बहुशस्तथा।
सन्तिष्ठन्ते सर्व एते विष्णुरूपाश्चतुर्भुजा:

4

गूढगम्यं च यज्ज्ञानं तन्निवृत्ति: करे मम।
दत्तवान्, तन्मया लब्धमिति ज्ञानेशभाषितम्

1

१८==
हरिवंश: पुराणानि हरिनाम च कीर्तनम्।
हरिं विना च विषयो यस्मै कोऽपि न रोचते

2

नरस्य तस्य लाभोऽयं यद् वैकुण्ठं समाप्नुयात् । तीर्थाटनस्य सर्वस्य फलं चापि लभेत स:

3

मनोमार्गेण यो यातो नाप्नोति स इदं सुखम्।
हरिपाठे स्थिरो यस्तु स धन्यो जायते नर:

4

वक्ति ज्ञानेश्वरो नामसङ्गे मे विद्यते रस:।
रामकृष्णविषयिणी वर्तते मे रुचि: सदा

1

१९==
साधनानां सार एको नारायणजप: सदा।
प्रमाणमत्र वेदानां तथोपनिषदां वच:

2

जपस्तप: क्रिया कर्म नियमो धर्म एव वा।
सर्वमेतद्विना नाम व्यर्थमित्यवगम्यताम्

3

कलिकामाश्रिता भृङ्गास्तत्रैवासक्तमानसा:।
हरिपाठाश्रितास्तद्वद् हरावासक्तमानसा:

4

ज्ञानेशस्य वचो नाममन्त्रशास्त्रं बलप्रदम्।
यन्नामधारिणो गोत्रं कुलं च यमवर्जितम्

1

२०==
नामसङ्कीर्तनं विष्णोर्भक्तानां साधनं स्मृतम्।
अनन्तानन्तपापानामन्तस्तेषामजायत

2

अनन्तजन्मतपसा नामैकं श्रीहरे: समम् । हरिपाठोऽस्ति सुगमो मार्गेषु सकलेषु च

3

योगो याग: क्रिया धर्मस्तथैवाधर्म एव च।
मायिकं सर्वमेवैतद् , हरिपाठे विलीयते

4

वक्ति ज्ञानेश्वरो यज्ञो योगो धर्मस्तथा क्रिया।
हरिरूपं सर्वमेतद् नास्ति मे नियमोऽपर:

1

२१==
नामोच्चारे न नियम: समयस्यास्ति कश्चन।
अत्र वक्तुस्तथा श्रोतुरुद्धार उभयोरपि

2

रामकृष्णेति नामेदं सर्वदोषापहं स्मृतम्।
जीवानां च जडानां च हरिरेकस्तु तारक:

3

हरिनामोच्चारणेन सार्थेयं रसना भवेत्।
नामधारकसद्भाग्यं को वा वर्णयितुं क्षम:

4

ज्ञानेश्वरो वक्ति साङ्गो हरिपाठ: स्वभावत:।
वैकुण्ठं यान्त्यनायासं नामधारकपूर्वजा:

1

२२==
नित्यं नियमतो नाम स्मरन्तो दुर्लभा जना:।
स लक्ष्मीवल्लभस्तेषां समीपे विद्यते सदा

2

नारायण हरे नाम ये जपन्ति नरा: सदा ।
तेषां गृहे सदा भुक्तिर्मुक्तिश्चैव चतुर्विधा

3

हरिनाम विना जन्म जानीत नरको यथा।
भविता तादृश: प्राणी यमलोकातिथिर्ध्रुवम्

4

ज्ञानेशो नाममाहात्म्यविषये पृष्टवान् यदा।
निवृत्तिरवदत् ‘ नाम व्यापकं गगनादपि ऽ

1

२३==
सप्त पञ्च तथा त्रीणि दश चैकत्र मेलितम्।
मेलोऽयं भासते सर्व एकतत्वात्मके हरौ

2

नैवं नाम, वरिष्ठं तन्मार्गेषु सकलेषु च।
न नामस्मरणे कष्टं मनागप्यनुभूयते

3

सोऽहं हंस इति प्राणे सोऽजपाजपसंज्ञित:।
तस्मिन्नपि जपे नामस्मरणं विद्यते ध्रुवम्

4

वक्ति ज्ञानेश्वरो व्यर्थं जीवितं नामवर्जितम्।
रामकृष्णाख्यमार्गोऽयमत आक्रम्यते मया

1

२४==
जपस्तप: क्रिया कर्म नियमो धर्म एव वा।
राम: सर्वत्रेति शुद्धभावोत्पादनहेतुकम्

2

न सन्त्याज्यस्त्वया भाव: सन्देहस्त्याज्य एव रे।
रामकृष्णनामघोष: सर्वदा क्रियतामरे

3

जातिर्वित्तं कुलं शीलं गोत्रं ते स्यात्कथञ्चन।
तथापि भावयुक्त: सन् त्वरया श्रीहरिं भज

1

ज्ञानेशो वक्ति मे ध्याने रामकृष्णेति मानसे।
तेन वैकुण्ठभुवने निवासोऽस्ति सदा मम॥
२५==
न भानं न च वाभानं श्रीहरौ विद्यते क्वचित्।
हरिनामजपात्तस्मान्मोक्षलाभ: सदा भवेत्

3

नारायण हरे नामोच्चारो यत्र तु विद्यते।
कलिर्वापि च कालो वा प्रवेशं तत्र नार्हत:

4

नामशक्ते: प्रमाणं तु वेदा अपि विदन्ति न।
कथं तच्च विजानीयु: सामान्या जीवजन्तव:

5

फलरूपो हरे: पाठ इति ज्ञानेश्वरोदितम्।
तेन वैकुण्ठरूपाश्च देशा: सर्वेऽभवन्मम

1

२६==
नामैकमेव तत्वं तद् दृढं धारय रे मन:।
कारुण्यभावो जायेत तेन त्वद्विषये हरौ

2

सुवाचं नाम तद् राम कृष्ण गोविन्द वापि च।
वाण्या सगद्गदं नाम तदेव प्रथमं जप

3

नाम्न: परतरं तत्वं विद्यते नैव चापरम्।
अतश्चान्येन मार्गेण गमनं ते निरर्थकम्

4

ज्ञानेशो वक्ति मूक: सन्धृत्वा श्रीहरिमन्तरे।
कृत्वा च मनसो मालां हृदि नित्यं जपाम्यहम्

1

२७==
नाम्नि सर्वसुखास्वाद इति षट्शास्त्रनिर्णय:।
अतोऽर्धघटिकां वापि मा नामविमुखो भव

2

संसारव्यवहारोऽसौ मिथ्यास्ति सकलोऽपि च।
गतागतं वृथा तत्र हरिनाम विना भवेत्

3

नाममन्त्रजपेनैव कोटिपापविनाशनम्।
रामकृष्णजपे तस्मात्सङ्कल्पस्ते दृढो भवेत्

4

समावृणु निजां वृत्तिं मायां त्रोटय चाखिलाम्।
इन्द्रियानुनयान्मा स्वं गोपयास्माच्छमाद्दमात्

5

कार्या तीर्थे व्रते श्रद्धा, शान्त्या करुणया तथा।
दयया चैव सत्कार्यो हरि: प्राहुणिकस्त्वया

6

ज्ञानेशस्य प्रमाणं तज्ज्ञानमुक्तं निवृत्तिना।
संजीवनसमाधि: स हरिपाठेन सिद्ध्यति

1

२८==
भवन्ति हरिपाठेऽस्मिन् पद्यानामेकविंशति:।
विश्वस्य नामसामर्थ्ये ज्ञानेशरचितानि च

2

इन्द्रायणीनदीतीरे नित्यं पठति यो नर:।
ततस्तस्याधिकारश्च सर्वथा जायते ध्रुवम्

3

एकाग्रमनसा चैव स्वस्थचित्तेन साधक:।
सोल्लासं च तथा कुर्यान्नामस्मरणमन्तरे

4

जीवनस्यान्तिमे काले सङ्कटेषु तथैव च।
बहिश्चैवान्तरे चैव निभालयति तान्हरि:

5

अनुभूतमिदं नैकै: साधुभि: सज्जनैस्तथा।
यश्चालसो मन्दबुद्धि: स कथं नु तरेन्नर:

6

निवृत्तिसद्गुरोरेतत् श्रुत्वा प्रेमयुतं वच:।
अनुक्षणं ज्ञानदेव: सन्तोषं परमाप्तवान्

मूल पाठ: haripāṭha: - jñāneśvarakṛta: · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc